अथ नवमोऽध्यायः।
अपोनप्त्रीयतच्छेष उपांश्वादिग्रहा अपि ।
सवनीयाः पुरोडाशाः पवमानाय सर्पणम् ॥ १॥ इदानीमैन्द्रवायवादीन्द्रिदेवत्यान्ग्रहान्विधातुमाख्यायिकामाह
देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्त्रह प्रथमः पिबेयमहं प्रथमः पिबेयमित्येवाकाम यन्त ते संपादयन्तोऽब्रुवन्हन्ताऽऽजिमयाम स यो न उज्जेष्यति स प्रथमः सोमस्य पास्य तीति तथेति त आजिमयुस्तेषामाजि यता. मभिसृष्टानां वायुर्मुखं प्रथमः प्रत्यपद्यता
थेन्द्रोऽथ मित्रावरुणावथाश्विनौ, इति । पुरा कदाचिद्देवाः सोमस्याग्रपेये प्रथमपाने निमित्तभूते सति न समपार न्संपादनं संपत्ति न प्राप्ताः किंत्वहमेव प्रथमः पिबेयमिति सर्वेऽप्यकाम सर्वे समयबन्धपुरःसरमाजि धावनावधि कंचिवृक्षं पाषाणमन्यद्वा किंचिदर मामवाम । स यो यः कश्चिदपि नोऽस्माकं मध्य उज्जेष्यति तस्मिन्धावन र र्षेण जयं प्राप्स्यति स एक एव प्रथमो भूत्वा सोमस्य सोमं पास्यति । देवास्तथेत्यङ्गीकृत्याऽऽजि धावनमर्यादामयुः प्राप्तवन्तः । आजि यतां मा तामभिसृष्टानामभितः प्रवृत्तानां तेषां मध्ये वायुः प्रथमो भूत्वा मुखम संमुखं तं प्रत्यपद्यत । वायोः पृष्ठत इन्द्रस्तस्य पृष्ठतो मित्रांवरुणौ तयोः’ तोऽश्विनावेवं क्रमेण सर्वे धावनं प्रारब्धवन्तः ।
तस्मिन्धावने वायोरिन्द्रस्य च परस्परं संवादं दर्शयति
सोऽवेदिन्द्रो वायुमुदै जयतीति तमनु परा पतत्सह नावथोजयावेति स नेत्यब्रवीदह मेवोजेष्यामीति तृतीयं मेऽथोज्जयावेति नेति हैवाब्रवीदहमेवोज्जेष्यामीति तुरीयं मेऽथोज्जयावेति तथेति तं तुरीयेऽत्याप्रमः खण्डः] ऐतरेयत्रामणम् ।
२३९ र्जत तत्तुरीयभागिन्द्रोऽभवत्रिभाग्वायुः, इति । वायत्कर्षेण जयत्येवेति स इन्द्रोऽवेत्स्वमनसि ज्ञम्तवाज्ञात्वा च तं पतः परापतत्सहसैवाधावत् । आगत्य चेदमुक्तवान्हे वायो नावाव यो सह सोमपानमस्तु तवार्ध ममार्धम् । अथ तस्मात्कारणादावामुभी वर्षेण जयं प्रामवावेति । स वायुर्नेति निराकृत्याहमेक एवोजेष्यामी त। ततः स इन्द्र एवमुवाच ममा मा भूम्कि तु तृतीयं त्रिषु भागेषु स्त तवद्वौ भागौ । अथैवं सति सहैवाऽऽवामुज्जयावेति । पुनरपि ‘निराकृत्य स वायुरहमेवोजेष्यामीत्यब्रवीत् । ततः स इन्द्रः पुनरप्युवाच
मा भूकि तु मे तुरीयमस्तु चतुर्थभागोऽस्तु तव त्रयो भागा अथैवं वामुभावुज्जयावेति । ततो वायुरङ्गीकृत्य तमिन्द्रं तुरीये चतुर्थभागेऽत्या तशयेन स्थापितवान् । तस्मात्कारणादिन्द्रश्चतुर्थाशभागभूत् । वायुरंश
गवान् । थ विजयक्रमेण सोमपानक्रमं दर्शयति
तो सहैवेन्द्रवायू उदजयतां सह मित्रावरुणौ सहाश्विनौ त एषामेते यथोज्जितं भक्षा इन्द्र वाय्वोः प्रथमोऽथ मित्रावरुणयोरथाश्विनोः, इति । द्रवायू उभौ सहैवोदजयतां धावतामवधिदेशं प्रामुताम् । तयोः पृष्ठतो रुणी परस्परं सह प्रामुतः । तयोः पृष्ठतोऽश्विनौ सह प्रामुतः । एषां । यथोज्जितं तत्तज्जयमनतिक्रम्य त एते भक्षाः सोमपानरूपा अभव वाखोः प्रथमं सोमपानं ततो मित्रावरुणयोः सोमपानं ततोऽश्विनोः निमित्येवं द्विदेवत्यग्रहाणां क्रमो व्यवस्थितः । मानीमैन्द्रवायवग्रहं विधत्ते
स एष इन्द्रतुरीयो ग्रहो गृह्यते यदैन्द्रवायवः, इति । यमिन्द्रवायुदेवताको ग्रहः स एष इन्द्रतुरीय इन्द्रस्य तुरीयभागो यस्मि मोऽयमिन्द्रतुरीयस्तादृशं ग्रहं गृहीयात् । क भागविशेष मनसंवादेन द्रढयति
तदेतदृषिः पश्यत्रभ्यनूवाच नियुखाँ
.
