११

अथ तृतीयपञ्चिकापारम्भः।

एकादशोऽध्यायः।

आहावं निविदः सूक्तमच्छावाकस्य चोदनम् ।

यजमानपुनर्जन्म ब्रुवते साधिदैवतम् ॥ १ ॥ इत्थमाज्यशस्त्रं निरूप्य प्रउगशस्त्रं निरूपयितुं प्रस्तौति ग्रहोक्थं वा एतद्यत्मउगं नव प्रातर्ग्रहा गृह्यन्ते नवभिर्बहिष्पवमाने स्तुवते स्तुते स्तोमे दशमं गृह्णाति हिंकार इतरासां दशमः सो सा सम्मा, इति । पउगाख्यं यच्छस्त्रमस्ति तद्रहोक्थं वै । ऐन्द्रवायवादिग्रहाणामुक्थं ग्रहोक्थं

यदेवताप्रशंसारूपमित्यर्थः । नवेत्यादिना ग्रहसंबन्ध एव स्पष्टी क्रियते । तासवन ऐन्द्रवायवमैत्रावरुणादयो धाराग्रहा नवसंख्याका गृह्यन्ते । ग्रहीता ध्वर्युः । तथा बहिष्पवमानाख्ये स्तोत्र उद्गातारो नवभिनेवसंख्याभिग्भिः वते । उपास्मै गायतेत्येकस्तृ(स्य)चः । दविद्युतत्यति द्वितीयः। पवस्वेति यः । एतेषु त्रिषु व्यचेषु नवसंख्याका ऋचो विद्यन्ते । ता आवृत्तिरहिता यन्ते । एवं स्तोमे बहिष्पवमानस्तोत्र उद्गातृभिः स्तुते सति अध्वर्युर्दशमं ग्रह विनाख्यं गृहाति । यद्यप्याध्वर्यवयोर्मनब्राह्मणकाण्डयोराश्विनग्रहो धारा पुतृतीयत्वेनाऽऽम्नातस्तथाऽप्यसौ दशमत्वेन ग्रहीतव्यः। आश्विनो दशमो ति तं तृतीयं जुड़त इति श्रुत्यन्तरवचनात् । तथा च ग्रहेषु दशमः संपन्नः । वितरासां बहिष्पवमानस्तोत्रगतानामृचां हिंकारो दशमत्वेन गणनीयः । । सति ग्रहाणां स्तोत्रियाणां च संख्यासाम्यं भवति । तदिदं सो सा मति वाक्येनोच्यते । उकारो निपातः समुच्चयार्थः सन्त्रीलिङ्गाभ्यां तच्छ म्या संबध्यते । तथा सति सात्र(च) ग्रहसंख्या सा च स्तोत्रियसंख्ये क भवति । सम्मेत्यत्र द्वितीयो मकारश्चान्दसः। तस्मिन्नपगते सति समा पायुक्त भवति । एवं यथा सान्तबहिष्पवमानस्तोत्रस्य ग्रहसंबन्धस्तथा प्रउ त्रिस्यापि ग्रहसंबन्धो द्रष्टव्य इत्यभिप्रायः ।

१ क. ख. ह. भ. ट. ‘वं सान्तयथा ब।

२८८

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् -[११एका अथ प्रउगशस्त्रे विद्यमानानां तृ(व्य)चाना मध्ये प्रथम *>यचं विधत्ते

वायव्यं शंसति तेन वायव्य उक्थवान्, इति । वायुर्देवता यस्य व्यूचस्य सोऽयं वायव्यो वायवायाहि दर्शतेत्यादिक शंसेत् । तेन शंसनेन वायव्यो ग्रह उक्थवाञ्शस्त्रवान्भवति । यद्यपि वायम पृथग्ग्रहो नास्ति तथाऽप्यन्द्रवायवस्य ग्रहस्य पूर्वो भागो वायव्य इत्युच्यते। च प्रथममावायो भूष[७-९२-१]इत्यनेन केवलवायुदेवताकेन मत्रेण ग्रहले तेन वायव्यो भवति । पश्चादिन्द्रवायू इमे सुताः [१-२-४ ] इत्यनेने सहितवायुदेवताकेन मत्रेण गृह्यते । तेनैन्द्रवायवोऽपि भवति । अत एव वार द्विर्ग्रहणं तैत्तिरीया अधीयते-‘सदिन्द्राय मध्यतो गृह्यते द्विर्वायवे’ इति तत्र प्रथमभागरूपो वायव्यो ग्रहः केवलेन वायव्यत्र्यूचेन शस्त्रवान्संपद्यते।

द्वितीयं त्र्यूचं विधत्ते

ऐन्द्रवायवं शंसति तेनैन्द्रवायव उक्थवान्, इति । इन्द्रश्च वायुश्च मिलित्वा देवता यस्य त्र्यूचस्य सोऽयमैन्द्रवायव इन्द्रव इमे सुताः[१-२-४] इत्यादिकस्तं शंसेत् । तच्छंसनेनैन्द्रवायवग्रहस्योत्तरमा शस्त्रवान्भवति ।

तृतीयं त्र्यूचं विधत्ते

मैत्रावरुणं शंसति तेन मैत्रावरुण उक्थवान्, इति । मित्रो वरुणश्च मिलित्वा देवता यस्य व्यूचस्य सोऽयं मैत्रावरुणो मित्रं ! पूतदक्षम् [१-२-७] इत्यादिकः । शंसतीत्यादिकं पूर्ववद्योज्यम् ।

चतुर्थ त्र्यूचं विधत्ते ___ आश्विनं शंसति तेनाऽऽश्विन उक्थवान्, इति । __ अश्विनौ मिलित्वा देवता यस्य त्र्यचस्य सोऽयमाश्विनोऽश्विना यज्व रिषः [१-३-१] इत्यादिकः।

पञ्चमं व्यूचं चिधत्ते

ऐन्द्रं शंसति तेन शुक्रामन्थिना उक्थवन्तौ, इति । इन्द्रो देवता यस्य त्र्यचस्य सोऽयमैन्द्र इन्द्राऽऽ याहि चित्रभानो, [१५ ४]इत्यादिनन्द्रस्युचः । तेन शुक्रग्रहमन्थिग्रहयोरुभयोः शस्त्रवत्त्वम् ।

___ * इत आरभ्य त्र्यूचशब्दस्थाने तृचशब्दो विद्यते पुस्तकेषु तथाऽपि तस्य च्छा स्थापितः ।

द्वितीयः खण्डः ] ऐतरेयबामणम् । षष्ठं त्र्यचं विधत्ते

वैश्वदेवं शंसति तेनाऽऽग्रयण उक्थवान्, इति । ओमासश्चर्षणीधृतः[१-३-७]इत्येष वैश्वदेवस्त्र्यचः। तेनाऽऽग्रयणग्रहस्य त्वं तथाऽपि विश्वदेवदेवताकत्वाद्वैश्वदेवम् । एवं सर्वत्र ग्रहशस्त्रयोरेक

Dr. Amritansugekh. Bigchi बताकत्वं द्रष्टव्यम् ।

Memorial Collection सप्तमं त्र्यचं विधत्ते

1881 सारस्वतं शंसति, इति। पावका नः सरस्वती [१-३-१०] इत्यादिकः सारस्वतस्य॒चः । ननु पूर्ववदत्रापि ग्रहस्य शस्त्रवत्वं कुतो नोपन्यस्यत इत्याशङ्कयाऽऽह

न सारस्वतो ग्रहोऽस्ति, इति । आवर्यवमत्रकाण्डे सारस्वतमन्त्रस्यापठितत्वाड्राह्मणे विध्यभावाच ग्रहा

विः।

तर्हि ग्रहोक्थेऽस्मिन्नस्य सारस्वतस्य व्यूचस्य किमर्थं शंसनमान्नातमित्या चाऽऽह

वाक्तु सरस्वती ये तु के च वाचा ग्रहा

गृह्यन्ते तेऽस्य सर्व शस्तोक्थाः , इति । सरस्वती हि वाग्देवता । ग्रहाणां च वाचा गृह्यमाणत्वात्सारस्वतत्वम् । । सर्वेऽपि ग्रहाः शस्तोक्थाः पठितशस्त्रा भवन्ति । वेदनं प्रशंसति

उक्थिनो भवन्ति य एवं वेद ॥ १॥ इति । तस्य वेदितुः सर्वे ग्रहाः शस्त्रवन्तो भवन्ति ग्रहदेवतास्तुष्यन्तीत्यर्थः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये एकादशाध्याये प्रथमः खण्डः ॥१॥ [७२]

विहितं प्रउगशस्त्रं प्रशंसति

अन्नाद्यं वा एतेनावरुन्धे यत्प्रउगमन्याऽन्या देवता पउगे शस्यतेऽन्यदन्यदुक्थं प्रउगे क्रियते, इति । तत्मउगाख्यं शस्त्रमस्ति तदेतदत्तुं योग्यस्यामस्य साधनमतस्तेनानं

२९०

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्–[११एकाoया

पामोति । यस्मादस्मिशस्त्रे पृथगेव देवता शस्यते । प्रथमत्र्यूचे केवलो वाणी तीयस्मिन्निन्द्रवायू तृतीयस्मिन्मित्रावरुणावित्यादिदेवताभेदः । यथैव दे भिद्यते तथैतस्मिञ्शस्त्रेऽन्यदन्यदुक्थं वायवायाहीन्द्रवायू इत्यादिकं परस्परति लक्षणं शस्त्राझं क्रियते । तस्मादोदनशाकसूपादिविलक्षणभक्ष्यभोज्यलेझपेयी ष्यसाम्यादन्नाद्यहेतुत्वं युक्तम् ।

वेदनं प्रशंसति

अन्यदन्यदस्यानाचं गृहेषु ध्रियते य एवं वेद, इति । अन्यदन्यत्परस्परविलक्षणं मधुराम्लादिरूपम् । प्रकारान्तरेण प्रउगं प्रशंसति

एतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनेनैतदुपेक्ष्यतममिवेत्याहु

रेतेन ह्येनं होता संस्करोतीति, इति । प्रउगाख्यं यच्छत्रमस्ति एतदेव यजमानस्याध्यात्मतममिव । आत्मानं वारी रमधिकृत्य वर्तत इत्यध्यात्मं शरीरसंबन्धीत्यर्थः । पूर्वाऽऽज्यशस्त्रस्य यज मानशरीरनिष्पत्तिहेतुत्वाभिधानात्तदप्यध्यात्मम् । इदं तूत्पन्नस्य शरीरम संस्कारत्वादतिशयेनैवाध्यात्मम् । यस्मादेवं तस्मादेनेन यजमानेनैतत्मउगशस मुपेक्ष्यतममिवातिशयेनोप समीप ईक्षणीयमादरणीयमित्यर्थः । इत्येवमभित्र आहुः । तेषामयमभिप्रायः। एतेन प्रउगशस्त्रेणैनं यजमानमाज्यशस्त्रावुत्सा होता संस्करोति तस्मादादरणं युक्तम् ।

अथ प्रथमं त्र्यूचं विहितमनूध स्तौति

वायव्यं शंसति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं संभवतः संभवतीति

यहायव्यं शंसति प्राणमेवास्य तत्संस्करोति, इति । पूर्वोक्तो विधिर्वायव्यं शंसतीति वाक्येनानद्यते । यस्माद्वायव्यं शसना तस्मादभिज्ञा एवमाहुः प्राणस्य वायुकार्यत्वेन वायुरेव पाणः । रेतसः । धारकशरीरनिष्पादकत्वाद्रेतः प्राणः प्राणस्वरूपम् । तत्सदृशं रतः र उत्पाद्यमानस्य पुरुषस्य देहस्य कारणत्वेन पितृदेहे प्रथमं संभवति । एवमा

१ क. ग. छ.भ.प. ट. प्रहेषु। .

द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

२९१ तत्वाद्वायव्यत्यूचः समीचीनः। तच्छंसनेन होता यजमानस्य प्राणमेव स्करोति । द्वितीय विधिमनूय स्तौति

ऐन्द्रवायवं शंसति यत्र वाव प्राणस्त दपानो यदैन्द्रवायवं शंसति प्राणा

पानावेवास्य तत्संस्करोति, इति । उच्छासरूपः प्राणो यत्रास्ति तत्र निश्वासरूपोऽपानोऽप्यस्ति । इन्द्रवायू प्राणापानस्वरूपौ । तस्मात्तेन सूक्तेन प्राणापानयोः संस्कारः। तृतीयं विधिमनूद्य स्तौति

मैत्रावरुणं शंसति तस्मादाहुश्चक्षुः पुरु षस्य प्रथमं संभवतः संभवतीति यन्मैत्राव

रुणं शंसति चक्षुरेवास्य तत्संस्करोति, इति । श्रुत्यन्तरे चक्षुमित्रावरुण इति मित्रावरुणसंबद्धस्य ग्रहस्य चक्षुष्टाभिधाना यूचोऽपि चक्षुःस्वरूप एव । तच्चक्षुरन्यस्माच्छ्रोत्रादीन्द्रियात्मथममुत्पद्यते । स्यार्थस्याऽऽगमागम्यत्वादाहुरभिज्ञा इत्युक्तम् । एवंविधचक्षुःस्वरूपेण बावरुणत्र्यूचेन यजमानचक्षुषः संस्कारः।

चतुर्थ विधिमनूय स्तौति

आश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति यदाश्चिनं

शंसति श्रोत्रमेवास्य तत्संस्करोति, इति । उत्पन्न बालं मुग्धमेवेक्षमाणा मातापित्रादयः परस्परमेवमाहुः-नानाविधै पलालनैराहतो बालकोऽस्मन्मुखमवलोकयति यस्मादयमस्मदीयां वाचं श्रोतु छात नरन्तर्येणावलोकनेन मामेव ध्यायतीति । तदेतन्मित्रावरुणानुग्रहक । तस्मात्तच्छंसनेन श्रोत्रस्य संस्कारः। पञ्चमं विधिमनूध स्तौति

ऐन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति

i

२९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११एका० ध्याये

यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति, इति । दोलायां शयानं बालमवेक्ष्य परस्परमेवमाहुः-अयमिदानीं ग्रीवाः शरी धारयति, उत्थातुमादौ गलमुन्नयति ततः शिर उन्नमतीति । एतस्य व्या रस्य वीर्यनिमित्तत्वादिन्द्रस्य च वीर्यप्रदत्वात्तदीयत्र्यचेन शक्तेः संस्कारः।

षष्ठं विधिमनूध स्तौति

वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति वैश्वदेवानि ह्यङ्गानि यदैश्वदेवं

शंसत्यङ्गान्येवास्य तत्संस्करोति, इति । उत्पन्नो बालः पश्चेव दर्शनश्रवणग्रीवोत्रमनादिक्रियाभ्यः पश्चादेव समर्थ सन्हस्ताभ्यां पादाभ्यां चेतस्ततः प्रचरति । हस्तादीन्यङ्गानि च बहुदेवताकानि तस्माद्वैश्वदेवव्यूचेनाङ्गसंस्कारः।

सप्तमं विधिमन्य स्तौति

सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति वाग्वि सरस्वती यत्सारस्वतं

शंसति वाचमेवास्य तत्संस्करोति, इति । हस्तपादप्रचारावस्थाया ऊर्ध्वं वक्तुमारभते । अतो जघन्या वागित्युच्यते वाचः सरस्वतीरूपत्वात्तदीयज्यूचेन तस्याः संस्कारः।

वेदितारमनुष्ठातारं च प्रशंसति

एष वै जातो जायते सर्वाभ्य एताभ्यो देव ताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं

वेद यस्य चैवं विदुष एतच्छंसन्ति ॥२॥ इति । यो होता यथोक्तप्रकारेण वेदेष एवं पूर्व स्वमातृ(ता)पितृभ्यां जातो पुनर्देवतादिभ्यो जातो भवति । यथोक्तार्थ विदुषो यस्य यजमानस्य । एतत्पउगं शंसन्ति सोऽपि यजमानो देवतादिभ्यः पुनर्जायते । देवता वार

१ ख. स. ट. ‘क्तार्थवि ।

तीयः खण्डः] . ऐतरेयब्राह्मणम् ।

२९१ उक्यान्याज्यप्रउगादीनि । छन्दांसि गायत्र्यादीनि । उगाणि तदव. अयचाः । सवनानि त्रीणि प्रसिद्धानि । एतेभ्यः सर्वेभ्यः पुनरुत्पत्तिः। । रति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा.

ह्मणभाष्य एकादशाध्याये द्वितीयः खण्डः ॥२॥ [७३ ]

प्रकारान्तरेण प्रउगशस्त्रं प्रशंसति

प्राणानां वा एतदुक्थं यत्प्रउगं सप्त देवताः शंसति सप्त वै शीर्षन्प्राणाः

शीर्षनेव तत्प्राणान्दधाति, इति । शिरोगतसप्तच्छिद्रवर्तिप्राणानां पूर्वोक्तसप्तव्यचगतवावादिदेवतानां च यासाम्याच्छस्त्रस्य प्राणरूपत्वं तेन यजमानस्य शिरसि प्राणधारणं भवति। अथ प्रश्नोत्तराभ्यां प्रउगशस्त्रस्य सामर्थ्य दर्शयति

किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माऽऽह योऽस्य होता स्यादित्यत्रै

वैनं यथा कामयेत तथा कुर्याद , इति । अस्य यजमानस्य यो होता स्यात्स तस्य पापभद्रं किमाद्रियेत । पापम: प्रफलं भद्रमिष्ट फलम् । तादृशं किं फलं संपादयितुं समर्थ इति प्रश्नः। वेव जन्मन्येनं यजमानं प्रति यथा होता कामयेत तथा कर्तुं शक्नोती.

तरम्। तत्र प्रथमत्र्यचप्रयुक्तमनिष्टं दर्शयति –

यं कामयेत प्राणेनैनं व्यर्धयानीति वाय व्यमस्य लुब्धं शंसेदृचं वा पदं वाऽतीया

तेनैव तल्लब्धं प्राणेनैवैनं तद्यर्धयति, इति । १ यजमानमुद्दिश्य होता कामयेत । कथमिति तदुच्यते । एनं यजमानं नव्यर्थयानि व्यूद्धं वियुक्तं करवाणीति । एवं कामयमानो होताऽस्य मानस्य संबन्धिनं वायव्यं त्र्यचं लुब्धं व्यामूढं यथा भवति तथा शंसेत् ।

इन इति धातुः । व्यामोहप्रकार उच्यते । एकामृचं वा तदीयमेकं जायात्स्तम्भयेन पठेदित्यर्थः। तावता तत्र्यचस्वरूपं लुब्धं व्यामूद

२९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११ एका भवति । तथा सति माणरूपत्वेन पूर्व निरूपितस्य वायोः क्रोधादेनं पा माणेन वियोजयति ।

द्वितीयत्र्यचनिमित्तमनिष्टं दर्शयति

यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीत्येन्द्रवा यवमस्य लुब्धं शंसेटचं वा पदं वाऽतीयात्तेनैव तल्लब्धं प्राणापानाभ्यामेवैनं तब्यर्धयति, इति । पूर्ववव्याख्येयम् । तृतीयत्र्यचनिमित्तमनिष्टं दर्शयति

यं कामयेत चक्षुषेनं व्यर्धयानीति मैत्रावरु णमस्य लुब्धं शंसेदृचं वा पदं वाऽतीया

त्तेनैव तल्लब्धं चक्षुषेवैनं तद्यर्धयति, इति । पूर्ववद्याख्येयम् । चतुर्थव्यूचप्रयुक्तमनिष्टं दर्शयति

