१०

अथ दशमोऽध्यायः ।

ऋतुयाजा द्विदेवत्यास्तद्विशेषफला स्तुतिः ॥

तूष्णीशंसप्रशंसा च नवमाध्यायचोदना ॥१॥ अथाऽऽहावादयो वक्तव्यास्त्रिहावं निविदं सूक्तं च विधत्ते

ब्रह्म वा आहावः क्षत्रं निविदिसूक्तमाह्वय तेऽथ निविदं दधाति ब्रह्मण्येव तत्क्षत्रमनुनियु नक्ति निविदं शस्त्वा सूक्तं शंसति क्षत्रं वै निवि दिदमुक्तं क्षत्र एव तदिशमनुनियुनक्ति, इति । शोसावोमित्यनेन मन्त्रेण शंसनकाले होताऽध्वर्युमायति सोऽ हावः । अग्निर्देवेद्ध इत्यादिभिदिशभिर्वक्ष्यमाणैः पदैर्युक्ता तत रूपा निवित् । प्र वो देवायागय [३-१३-१] इत्यादिकं । सूक्तम् । तदेतत्रयं क्रमेण ब्राह्मणक्षत्रियवैश्यरूपं तत्र ब्राह्मणका प्रथममायते मत्रेणाध्वर्योराहानं कुर्यात् । अथानन्तरं क्षत्रियका

णजातावेव क्षत्रं क्षत्रियजातिमनुनियुनक्ति । प्रथमतो ब्राह्मणजातिः क्षत्रियजातिरित्येवं नियोगः कृतो भवेत । तां निविदं शस्त्वा पवार देवायेतिसूक्तं शंसेत् । तथा सति क्षत्रियजातिरूपायां निविाद तिरूपं सूक्तमनुनियुनक्त्यानुकूल्येन पश्चादवस्थापयति । यः पूरा शंसो ये च निवित्सूक्ते तदेतत्रयमाज्यनामकशस्त्रस्य रूपम् । तदुक्त विद्भिः-“तूष्णींशंसनिवित्सूक्तैराज्यशस्त्रं त्रिपर्वकम्” इति ।

१ख. “हं पठेत्त।यमः खण्डः] ऐतरेयब्रामणम् ।

२५९ यि कंचिदभिचारमयोगं विधत्ते

यं कामयेत क्षत्रेणैनं व्यर्धयानीति मध्य एतस्यै निविदः सूक्तं शंसेक्षत्रं वै निवि

दिसूक्तं क्षत्रेणैवैनं तद्यर्धयति, इति । देयं द्वादशपदात्मिका निविदस्ति तस्या मध्ये सूक्तशंसने सति क्षत्रियजाति या निविदः खण्डितत्वादेनं यजमानं क्षत्रियजात्या व्यूद्धं वियुक्तं विरो करोति। अतो यजमानमुद्दिश्य होत्रा यत्कामितं तत्सिध्यतीत्युक्तं भवति । भभिचारान्तरं विधत्ते

यं कामयेत विशैनं व्यर्धयानीति मध्य एतस्य सूक्तस्य निविदं शंसेक्षत्रं वै

निविदिदमुक्तं विशैवैनं तद्यर्धयति, इति । । वो देवायेत्यस्य सूक्तस्य वैश्यस्थानीयस्य मध्ये निविदः शंसने सति जातेः खण्डितत्वात्तद्विरोधो यजमानस्य भवति । तिकूलं प्रयोगद्वयं विधायानुकूलं प्रयोगं विधत्ते–

यमु कामयेत सर्वमेवास्य यथापूर्वमजु क्लप्तं स्यादित्याह्वयेताथ निविदं दध्या

दथ सूक्तं शंसेत्सो सर्वस्य क्लप्तिः, इति । रमु यं तु यजमानं प्रति। पर्वोक्तस्य टेष्यस्य यजमानस्य व्यावृत्त्यर्थ उशब्दः। । यजमानस्य सर्वमेव ब्राह्मणक्षत्रियवैश्यजातिरूपं यथापूर्वमुत्तमजाते. नतिक्रम्य ऋजुक्लप्तं सम्यक्संपादितं स्यादिति कामनायां शोसावोमि विप्रथमस्ततोऽनिर्देवेद्ध इति निवित्ततः प्र वो देवायेति सूक्तं शंसेत् । तवाक्तानुष्ठितिरेव सर्वस्य जातित्रयस्य क्लप्तिः समीचीनकल्पना भवति । पथ निविदः प्रशंसितुमाह

प्रजापतिर्वा इदमेक एवाग्र आस सोऽकामयत मजायेय भूयान्स्यामिति स तपोऽतप्यत स

१ क. म. नामान । स. “वैताम ।



२६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्– [१० दशमार

वाचमयच्छत्स संवत्सरस्य परस्ताब्याहरद्दादश कृत्वो द्वादशपदा वा एषा निविदेतां वाव तां निविदं व्याहरत्तां सर्वाणि भूतान्यन्वसृज्यन्त, इति । इदमिदानीं दृश्यमानं जगदग्रे स्वोत्पत्तेः पुरा प्रजापतिरीश्वर एक एक वै। स चाकामयताहमेव प्रजायेय प्रजारूपेणोत्पद्येय । तथा सति पर द्वितीयरूपाढ्यानतिप्रभूतः स्यामिति कामयित्वा स प्रजापतिः सृष्टिसाधन कृतवान् । तस्मिंस्तपसि वाचमयच्छन्मौनव्रतं कृतवान् । तथा कृत्वा से रादूर्व द्वादशकृत्वो वाचमुच्चारितवान् । सेयमुच्चारिता वागेषा द्वादशपर्द निवित्संपन्ना । तामेतामेव निविदं प्रजापतिाहतवात् । ता निविदमनु त मात्सर्वाणि भूतान्यन्वसृज्यन्त ।

उक्तार्थ द्रढयितुं कंचिन्मत्रमुदाहरति

तदेतदृषिः पश्यनभ्यनूवाच स पूर्वया निविदा कव्य ताऽऽयोरिमाः प्रजा अजनयन्मनूनामिति, इति । तदेतत्प्रजापतेः सर्जनं दिव्यदृष्ट्या पश्यन्कुत्सनामको महर्षिर्मत्रेणार वाच । स पूर्वयेत्यादिमत्रः । स प्रजापतिः पूर्वया प्रथमं प्रादुर्भूतया नि। द्वादशपदरूपया कव्यता कवित्वं शब्दस्रष्ट्रत्वमायोरागतवान्माप्तवानित्य तत ऊर्ध्व मनूनां वैवस्वतादीनां संबन्धिनीरिमा ब्राह्मणक्षत्रियादिरूपाः । अजनयदित्ययं मन्त्रः पूर्वोक्तमेवार्थ ब्रूते । निविदं प्रशस्य तदनुष्ठानं प्रशंसति–

तघदेतां पुरस्तात्सूक्तस्य निविदं दधाति प्रजात्यै, इति । यस्मात्मजापतिनैवं कृतं तस्माद्यदि होता सूक्तस्य पुरस्तादेतां नि दध्यात्तदा सा निविद्यजमानस्य प्रजात्यै प्रजोत्पादनाय संपद्यते ।

वेदनं प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद ॥३३॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण भाष्ये दशमाध्याये प्रथमः खण्डः ॥ १॥ (३३) [६३

स पूर्वया निविदा.-१-९६-२।

Andh.

तीयः खण्डः] ऐतरेयब्राह्मणम् ।

२६१ द्वादशपदोपेताया निविदा प्रथमं पदं विधत्ते–

अग्निर्देवेद इति शंसत्यसौ वा अग्निवेद एतं हि देवा इन्धत एतमेव तदेतस्मिल्लोक आयातयति, इति । विरितः प्रज्वलितोऽग्निरित्येष निविदि प्रथमभागस्यार्थः । तं भागं होता सौ वा आदित्यमण्डलेऽवस्थित एव प्रकाशो देवैरिद्धोऽग्निः । यस्मादेतं कवतिनं प्रकाशं देवा इन्धत इद्धं दीपितं समृद्धं कुर्वन्ति तत्तेन प्रथमभाग नैतमेवाऽऽदित्यरूपं प्रकाशमेतस्मिन्धुलोक आयातयति प्रसारयति । द्वितीयं पदं विधत्ते

__ अग्निमन्विद्ध इति शंसत्ययं वा अग्नि

मन्विद्ध इमं हि मनुष्या इन्धतेऽग्नि

मेव तदस्मिलोक आयातयति, इति । अङ्गाररूपोऽग्निभूलोकवर्ती मनुष्यैः प्रज्वाल्यते । अन्यत्पूर्ववत् । तृतीयं पदं विधत्ते

अग्निः सुषमिदिति शंसति वायुर्वा अग्निः सुषमिहा युर्हि स्वयमात्मानं समिन्धे स्वयमिदं सर्वं यदिदं किंच वायुमेव तदन्तरिक्षलोक आयातयति, इति । शोभना समित्मकाशनं संचरणरूपं यस्य वायोः सोऽयं सुषमित् । तस्या गतिहेतुत्वाद्यौगिकम् । अगि गतावित्यस्माद्धातोरुत्पन्नोऽयं शब्दः। प्रथ येऽप्यादित्यपरत्वमेवं योजनीयम् । वायुर्हि स्वात्मानं सर्व जगच समिन्धे मिकाशयति व्यापारक्षमं करोतीत्यर्थः। चतुर्थपदं विधत्ते

होता देववृत इति शंसत्यसौ वै होता देववृत एष हि सर्वतो देवैत एत

मेव तदेतस्मिल्लोक आयातयति, इति । सावादित्यः स्वोदयास्तमयाभ्यां सायंप्रातोमनिमित्तत्वेन होता सवै के वर्तमानत्वाद्देवैर्वृतः।

१ क. इ. म. प्रज्वालि।

.