१ ख. ‘गशे
२४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [९ नवमात्र
___ इन्द्रसारथिरिति, इति। तदेतच्चतुर्थभागलं दिव्यदृष्टया पश्यन्कश्चिन्मन्त्रात्मक ऋषिस्तेन मोग नूवाच साकल्येन तदुक्तवान् । नियुत्वानित्यादिको मत्रः। नियत वायुसंबन्धिनां मत्राणां वाचकः । अध वायुं नियुतः सश्चतस्वा इत्यादि प्वभिधानात् । नियुतो यस्य वायोः सन्ति सोऽयं नियुत्वानिन्द्रः सा र्यस्य वायोः सोऽयमिन्द्रसारथिः । अत्र सारथित्वाभिधानादिन्द्रस्य चतर्थ गमाप्तिर्शिता।
उक्तमर्थ लोकव्यवहारेण द्रढयति
तस्मादाप्येतर्हि भरताः सत्वनां वित्तिं प्रयन्ति तुरीये हैव संग्रहीतारो वदन्तेऽमुनैवानूकाशेन
यदद इन्द्रः सारथिवि भूत्वोदजयत॥२५॥इति। यस्मात्सारथिरूपस्येन्द्रस्य चतुर्थभागः पूर्व प्रत्तस्तस्माद्ध तत एव कारण तीपीदानीमपि भरता भरः सङ्ग्रामस्तं तन्वन्ति विस्तारयन्तीति म योद्धारः सत्वनां सारथीनां वित्तिं वेतनां जीवितरूपां प्रयन्ति प्रकर्षेण से दयन्ति । ते च संग्रहीतारः सारथयस्तुरीये हैव युद्धलब्धस्य द्रव्यस्य च भाग एव वदन्तेऽस्माकमेतावदुचितमिति कथयन्ति । तदौचित्ये युक्तिमा अमुनैव पूर्वोक्तेनैवानूकाशेन दृष्टान्तेन । स एव दृष्टान्तो यदद इत्यादिना क्रियते । यस्मात्कारणादिन्द्रो वायोः सारथिरिव भूत्वाऽदश्चतुर्थाशरूप से त्मकं धनमुदजयत्तस्माल्लोकेऽपि तथैव प्रवृत्तमित्यर्थः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्ये नवमाध्याये प्रथमः खण्डः ॥१॥ (२५) [१५]
अथैन्द्रवायवमैत्रावरुणाश्विनाख्यान्विदेवत्यग्रहान्माणरूपत्वेन प्रशंसदि
ते वा एते प्राणा एव यद्दिदेवत्याः, इति । तेषां त्रयाणां माणरूपत्वं विभज्य दर्शयति
वाक्च प्राणश्चैन्द्रवायवश्चक्षुश्च मनश्च मैत्रा
वरुणः श्रोत्रं चाऽऽत्मा चाऽऽश्विनः, इति । उच्छासादिवृत्तिभेदवर्ती वायुः प्राणः । वागादीनीन्द्रियाणि । रूपत्वाभावेऽपि प्राणाधीनवृत्तिलाभत्वेन पूर्वत्र प्राणा इति निदेशः '
२४१
+4. -
इतीयः खण्डः] ऐतरेयब्राह्मणम् ।
जसनेयिन आमनन्ति-‘त एतस्यैव सर्वे रूपमभवंस्तस्मादेत एते. ऽख्यायन्ते प्राणाः’ इति ।
वायरूपे त्वमुख्यः प्राणो वाकेत्येतदुभयमैन्द्रवायवग्रहस्वरूपं चक्षुर्म तीन्द्रियद्वयं मैत्रावरुणग्रहस्वरूपं श्रोत्रं जीवात्मा चेत्युभयमाश्विनग्रहस्व वक्ष्यमाणयाज्यानुवाक्योपयोगित्वेन प्राणरूपतया प्रशस्यन्द्रवायवग्रहस्य यानुवाक्ये विधातुं पूर्वपक्षमाह