यं कामयेत श्रोत्रेणैनं व्यर्धयानीत्याश्विन मस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्ते

नैव तल्लब्धं श्रोत्रेणैवैनं तद्यर्धयति, इति । पूर्ववव्याख्येयम् । पञ्चमन्यूचभयुक्तमनिष्टं दर्शयति

यं कामयेत वीर्यणेनं व्यर्धयानीत्यैन्द्र मस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्ते

नैव तल्लब्धं वीर्येणैवैनं तब्यर्धयति, इति । पूर्ववयाख्येयम् । षष्ठन्यचप्रयुक्तमनिष्टं दर्शयति

यं कामयेताङ्गैरेनं व्यर्धयानीति वैश्वदेव मस्य लुब्धं शंसेदृचं वा पदं वाऽतीया

तुर्थः खण्डः]

ऐतरेयबामणम् । तेनैव तल्लुब्धमङ्गैरेवैनं तब्बर्धयति, इति ।

पूर्ववयाख्येयम् । सप्तमन्यूचप्रयुक्तमनिष्टं दर्शयति

यं कामयेत वाचैनं व्यर्धयानीति सारस्वत मस्य लुब्धं शंसेदृचं वा पदं वाऽतीयात्ते

नैव तल्लब्धं वाचैवैनं तद्व्यर्धयति, इति । पूर्ववद्याख्येयम् । अथास्य शस्त्रस्येष्टफलसामर्थ्य दर्शयति

यमु कामयेत सवैरेनमङ्गैः सर्वेणाऽऽत्मना सम र्धयानीत्येतदेवास्य यथापूर्वमृजुक्लप्तं शंसेत्सर्वे

दैनं तदङ्गैः सर्वेणाऽऽत्मना समर्धयति, इति । पूर्वोक्तानि प्राणादीनि सर्वाण्यङ्गानि । संपूर्णो देहः सर्व आत्मा। तत्स दकामो होताऽस्य यजमानस्य संबन्धि तदेव प्रउगशस्त्रं यथापूर्व गुरोः पे पुरा येन क्रमेण पठितं तथैव ऋजुक्लप्तं कस्यचिदवयवस्यान्यथात्वा बाजुत्वं तथा क्लप्तं संपादितं कृत्वा शंसेत् । ततः काम्यमानसमृदिः

यति ।

वेदनं प्रशंसति

सर्वैरङ्गैः सर्वेणाऽऽत्मना समृ

ध्यते य एवं वेद ॥३॥ इति । स्पष्टोऽयः। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्य एकादशाध्याये तृतीयः खण्डः ॥३॥ [७४]

अथ स्तोत्रशस्त्रयोर्देवतावलक्षण्यरूपमाक्षेपमुत्थापयति

तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रमानेयीषु साम गा स्तुवते वायव्यया होता प्रतिपद्यते कथ मस्याऽऽमेय्योऽनुशस्ता भवन्तीति, इति ।

२९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११ एका०शा __ सामगानां यान्याज्यस्तोत्राणि तहच आग्नेय्य आन्नाताः । अग्न आग [६-१६-१० ] इत्यादिषु सामगैराज्यस्तोत्रपाठात् । होता तु वाय [५-५१-५ ] इत्यनया वायव्यया प्रउगशस्त्रं प्रारभते । अतोऽनेन विलश देवताकेन शस्त्रेणाऽऽग्नेय्य ऋचः कथमनुशस्ता भवन्ति । अनुकूलशंसना स्तुतमनुशंसतीति शाखान्तरं विरुध्येतेत्याक्षेपः।

तस्योत्तरं दर्शयति

अनेर्वा एताः सर्वास्तन्वो यदेता देवताः, इति । सप्तसु व्यूचेषु या एता वाय्वादयो देवताः प्रतीयन्ते ताः सर्वा अग्ने शरीरभूताः । अतोऽग्निविषयमेव कृत्स्नं शस्त्रं संपद्यत इति स्तोत्रगता आने ऋचोऽनुशस्ता भवन्ति ।

अग्नेः प्रथमव्यूचप्रतिपादिताया वायुदेवतायाः स्वरूपं दर्शयति- .

स यदग्निः प्रवानिव दहति तदस्य

वायव्यं रूपं तदस्य तेनानुशंसति, इति । प्रवानिव प्रकर्षवानेव सन्नधिकज्वालया दहत्यनिरिति यदस्ति तत्मक त्मकं वायुसंबन्धिरूपम् । वायुना ज्वालाऽऽधिक्योदया । अतोऽस्य प्रउग खस्य संबन्धिना वायुरूपेणायं होता तदग्निरूपमनुशंसति ।।

द्वितीयत्र्यचप्रतिपादिताया इन्द्रवायुदेवतायाः सारूप्यं दर्शयति

अथ यवैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू तस्यैन्द्रवायवं रूपं तदस्य तेनानुशंसति, इति । ज्वालाद्वयमिव कृत्वा यदा दहति तदा द्वित्वसाम्यात्तज्ज्वालाद्वयमिन्द्र युसंवन्धि रूपं भवति । अन्यत्पूर्ववत् । तृतीयव्यूचे सारूप्यं दर्शयति

अथ यदुच्च दृष्यति नि च दृष्यति तदस्य

मैत्रावरुणं रूपं तदस्य तेनानुशंसति, इति । ज्वलतोऽग्नेरौनत्यमुद्धपः । ज्वालाशान्त्या नीचत्वं निहर्षः । तदुभयं मि वरुणसंबन्धि रूपम् । मित्रं दृष्टवतो हर्षेणोन्नतत्वात्तन्मित्ररूपम् । वरुणसवा नीनामपां नीचगामित्वादितरद्वरुणस्य रूपम् । तदीयव्यूचेनाग्निरनुस

भवति ।तुर्थः खण्डः] ऐतरेयबामणम् ।

२९७ वैव युक्त्यन्तरमाह

स यदग्मिोरसंस्पर्शस्तदस्य वारुणं रूपं तं यद्घोरसंस्पर्श सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति, इति । निर्घोरसंस्पर्श उष्णसंस्पर्श इति यदस्ति तदस्याग्नेर्वरुणसंबन्धि रूपं स्योग्रत्वात । घोरसंस्पर्श सन्तं स्पष्टुमशक्यमपि तमग्निं शीतार्ताः प्राणिनो त्या मित्रस्य कृतिः कार्य समीपेऽवस्थानं तेनैवैनमुपासते शीतपरिहाराय बुदरं पृष्ठं च वह्निसमीपे प्रतापयन्तो वह्नि सेवन्ते । तदेतत्सेवनमस्यामि न्धि रूपम् । ततोऽस्याने संबन्धिना तेन मैत्रावरुणरूपेणायं होता बहि सति । तुर्थव्यूचे सारूप्यं दर्शयति __ अथ यदेनं दाभ्यां बाहुभ्यां दाभ्यामर

णीभ्यां मन्थन्ति द्वौ वा अश्विनौ तदस्याऽऽ श्विनं रूपं तदस्य तेनानुशंसति, इति । गश्विनोद्वित्वाद्धस्तद्वयेनारणिद्वयेन च मन्थनमस्याग्नेश्विनं रूपम् । |श्चमन्यूचे सारूप्यं दर्शयति

अथ यदुच्चै?ष स्तनयन्बबबा कुर्वत्रिव दहति यस्माद्भूतानि विजन्ते तद

स्यैन्द्रं रूपं तदस्य तेनानुशंसति, इति । तनयन्ध्वनि कुर्वन् । स एव ध्वनिस्त्रिभिर्वकारैरनुक्रियते । यत ईदृशाद्ध्व हितार्दने रूपाद्भतानि प्राणिनो विजन्ते बिभ्यति । तद्भयकारणध्वनिसहि

दस्य सङ्ग्रामार्थमास्फोटनं कुर्वतः शत्रुभयकारिणो रूपम् । राष्ट्रव्यूचे सारूप्यं दर्शयति

अथ यदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपं तदस्य तेनानुशंसति, इति ।

१ ख. ‘दामिकः ।

२९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११ एका - अनेराहवनीयादिस्थानेष्वामीघ्रादिधिष्ण्येषु च बहुधा विहरणं हा

तद्विश्वेषां देवानां रूपं तेषामपि बहुत्वात् ।

समपत्र्यचे सारूप्यं दर्शयति

अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य

सारस्वतं रूपं तदस्य तेनानुशंसति, इति । . यथा जनो वाचं वदति तथैवाग्निः स्फुर्जयति, ईषद्विच्छिद्य विलक्षणोञ्चार मिव शब्दं करोति । तदेतद्वागुच्चारणसदृशं ध्वनिकरणं सरस्वतीसंबद्धं कम इत्यमग्नेय्वादिदेवतानां च सारूप्यद्वाराऽनुशंसनमुपपायोपसंहरति एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचे नैवैताभिर्देवताभिः स्तोत्रियोऽनुशस्तो भवति, इति । एवमु हानेनैवोक्तप्रकारेण वायवायाहीत्येतया वायुदेवताकयैवर्चा ! पारभमाणस्य होतुस्तेन तेनोक्तव्यचेनैव प्रतिपादिताभिस्वादिदेवताभिर सदृशीभिः स्तोत्रियः स्तोत्रसंबन्धी व्यूचोऽग्न आयाहीत्यादिक आग्नेयोऽस शस्तो भवति । तस्यानुष्ठानं यथा भवति तथा प्रउगशस्त्रमनुष्ठितं भवतीत्यर्थ

अथ शस्त्रयाज्यां विधत्ते

विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। पिबा मित्रस्य धामभिरिति वैश्वदे वमुक्थं शस्त्वा वैश्वदेव्या यजति यथा