२६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१० दशमा

पञ्चमं पदं विधत्ते

होता मनुव्रत इति शंसत्ययं वा अग्नि होता मनुवृतोऽयं हि सर्वतो मनुष्यैर्वृतोऽ

मिमेव तदस्मिल्लोक आयातयति, इति । भूलोकेऽवस्थितोऽग्निर्होमाधिकरणत्वाद्धोता यजमानविम्भिश्चेष्टितत्वा वृतः।

षष्ठं पदं विधत्ते

प्रणीर्यज्ञानामिति शंसति वायु प्रणीर्यज्ञानां यदा हि प्राणियथ यज्ञोऽथाग्निहोत्रं वायु

मेव तदन्तरिक्षलोक आयातयति, इति । यज्ञान्मकर्षण नयति वायुस्तस्मादेष यज्ञानां प्रणीयस्मिन्काले । माणिति प्राणवायुना चेष्टते तदा यज्ञो भवति । तस्यैव व्याख्यानमुदाहर पमथाग्निहोत्रमिति प्राणवायुचेष्टयाऽग्निहोत्रकरणादिव्यापारा निष्पद्यन्ते ।

सप्तमं पदं विधत्ते

रथीरध्वराणामिति शंसत्यसौ वै रथी रध्वराणामेष हि यथैतचरति रथीरिवैत

मेव तदेतस्मिल्लोक आयातयति, इति । असावादित्योऽध्वराणां प्रकाशनाय रथीभवति रथवान्भूत्वा संचर अयमेवार्थ एष हीत्यादिनोच्यते । यथा लोके रथीरिव कश्चन रथवानेवता व्यस्थानं प्रति चरति तथैष आदित्योऽपि रथयुक्त एव चरति । शाखान्त तदीयरथमदर्शनपूर्वकमेव मत्रो व्याख्यातः-‘रथीरध्वराणामित्याह, ए देवरथः’ इति ।

अष्टमं पदं विधत्ते

अतूर्ती होतेति शंसत्ययं वा अग्निरतूर्ती होतेमं ह न कश्चन तिर्यचं तरत्यग्नि मेव तदस्मिल्लोक आयातयति, इति ।

१ ख. प्रकाशन ।

-”


-.

तीयः खण्डः] ऐतरेयब्राह्मणम् ।

२५१ लोकवर्ती वह्निरतूतः केनाप्यतीर्णः । मार्गमध्ये तिर्यचं मार्गस्यावरोधक स्थितं प्रौढं दावाग्निं कश्चिदपि तरितुं न समर्थः । वमं पदं विधत्ते

तूर्णिहव्यवाळिति शंसति वायुर्वे तूर्णिह व्यवाड्वायु_दं सर्व सद्यस्तरति यदिदं किंच वायुदेवेभ्यो हव्यं वहति वायु

मेद तदन्तरिक्षलोक आयातयति, इति । तरतीति तूर्णिः । वायोः सर्वतरणसामर्थ्य प्रसिद्धम् । हव्यं वहतीति हव्य ढविर्वहनस्य क्रियारूपस्य वायुनिष्पाद्यत्वादसौ हव्यं वहति । दशमं पदं विधत्ते

आ देवो देवान्वक्षदिति शंसत्यसौ वै देवो देवा . नावहत्येतमेव तदेतस्मिल्लोक आयातयति, इति । असावादित्यो देवः खोदयास्तमयाभ्यां होमकालसूचनेन देवानावक्षदा ति। एकादशं पदं विधत्ते

यक्षदग्निर्देवो देवानिति शंसत्ययं वा अग्निर्देवो

देवान्यजत्यग्निमेव तदस्मिल्लोक आयातयति, इति । अयं भूमौ दृश्यमानोऽग्निर्देवो देवान्यजतीति प्रसिद्धम् । द्वादशं पदं विधत्ते

सो अध्वरा करति जातवेदा इति शंसति वायुर्वे जातवेदा वायुहीदं सर्व करोति यदिदं किंच वायु मेव तदन्तरिक्षलोक आयातयति ॥ ३४ ॥ इति । उच्छासनिःश्वासप्रदानेन जातं प्राणिनं वेदयति जीवनयुक्तत्वेन ज्ञापयतीति जातवदाः । स चाध्वरा सर्वयज्ञान्करोति निष्पादयति व्यापाररूपस्या सवावधानत्वात् । एष द्वादशसु पदेषु सूयोग्निवायवश्चतुरावृत्ताः । शत श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रा ह्मणभाष्ये दशमाध्याये द्वितीयः खण्डः ॥२॥ (३४) [६४] + अत्र पुस्तकेषु देवानामावक्षदिति वर्तते तल्लेखकप्रमादादिति ज्ञेयम् ।

२६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१० दशमाघ

निविदो यानि द्वादश पदानि भागरूपाणि तान्युक्तानि। अथ तदनन्त . विसूक्तं विधत्ते

प्र वो देवायाग्नय इत्यनुष्टुभः, इति । प्रव इत्यादि सूक्तस्य प्रतीकं तस्मिन्सूक्ते याः सप्तसंख्याका अन न्दस्का ऋचः सन्ति ताः शंसेदिति शेषः।।

प्रथमायामृचि यौ प्रथमद्वितीयपादौ तयोर्विहरणं विधत्ते

प्रथमे पदे विहरति तस्मात्त्युरू विहरति, इति । विहरणं पृथक्करणम् । द्वयोः पादयोर्मध्ये विहारं विच्छेदं कृत्वा प यस्मादत्र पादयोः परस्परवियोगस्तस्माल्लोकेऽपि स्त्री संभोगकाले स्वकीय विहरति वियोजयति ।

तस्यामृचि तृतीयचतुर्थपादयोरविच्छेदं विधत्ते

समस्यत्युत्तर पदे तस्मात्पुमानूरू समस्यति तन्मि

थुनं मिथुनमेव तदुक्थमुखे करोति प्रजात्य, इति । यस्मात्तृतीयचतुर्थपादयोरुत्तरार्धगतयोः संयोजनं तस्माल्लोकेऽप्युपरि पुमान्भोगकाले स्वकीये ऊरू समस्यति संयोजयति तदुभयं मिलित्वा भवति तस्मादुक्थमुखे शस्त्रस्योपक्रमे मिथुनमेव करोति । तच्च यजमानस्य ननाय संपद्यते।

वेदनं प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद, इति । पुनरप्युक्तमेवानूध प्रकारान्तरेण प्रशंसति

प्र वो देवायागय इत्येवानुष्टुभः प्रथमे पदे विहरति वज्रमेव तत्परोवरीयांसं करोति समस्यत्येवोत्तरे पदे आरम्भणतो वै वज्रस्याणिमाऽथो दण्डस्याथी परशोर्वमेव तत्प्रहरति द्विषते भ्रातृव्याय वर्ष योऽस्य स्तुत्यस्तस्मै स्ततवै ॥ ३५ ॥ इति । इत्येवानुष्टुभ इति योऽयमेवकारः स पूर्वस्यैवानुवादो न तु नूतनविधी

प्र वो देवाया०-३-१३-१।

तुर्थः खण्डः] ऐतरेयब्राह्मणम् ।

२६५ । परोवरीयांसं परस्युत्तरभागेऽतिशयेन स्थूलमीदृशं वजं सूक्त संपादयति । प्रथमाया ऋच उत्तरार्ध पदे तत्पादयोः समसनं तदपि

यार्थ वज्रस्य ह्यारम्भणतोऽणिमा मूले सौक्ष्म्यमित्यर्थः । वज्रशब्देन निरूपमायधमभिधीयते । तस्य हि मूले मुष्टिबन्धनस्थाने सूक्ष्मता भव. त विस्तारः । दण्डशब्देन गदा विवक्षिता । साऽपि हस्तग्रहणस्थाने

या प्रहारस्थानेऽग्रे स्थूला । परशुरपि तथाविधः। यथाऽयं त्रिविधी विमिदमपि सूक्तं प्रथमाधैर्चपादविहरणेन सूक्ष्ममुत्तरार्धर्चपादसमासेन । अत ईदृशं सूक्तरूपं वजमेव द्वेष कुर्वतो भ्रातृव्यस्य वधमुद्दिश्य मह यः शत्रुरस्य स्तुत्यो हन्तव्यस्तस्मै स्तर्तवै तस्य हिंसायै भवति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा ह्मणभाष्ये दशमाध्याये तृतीयः खण्डः ॥३॥ (३५)[६]

थाऽऽनीधीयवासादिसिद्ध्यर्थमाख्यायिकामाह

देवासुरा वा एषु लोकेषु समयतन्त ते वै देवाः सद एवाऽऽयतनमकुर्वत तान्सदसोऽजयंस्त आग्रीधं संप्रापद्यन्त ते ततो न पराजयन्त तस्मादा मीध्र उपवसन्ति न सदस्यानीधे ह्यधारयन्त यदामीधेऽधारयन्त तदानीध्रस्याऽऽग्नीघ्रत्वम् इति ।

कदाचिद्देवाचासुराश्च लोकविषये समयतन्त सङ्ग्रामं कृतवन्तः। वय लोकेषु निवसामो न तु युयमित्येवं परस्परस्पर्धा। तदानीं देवाः सौमिक पाग्वंशस्य पूर्वस्यां दिशि येयं सदोभिधाना शाला तामेव स्वस्य निवा. न कृतवन्तः। तत्रावस्थितांस्तान्देवानसुराः सदसोऽजयञ्जित्वा सदसो हरितवन्त इत्यर्थः। ततो देवा निर्गताः सन्त आनीध्राभिधा शालां न्तः । ते देवाः पाप्य तत आमीधीयं न पराजयन्त तत्रासुराणामेव परा पतु देवानाम् । यस्मादेवं तस्मादानीघ्रशालायामुपवसथे दिने यजमाना न्ति । अनिसमीपे निवसेयुन तु सदसि निवासः कर्तव्यः। आनीधे हि पलायन परित्यज्य स्वात्मानं धारितवन्तस्तस्मात्तत्र निवासो युक्तः । समाध धारितवन्तस्तस्मादामी|नाम संपन्नम् । अग्निसमीपे स्वात्मधार•

मवृत्तिनिमित्तत्वात् ।

१ क. म. कदयं व।२ क. ख.स. म. ध्रत्वं ना ।

२६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१० दशमान

अथ सदस्पवस्थितेषु विष्ण्येष्वामीधादमिविहरणं विधत्ते

तेषां वै देवानामसुराः सदस्यानमीनिर्वापयांच क्रुस्ते देवा आनीध्रादेव सदस्यानग्रीन्विहरन्त तैर सुररक्षांस्यपानत तथैवैतद्यजमाना आमीधादेव