तस्य हैतस्यैन्द्रवायवस्याप्येकेऽनुष्टुभौ पुरो
नुवाक्ये कुर्वन्ति गायत्र्यौ याज्ये, इति । योऽयमैन्द्रवायवग्रहः पूर्वमुक्तस्तस्यैके ह याज्ञिका अनुष्टुप्छन्दस्के ऋचौ नुवाक्ये कृत्वा गायत्रीछन्दस्के ऋचौ याज्ये इति कुर्वन्ति । अपिशब्दोऽ कः । यदाऽपि कुर्वन्तीत्येवं पूर्वपक्षानुवादार्थो वा। तेषां पूर्वपक्षिणामभिप्रायं दर्शयति
वाक्च वा एष प्राणश्च ग्रहो यदै न्द्रवायवस्तदपि च्छन्दोभ्यां यथा
यथं क्लप्स्ये(कल्प्स्योते इति, इति । पोऽयमैन्द्रवायवग्रहः स एष प्राणात्मकस्तत्रेन्द्रो वाचो व्याकरणरूपायाः तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोदिति श्रुत्यन्तरादत इन्द्रद्वारा वाप । यः प्राणः स वायुरिति श्रुत्यन्तरात्माणरूपत्वम् । तावुभावपि यथो श्यामनुष्टुन्गायत्रीछन्दोभ्यां यथायथं स्वस्वसंबन्धमनतिक्रम्य लप्स्ये प्स्य)ते कल्पिती भविष्यतः । वाग्वा अनुष्टबितिश्रुत्यन्तरादनुष्टुप्छन्दसो पत्वम् । पाणो वा गायत्रीति श्रुत्यन्तराद्गायत्र्याः प्राणरूपत्वम् । अत्र वशेषाः शाखान्तरे द्रष्टव्याः। सोऽयं पूर्वपक्षिणामभिमायः। पूर्वपक्षनिराकरणपूर्वकसिद्धान्तं दर्शयति
तत्तत्राऽऽहत्यं व्यूद्धं वा एतद्यज्ञे क्रियते यत्र पुरोनुवाक्या ज्यायसी याज्यायै यत्र वै याज्या ज्यायसी तत्समृद्धमथो यत्र समे यस्यो तत्कामाय तथा कुर्यात्प्राणस्य च
३१
. . १ क. स. तो वाचं व्या’।
२४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ९ नवमाध्य
वाचश्चात्रैव तदुपाप्तम्, इति । तत्पूर्वपक्षमतं नाऽऽदरणीयम् । तत्र हेतुरुच्यते । यस्मिन्कर्मणि याज्या सकाशात्पुरोनुवाक्याऽक्षरैरभ्यधिका तत्कर्म व्युद्धं समृद्धिरहितम् । पूर्वी धात्र न्यूनां याज्यां पुरोनुवाक्यामधिकां कुर्वन्ति । तस्मादेतन्मतमयुक्तम। वै यस्मिंस्तु कर्मणि पुरोनुवाक्यायाः सकाशादभ्यधिका याज्या भवति के समृद्धम् । अपि च यत्र कर्मणि याज्यानुवाक्ये समे भवतस्तदपि कर्मर द्धम् । साम्यपक्षेऽन्योऽपि गुणोऽस्ति तत्कथमिति तदुच्यते । प्राणस्य च वा प्राणवाचोर्मध्ये यस्य यस्य वस्तुनः कामायापेक्षितफलसिद्धये तत्तथा कर्या पूर्वोक्तप्रकारेणानुष्टुब्गायत्रीजन्यमनुष्ठानं पूर्वपक्षी कुर्वीत तत्सर्व विफल त(अत्रैव याज्यानुवाक्ययोः साम्यानुष्ठान एवोपाप्तं शीघ्रं प्राप्तं भवति। तर त्साम्यपक्ष एवाऽऽदरणीय इत्यर्थः ।