भागं तद्देवताः प्रीणाति ॥४॥ इति । हेऽग्ने विश्वेभिः सर्वैर्देवैः सह विशेषत इन्द्रेण वायुना च सह तथा मित्र धामभिः स्थानैर्युक्तः सन्सोम्यं मधु सोमसंबन्धिनं मधुरं रसं पिब । विश्व रित्यादिका सेयमृग्वैश्वदेवी तया यजति तां याज्यां पठेत् । कदा पठार तदुच्यते । वैश्वदेवं बहुदेवताकमुक्थं शस्त्रं प्रउगनामकं शस्त्वा पश्चात्पन्न तथा सति स्वस्खभागमनतिक्रम्य सर्वा देवतास्तर्पयति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयत्रा

ध्याय चतुर्थः खण्डः ॥ ४॥ [७५] विश्वेभिः सोम्यं मध्वन०-१-१४-१० ।

पञ्चमः खण्डः]

ऐतरेयबामणम् । अय शस्त्रयाज्यान्ते पठनीयं वषदकारं विधत्ते

देवपात्रं वा एतबदषद्कारो वषट्करोति

देवपात्रेणैव तद्देवतास्तर्पयति , इति । सोपडिति मत्रो वषट्कारः। स च देवपात्रं देवानां पानसाधनं तस्माद्वष

दोषडित्येव पठेत् । तथा सति देवानामुचितेनैव पानसाधनेन सर्वा देव तर्पयतीति । तत ऊर्च पठनीयमनुवषदकारमन्त्रं विधत्ते

अनुवषट्करोति तद्यथाऽदोऽश्वान्वा गा वा पुनरभ्याकारं तर्पयन्त्येवमेवैतद्देवताः पुनर

भ्याकारं तर्पयन्ति यदनुवषट्करोति, इति । सोमस्याग्ने वीहीत्ययं मत्रोऽनुवषट्कारस्तं पठेत् । तत्र लोकेऽदः किंचिदिदं दर्शनमस्ति । कथमिति तदुच्यते । यथा मनुष्याः स्वकीयानश्वान्वा स्वकीया

वा पुनरभ्याकारं पौन:पुन्येन तृणोदकादिभिरभिमुखीकृत्याभिमुखीकृत्य. यन्ति कण्डयनेन प्रियशब्देन वा लालयित्वा यथेष्टघासं प्रयच्छन्ति, एव तेनानुवषदकारेण पुनःपुनर्देवता अभिमुखीकृत्य यजमानो हविषा तर्पयति । अनुवषट्कारप्रशंसाथ चोद्यमुद्भावयति

इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यानथ कस्मात्पू

स्मिन्नेव जुह्वति पूर्वस्मिन्वषट्कुर्वन्तीति, इति । सोममध्यवर्तिषु धिष्ण्येष्वाग्नीध्रायग्नयो ये विहितास्ताननीऋत्विजः समीपे त्विापासत एव सेवन्त एव केवलं नतु तेषु जुह्वति नापि वषदकुर्वन्ति । स्मिन्नेवोत्तरवेदिस्थितेऽनावृत्विजो जति च तत्रैव वषदकुर्वन्ति च । विं सति धिष्ण्यगतानामग्नीनां प्रीतिर्नास्ति । कस्मादेवं वैषम्य क्रियत इति घवादिन आहुः।

तत्रोत्तरं दर्शयति-.

यदेव सोमस्याने वीहीयनुवषट्क

रोति तेन धिष्ण्यान्प्रीणाति, इति । हेऽन्न इति जात्याकारणानिं संबोध्य सोमस्य सोमरस वीहि पिवेत्येवं

३०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११एकाशी मन्त्रेण होताऽनुवषट्करोतीति यदस्ति तेन धिष्ण्याननीन्होता तर्पयति । वैषम्यम् ।

प्रकारान्तरेण प्रशंसितुं पुनश्चोधद्वयमुद्भावयति

असंस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्

करोति को नु सोमस्य स्विष्टकद्भाग इति, इति । येषां द्विदेवत्यग्रहाणामर्थे होता नानुवषट्करोति ते द्विदेवत्याः सोमा । स्थिता असमाप्ता देवतार्थहोमस्यासमाप्तेः कथमृत्विजस्तान्तिदेवत्यान्भक्षय त्येके चोद्यमाहुः । दर्शपूर्णमासादिषु विष्टकृद्भागेन ततः पूर्वेषां इति संस्कारो भवति । ततः सोमस्यापि संस्काराय को नाम विष्टकद्भाग ! द्वितीयं चोद्यम्।

तत्रोत्तरमाह

यहाव सोमस्याग्ने वीहीत्यनुवषट्करोति तेनैव संस्थितान्सोमान्भक्षयन्ति स उ एव सोमस्य

स्विष्टकद्भागो वषट्करोति ॥ ५ ॥ इति । मत्रे सोमस्येति जातिमात्रमुद्दिश्यानुवषट्करोतीति यदेवास्ति तेनैवानुन दकाररहिता द्विदेवत्यादयः सर्वे सोमाः संस्थिताः समाप्तास्तस्मात्संस्थिता द्विदेवत्याऋत्विजो भक्षयन्ति । स उ एव यथोक्तोऽनुवषट्कार एव सोम स्विष्टकृद्भागोऽतो वषट्करोति । उक्तस्य सर्वस्य प्रयोजनस्य सिद्ध्यर्थमनुवा कुर्यादित्यर्थः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण . भाष्य एकादशाध्याये पञ्चमः खण्डः ॥५॥ [७६]

अथ वषदकारमाश्रित्यैवाभिचारमयोग उच्यते–

वज्रो वा एष यद्दषट्कारो यं द्विष्यात्तं ध्यायेद

षट्करिष्यस्तस्मिन्नेव तं वज्रमास्थापयति, इति । वषट्कारस्य वज्ररूपत्वात्तत्कालध्याने च द्वेष्ये वज्रप्रहारो भवति । अथ वौषडित्यस्य वषदकारस्योत्तरभागं प्रशंसति- .

पळिति वषट्करोति षड्वा ऋतव ऋतूनेव

ष्ठः खण्डः ]

ऐतरेयब्राह्मणम् । तत्कल्पयत्यूतून्प्रतिष्ठापयत्यूतून्वै प्रतितिष्ठत

इदं सर्वमनु प्रतितिष्ठति यदिदं किंच, इति । पडित्यनेन मत्रभागेण वसन्तादिषडतुसंख्याया बुद्धिस्थत्वातून्कल्पपति प्रयोजनसमर्थान्करोति । तावतर्तवो व्याकुलतामन्तरेण प्रतितिष्ठति । तत्प्रतिष्ठार्थ प्रामाणिकपुरुषवचनोदाहरणेन द्रढयति

प्रतितिष्ठति य एवं वेद तदु ह स्माऽऽह हिरण्य दन्बैद एतानि वा एतेन षट्प्रतिष्ठापयति धौर न्तरिक्षे प्रतिष्ठिताऽन्तरिक्षं पृथिव्यां पृथिव्यप्स्वापः सत्ये सत्यं ब्रह्मणि ब्रह्म तपसीत्येता एवं तत्प्रतिष्ठाः प्रतितिष्ठन्तीरिदं सर्वमनु प्रतितिष्ठति यदिदं किंच प्रतितिष्ठति य एवं वेद, इति । हिरण्यमया दन्ता यस्यासौ हिरण्यदन् । विदस्य पुत्रो वैदस्तादृशो मुनि दुइ तदेव वचनमाह स्म । किं वचनमिति तदुच्यते । एतान्येव घुलोका नि ब्रह्मान्तानि पदस्थानानि यानि सन्त्येतान्येवैतेन वषट्कारेण होता प्रति. पयति । तत्र द्युलोकस्याधस्तादन्तरिक्षं तस्मादन्तरिक्षे धुलोक आश्रितः । आन्तरिक्षं पृथिव्यामाश्रितम् । पृथिवी चाधोवर्तिनीष्वस्वाश्रिता । आपश्च ये समाश्रिताः । जनेषु सत्यवादिषु सत्सु यथाकालं दृष्टिसंभवात् । सत्यं मणि वेदे प्रतिष्ठितम् । ईदृशमाचरणं सत्यमिति वेदेनैवावगमात् । वेदस्त से वषट्कारमत्रानुष्ठानरूपे प्रतिष्ठितः । वेदस्यानुष्ठानप्रतिपादनार्थत्वात् । पनेन प्रकारेणैता धुलोकादय एव यथावत्तेन वषट्कारेण यदा परस्परमति ता भवन्ति तदानीं प्रतिष्ठारूपास्ताः पृथिव्याद्या एकैकत्र प्रतिष्ठिताः सन्ति। अनु पश्चाद्यदिदं किंच जगदस्ति तत्सर्व प्रतितिष्ठति । य एवं वेदिता सच

तेतिष्ठति ।

अथ वषदकारमवस्य पूर्वोत्तरभागावुभौ प्रशंसति

वौषळिति वषट्करोत्यसौ वाव वावृतवः षळे तमेव तहतुष्वादधात्यूतुषु प्रतिष्ठापयति याह

१ क. स. स. अ. ट. “न्ति । अं।

.

..

..

.. -

१०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११एका ध्यान

गिव वै देवेभ्यः करोति तादृगि

वास्मै देवाः कुर्वन्ति ॥६॥ इति । मन्त्रे पूर्वभागो वौशब्दो निपातत्वाद्वा गतिप्रजनेत्यादिधातुजवावा । नस्वभावमादित्यमभिधत्ते । तदेतदभिप्रेत्यासौ वाव वावित्युक्तम् । वसन्ता ऋतवः संख्यावशात्पडित्यभिधीयन्ते । तन्मत्रपाठेनैतमेव चौशब्दाभिधेया दित्यं पदशब्दाभिधेयेष्तृतुष्वादधाति । न केवलमाधानमात्रं किंतु तेज प्रतिष्ठापयति स्थैर्येणावस्थापयति । एवं सत्यसौ होता देवेभ्यो या प्रयोजनं करोति तादृशमेव प्रतिष्ठारूपं प्रयोजनमस्मै हो। तद्वारेण यजमान देवाः कुर्वन्ति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवा.