सदस्याननीन्विहरन्यसुररक्षांस्येव तदपन्नते, इति । पुरा देवानां संबन्धिनो येऽनयः सदस्यवस्थितेषु विष्ण्येष्वासंस्तान न्देवपलायनेन सदःभविष्टा असुरा निर्वापयांचऊर्जलप्रक्षेपेणाग्नीशान्ता र्वन् । तदानीं ते देवा आनीधे स्थित्वा तत्रत्यान्सदस्यानग्रीन्विहरन्त सन वस्थितेषु धिष्ण्येषु पृथक्पृथगग्रीन्विहृतवन्तः स्थापितवन्तः । तैः प्रबलैराग रसुराव्रक्षांसि च सदसि हतवन्तः । यथा देवैविहरणं कृतं तथैवैतमि काले यजमाना आनीधादेव व सदस्यानग्नीन्विहरेयुः । तेन विहरणेनार व्रक्षांसि च तदपनते तत्तदानीं नाशयन्ति । सोऽयमर्थः सर्वोऽपि शाखा संगृह्याऽऽन्नात:-‘देवा वै यज्ञं पराजयन्त तमानीध्रात्पुनरयाजयन्नरो यज्ञस्यापराजितं यदानीभ्रं यदानीध्राधिष्णियान्विहरन्ति यदेव यज्ञस्या जितं तत एवैनं पुनस्तनुते’ इति ।।

इत्थं शंसनस्थानगतेषु धिष्ण्येष्वग्निविहरणं विधाय तत्र शंसनीयानां शत्र यदेतदाज्यनामकत्वं तदेतच्छन्दनिर्वचनेन विस्पष्टयति

ते वै प्रातराज्यैरेवाऽऽजयन्त आयन्यदाज्यैरे

वाऽऽजयन्त आयस्तदाज्यानामाज्यत्वम्, इति । त एव देवाः प्रातःसवने यान्याज्यनामकानि शस्त्राणि तैरेवाऽऽ समन्ता प्रामुवन्त आगच्छन् । यस्मादेवं तस्मादा समन्ताज्जयन्त्येभिरिति व्युत्त शस्त्राणामाज्यनाम संपनम् । अनेनैव न्यायेन सामवेदे पञ्चदशान्याज्यान वाक्येन विहितानां पञ्चदशस्तोमयुक्तानां स्तोत्राणामाज्यनामत्वं द्रष्टव्यम् ।

अथाच्छावाकस्य शस्त्रं विधत्ते

तासां वै होत्राणामायतीनामाजयन्तीनामच्छा वाकीयाऽहीयत तस्यामिन्द्राग्नी अध्यास्तामि न्द्रानी वै देवानामोजिष्ठौ बलिष्ठौ सहिष्ठौ सत्तमा

१ ख. स. पुरस्त।

,

तुर्थः खण्डः] ऐतरेयब्राह्मणम् ।

२६७ पारयिष्णुतमौ तस्मादैन्द्राममच्छावाकः प्रातःस वने शंसतीन्द्रानी हि तस्यामध्यास्ताम् , इति ।

या ब्राह्मणाच्छंस्यच्छावाक इत्येते शस्त्रिणो होत्रका यद्यपि पुरुषा

तटीयतनुविवक्षया तासामित्यादिस्त्रीलिङ्गनिर्देशः । यास्तनवः पूर्व तपात तासामेव होत्राणां होतकतनूनामायतीनां सदः प्रवेष्टुमागच्छन्ती जयन्तीनां सर्वतो जयं प्रामुवतीनां मध्येऽच्छावाकीयाऽच्छावाकसंब. सी तनरहीयत हीनाऽभूत्सदसमागन्तुं नाशक्रोदित्यर्थः । तदनुग्रहार्थ तस्यां मिन्द्राग्री अध्यास्तामधिष्ठाय निवासं कृतवन्तौ । युज्यते हीन्द्राग्न्योरनुग्र त्वं यस्मादेवानां मध्य इन्द्रानी ओजिष्ठावोजसा बलहेतुनाऽष्टमधातुनाऽत्यन्त. वित एव बलिष्ठावतिशयेन शरीरशक्तियुक्तौ तत एव सहिष्ठावतिशयेन शत्रू. भवितारौ स्वभक्तविषये तु सत्तमावतिशयेन सन्तौ सन्मार्गवर्तिनावनुग्रही वित्यर्थः । अत एव पारयिष्णुतमौ स्वभक्तैरनुष्ठीयमानं. कर्मातिशयेन पारं सदोद्युक्तौ । तस्मादयमच्छावाक इन्द्राग्नीदेवताकं शस्त्रं प्रातःसवने शंसेत् । नी आ गतमित्यादिकं तच्छत्रं यस्मादिन्द्रानी तस्यामच्छावाकतन्वाम स्तां तस्मादैन्द्राग्नशस्त्रं तस्य युक्तम् । दानीमच्छावाकस्य सदःप्रवेशे विशेष विधत्ते

तस्मादु पुरस्तादन्ये होत्रकाः सदः प्रसर्पन्ति पश्चाऽ

च्छावाकः पश्चैव हि हीनोऽनुसंजिगमिषति, इति । यस्मादच्छावाकव्यतिरिक्ताः प्रशास्त्रादयो होत्रकाः सहसा गन्तुं शक्नुवन्ति बच्छावाकस्तस्मात्पशास्त्रादयः पुरस्तात्सदः प्रसयुः । अच्छावाकस्तु त्यसप॑त् । लोकेऽपि हि हीनोऽक्तः पश्चैव हि पश्चादेवं हि जिगमिषतीति दिम् । अत्र पुरस्तात्पश्चाछ(शब्दो देशतः कालतश्चेति वेदितव्यो। अच्छावाकीयशस्त्रं प्रशंसति

तस्माद्यो ब्राह्मणो बचो वीर्य वान्स्यात्सोऽस्याच्छावाकीयां कुर्यात्ते नैव साऽहीना भवति ॥ ३६ ॥ इति ।

इन्द्रानी आ गतं०-३-१२-१।

१ क. म. म. व जि।

२६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१० दशमास

यस्मादिन्द्रानी तस्यां तन्वामधिष्ठाय निवसतस्तस्माल्लोके यः कोऽपिका बच ऋग्वेदाध्यायी वीर्यवान्वेदपाठसामर्थ्यातिशयोपेतः स्यात्सोऽस्य मानस्याच्छावाकीयां कुर्यादच्छावाकसंबन्धमैन्द्रामशस्त्रं पठेत् । तेनैव पाने तदीयतनुरहीना व्यवहर्तुं समर्था भवति। ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयसा. ह्मणभाष्ये दशमाध्याये चतुर्थः खण्डः ॥ ४॥ (३६) ६६]

अथाऽऽज्यशस्त्रस्य बहिष्पवमानस्तोत्रोत्तरत्वं प्रउगशस्त्रस्याऽऽज्यस्त चरत्वं विधत्ते

देवरथो वा एष यद्यज्ञस्तस्यैतावन्तरी रश्मी यदाज्यप्रउगे तद्यदाज्येन पवमा नमनुशंसति प्रउगेणाऽऽज्यं देवरथस्यैव

तदन्तरौ रश्मी विहरत्यलोभाय, इति । यो यज्ञोऽस्त्येष देवानां रथ एव तस्य रथरूपस्य रथस्याऽऽज्यं पर यच्छत्रद्वयं तदन्तरौ रश्मी अश्वबन्धनरज्जू रथस्योपर्यवस्थितेन सारा ध्रियमाणत्वात्तयोरभ्यन्तरत्वम् । यस्मादेवं तस्माद्यद्याज्यशस्त्रेण बहिष्पवा मनु पश्चाच्छंसेत्मउगशस्त्रेण चाऽऽज्यस्तोत्रमनुशंसेत्तदानी देवरथस्यैव संव नावभ्यन्तरौ रश्मी प्रग्रहौ विहरति विशेषेण संपादयति । तच्चालोभाय व्य हराहित्याय संपद्यते । रश्मिराहित्ये दुष्टाभ्यामश्वाभ्यां यत्र कापि दुर्गमे रथनयने सति रथभङ्गरूपो व्यामोहः स्यात्तन्मा भूदिति शस्त्रद्वयं क्रमेण क्तव्यम् ।

लौकिकफलपदर्शनेऽत्रैव रश्मिस्थानीयं शस्त्रद्वयं प्रशंसति

तामनु कृति मनुष्यरथस्यैवान्तरौ

रश्मी विहरन्त्यलोभाय, इति । तां कृति देवरथे शस्त्रद्वयरूपरश्मिकरणमनु पश्चान्मनुष्यरथस्यैवान्तरा थिना ग्रहणयोग्यौ रश्मी प्रग्रही विहरन्ति संपादयन्ति । तच्च मनुष्यरयस्ता भाय संपद्यते । अभनो मनुष्यरथो यजमानस्य संभवतीत्यर्थः ।

वेदनं प्रशंसति

१ क. म. दीया त।अमः खण्डः] ऐतरेयब्राह्मणम् । मास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद, इति । हानी स्तोत्रशस्त्रयोर्वैयधिकरण्यरूपं चोधमुद्भावयति

तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं पावमानीषु सामगाः स्तुवत आमेयं होताऽऽज्यं शंसति । कथमस्य पावमान्योऽनुशस्ता भवन्तीति, इति ।

तस्मिन्नाज्यशस्त्रे ब्रह्मवादिन आहुश्चोदयन्ति । यथैव स्तोत्रं सामगैरुक्तं बहुचैः शस्त्रं वक्तव्यं स्तुतमनुशंसतीति विधानात् । अत्र तु सामगा मै गायता नरः पवमानाय [९-११-१] इत्यादिषु पावमानीषु पवमा ताकास्तृक्षु बहिष्पवमानाख्येन स्तोत्रेण स्तुवते । बस्तु होता प्र वो पानय इत्यादिकमाज्यशस्त्रं शंसति । तथा सति कथमस्य होतुः पावमान्य ऽनुशस्ता भवेयुः। न हि पवमानः शस्त्रस्य देवता किं त्वनिरिति चोद्यम् । स्य परिहारमाह

यो वा अग्निः स पवमानः, इति । पमिपवमानदेवतयोः परस्परप्रीत्याऽभेदादानेयमपि सूक्तं पावमानमिति शाक्यते । तेन पावमान्योऽनुशस्ताः संपद्यन्ते । पग्निपवमानयोरेकत्वे कंचिन्मत्रमुदाहरति । तदप्येतदृषिणोक्तमग्निषिः पवमान इति, इति ।