ह्मणभाष्य एकादशाध्याये षष्ठः खण्डः ॥६॥ [७७]

अथ फलविशेषार्थ वषदकारस्यावान्तरभेदानाह

त्रयो वै वषट्कारा वज्रो धामच्छद्रिक्तः, इति । वज्र इति प्रथमस्य वषट्कारभेदस्य नाम । धामच्छदिति द्वितीयस्य ।। इति तृतीयस्य ।

तेषां मध्ये वज्रस्य स्वरूपं दर्शयति

स यमेवोचैर्बलि वषट्करोति स वज्रः, इति । स होता यमेव मत्रमुच्चैर्यथा भवति बलि च यथा भवति तथा वषर रोति स मत्ररूपो वषट्कारो वज्र इत्युच्यते । अत्रोच्चैःशब्देन ध्वनेराधिन मुच्यते बलिशब्देनाक्षरपारुष्यं तदुभययुक्तो बज्रः।

तस्य प्रयोगं विधत्ते

तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तुत्यस्तस्मै स्ततवै तस्मात्स

भ्रातृव्यवता वषट्कृत्यः, इति । यो द्वेष्यो यजमानस्य स्तुत्यो हन्तव्यो भवति तस्मै स्तर्तवै तं हन्तु । देषं कुर्वते भ्रातृव्याय शत्रवे तं तं वधं प्रहरति । वधशब्दो हननसाधन . व्रते । यदा यदाऽपेक्षितस्तदा तदेति विवक्षया तं समिति वीप्सा । यस्ता

सप्तमः खण्डः ] . ऐतरेयबामणम् ।

जस्तस्मात्स वजो भ्रातृव्यवता यजमानेन वषदकृत्यो वषदकाररूपेण . व्यः । होतृप्रयोग एव यजमानप्रयोगः । दक्षिणया होतुः क्रीतत्वात् । धामच्छदः स्वरूपं दर्शयति

अथ यः समः संततोऽनिर्हाणर्चः स धामच्छत्, इति । यो वषटकारः पूर्वोक्तबलित्वादिदोषरहितो यथाऽधीतस्तथैवोच्चारितः ततो याज्यया सह विच्छेदरहितो निःशेषेण हानं परित्यागो यस्या ऋचः निर्हाणा । तथाविधा काचिदृग्याज्यारूपा यस्य वषट्कारस्य सोऽयं निहीं तः । याज्यापाठहीन इत्यर्थः । तद्वैलक्षण्यादनिर्हाणर्चः संपूर्णयाज्यापाठो. न इत्यर्थः । कीदृशो वषट्कारो धामच्छदिति धाम यज्ञस्थानं तत्र यथा मांसि न प्रविशन्ति तथा छादयति स धामच्छत् ।

तस्य प्रयोगं विधत्ते

तं तं प्रजाश्च पशवश्चानुपतिष्ठन्ते तस्मात्स

प्रजाकामेन पशुकामेन वषद्कृत्यः, इति । प्रजाभिः पशुभिश्चान्वयार्थ तं तमिति वीप्सा तं वषट्कारं धामच्छदं प्रजाथ सवश्व सेवन्ते । तस्मात्ताहक्कामेण धामच्छद्वषट्कारः प्रयोक्तव्यः। रिक्तस्य स्वरूपं दर्शयति

अथ येनैव षळवराध्नोति स रिक्तः, इति । पदशब्दो वषट्कारमभिधत्ते भीमसेनो भीम इतिवदेकदेशेन व्यवहारात् । बोचारणेन पळवराध्नोति वषट्कारोऽवराधं समृद्ध्यभावं प्रामोति । नीचो रणन वषद्कारस्य समृद्ध्यभावः । स तथोच्चारितो वषदकारो रिक्त इत्यु रते । उच्चध्वनियोग्ये तदभावे रिक्तप्रायत्वात् । तमेत रिक्तं निन्दति

रिणक्त्यात्मानं रिणक्ति यजमानं पापी यान्वषट्कर्ता भवति पापीयान्यस्मै वष

ट्करोति तस्मात्तस्याऽऽशां नेयाव, इति । काख्यो वषट्कारः प्रयुज्यमानः सन्होतुरात्मानं रिणक्ति रिक्ती त समृद्धिहीनं दरिद्रं करोतीत्यर्थः। तथा यजमानमपि रिणक्ति । अत.

कता होता पापीयान्भवति। अत्यन्तनरकसाधनपापेन युक्तो भवति।

३०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११एका०च्या त(योस्मै यजमानाय वषट्करोति सोऽपि पापीयान्भवति । तस्मात्तस्य , दकारस्याऽऽशां नेयान प्रामुयादिच्छामपि न कुर्याकिमुत प्रयोगमित्यर्थः ।

प्रश्नोत्तराभ्यां वषट्कारस्यष्टानिष्टफलप्राप्तिसामर्थ्य दर्शयति

किं स यजमानस्य पापभद्रमाद्रियेतेति ह स्माऽऽह योऽस्य होता स्यादित्यत्रैवैनं

यथा कामयेत तथा कुर्याद , इति । तदेतद्वाक्यं प्राणानां वा एतदुक्थमित्यस्मिन्खण्डे प्रउगविषयं र व्याख्यातं तथैवात्र वषदकारविषयं व्याख्यातव्यमिति ।

अनिष्टफलसाधनत्वं दर्शयति

यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्य ऋचं ब्रूयात्तथैवास्य

वषट्कुर्यात्सदृशमेवैनं तत्करोति, इति । अनीजानोऽकृतयज्ञः पुरुषो यथैव फलरहितोऽभूत्तथैवेजानः कृतयोड फलरहितः स्यादिति यं यजमान होता कामयेतास्य यजमानस्य येन व याज्यां ब्रूयात्तेनैव स्वरेण वषट्कारमपि ब्रूयात् । तथा सत्येनं कृतयनं या हितेन सदृशं फलरहितं करोति ।

अनिष्टफलान्तरसाधनत्वं दर्शयति

यं कामयेत पापीयान्स्यादित्युच्चैस्त रामस्य ऋचमुक्त्वा शनैस्तरां वषट्

कुर्यात्पापीयांसमेवैनं तत्करोति, इति । पापीयान्दरिद्रो नरकयोग्यो वा यजमानः स्यादिति कामयमानो होत मतिशयेनोचैरुच्चार्य वषट्कारमतिशयेन नीचैयात् । तथा सत्येनं यजा पापीयांसमेव करोति ।

अथेष्टफलसाधनत्वं दर्शयति

यं कामयेत श्रेयान्स्यादिति शनैस्त रामस्य ऋचमुक्त्वोच्चैस्तरां वषट्कुर्या च्छ्यि एवैनं तच्छ्रियामादधाति, इति ।

अष्टमः खण्डः ] ऐतरेयबामणम् ।

सदारिद्यरहितः पापरहितश्च यजमानः स्यादिति कामयमानो होत

गनरुच्चार्य वषट्कारमतिशयेनोचैरुचारयेत् । तच्च श्रिये संपदर्थ पति । तेन प्रयोगेणैनं यजमानं श्रियामैहिकामुष्मिकसंपदि स्थापयति । पाज्यावषट्कारयोरेन्तर्य विधत्ते

संततमृचा वषद्कृत्यं संतत्य, इति । प्रचा याज्यया सह संततं निरन्तरं यथा भवति तथा वषट्कृत्यं वषदकार हारणीयः । तच यजमानस्य श्रेयःसंतत्यै संपद्यते ।

वेदनं प्रशंसति

संधीयते प्रजया पशुभिर्य एवं वेद ॥ ७॥ इति । संधीयते संयुज्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा.

ह्मणभाष्य एकादशाध्याये सप्तमः खण्डः ॥७॥ [७८]

अथ होतुर्वषट्कारकाले देवताध्यानं विधत्ते

यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्दषट्करिष्यन्साक्षादेव तद्देवतां

प्रीणाति प्रत्यक्षाद्देवतां यजति, इति । अध्वर्युर्या देवतामुद्दिश्य हविर्यदाति तां देवतामयं होता वषषदकरिष्यन्वष रायोयुक्तः सन्ध्यायेन्मनसा शास्त्रीयां देवतामूर्ति सम्यगनुसंधाय पश्चा इयोंदित्यर्थः । एवं सति साक्षादेव प्रत्यक्षेणैव देवतां तर्पयति । न केवलं त्यर्थमेव देवतायाः साक्षात्कारः किंतु प्रत्यक्षात्मत्यक्षेणैव देवतां यजति काले प्रत्यक्षेण पश्यतीत्यर्थः । ननु देवता चक्षुषा न दृश्यते कथमस्याः पक्षत्वमिति चेत् । नायं दोषः । मानसप्रत्यक्षस्य विवक्षितत्वात । यथा जातनी देवता चक्षुषा दृश्यते तथैव चिन्त्यमानाऽपि मनसा दृश्यत एव । होतुर्वषट्कारादूर्ध्वमनुमन्त्रणं विधत्ते

वजो वै वषट्कारः स एष प्रहृतोऽशान्तो दीदाय तस्य हैतस्य न सर्व इव शान्ति वदन प्रतिष्ठां तस्मादाप्येतर्हि भूयानिव

  • . . p.- -.