पिरतीन्द्रियद्रष्टा । योऽयमग्निः स एव पवमानो वायुः प्रीत्यतिशयेनै प्रतिभासात् । यद्वा शोधकत्वादगिरेव पवमान इति मन्त्रार्थः । रिहारमुपपाद्य निगमयति । एवमु हास्याऽऽग्नेयीभिरेव प्रतिपद्यमा

नस्य पावमान्योऽनुशस्ता भवन्ति, इति । निदेवताकाभिः सूक्तगताभिर्ऋग्भिः शस्त्र प्रारभमाणस्य होतुर्बहिष्पवमा गिताः पवमानदेवताका ऋचोऽनुशस्ता भवन्ति ।। वितामयुक्तं वैयधिकरण्यं परिहत्य च्छन्दःप्रयुक्तं वैयधिकरण्यरूपं चोधं हुशावयति

तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रं गायत्रीषु

अग्निषिः पवमानः पाञ्चजन्यः०-९-६६-२०।।

२७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१० दशम

सामगाः स्तुवत आनुष्टुभं होताऽऽज्यं शंसति

कथमस्य गायच्योऽनुशस्ता भवन्तीति, इति । बहिष्पवमानस्तोत्रगता उपास्मै गायता [ ९-११-१] इत्याद्या गायत्रीछन्दस्काः प्र वो देवाय [३-१३-१ ] इत्यादिकमाज्यशक्षण न्दस्कमिति वैयधिकरण्यं चोद्यम् ।

तस्य परिहारमाह

संपदेति ब्रूयात, इति । अनुष्टुप्सु गायत्रीत्वे संपादिते सति तया संपदा वैयधिकरण्यपरिहा कूलशंसनं भवतीति परिहारं ब्रूयात् ।

संपादनप्रकारं दर्शयति

सप्तैता अनुष्टुभस्तास्त्रिः प्रथमया त्रिरुत्तमय कादश भवन्ति विराज्याच्या द्वादशी न वा एकेनाक्षरेण च्छन्दांसि वियन्ति न

हाभ्यां ताः षोळश गायत्र्यो भवन्ति, इति । आद्यन्तयोर्कचोस्त्रिरावृत्तौ सत्यां स्वभावतः सप्तानामनुष्टुभामेक संपद्यते । अन इन्द्रश्चेति याज्या विराट्छन्दस्का । सा द्वादश्यनुष्टुबिति नीया । यद्यपि तस्या विराजत्रयस्त्रिंशदक्षरत्वादेकमक्षरमनुष्टुप्त्वादति तथाऽप्यल्पेन वैकल्येन च्छन्दस्त्वं नापतीतिन्यायः पूर्वमप्युदाहृतः । एत द्वादशस्वनुष्टुप्सु द्वादश पादानपनीयावशिष्टैः पादैस्त्रिपदा गायत्र्यो द्वादन दनीयाः । अपनीतैश्च पादैश्वतस्रो गायत्र्य इत्यनेन प्रकारेण षोडशसन गायत्र्य एव संपद्यन्ते।

परिहारं निगमयति

एवमु हास्यानुष्टुभिरेव प्रतिपद्यमा

नस्य गायत्र्योऽनुशस्ता भवन्ति, इति । इदानीमैन्द्रामग्रहस्य याज्यां विधत्ते

अन इन्द्रश्च दाशुषो दुरोण इत्यानेन्द्रया यजति, इति नन्वैन्द्रामग्रहे पूर्वभावित्वमिन्द्रस्य प्रतीयतेऽनेस्तु पश्चाद्भावित्वम्।।

अग्नं इन्द्रश्च दाशुषो०-३-२५-४ ।

२७१

मः खण्डः] ऐतरेयत्रामणम् । ध्यायां तु तद्विपर्ययः कस्माक्रियत इत्याशङ्कयाऽऽह

न वा एताविन्द्रामी सन्तौ व्यजयेतामा ग्नेन्द्रो वा एतौ सन्तो व्यजयेतां तद्य

दानेन्द्रया यजति विजित्या एव, इति । रैः सह देवानां विजययुद्धे सति विजयार्थमिन्द्रस्य पुरोगमनमः निमित्येवं न संपन्नम् । किं त्वग्निः पुरोगत इन्द्रस्तु पश्चाद्गतः । अतो कालीनक्रमेणैवाग्निपूर्वकत्वप्रतिपादिकया यजने सति यजमानस्य विज

पद्यत एव । न्यागतान्यक्षराणि प्रशंसति

सा विराट् त्रयस्त्रिंशदक्षरा भवति त्रयस्त्रिंशदै देवा अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्याः प्रजा पतिश्च वषट्कारश्च तत्प्रथम उक्थमुखे देवता अक्षरभाजः करोत्यक्षरमक्षरमेव तद्देवता अनु प्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति, इति । राणां देवतानां च संख्यासाम्यम् । उक्थमुखे शस्त्राणां मध्ये मुख्ये माज्यशस्त्रे देवताः प्रत्येकमक्षरभाजः करोति तास्तत्तदक्षरमेवानुसृत्य ता सोमं प्रकर्षेण पिबन्ति । तथा सति स्वयोग्येनाक्षररूपेण देवपात्रेणैव वृप्ता भवन्तीति । याज्ययोर्देवताप्रयुक्तं वैयधिकरण्यचोद्यमुद्भावयति–

तदाहुर्यथा वाव शस्त्रमेवं याज्याऽऽग्नेयं होताऽऽ ज्य शंसत्यथ कस्मादाग्नेन्द्रया यजतीति, इति । स्याग्निरेक एव देवता याज्यायास्त्वग्निरिन्द्रश्चेति द्वयोमिलितयोर्देवता. । वैयधिकरण्यम् । य चोयस्य परिहारमाह

या वा आग्नेन्द्रयैन्द्रानी वैसा सेन्द्राममे तदुक्थं ग्रहेण च तूष्णींशंसेन च, इति ।

१ म. ‘त्य दें।

२७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१० दशमा

येयमानेन्द्री याज्या सेयमैन्द्राग्न्यपि भवति । द्वयोः पौर्वापर्यमतिमा तस्या ऋचो द्विदेवत्यत्वसद्भावाद्देवतयोः क्रमविपर्यासमावेशीकने याज्याया ऐन्द्रामत्वमुपचरितं यथा संपद्यते तथैवैतदुक्थमाज्यशस्त्रमपि। तूष्णींशंसद्वारा चन्द्राग्निदेवतासहितं संपवते तथा सत्यैन्द्रामत्वस्योपर याज्याशस्त्रयोः सद्भावान्नास्ति वैयधिकरण्यम् ।।

आज्यशस्त्रस्य ग्रहद्वारकं तूष्णींशंसद्वारकं चैन्द्रानत्वं दर्शयति

इन्द्रामी आगतं सुतं गीर्भिर्नभो वरण्यम् । अस्य पातं धियेषितेयैन्द्राममध्वर्युग्रह गृह्णाति भूरमियॊतिर्योतिरमिरिन्द्रो ज्योति र्भुवो ज्योतिरिन्द्रः सूर्यो ज्योतिज्योतिः स्वः सूर्य इति होता तूष्णींशंसं शंसति

तद्यथैव शस्त्रमेवं याज्या ॥ ३७॥ इति । हे, इन्द्रामी सुतमभिषुतं सोमं प्रत्यागतमागच्छतम् । कीदृशं सुतं । स्तुतिभिर्युक्तमिति शेषः। नभ आकाशस्वरूपमाकाशवन्महदि(हान्तमिल वरेण्यं वरणीयम् । आगत्य च युवां धियेषिता स्वबुद्धया प्रेषितौ सन्त सोमस्य सारं पातं पिबतम् । इत्यनेनन्द्रामदेवताकमत्रेणार्ध्वर्युरेन्द्रा गृह्णाति । तूष्णींशंसे भूरनिरित्यग्निरानात इन्द्रो ज्योतिरितीन्द्रोऽप्यान्ना उभयसद्भावासष्णींशंसोऽप्यन्द्राम ईदृशस्य ग्रहस्य तूष्णींशंसस्य संबन्धार शस्त्रमप्यन्द्रानं भवति । तस्माच्छत्रयाज्ययोरेन्द्रामत्वसंपादनानास्ति वैय रण्यम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये दशमाध्याये पञ्चमः खण्डः॥५॥(३७)[६७)

पूर्वत्र पराङध्वर्यावित्याद्याश्वलायनसूत्रोदाहरणेन होतुर्यो जपो दर्षि मिमं जपं विधत्ते

होतृजपं जपति रेतस्तत्सिञ्चति, इति ।

इन्द्राग्नी आगतं सुतं०-३-१२-१।।

१ क. शंसति । २ ख. स. प भाका ।

छः खण्डः]

ऐतरेयबामणम् ।

२७३ तः कर्तव्यो यो जपस्तमनुतिष्ठेत् । तेन प्रजोत्पादनार्थमादौ रेतः सिक्तं

त्रोच्चारणप्रकारविशेषं विधत्ते

उपांशु जपत्युपांश्विव वै रेतसः सिक्तिः, इति । स्पन्दनमेव परैदृश्यते न तु शब्दः श्रूयते तादृशमुपांशुत्वम् । लौकिके ‘चनेऽपि वनेरश्रवणायुक्तं तथाविधत्वम् । स्य जपस्य शोसावोमित्येतस्मादाहावात्पूर्वभावित्वं विधत्ते- .

पुराऽऽहावाजपति यदै किंचो

व॑माहावाच्छत्रस्यैव तत्, इति । ध्वर्युराहयते येन शोसावोमिति मत्रेण तस्मात्पूर्वभावी होजपः । तथा चलायनेनोदाहृतम्-‘जपित्वाऽनभिहिंकृत्य शोसावोमित्युच्चैराहूय’ आहावादूर्व यत्किचित्पश्यते तत्सर्व शस्त्रस्यैव संबन्धि भवेत् । आहा म शस्त्रानुज्ञानस्य पृष्टत्वात् । अतो होतृजपस्य शस्त्रान्तर्भावं निवारयितुं लीनत्वम् । थाऽऽहावे प्रकारविशेषं विधत्ते

पराञ्चं चतुष्पद्यासीनमभ्याह्वयते तस्मात्प

राञ्चो भूत्वा चतुष्पादो रेतः सिञ्चन्ति, इति । स्मिन्कालेऽध्वर्युः पराभवति होतुर्विमुखो भवति। तथा चतुष्पदी गौरिष भूमाववस्थाप्याऽऽसीनो भवति । तादृशमध्वर्यु संबोध्याभिमुखो यथा तथा होता शोसावोमिति मत्रेणाऽऽवयते । यस्मादाबानकाल ईशोs तस्माल्लोकेऽपि चतुष्पादो गवादयः पराञ्चः संभोगावस्थायां परस्परा

रहिता भूत्वा रेतः सिञ्चन्ति । हावादूर्ध्वमध्वर्योश्चतुष्पात्वं परित्यज्य सम्यगुत्थानं विधत्ते

सम्यद्दिपाद्भवति तस्मात्सम्यञ्चो

भूत्वा दिपादो रेतः सिञ्चन्ति, इति । मत्वनात्थानं सम्यक्त्वं तथाविधा भूत्वा रेत: सिञ्चन्ति । जपितव्यो स्तस्याऽऽदौ सुमत्पदग्द इति पञ्चाक्षराणि पठितव्यानि । तानि च पूर्व एपक्तिमशंसायां विहितानि ।

३५

२७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१० दशमा तेभ्य ऊर्ध्वं यो जपितव्यो मत्रस्तस्य प्रथमभागमनूध ब्याचष्टे

पिता मातरिश्वेत्याह प्राणो वै पिता प्राणो

मातरिश्वा प्राणो रेतो रेतस्तसिञ्चति, इति । तस्मिन्मन्ने यजमानस्य नूतनं जन्म संपाद्यते । अतोऽत्र मातरिश्वा पितृत्वेन वर्ण्यते । तमिमं पितेत्यादिकं मनं होता ब्रूयात् । प्राण एव पिता मृतात्पितृदेहाजन्मासंभवात् । वायुश्च प्राणः प्राणस्य वायुकार्य रेतश्च प्राणः प्राणयुक्तस्यैव रेतसो जननहेतुत्वात् । अत एवाऽऽरण्यके नास्यते-‘यद्वा ऋते प्राणाद्रेतः सिच्येत पूयेन संभवेत्’ इति । तत्तेन मभागपाठेन यजमानपुनर्जन्मार्थ रेतः सिक्तं भवति ।

द्वितीयभागमनूय व्याचष्टे

अच्छिद्रा पदाऽधा इ(दिति रेतो वा

अच्छिद्रमतो ह्यच्छिद्रः संभवति, इति । स वायुरूपः पिता छिद्ररहितं पदं प्रापणीयं रेतोऽधा गद) स्थापितवान् । अत्रोक्तमच्छिद्रं वस्तु रेत एव । अतो हि रेतसः पुमान उत्पद्यते।

तृतीयभागमनूय व्याचष्टे

अच्छिद्रोक्था कवयः शंसनिति ये वा अनूचानास्ते कवयस्त इदमच्छिद्रं

रेतः प्रजनयनित्येव तदाह, इति । कवयः पुरुषा अच्छिद्रोक्था शंसंश्छिद्ररहितमुक्थं शस्त्रं शंसन्ति । कविशब्देनानूचानाः षडङ्गसहितवेदाध्यायिन उच्यन्ते । ते चेदमाच्छ मजनयनुत्पादयन्तीत्यनेनैव प्रकारेण तदच्छिद्रोक्थेति वाक्यमाह ब्रूते ।

चतुर्थभागमनूध व्याचष्टे

सोमो विश्ववित्रीथा निनेषबृहस्पतिरुक्थामदानि शंसिषदिति ब्रह्म वै बृहस्पतिः क्षत्रं सोम स्तुतश

त्राणि नीथानि चोक्थामदानि च देवेन चैवेतद्भः

१ स. संपर्य । २ अ. नायते। ३ क. म. ‘बोक्थं शं । स. ‘बोक्याः ।।..

२७५

छः खण्डः]]

ऐतरेयबामणम् । ह्मणा प्रमूतो देवेन च क्षत्रेणोक्थानि शंसति, इति।।

सर्वतः सोमो नीथानि नेतव्यान्यनुष्ठेयानि स्तोत्रशस्त्राणि निमेष छां कृतवान्प्रयुक्तवानित्यर्थः। तथा बृहस्पतिरुक्थामदानि शस्त्ररूपाणि मरणानि शंसिपच्छंसितुमिच्छति शस्तवानित्यर्थः । अस्मिन्भागे बह सोमशब्दाभ्यां ब्राह्मणक्षत्रियजातिद्वयं दैवं विवक्षितम् । नीथशब्देनो. दशदेन च स्तोत्रशस्त्राणि विवक्षितानि । अत एवैतद्भागपाते सति देव धना ब्राह्मणेन क्षत्रियेण च मेरितः शस्त्राणि शंसति ।

मबृहस्पत्योः सर्वकर्मप्रेरकत्वप्रसिद्धिं दर्शयति

एतौ ह वा अस्य सर्वस्य प्रस

वस्येशाते यदिदं किंच, इति । ब्लेऽनुष्ठेयं यत्किचिदस्त्यस्य सर्वस्य प्रसवो यत्प्रेरणं तस्य सोमबृहस्पती वामिनौ। तिरेकमुखेनै(0)तदेव द्रढयति

तबदेताभ्यामप्रसूतः करीत्यकृतं तद

कृतमकरिति वै निन्दन्ति, इति । तथा द्वयोः प्रेरणस्वामित्वे सति यदङ्गमताभ्यामप्रेरितः करोति तदाय । भवति । लोकेऽपि स्वाम्यनुज्ञामन्तरेण यत्क्रियते तत्तत्राकृतमकरक कृतवानिति जना निन्दन्ति । हनं प्रशंसति

कृतमस्य कृतं भवति नास्या

कृतं कृतं भवति य एवं वेद, इति । स्य वेदितुः कृतं कर्तव्यमेव कृतं भवति न त्वकृतमकर्तव्यं कृतं भवति । बमभागमनूय व्याचष्टे

वागायुर्विश्वायुर्विश्वमायुरियाह प्राणो वा आयुः प्राणो रेतो वाग्योनि

योनि तदुपसंधाय रेतः सिञ्चति, इति । वीगिन्द्रियरूपा यदप्यायर्जीवनं तदभयमस्त्विति शेषः। न चात्राss. क्षित किंतु विश्वायुविश्वं समस्तं शतसंवत्सरपरिमितमायुर्विवक्षितं.

२७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१० दशमा तस्माद्विश्वमायुर्यजमानः प्रामोत्वित्यध्याहारः। तमिमं भागं पठेत् । अर युःशब्देन प्राण एव विवक्ष्यते । यावद्ध्यस्मिञ्शरीरे प्राणो वसति तार रिति श्रुतेः । रेतसः प्राणत्वं पूर्वमेवोदाहृतम् । वाक्शब्देन योनिरुपलभर तथा सति तद्भागपाठेन योनिमुपसंधाय गर्भस्थानमभिलक्ष्य रेत: सिञ्चति

षष्ठं भागमनूध व्याचष्टे

क इदं शंसिष्यति स इदं शंसिष्यती स्याह प्रजापति कः प्रजापतिः प्रजन

यिष्यतीत्येव तदाह ॥ ३८॥ इति । कः प्रजापतिरिदं शस्त्रं शंसिष्यति शंसितुमिच्छत्यतः स एवेदं शंसि तमिममन्तिमभागं ब्रूयात् । अत्र कशब्देन प्रजापति(ते)रुक्तत्वात्स एव य नमुत्पादयिष्यतीत्यनेनैव प्रकारेण तन्मत्रवाक्यं ब्रूते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा

ह्मणभाष्ये दशमाध्याये षष्ठः खण्डः ॥६॥ (३८) [६८]

आहावात्पूर्वकालीनं जपमुक्त्वोत्तरकालीनं तूष्णींशंसं विधत्ते

आहय तूष्णींशंसं शंसति रेतस्तत्सितं विक

रोति सिक्तिर्वा अग्रेऽथ विकृतिः, इति । शोसावोमिति मन्त्रेणाध्वर्युमुपह्य पश्चात्तूष्णींशंसं पठेत् । तथा सति जपेन सिक्तं रेतोऽनेन विकरोति पिण्डाद्याकारविकारं रेतसि जनयति । पूर्वभावी विकारः पश्चाद्भावीति युक्तोऽयं क्रमः।

शंसनकाले ध्वनिराहित्यं विधत्ते

उपांशु तूष्णींशंसं शंसत्युपां

विव वै रेतसः सिक्तिः, इति । परैर्वनेरश्रवणादपठितसदृशं भवतीत्यस्य तष्णींशंस इति नामधेयम् । तदनुसारेणोपांशूचारयेत् । रतःसेकोऽप्युपांशुसदृशो रहसि क्रियमाणत्वाद

उपांशुत्वेन होतृजपसाम्यपसक्तौ वैषम्यं विधत्ते

तिर इव तूष्णींशंसं शंसति तिर इव वै रेतांसि विक्रियन्ते, इति ।

सप्तमः खण्डः]

ऐतरेयब्राह्मणम् ।

२७७ या कड्यगृहादिव्यवहितमन्यैरधीयमानं वाक्यमीपत्मतीयते न तु स्पष्ट मणीशंसोऽप्यस्पष्टो यथा भवति तथा शंसेत् । तदिदं तिर श्वेत्युच्यते ।

जपादीषदुच्चरित्यर्थः। सूष्णीशंसस्येयत्तां विधत्ते

षट्पदं तूष्णींशंसं शंसति षविधो वै पुरुषः षळङ्ग

आत्मानमेव तत्पविधं पळङ्गं विकरोति, इति । पदपदं षड्भागम् । भूरग्निोतिरित्येको भागो ज्योतिरनिरिति द्वितीयो Tः । एवमुत्तरत्रापि द्रष्टव्यम् । तथाविधशंसने पुरुषसाम्यं भवति । पुरुषस्य यत्वमेव पळङ्ग इत्यनेन स्पष्टी क्रियते । पुरुषावयवषदकं शाखान्तरे दर्शि -‘पोढा विहितो वै पुरुष आत्मा च शिरश्चत्वार्यानि’ इति । द्वौ हस्तौ पादावित्यङ्गचतुष्टयम् । आत्मशब्दो मध्यदेहवाची । भागत्रयोपेते तूष्णींशंसे द्भागमध्येष्ववसाने षड्भागत्वं भवति। आश्वलायन आह-‘भूरनियोति तिरन्नों इ(ग्रोमि)न्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रों सूर्यो ज्योतिर्योतिः स्वः मिति त्रिपदस्तूष्णींशंसो यधु वै षट्पदः पूर्वैर्योतिःशब्दरग्नेऽवस्येत्’ इति । : षट्पदे तूष्णींशंसेन यजमानस्य शरीरमेव षडङ्गोपेतं कृत्वा विकरोति । एतदनन्तरं निविदो विधत्ते