३०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११एका०ध्यां

मृत्युस्तस्य हैषैव शान्तिरेषा प्रतिष्ठा वागि त्येव तस्मादषट्कृत्य वषट्कृत्य वागियनुम

त्रयेत स एनं शान्तो न हिनस्ति, इति । वषटकारस्य वज्रत्वमसकदुक्तम् । स एष वषटकारात्मको वज्रः परस्यो महतः सनशान्त उग्रो दीदाय दीप्यते । तस्य वज्रस्य शान्तिमुपशममकार इव सर्वोऽपि पुरुषो न वेद । उपद्रवशान्तेरूचं वषट्कारस्योगत्वपरिता कचिदवस्थानं प्रतिष्ठा तामपि सर्वो न वेद । तस्माच्छान्तिप्रतिष्ठावानाभाव तीपीदानीमपि लोके मृत्यु यानिव बहुभूत एव प्रवर्तते । तस्य तादृश्य(श पदकारवजस्यैषैव वक्ष्यमाणा शान्तिः शमनोपायः। तथैषा वक्ष्यमाणैव प्रति परोपद्रवरहिताऽवस्थितिः । वागित्येवेत्यनेन साऽभिधीयते । उपरिष्टाद्वा माणस्य मवस्य स्मरणमिदम् । वागोज इत्यादिको यो मत्रः स एव शम पायो न त्वन्यः कश्चिदस्ति । तस्माद्वषट्कृत्य वषट्कृत्य यदा यदा वषदकर सदा तदा वागिति मत्रेणानुमत्रयेत । स वज्रस्तावता शान्त एनं न हिनरि अयमेकः पक्षः।

पक्षान्तरमभिप्रेत्यान्येन मत्रेणानुमन्त्रणं विधत्ते

वषट्कार मा मां प्रमृक्षो माऽहं खां प्रमृतं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठाऽसि प्रतिष्ठां गच्छ प्रतिष्ठां मा

गमयेति वषट्कारमनुमन्त्रयेत, इति । हे वषट्कार वज्ररूप मां यजमानं मा प्रमृक्षः प्रमृष्टं विनष्टं मा कार्य अहमपि त्वां मा प्रमृतं विनष्ट मा कार्षम् । बृहता प्रौढेन यज्ञेन मनस्त्वदीर पहयेऽनुजानामि । यथा व्यानेन व्यानादिवायुना सह त्वदीयं शरीरमनु नामि । अतस्त्वं सर्वस्य प्राणसंघस्य प्रतिष्ठाऽऽश्रयोऽसि । तदर्थ त्वमपि धार स्थैर्येणावस्थितिं गच्छ । ततो मामपि प्रतिष्ठां स्थैर्येणावस्थितिं पापयेत्यनन मन्त्रेणानुमत्रयेत ।

तमिमं द्वितीयपक्षं निन्दित्वा मत्रान्तरं दर्शयति

१ क. ख. म. म. द. छाविव यज्ज्ञाना । २ ख. ‘स्य प्रतीकमि । ३ क.. यत्तेन।प्रमः खण्डः] ऐतरेयब्राह्मणम् ।

३०७ तदु ह स्माऽऽह दीर्घमेतत्स

दप्रभ्वोजः सह ओजः, इति । तत्रैवानुमत्रणे ब्रह्मवादी कश्चिदाह स्म । किमाहेति तदुच्यते । एत तं मन्त्रवाक्यं दीर्घ सदपि वजं शमयितुममभु न क्षमम् । कोऽसौ क्षमो ति स उच्यते । ओजः सह ओज इति पदत्रयात्मको मत्रः । मत्रार्थ तिरेव व्याख्यास्यति । न मत्रेणानुमवणं विधत्ते

इत्येव वषट्कारमनुमन्त्रयेत, इति । वकारः पूर्वमवव्याहत्त्यर्थः। त्रिपदयोरथै दर्शयति

ओजश्च ह वै सहश्च वषट्

कारस्य प्रियतमे तन्वी, इति । पष्टोऽर्थः। अनेन मत्रेणोग्रत्वशान्ति दर्शयति

प्रियेणैवैनं तद्वाना समर्धयति, इति । प्रियतमयोः शरीरयो मग्रहणे सति वषटकारस्योग्रत्वरूपः कोपो गच्छति। एनं वषट्कारः प्रियेण धाना सर्वभूतानामनुपद्रवकारिणा प्रियेण स्वरूपेण दं करोति । अत्र मत्रगतो द्वितीय ओजःशब्द आदरार्थ इत्यभिप्रायः। वेदनं प्रशंसति

प्रियेण धाना समृध्यते य एवं वेद, इति । अथ मियशरीरद्वयवाचकाभ्यां पदाभ्यां सहितमादौ विहितं मत्रमेव सिद्धा पति

वाक्च वै प्राणापानौ च वषट्कारस्त एते वषद्कृते वषट्कृते व्युत्क्रामन्ति ताननुमन्त्र येत वागोजः सह ओजो मयि प्राणापानावि त्यात्मन्येव तद्वोता वाचं च प्राणापानौ च प्रतिष्ठापयति सर्वायुः सर्वायुत्वाय, इति ।

.

..

.

३०४ - श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [११एका ध्याचे

येयं वागस्ति यौ च प्राणापानौ स्तस्ते त्रयो वषट्कारस्वरूपम् । यदा होता वषदकरोति तदा तदा वषदकाररूपा होतुर्वाक्प्राणापानाः शरीरावला न्त्यतस्तन्मा भूदिति तांस्त्रीन्वागित्यादिना माणापानावित्यन्तेन मन्त्रेणानुमान मत्रस्यायमर्थः। ओजः सह इत्याभ्यां प्रियशरीराभ्यामुपेत हे वषदकार सादान्मय्योजो बलमस्तु । तथा वाक्प्राणापानाः सुखेन तिष्ठन्त्विति । असे मत्रेण होता स्वात्मन्येव वाचं च प्राणापानौ च स्थापयति । तावतास सर्वायुः शतसंवत्सरपरिमितेनाऽऽयुषा युक्तो भवति । एतच्च यजमानस्य सत युष्ट्वाय संपद्यते । पूर्वत्र वषद्कृत्य वागित्यनुमत्रयेतेति वषट्कारानुमत्रणयोरे कर्तृकत्वमुक्तम् । अत्राप्यात्मन्येव तद्धोतेति ब्राह्मणे होतकर्तृकत्वं प्रतीय ततोऽनुमत्रणस्य यजमानकर्तृकत्वमन्यैरुक्तं बाधित्वा होतृकर्तृकत्वमेव द्रष्टच्या

वेदनं प्रशंसति

सर्वमायुरेति य एवं वेद ॥ ८॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्य एकादशाध्यायेऽष्टमः खण्डः ॥ ८॥[७९]

अथ पैषादीनां प्रशंसां विवक्षुरादौ प्रैषान्प्रशंसति

यज्ञो वै देवेभ्य उदक्रामत्तं प्रैषैः प्रैषमैच्छन्य स्पैषैः प्रैषमैच्छंस्तत्प्रैषाणां प्रैषत्वम् , इति। ज्योतिष्टोमाख्यो यज्ञो यदा केनचिनिमित्तेन देवेभ्य उदक्रामत्तदानी कान्तं यज्ञं प्रैषैहोता यक्षदग्निं समिधेत्येवमायैः प्रैषमत्रैस्तस्य यज्ञस्य प्रेषमा नमैच्छन् । यस्मादेवं तस्मात्प्रेषन्त्याहानं कुर्वन्त्येभिरिति व्युत्पत्त्या मत्रा भैषनाम संपन्नम् ।

अथ पुरोरुचः प्रशंसति

तं पुरोरुग्भिः प्रारोचयन्यत्पुरोरुभिः

पारोचयंस्तत्पुरोरुचां पुरोरुक्तम्, इति । . पायुरग्रेगा इत्याद्याः सप्त पुरोरुचः। प्रउगव्यूचानां सप्तानां पाचन स्वात् । तथाविधाभिः पुरोरुग्भिस्तं पूर्वमाहृतं यज्ञ देवाः पारामा यज्ञस्य रुचिमुत्पादितवन्तः । अतः पुरोरोचनाहेतुत्वात्पुरता संपन्नम्।

नवमः खण्डः] ऐतरेयब्राह्मणम् । ३०९ वेदेः प्रशंसामाह तं वेद्यामन्वविन्दन्यदेद्यामन्वविदस्तवेदेवदित्वम्, इति ।

प्रोचितं यज्ञं सौमिक्या वेद्यामन्वविन्दन्ननुकूलत्वेनोपलब्धवन्तः । अतो दनस्य लाभस्य स्थानत्वाद्वेदिरिति नाम संपन्नम् ।

ग्रहप्रशंसामाह

तं वित्तं ग्रहय॑गृह्णत यदित्तं ग्रहै

य॑गृह्नत तद्वहाणां ग्रहत्वम्, इति । वित्तं लब्धं तं यज्ञं ग्रहैरुपश्चिन्तर्यामादिभिर्विशेषेण स्वीकृतवन्तः। तस्मा इणस्य स्वीकारस्य हेतुत्वाद्रहनाम संपन्नम् । निविदां प्रशंसामाह

तं वित्त्वा निविद्भिर्त्यवेदयन्यहित्त्वा निवि नियवेदयंस्तत्रिविदां निवित्त्वम् , इति । तं यज्ञं वित्त्वा लब्ध्वा ते देवाः परेभ्यो देवेभ्यो निविद्भिः पूर्वोक्तद्वादश मादिरूपाभिर्यवेदयन्कथितवन्तः । तस्मानिवेदनस्य परबोधनार्थकथनस्य

त्वान्निविनाम संपन्नम्। अथ प्रेषकर्तुः प्रहत्वगुणविधानार्थ प्रस्तौति

महद्दाव नष्टैष्यभ्यल्पं वेच्छति यतरो वाव तयोर्ध्याय इवाभीच्छति स

एव तयोः साधीय इच्छति, इति । नष्ट वस्तु प्रयत्नेन तत्र तत्रान्विष्यतीति नष्टैषी । तादृशः पुरुषो द्विविधः । काश्चन्महद्वाव नष्टाद्वस्तुनोऽधिकमेवाभीच्छति । नष्टादल्पं वाऽन्यः कश्चि छयत । तयोमध्ये यतरो वाव य एव पुरुषो ज्याय इव महदेवेच्छति स उपस्तयामध्ये साधीयोऽत्यन्तं साधु.वस्त्विच्छति । अल्पं कामयमानस्तु वयेत्यर्थः।