तूष्णींशंसं शस्त्वा पुरोरुचं शंसति रेतस्तदि

कृतं प्रजनयति विकृतिर्वा अग्रेऽथ जातिः, इति । म वो देवायेत्यांदिसूक्तात्पुरतो दीप्यते रोचत इति पुरोरुक्शब्देन निविदु. ते । तां तूष्णींशंसादूर्ध्व पठेत् । तेनोर्ध्वपाठेन षडङ्गतया विकृतं रेतः शरी पणोत्पादितं भवति । विकारः पूर्वभावी जन्म पश्चाद्भावि । तस्मात्तदानन्तर्य वेदो युक्तम् । होनृजपगतं यदुपांशुत्वं तूष्णींशंसगतं च यदीपवुच्चध्वनित्वं तस्मादुभयस्मा

लण्यं निविदो वियत्ते

उच्चैः पुरोरुचं शंसत्युच्चैरेवैनं तत्प्रजनयति, इति । उत्पादनकाले प्रसववेदनया तन्मातोचैर्ध्वनि करोति । तदिदमुच्चैः प्रजनय

पुच्यते ।

निविदां न्यूनाधिकभागशङ्काव्युदासाय संख्यां विधत्ते

१३. श्च चत्वा । २ ख. त्यादेः सू । श. ‘याज्यसूक्तादेः पुर।

२७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१० दशमाध्याके तस्माद्विश्वमायुर्यजमानः प्रामोत्वित्यध्याहारः। तमिमं भागं पठेत । असार युःशब्देन प्राण एव विवक्ष्यते । यावद्ध्यस्मिञ्शरीरे प्राणो वसति ताव रिति श्रुतेः । रेतसः प्राणत्वं पूर्वमेवोदाहृतम् । वाक्शब्देन योनिरुपलभ्यते तथा सति तद्भागपाठेन योनिमुपसंधाय गर्भस्थानमभिलक्ष्य रेतः सिञ्चति ।

षष्ठं भागमनूध व्याचष्टे

क इदं शंसिष्यति स इदं शंसिष्यती याह प्रजापतिः कः प्रजापतिः प्रजन

यिष्यतीत्येव तदाह ॥ ३८॥ इति । का प्रजापतिरिदं शस्त्रं शंसिष्यति शंसितुमिच्छत्यतः स एवेदं शंसिष्यति तमिममन्तिमभागं ब्रूयात् । अत्र कशब्दन प्रजापति(ते)रुक्तत्वात्स एव यजमा नमुत्पादयिष्यतीत्यनेनैव प्रकारेण तन्मत्रवाक्यं ब्रूते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा

ह्मणभाष्ये दशमाध्याये षष्ठः खण्डः॥६॥ (३८)[६८]

आहावापूर्वकालीनं जपमुक्त्वोत्तरकालीनं तूष्णींशंसं विधत्ते

आहूय तूष्णींशंसं शंसति रेतस्तत्सितं विक

रोति सिक्तिर्वा अग्रेऽथ विकृतिः, इति । शोसावोमिति मन्त्रेणाध्वर्यमुपह्रय पश्चात्तूष्णींशंसं पठेत् । तथा सति होत जपेन सिक्तं रेतोऽनेन विकरोति पिण्डाद्याकारविकारं रेतसि जनयति । सेक पूर्वभावी विकारः पश्चाद्भावीति युक्तोऽयं क्रमः।

शंसनकाले ध्वनिराहित्यं विधत्ते

. उपांशु तूष्णींशंसं शंसत्युपां

श्विव वै रेतसः सिक्तिः, इति । परैर्वनेरश्रवणादपटितसदृशं भवतीत्यस्य तूष्णींशंस इति नामधेयम् । तस्म तदनुसारेणोपांशूच्चारयेत् । रतःसेकोऽप्युपांशुसदृशो रहसि क्रियमाणत्वात् ।

उपांशुत्वेन होतृजपसाम्यप्रसक्तौ वैषम्यं विधत्ते

तिर इव तूष्णींशंसं शंसति तिर इव वै रेतांसि विक्रियन्ते, इति ।सप्तमः खण्डः]

२७७

ऐतरेयब्राह्मणम् । या कड्यगृहादिव्यवहितमन्यैरधीयमानं वाक्यमीषत्प्रतीयते न तु स्पष्ट सणीशंसोऽप्यस्पष्टो यथा भवति तथा शंसेत् । तदिदं तिर इवेत्युच्यते ।

तृजपादीषदुचरित्यर्थः। सूष्णीशंसस्येयत्तां विधत्ते

षट्पदं तूष्णींशंसं शंसति षड्विधो वै पुरुषः पळा

आत्मानमेव तत्पइविध पळझं विकरोति, इति । पदपदं षड्भागम् । भूरग्निोतिरित्येको भागो ज्योतिरमिरिति द्वितीयो जागः । एवमुत्तरत्रापि द्रष्टव्यम् । तथाविधशंसने पुरुषसाम्यं भवति । पुरुषस्य धित्वमेव पळङ्ग इत्यनेन स्पष्टी क्रियते । पुरुषावयवषदकं शाखान्तरे दर्शि म-‘षोढा विहितो वै पुरुष आत्मा च शिरश्चत्वार्यङ्गानि’ इति । द्वौ हस्ती जो पादावित्यङ्गचतुष्टयम् । आत्मशब्दो मध्यदेहवाची । भागत्रयोपेते तूष्णींशंसे तद्भागमध्येष्ववसाने षड्भागत्वं भवति। आश्वलायन आह-‘भूरग्निज्योति पर्योतिरनों इ(मोमि)न्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रों सूर्यों ज्योतिज्योतिः स्वः योंमिति त्रिपदस्तूष्णींशंसो यधु वै षट्पदः पूर्वैयोतिःशब्दैरनेऽवस्येत्’ इति । पतः षट्पदे तूष्णींशंसेन यजमानस्य शरीरमेव षडङ्गोपेतं कृत्वा विकरोति ।

एतदनन्तरं निविदो विधत्ते

तूष्णींशंसं शस्त्वा पुरोरुचं शंसति रेतस्तदि

कृतं प्रजनयति विकृतिर्वा अग्रेऽथ जातिः, इति । म वो देवायेत्यांदिसूक्तात्पुरतो दीप्यते रोचत इति पुरोरुक्शब्देन निविदु. यते । तां तूष्णींशंसादूर्व पठेत् । तेनोर्ध्वपाठेन षडङ्गतया विकृतं रेतः शरी रूपेणोत्पादितं भवति । विकारः पूर्वभावी जन्म पश्चाद्भावि । तस्मात्चदानन्तर्य

U

नेविदो युक्तम् ।

होतृजपगतं यदुपांशुत्वं तूष्णींशंसगतं च यदीषदुच्चध्वनित्वं तस्मादुभयस्मा लक्षण्यं निविदो विधत्ते

उच्चैः पुरोरुचं शंसत्युच्चैरेवैनं तत्प्रजनयति, इति । उत्पादनकाले प्रसववेदनया तन्मातोचैर्ध्वनि करोति । तदिदमुच्चैः प्रजनय

त्युिच्यते ।

निविदां न्यूनाधिकभागशङ्काव्युदासाय संख्यां विधत्ते

१२. श्च चत्वा । २ ख. “त्यादेः सू । म. ‘साज्यसूफादेः पुर।

२७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१० दशमाथ्यावे

द्वादशपदां पुरोरुचं शंसति द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः सोऽस्य सर्वस्य प्रजनयिता स योऽस्य सर्वस्य प्रजनयिता स

एवैनं तत्प्रजया पशुभिः प्रजनयति प्रजायै, इति । निविदो द्वादश भागाः पूर्वमेव तद्याख्याने विवेचिताः। अतो माससंख्या साम्यान्माससंवत्सरद्वारा सर्वस्य जगत उत्पादकत्वेन प्रसिद्धः प्रजापतिरेर पुरोरुग्भवति । तादृश्याः पाठे सति प्रसिद्धः सर्वस्योत्पादको यः प्रजापति रस्ति स एवैनं यजमानं प्रजापशुसहितं प्रजनयति । तस्मादेतच्छंसनं प्रजात संपद्यते।

वेदनं प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद, इति । देवताद्वारा पुरोरुचं प्रशंसति

जातवेदस्यां पुरोरुचं शंसति जातवेदोन्यनाम्, इति । जातवेदा देवता यस्याः पुरोरुचः सा जातवेदस्या । जातवेदःशब्दरू न्यङ्गं नितरामङ्ग चिह्न यस्याः पुरोरुचः सा जातवेदोन्यङ्गा तस्याः पुरोरुचोड न्तिमे भागे सो अध्वरा करति जातवेदा इति जातवेदःशब्दः पठ्यते ।

उक्तमर्थमाक्षिपति तदाहुर्यत्तृतीयसवनमेव जातवेदस आयतनमथ कस्मा स्मातःसवने जातवेदस्यां पुरोरुचं शंसतीति, इति ।

तृतीयसवनस्य जातवेदसं प्रत्यायतनत्वमानिमारुतशस्त्रे देवत्वादवगन्त व्यम् । तथा च संप्रदायविद आहुः-“जातवेदास्तु देवोऽयं वर्तते आग्निमा रुते” इति । यस्मादेवं तस्मात्मातःसवने जातवेदस्यायाः शंसने कारणं नास्ता त्साक्षेपं तद्वादिन आहुः।