अस्त्वेवं लौकिकन्यायः किं प्रकृत इत्याशकंयाऽऽह–

य उ एव प्रैतान्वर्तीयसो वर्षीयसो वेद स उ

११० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [११एका०व्याने ___ एव तान्साधीयो वेद नष्टैष्यं ह्येतद्यत्प्रेषाः, इति ।

य उ एव यस्तु भेषवक्ता प्रैषमत्रान्वर्षीयसो वर्षीयसोऽतिप्रवटा सर्वेषु प्रैषमत्रेषु प्रवृद्धत्वार्थ वीप्सा प्रयुक्ता। भैषमत्राः कस्मात्मा चेत्, पुरोनुवाक्यानां संनिहितत्वात्ताभ्योऽधिकान्वर्षीयस इत्यवगन्तव्या स उ एव दीर्घत्वाभिज्ञ एव तान्प्रैषमत्रान्साधीयो वेदातिशयेन सम्यो ननु लौकिकन्यायोदाहरणे नष्टवस्तुनोऽन्वेषणमुदाहृतम् । इह तु औषमाणा भिवृद्धिरुक्तेत्यतो लौकिकेनासंगतमिति चेत् । संगतमेवैतद्धि यस्मा ) सन्ति ते नष्टैष्यं नष्टस्य यज्ञस्यान्वेषणहेतवः ।

पुरोनुवाक्याभ्यो दीर्घत्वेन भैषान्प्रशस्य तदुच्चारणकाले प्रहत्वं विधत्ते

तस्मात्प्रहस्तिष्ठन्प्रेष्यति ॥९॥ इति । यस्मादतिशयेन वृद्धाः प्रैषास्तस्मात्तत्पाठकाले मैत्रावरुणः प्रहो विनये किंचिदवनतशिरास्तिष्ठन्ननुपविष्टो मन्त्रान्पठेत् । यथा लोके पितृगुर्वादीनए प्रहस्तिष्ठति तद्वत् । यथा वा नष्टवस्त्वन्विच्छन्महतादिना गुप्तश्वरति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा

ह्मणभाष्य एकादशाध्याये नवमः खण्डः॥९॥[८०]

-.-.-

अथ निविदा सवनभेदेन स्थानभेदं विवक्षुः प्रातःसवने स्थानविशे विधत्ते

गर्भा वा एत उक्थानां यनिविदस्तयत्पुरस्ता दुक्थानां प्रातःसवने धीयन्ते तस्मात्पराञ्चो

गर्भा धीयन्ते पराञ्चः संभवन्ति, इति । अग्निर्देवेद्ध इत्यादयो निविदः सन्ति । एते निविद्विशेषा उक्थानां शस्त्रा गर्भावै गर्भस्थानीया एव । तथा सति प्रातःसवनप्रयोगे शस्त्राणां पुरस्ता विदो धीयन्ते स्थाप्यन्ते स्थापयेयुरित्यर्थः । यस्माद्दर्भस्थानीयानां पुरस्या तस्माल्लोकेऽपि गर्भाः पराञ्चः शरीरे परमुत्कृष्टं पुरोभागमञ्चन्तो ग, धीयन्ते धार्यन्ते प्रसवकालेऽपि पराञ्चः पुरोभागं गच्छन्त उत्पद्यन्ते प्रयुक्त।

माध्यंदिनसक्ने स्थानविशेषं विधत्ते

यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये

दशमः खण्डः] ऐतरेयबामणम् ।

गर्भा धृताः, इति । यस्माच्छखाणां मध्ये निविदस्तस्माद्भर्भा उदरमध्ये धीयन्ते । ततीयसवनस्थानविशेषं विधत्ते

यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतोऽ

वञ्चिो गर्भाः प्रजायन्ते प्रजात्य, इति । अन्ततः शस्त्रस्यान्तिमे देश एकामृचं शिष्ट्वा निविदः पठितव्याः । यस्मा । अन्तिमदेशभागिन्यस्तस्माल्लोकेऽपि गर्भा अमुतो निवासस्थानान्मातुरुद यादर्वाञ्चोऽधोभागगताः प्रजायन्ते । तच यजमानस्य भजननार्थ भवति । वेदनं प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद, इति । सवनत्रये विहितं निविदां स्थानत्रयं प्रशंसति

पेशा वा एत उक्थानां यनिविदस्तयत्पुरस्तादु क्थानां प्रातःसवने धीयन्ते यथैव प्रवयणतः पेशः कुर्यात्तादृक्तयन्मध्यतो मध्यंदिने धीयन्ते यथैव मध्यतः पेशः कुर्यात्तादृक्तद्यदन्ततस्तृतीयसवने

धीयन्ते यथैवावप्रज्जनतः पेशः कुर्यात्तादृक्तद, इति । पेशा अलंकाराः। वेञ् तन्तुसंतान इति धातोर्वयनशब्दोत्पत्तिः। कुविन्दस्य पारम्भे वयनं तत्पवयणम् । लोके यथैव वाससः प्रवयणतो वयनमारम्भे ऽलंकारं कुर्यात् । वर्णान्तरोपेतैस्तन्तुभिरलंकारः । तथैव प्रातःसवने णा पुरतो निवित्पठनं भवति । तच्च वस्त्रस्थानीयानामुक्थानां प्रथमभागेऽ राय संपद्यते । शस्त्रमध्ये तत्पठनं वस्त्रमध्ये वर्णान्तरेणालंकारसमम् । ज्जनो वस्त्रस्यान्तभागस्तत्र यथा वर्णान्तरेणालंकारस्तागुक्थानामन्ते

त्पठनम् ।

दिनं प्रशंसति

सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद ।।१०।। इति । सात श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा मणभाष्य एकादशाध्याये दशमः खण्डः ॥ १० ॥८१]

२.१२.

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११ एका अथ निविद्विषयं बहुवक्तव्यं विवक्षुरादौ सूर्यसादृश्येन निविदः प्रशंसारि

सौर्या वा एता देवता यनिविदस्तद्य त्पुरस्तादुक्थानां प्रातःसवने धीयन्ते मध्यतो मध्यंदिने ततस्तृतीयसवन आदि

यस्यैव तद्वतमनु पर्यावर्तन्ते, इति । या निविदः सन्ति ता एताः सूर्यसंबन्धिन्य एव देवताः । यथा सूर्यः स्तादुदेत्यथ मध्ये स्थित्वा पश्चादन्तेऽस्तमेति एवं निविदोऽपि पुरस्तान्मध्ये च स्थाप्यन्ते । तस्मादादित्यस्यैव व्रतमाचरणमनु निविदः पर्यावर्तन्ते । तासां निविदां द्वादशपदरूपाणामेकैकस्मिन्पादेऽवसानं विधत्ते

पच्छो वै देवा यज्ञं समभरंस्त

स्मात्पच्छो निविदः शस्यन्ते, इति । देवाः पुरा यज्ञ पच्छः पादशः समभरनेकैकं भागं क्रमेण संपादित इत्यर्थः । तस्मादेता निविदोऽपि पादशः शंसनीयाः।

निविदां शंसकाय होत्रेऽश्वदानं विधत्ते

यदै तद्देवा यज्ञं समभरंस्तस्मादश्वः सम भवत्तस्मादाहुरश्वं निविदां शंत्रे दद्या

दिति तद खलु वरमेव ददति, इति । यदै यस्मिन्नेव देशे तत्तदा देवा यज्ञं संपादितवन्तस्तस्माद्देशादश्च उत्प अत एवाभिज्ञा इत्याहुः । किमाहुरिति तदुच्यते । निविदा शंसका दद्यादिति । तदु खलु तेनैवाश्वदानेन वरमेव श्रेष्ठमेव वस्तु ददति प्रयच्छ

द्वादशसु निवित्पदेषु कस्यापि पदस्यातिक्रमं निषेधति

न निविदः पदमतीयात्, इति । एकमपि पदं न परित्यजेदित्यर्थः।। विपक्षबाधकपूर्व पूर्वपक्षं निगमयति

यनिविदः पदमतीयाद्यज्ञस्य तच्छिद्रं कुर्या यज्ञस्य वै छिद्रं स्रवद्यजमानोऽनु पापीयान्भ वति तस्मान्न निविदः पदमतीयाव, इति ।

१ एकादशः खण्डः] ऐतरेयबामणम् ।

११३ परित्यागे यज्ञस्य च्छिद्रं भवति तच स्रवति ततो यजमानो निन्यो जति तस्मानिवित्पदं न परित्यजेत् ।

पदानां विपर्यासं निषेधति

न निविदः पदे विपरिहरेयनिविदः पदे विपरिहरेन्मोहयेयज्ञं मुग्धो यजमानः

स्यात्तस्मान निविदः पदे विपरिहरेद, इति । विपरिहारो विपर्यासः। निविदः संबन्धि यत्पदद्वयं तन्न विपरिहरेद्विपरी या न पठेत् । तथा सत्ययं होता यज्ञं मोहयेद्यज्ञे भ्रान्ति जनयेत्ततो यजमा. ‘ऽपि मुग्धो भ्रान्तः स्यात्तस्माद्विपर्यासो न कर्तव्यः।

निवित्पदसंश्लेषणे(ण) निषेधति

न निविदः पदे समस्येचनिविदः पदे समस्ये वज्ञस्य तदायुः संहरेत्प्रमायुको यजमानः

स्यात्तस्मान निविदः पदे समस्येव , इति । पदयोः संश्लेषणे यज्ञस्याऽऽयुः संहृतं भवेद्यज्ञो विनश्येदित्यर्थः । ततो मानो म्रियेत तस्मात्पदद्वयं न संश्लेषयेत् । अनेन निषेधेन सर्वेषां पदानां परस्परविश्लेषणप्राप्तौ मध्यमयोर्द्वयोः पदयो। मेषं विधत्ते