तस्य परिहारं दर्शयति

प्राणो वै जातवेदाः स हि जातानां वेद यावतां वै स जातानां वेद ते भवन्ति येषामु ,

१ ख. स. रा पुरा ।

अष्टमः खण्डः] ऐतरेयब्राह्मणम् ।

२७९ न वेद किमु ते स्युर्यो वा आज्य आत्म

संस्कृतिं वेद तत्सुविदितम् ॥ ३९ ॥ इति । अत्र जातवेदःशब्देन प्राण एवाभिधीयते न त्वग्निः। अत एवान्तिमभाग. ख्याने वायुर्वै जातवेदा इत्याम्नातम् । यस्मात्स प्राणो जातानामुत्पनानां राणां स्वरूपं वेद जानाति लभत इत्यर्थः । तस्मात्माणस्य जातवेदा इति धेयम् । एवं सति प्राणो यावतामुत्पन्नानां शरीराणां स्वरूपं वेद लभते ते " भवन्ति सत्तां भजन्ते । येषां तु देहानां स्वरूपं प्राणो न वेद न लभते ते : किमु स्युः किमु विद्यमानतां भजेयुनं भजेयुरित्यर्थः । एवं सति जातवे. मकस्य प्राणस्य प्रतिपादिकायाः पुरोरुचोऽन्तःपाठे यजमानो लब्धप्राणः वद्यमानो भवति । अन्यथाऽयमसत्कल्पः स्यात् । एवमुक्तमकारेण यो पान आज्यशस्त्रे पुनर्जन्मस्वरूपां संस्कृति वेद तत्तस्य यजमानस्य सुवि सम्यग्ज्ञानमुत्पन्नम् । अनेन होतनपमित्यारभ्य प्रोक्ते प्रघट्टकेऽवस्थित र्थवादस्य सर्वस्याप्युपसंहारो जातः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये दशमाध्याये सप्तमः खण्डः ॥७॥ (३९) [६९]

अथ सूक्तगतां प्रथमामृचं विधत्ते

प्रवो देवायागय इति शंसति प्राणो वै प्र पाणं हीमानि सर्वाणि भूतान्यनु प्रयन्ति

प्राणमेव तत्संभावयति प्राणं संस्कुरुते, इति । अस्याः प्रथमाया ऋच आदौ प्रतिशब्दः श्रूयते स प्राणस्वरूपः । नान्न क्षिरसाम्यात् । हि यस्मात्कारणात्सर्वाणीमानि भूतानि जीवजातानि मनु भयन्ति । माणः प्रथमतो गच्छति तमनु पश्चादेहाः प्रयन्ति प्राणप्रेरणा दहानां चलनात् । तत्तथा सति प्रशब्दप्रयुक्ताया ऋचः शंसनेन पाणं वियति संभावितं पूजितं करोति । अनया पूजया प्राणः संस्कृतः सन्स्व पारसमर्थो भवति । तस्मात्म वो देवायेत्येषा शंसनीया।

प्रवो देवाया०-३-१३-१ ।

१ क. स. °चोऽन्तपा।

२८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१० दशमाध्या

द्वितीयामृचं विधत्ते

दीदिवांसमपूर्व्यमिति शंसति मनो वै दीदाय मनसो हि न किंचन पूर्वमस्ति मन

एव तत्संभावयति मनः संस्कुरुते, इति । यद्यप्यध्ययनक्रमेणेयमृक्पञ्चमी तथाऽपि द्वितीयात्वेन प्रयोक्तव्या। बाप णक्रमस्यानुष्ठानार्थत्वात् । दीदिवांसं दीप्तियुक्तमपूर्व्यमस्मादन्येन पूर्वेण रहित मित्येताभ्यां मत्रपदाभ्यां मनोऽभिधीयते । तच्च मनः सर्वार्थप्रकाशकत्वाहीवार दीप्तियुक्तं भवति । तथा मनसोऽपि न किंचिदपीन्द्रियं व्यापारवनास्ति मनस संकल्पितेष्वर्थेषु पश्चाद्वागादीन्द्रियाणां व्याप्रियमाणत्वात् । अत एवारण्यकार्य वक्ष्यति-‘मनसा वाऽग्रे संकल्पयत्यथ वाचा व्याहरति’ इति । अतो दीदि वांसमपूर्व्यमिति पदद्वयार्थस्य मनसि विद्यमानत्वात्तच्छंसनेन मनसः संभाव नासंस्कारौ संपद्यते । अत्राध्ययनक्रमादन्यमनुष्ठानक्रममभिप्रेत्याऽऽश्वलाय

आह–‘अनुब्राह्मणं वाऽऽनुपूर्व्यम्’ इति ।

अध्ययनक्रमेण चतुर्थीमनुष्ठानाय तृतीयात्वेन विधत्ते

स नः शर्माणि वीतय इति शंसति वाग्वै शर्म तस्मादाचाऽनुवदन्तमाह शर्मवदास्मा आयांसीति वाचमेव तत्संभावयति वाचं संस्कुरुते, इति । सोऽग्निर्नोऽस्माकं वीतये कामाय शर्माणि सुखानि यच्छत्विति मत्रपाद स्यार्थः । अत्र शर्मशब्देन वागेव विवक्षिता । यस्मादेवं तस्माल्लोके स्वगुरु क्तमर्थ स्ववाचा सम्यगनुवदन्तं पुरुषमितरः प्रामाणिक एवमाह । अस्में गुरू तार्थस्य सम्यगनुवादिने शिष्याय शर्मवत्सुखयुक्तं जीवनं संपन्नं यस्मात्तस्माद शिष्याऽऽयांसि समन्ततो नियतोऽस्मि । आर्वस्य ‘यम उपरमे’ इत्यस धातोश्छान्दसं रूपम् । आस्मा इत्याकारश्च च्छान्दसः । इत्येवं वानियान तस्य सुखस्य लौकिकेनोच्यमानत्वान्मत्रोक्तशर्मशब्देन वाग्विवक्षोपपन्ना तन्मत्रपाठेन वाचः संभावनासंस्कारौ भवतः ।।

अध्ययनक्रमेण षष्ठीमचमनुष्ठानाय चतुर्थीत्वेन विधत्ते

दीदिवांसमपूज्यं०-३-१३-५ । स नः शर्माणि वीतये०-३-१३-४ ।

१ ग. ङ. छ. स्मा अयो।

"

अष्टमः खण्डः] ऐतरेयब्राह्मणम् ।

२८१ उत नो ब्रह्मनविष इति शंसति श्रोत्रं वै ब्रह्म श्रोत्रेण हि ब्रह्म शृणोति श्रोत्रे ब्रह्म प्रतिष्ठितं

श्रोत्रमेव तत्संभावयति श्रोत्रं संस्कुरुते, इति । जतापि च हे ब्रह्मन्देवेषु ब्राह्मणरूपाने नोऽस्मानविषो रक्षसि । अस्मि ब्रह्मशब्देन श्रोत्रमुपलक्ष्य श्रोत्रेण हि ब्रह्म वेदं पुरुषः शृणोति । श्रोत्रेs. तं ब्रह्म वेदवाक्यं प्रतिष्ठितं कदाचिदप्यविस्मृतं भवति । तस्मात्तन्मत्र न श्रोत्रस्य संभावनासंस्कारौ भवतः । अध्ययनक्रमेण तृतीयामृचमनुष्ठानाय पञ्चमीत्वेन विधत्ते

स यन्ता विप्र एषामिति शंसत्यपानो वै यन्ताऽपानेन ह्ययं यतः प्राणो न पराङ्भव

त्यपानमेव तत्संभावयत्यपानं संस्कुरुते, इति । सोऽग्निविप्रो देवेषु ब्राह्मणः सन्नेषां मनुष्यविप्राणां यन्ता नियमनकर्ता । मन्मने यन्तृशब्देनापानवायुरुपलक्ष्यते । निःश्वासरूपेणापानेन यतो निय.

प्राणवायुः पराभवति परं बाह्यं दूरदेशमञ्चति गच्छतीति पराड् । यद्ययं मुंख उच्छासरूपः प्राणवायुरपानवायुनान नियम्येत तदा बहिरेव गच्छेन नवर्तेत । ततः पुरुषो म्रियेतातोऽपानस्य नियन्तखं युक्तम् । एतन्मवपाठे निवायोः संभावनासंस्कारौ भवतः। अध्ययनक्रमेण द्वितीयामृचं षष्ठीत्वेनानुष्ठानाय विधत्ते

ऋतावा यस्य रोदसी इति शंसति चक्षुर्वा ऋतं तस्माद्यतरो विवदमानयोराहाहमनुष्ट्या चक्षुषाऽदर्शमिति तस्य श्रद्दधति चक्षु

व तत्संभावयति चक्षुः संस्कुरुते, इति । दिसी द्यावापृथिव्यौ यस्याग्नेर्जतावा सत्यवत्यौ । अस्मिन्मवगतऋत. न चक्षुरुपलक्ष्यते । यस्मादेवं तस्माल्लोके विवदमानयोः पुरुषयोर्मध्ये ‘पुमानेवमाह । कथमिति तदुच्यते । अहमनुष्ठयाऽनुष्ठित्या प्रयत्नेन चक्षु

1ना ब्रह्म०-३-१३-६ । स यन्ता विप्र०-३-१३-३ । ऋतावा

०-३-१३-२।

२८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१० दशमाध्यादे षाऽदर्श दृष्टवानस्मीति । तस्य श्रद्दधति तदीयवचनं सर्वे विश्वसन्ति । चूतवृक्षे फलमस्ति न वेति निश्चेतुं राजा द्वौ पुरुषौ प्रेषयति तयोरलसः दापाततो दृष्ट्वा नास्तीति ब्रूते । अपरस्तु तत्र प्रयत्नेन दृष्ट्वा यत्र कापियार नाऽऽच्छन्नं फलं सम्यग्दृष्टवानस्मीति ब्रूते । तस्य वचने सर्वेषां विचार जायते । तस्मात्सम्यग्दर्शिनश्चक्षुष ऋतत्वं युक्तम् । एतन्मत्रपाठेन चक्षा संभावनासंस्कारौ भवतः।

अध्ययनक्रमेणानुष्ठानक्रमेण च सप्तम्या शस्त्रसमाप्ति विधत्ते

नू नो रास्व सहस्रवत्तोकवत्पुष्टिमहस्वित्यु समया परिदधात्यात्मा वै समस्तः सहस्र वांस्तोकवान्पुष्टिमानात्मानमेव तत्समस्तं

संभावयत्यात्मानं समस्तं संस्कुरुते, इति । यद्वसु धनं सहस्रवत्सहस्रसंख्योपेतं तोकवदपत्योपेतं पुष्टिमत्समृद्धिात मस्ति तादृशं धनं नोऽस्मभ्यं नु क्षिप्रमेव रास्व हेऽग्ने देहि । अनयाऽन्तिा याऽऽज्यशस्त्रं समापयेत् । अत्र समस्तः पूर्वोक्तः प्राणमनोवागादिभिः सरि न्द्रियैः संपूर्ण आत्मा वै पुरुष एव सहस्रसंख्योपेतधनयुक्तो बहुभिरपत्यै पेतः समृद्धियुक्तश्च विवक्षितः । अतस्तत्पाठेन तादृशस्य पुरुषस्यैव संभावन संस्कारौ भवतः।

शस्त्रस्यान्ते याज्यां विधत्ते

याज्यया यजति प्रत्तिर्वै याज्या पुण्यैव लक्ष्मीः पुण्यामेव तल्लक्ष्मी संभा

वयति पुण्यां लक्ष्मी संस्कुरुते, इति । अग्न इन्द्रधेति येयं याज्या पूर्वमुक्ता तया यजति यागार्थ याज्यां पठेत् याज्या च प्रत्ति प्रदानरूपैव । तथाच हविष आदानप्रदाने क्रमेण पुर नुवाक्यायाज्याधीने श्रुत्यन्तरे श्रूयेते-‘पुरोनुवाक्ययाऽऽदत्ते प्रयच्छ याज्यया’ इति । अतः प्रदानरूपत्वादियं पुण्यैव लक्ष्मीः । शास्त्रीयत्वा

नू नो रास्व०-३-१३-७ ।

१ ख. ‘त्र तत्र प्र।

नवमः खण्डः] ऐतरेयबामणम् ।

२०६ । फलस्य लब्धिहेतुत्वाल्लक्षणस्य दर्शनहेतुत्वाद्वा लक्ष्मीत्वम् । अतो यापाठेन पुण्याया एव लक्ष्म्याः संभावनासंस्कारौ भवतः। उक्तक्रमेणानुष्ठातृवेदित्रोः फलं दर्शयति

स एवं विहांश्छन्दोमयो देवतामयो ब्रह्ममयोऽ __ मृतमयः संभूय देवता अप्येति य एवं वेद, इति । एवं विद्वानित्यत्रानुतिष्ठनित्यध्याहार्यम् । वेदनपूर्वकोऽनुष्ठाता गायत्र्यादि उन्नास्वरूपो वह्नयादिदेवतास्वरूप ऋगादिवेदस्वरूपो मरणरहितो मोक्ष वरूपः सन्संभूय सर्व जगदेकीकृत्य सर्वा देवताः प्रामोति । तदेतदनुष्ठातुः लम । य एवं वेदेत्यत्रापि विदुषः फलत्वेन च्छन्दोमयत्वादिकमावर्तनीयम् । थवा य एवं वेदेत्युक्तस्यैव स एवं विद्वानित्यनूद्यमानत्वानेदं वाक्यमाव नीयम् ।

वेदनमात्रस्य कथमीदृशं फलमित्याशङ्कय सुवेदनत्वाद्युक्तं फलमित्येतदर्श ति

यो वै तदेद यथा छन्दोमयो देव तामयो ब्रह्ममयोऽमृतमयः संभूय

देवता अप्येति तत्सुविदितम् , इति । येन प्रकारेण च्छन्दःप्राप्त्यादिपूर्वकं सर्वदेवताप्राप्तिर्भवति तत्तादृशं प्रकार वेद तद्वेदनं सुविदितं शोभनज्ञानं तस्मायुक्तं फलमित्यर्थः । उक्तवक्ष्यमाणयोः शङ्कापरिहाराय विभागं दर्शयति

इयध्यात्ममथाधिदैवतम् ॥ ४०॥ इति । आत्मानं शरीरमधिकृत्य वर्तत इत्यध्यात्मम । अस्मिन्खण्डे शरीररूपत्वेन शंसनमाज्यशस्त्रस्योक्तम् । उत्तरखण्डे त्वधिदैवतं देवताविषयमाज्यशत्रपशं

नमुच्यते ॥

इति श्रीमत्सायणाचार्यविरचिव माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

भाष्ये दशमाध्यायेऽष्टमः खण्डः ॥८॥ (४०)[७०]

पूक्तिक्रमेणैव देवताविषयशस्त्रमशंसनं विवक्षित्वा प्रथमं भूरनिरित्यस्य

शंसां दर्शयति

षट्पदं तूष्णींशंसं शंसति षड्वा ऋतव ऋतू

२८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१० दशमाध्याने

नेव तत्कल्पयत्यूतूनप्येति, इति । भूरनिरित्यादीनां भागानां षट्संख्यासाम्यादृतुत्वे सति तत्पाठेन क स्वभोगप्रदानसमर्थान्करोति । तत ऋतून्देवान्यानोति ।

निविदः प्रशंसां दर्शयति

द्वादशपदां पुरोरुचं शंसति द्वादश वै मासा

मासानेव तत्कल्पयति मासानप्यति, इति । निविदा पाठेन मधुमाधवादीन्मासान्स्वात्मभोगाय संपादयति मामोतिर सूक्तपथमामृचं प्रशंसति

प्र वो देवायामय इति शंसत्यन्तरिक्षं वै प्रान्त रिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्त्यन्त

रिक्षमेव तत्कल्पयत्यन्तरिक्षमप्येति , इति । सर्वे प्राणिनोऽन्तरिक्षमनुसृत्य तिष्ठन्ति तस्मिनवकाशे प्रकृष्टगमनादन्ती क्षस्य प्रशब्दवाच्यत्वम् ।

अनुष्ठानक्रमेण द्वितीयामृचं प्रशंसति

दीदिवांसमपूर्व्यमिति शंसत्यसौ वै दीदाय योऽसौ तपत्येतस्माद्धि न किंचन पूर्वम

स्त्येतमेव तत्कल्पयत्येतमप्येति , इति । योऽसावादित्यस्तपति जगति संतापं करोत्यसौ वै दीदाय दीप्यते । तस्य दयात्पूर्वमन्धकारे किमपि प्राणिजातं स्वव्यापारकर्तृ नास्ति । तस्मादा त्यस्य दीदिवांसमपूर्व्यमितिपदद्वयाभिधेयत्वम्

तृतीयामृचं दर्शयति

स नः शर्माणि वीतय इति शंसत्य निर्वै शर्माण्यवाद्यानि यच्छत्यग्नि

मेव तत्कल्पयत्यग्निमप्येति , इति । सुखकराण्यत्तुं योग्यान्यन्नानि पाकेन प्रयच्छतीत्यनेः शर्मशब्दवाच्यत्व प्र वो देवायान०-३-१३-१ । दीदिवांसमपू०-३-१३-५ । शर्माणि०-३-१३-४॥

T

नवमः खण्डः]

२८५

ऐतरेयब्राह्मणम् । चतुर्थीमृचं दर्शयति

उत नो ब्रह्मनविष इति शंसति चन्द्रमा वै ब्रह्म

चन्द्रमसमेव तत्कल्पयति चन्द्रमसमप्येति, इति । नक्षत्रादिप्रकाशेषु बृहत्त्वाचन्द्रमसो ब्रह्मत्वम् । पञ्चमीमचं दर्शयति

स यन्ता विप्र एषामिति शंसति वायु यन्ता वायुना हीदं यतमन्तरिक्षं न समृच्छति

वायुमेव तत्कल्पयति वायुमप्यति , इति । इदं दृश्यमानं सूर्यचन्द्रनक्षत्रादिमण्डलं सर्वं वायुना यतं नियमितं सदन्त

न समृच्छति सम्यङ्न पामोति । वायुनियमाभावे सम्यक्पामुयादन्तरि य निरवधिकत्वेन तस्मिन्यत्र कापि गच्छेदित्यर्थः । तस्माद्वायुरेव नियन्ता। षष्ठीमचं दर्शयति

ऋतावा यस्य रोदसी इति शंसति द्यावाप्ट थिवी वै रोदसी द्यावापृथिवी एव तत्क

ल्पयति द्यावापृथिवी अप्येति, इति । रोदःशब्दवाच्यत्वं द्यावापृथिव्योर्लोकेऽपि प्रसिद्धम् । सप्तमीमृचं दर्शयति

नू नो राख सहस्रवत्तोकवत्पुष्टिमहस्वित्युत्त मया परिदधाति संवत्सरो वै समस्तः सह सवांस्तोकवान्पुष्टिमान्संवत्सरमेव तत्समस्तं कल्पयति संवत्सरं समस्तमप्येति, इति । चत्रादिफाल्गुनान्तः समस्तः संवत्सरः सहस्रादिविशेषणयुक्तः । संवत्स धानकानां वृद्धिः सहस्रसंख्याका संपद्यते । तोकान्यपत्यानि गर्भधा.

1981 Memorial Collection Dr.Amritansusekhar Bagchi

मा ब्रह्म०-३-१३-६ । स यन्ता विप्र०-३-१३-३।ऋतावा यस्य. १३-३ । नू नो रास्व०-३-१३-७ ।

२८६

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[११एका

रणमारभ्य संवत्सरमध्य एवोत्पद्यन्ते । रोगैः कृशानां शरीराणामारोग्ये । संवत्सरमध्ये पुष्टिर्भवति।

शस्त्रयाज्यां दर्शयति

याज्यया यजति वृष्टिवै याज्या विद्युदेव विद्युद्धीदं दृष्टिमनाचं संप्रयच्छति विद्यु

तमेव तत्कल्पयति विद्युतमप्येति इति । याज्यया प्रक्षिप्तं हविर्दृष्टिपर्यवसितं भवति । तथाच स्मयते

“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते ।

आदित्याज्जायते वृष्टिर्टष्टेरन्नं ततः प्रजाः” इति ॥ दृष्टिश्च विद्युत्पुरःसरत्वाद्विद्युदेव । यस्मान्मेघेणूत्पन्ना विद्युद्दृष्टि संपाघ तदा रेणानं प्रयच्छति तस्मादृष्टिविद्युदेव ।

वेदनं प्रशंसति

स एवं विद्वानेतन्मयो देवतामयो

भवति भवति ॥ ४१ ॥ इति । एतन्मयो वसन्तग्रीष्मादिविद्युदन्तवस्तुमयो भूत्वा तदभिमानिदेवतानां भो मामोति । अभ्यासोऽध्यायसमाप्त्यर्थः ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा.

ह्मणभाष्ये दशमाध्याये नवमः खण्डः ॥९॥ (४१) [७१] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्रा ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये

दशमोऽध्यायः ॥१०॥ इत्यैतरेयब्राह्मणे द्वितीयपञ्चिका समाप्ता ॥२॥

(पश्चिकाङ्काः-२ । अध्यायाङ्काः-१० । खण्डाङ्काः-७१)–