प्रेदं ब्रह्म प्रेदं क्षत्रमित्येते एव समस्येद्ब्रह्मक्षत्रयोः

संश्रियै तस्माद्ब्रह्म च क्षत्रं च संश्रिते, इति । निवित्पदानां मध्ये प्रेदं ब्रह्मेत्येकं पदं प्रेदं क्षत्रमित्यपरं पदम् । उभे एव कृपयेत् । एवकार इतरसंश्लेषव्यावृत्त्यर्थः । तदेतन्मेलनं ब्राह्मणक्षत्रिय सोः परस्पराश्रयणाय भवति । तस्मादेव लोके जातिद्वयं परस्परमाश्रित्य इति । ब्राह्मणो धर्म प्रवर्तयति । क्षत्रियस्तस्य रक्षां करोति । निवित्पदानां प्रक्षेपस्याऽऽश्रयसूक्ते कंचिन्निवमं विधत्ते

न तृचं न चतुर्ऋचमतिमन्येत निविद्वानमे कक वै निविदः पदमृचं मुक्तं प्रति तस्मान तृचं न चतुर्थीचमतिमन्येत निविद्वानं

३१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [११ एका ध्यान

निविदा ह्येव स्तोत्रमतिशस्तं भवति, इति । तिस्र ऋचो यस्मिन्सूक्ते तत्तृचम् । चतस्त्र ऋचो यस्मिन्सूक्ते तच्चतर ताशमुभयविधं सूक्तमतिक्रम्य निविद्धानं निवित्पदानां प्रक्षेपं न मन चिन्तयेत् । एतदुक्तं भवति । त्रिचतुरमात्रात्सूक्तादर्वाचीने सूक्ते निहित दध्यात्किंतूभयस्मिन्नेव दध्यादिति । निविदः संबन्धि यदेकैकमेव पदं नई प्रत्यूचं प्रतिसूक्तं च समर्थ भवति । यस्मादीदृशं सामर्थ्य तस्मादित्य पसंहारः। अधिके सूक्ते निवित्पदेषु प्रक्षिप्तेषु निविदैव स्तोत्रातिशंसनं । भवति । ऋचं नापेक्षेत तदित्यर्थः। तृतीयसवने विशेषं विधत्ते

एकां परिशिष्य तृतीयस

वने निविदं दध्यात्, इति । सूक्ते येयमृगन्त्या तामवस्थाप्य ततः पूर्वमेव तृतीयसवने निविदं प्रक्षिपेत विपक्षवाधपुरःसरं स्वपक्षमुपसंहरति

यवे परिशिष्य दध्यात्प्रजननं तदुपहन्या द्रौस्तत्प्रजा व्यर्धयेत्तस्मादेकामेव परि

शिष्य तृतीयसवने निविदं दध्यात्, इति । यदि द्वे ऋचौ परिशिष्य ततः पुरा निविदं दध्यात्तदानीं प्रजोत्पादनसाध विनाशयेत् । पुत्रादयः प्रजा गर्भेय॑र्धयेद्वियुक्ताः कुर्यात् । प्रजननमुपहन्य दित्यनेन यजमानस्य प्रजोत्पादनराहित्यम् । प्रजा व्यर्धयेदित्यनेन पूर्वमुर

नानां पुत्रादीनामपत्यराहित्यम् । तस्मादित्युपसंहारः।

अथ निविद्धानीयेन सूक्तेन निविदतिक्रमं निषेधति

न सूक्तेन निविदमतिपद्येत, इति । यत्सूक्तं निविद्धानाई निविदमतिक्रम्य तेन सूक्तेन न पद्येत निवित्र परित्यज्य केवलं तत्सूक्तं न पठेदित्यर्थः।।

प्रमादानिवित्प्रक्षेपविस्मृतौ पुनस्तत्सूक्ते निविदं प्रक्षिप्य पाठो भ्रान्त प्रसक्तस्तं निषेधति

येन सूक्तेन निविदमतिपद्यत न तत्पु. नरुपनिवर्तेत वास्तुहमेव तत्, इति ।

१ एकादशः खण्डः] ऐतरेयबामणम् ।

समितिक्रम्य परित्यज्य निवित्मक्षेपयोग्येन(ण) येन सूक्तेन पद्यतानु

यात्तद्विस्मृतनिवित्कं सूक्तं पुनर्नोपनिवर्तेत भूयो निविदं प्रक्षिप्य न तत्र हेतुरुच्यते । तद्विस्मृतनिवित्कं सूक्तं वास्तुहमेव । वास्तुशब्देन विटा स्थानमुच्यते । तस्य स्थानस्य घातकं तत्सूक्तं ततः पुनः पाठस्य न ग्यम् । का तर्हि तदानीं निविदो गतिरित्याशङ्कयाऽऽह

अन्यत्तदैवतं तच्छन्दसं सूक्तमा

हृत्य तस्मिनिविदं दध्यात्, इति । पर्वस्य निविद्धानीयस्य सूक्तस्य देवता यादृशी छन्दश्च यादृशं तथाविधाभ्यां वताछन्दोभ्यां युक्तमन्यत्किचित्सूक्तमाहृत्य तस्मिन्सूक्ते निविदं प्रक्षिपेत् ।

तत्र कंचिद्विशेषं विधत्ते

मा प्र गाम पथो वयमिति

पुरस्तात्सूक्तस्य शंसति, इति । यस्मिन्नाहते नूतने सूक्ते निवित्मक्षिप्यते तस्य पुरस्तात्तत्पागत्पूर्व मा प्र मेति सूक्तं शंसेत् । वयं होतारः पथः शंसनमार्गात्मभ्रष्टाः सन्तो मा गाम वेशं मा प्रामवामेति तस्य पादस्यार्थः । मार्गभ्रंशदोषोऽस्माकं मा भूदित्य मायः। द्वितीयपादस्य तात्पर्य दर्शयति

पथो वा एष प्रति यो यज्ञे मुह्यति मा यज्ञा

दिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते, इति । मा यज्ञादित्यादिद्वितीयः पादस्तस्यायमर्थः । हे इन्द्र सोमिनः सोमयुक्ता मान्मा प्रगामेत्यनुवर्तते प्रभ्रंशं मा प्रामवामेति । यः पुमान्यज्ञे मुह्यति भ्रान्ति भाति एष पुमानवश्यं पथः प्रत्येव मार्गाद्धश्यत्येव । अतो मा प्र गाम पथ पतावता न पर्याप्तं किंतु मार्गभ्रंशपरिहारदाार्थ मा यज्ञादित्यपि पठनी (तत्पादपाठेनायं यज्ञान प्रच्यवते। अथवा पथो वा एष इत्यर्थवादः पूर्व

दशेषत्वेन व्याख्येयः।

एतीयपादमनूध व्याचष्टे

मा प्र गाम पथो०-१०-१७-१।

वायवरा

श्रीमत्सायणाचार्यविरचितभाष्यसमेलम्-[१२द्वादशाध्यादै

माऽन्तः स्थु! अरातय इत्य

रातीयत एव तदपहन्ति, इति । नोऽस्माकमन्तर्मध्ये रातयः शत्रवो मा स्थुर्मा तिष्ठन्तु । तत्पादपाठेनाराजी यतः शत्रुत्वमिच्छत एव पुरुषानपहन्ति । तस्मिन्सूक्ते द्वितीयामृचमनुवदति

यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वा

ततः । तमाहुतं नशीमहीति, इति । यः पुत्रो यज्ञस्य प्रसाधनः कुलपारम्पर्येण यज्ञस्य प्रकर्षेण साधकोऽत या तन्तुर्देवेष्वाततो दीर्घतन्तुरिव देवेषु विस्तारितस्तं तथाविधं पुत्रमाहुतमाहाने संपादितदेवतं नशीमहि । अत्र निषेधार्थः कश्चिमकारोऽध्याहर्तव्यः । ने नाशयाम इत्यर्थः । अस्माभिः प्रमादे कृतेऽप्यस्मत्पुत्रस्य देवेषु प्रचारात्स प्रमादा समाधीयत इत्यर्थः।

अत्र तन्तुशब्दस्य तात्पर्य दर्शयति

प्रजा वै तन्तुः प्रजामेवास्मा एतत्संतनोति, इति । कुलाचारादेरविच्छेदहेतुत्वात्पुत्ररूपा प्रजा तन्तुशब्देनोच्यते । तथा सत्र पाठेन प्रजामेव पुत्रादिरूपामस्मै यजमानाय संतनोत्यविच्छिन्नां करोति ।

तृतीयस्या ऋचः पूर्वार्धमनुवदति

मनो न्वाहुवामहे नाराशंसेन सोमेनेति, इति । आप्यायिताश्चमसा नाराशंसास्तत्संबन्धिना सोमेन नु क्षिप्रमेव मनोऽस दीयमाहुवामह आह्वयामि।

अस्यास्य तात्पर्य दर्शयति

__ मनसा वै यज्ञस्तायते मनसा क्रियते, इति । सर्वो यज्ञो मनसैव तायते विस्तार्यते मनःपूर्वकत्वादितरेन्द्रियप्रवृत्तेस्तस्ति प्रसारित यज्ञे यो यः कर्तव्यविशेषोऽस्ति स सर्वोऽपि मनसा क्रियते तस्मात नस आहानं यागे ज्ञाने वा युक्तम् ।।

अस्य सूक्तस्य प्रथमतः पाठे प्रयोजनं दर्शयति

सैव तत्र प्रायश्चित्तिः प्रायश्चित्तिः॥११॥ इति । । यो यज्ञस्य प्रसाधनः-१०-१७-२ । मनो न्वाहवामहे०-१०-१७-।

..प्रथमः खण्डः]

ऐतरेयब्रामणम् ।

गामेत्यादिसूक्तस्योक्तिरेव निविदतिक्रगरूपमत्यवायस्य मायश्चित्तिः।

भ्यासोऽध्यायसमाप्त्यर्थः॥

रति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयना. मणभाष्य एकादशाध्याय एकादशः खण्डः ॥ ११ ॥ [ ८२] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्रा ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्य

एकादशोऽध्यायः ॥ ११॥