साम्यपक्षे पूर्वपक्ष्यभिप्रेतं प्रयोजनं कथं सिध्येदित्याशङ्कयाऽऽह
वायव्या पूर्वा पुरोनुवाक्यैन्द्रवायव्युत्तरैवं याज्ययोः सा या वायव्या तया प्राणं कल्प यति वायुर्हि प्राणोऽथ यैन्द्रवायवी तस्यै यदैन्द्रं पदं तेन वाचं कल्पयति वाग्थ्य न्द्रगुपो तं काममानोति यः प्राणे च वाचि
च न यज्ञे विषमं करोति ॥ २६ ॥ इति । द्वयोः पुरोनुवाक्ययोर्मध्ये या पूर्वा पुरोनुवाक्या सा वायव्या वाणु ताका वायवा याहि दर्शत [१-१-२] इत्यस्यामृचि वायोः श्रवणात् । तूत्तरा पुरोनुवाक्या सेयमैन्द्रवायवीन्द्रवायू इमे सुताः [१-१-४ ] इत्यर मृचीन्द्रवाय्वोः श्रवणात् । एवं याज्ययोरपि द्रष्टव्यम् । उभयोर्याज्यया या पूर्वा सा वायव्या । अग्रं पिबा मधूनाम् [ ४-४६-१] इत्यस्यामात्र वायो दिविष्टिष्विति वायोः श्रवणात । योत्तरा याज्या सेन्द्रवायचा शतेना नो अभिष्टिभिः [ ४-४६-२] इत्यस्यामृचि नियुत्वाँ इन्द्रत थिरितीन्द्रः श्रूयते वायो सुतस्येति वायुरपि श्रूयते । तस्मादियमेन्द्रवार एवं सति या वायव्या पुरोनुवाक्या याज्या च तया प्राणः कल्पितः। पारसमर्थों भवति यः प्राणः स वायुरिति श्रुत्यन्तरेण वायुपाणयारा पूर्वपक्षिणाऽप्यङ्गीकर्तव्यत्वात् । अथ यैन्द्रवायवी पुरोनुवाक्या या या
तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।
यामभयविधायां यदैन्द्रमिन्द्रसंवन्धिपदं विद्यते तेन पदेन वाचं कल्प म करोति । हि यस्मात्कारणाद्वागैन्द्रीन्द्रस्य व्याकरणकर्तृत्वात् । वाचासामर्थ्य भवति । एवमनुतिष्ठन्पुरुषो वाक्प्राणयोर्यः कामोऽस्ति तं ति यज्ञे च च्छन्दःसाम्यं विषममनुष्ठानं न करोति ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबा. ह्मणभाष्ये नवमाध्याये द्वितीयः खण्डः ॥२॥ (२६) [५६]
–
अथ द्विदेवत्यानामैन्द्रवायवमैत्रावरुणाश्विनग्रहाणां त्रयाणां ग्रहणहोमयोः वैषम्यं विधत्ते
प्राणा वै द्विदेवत्या एकपात्रा गृह्यन्ते तस्मात्पाणा एकनामानो दिपात्रा
हूयन्ते तस्मात्माणा इंदम्, इति । दे देवते युग्मरूपे येषां ग्रहाणां ते द्विदेवत्याः। इन्द्रश्च वायुश्चेत्येकं युग्म ‘श्व वरुणश्चेति द्वितीयं युग्मं यावश्विनौ तौ तृतीयं युग्मम् । त एते द्विदेव हाः प्राणा वै, इन्द्रियरूपा एव, वाग्वा ऐन्द्रवायवश्चक्षुमैत्रावरुणः श्रोत्रमा । इति श्रुत्यन्तरात् । ते च ग्रहा एकपात्रा ग्रहीतव्या इन्द्रवाम्बोरेकस्मिन्पात्रे 1 मित्रावरुणयोरेकस्मिन्नचिनोरेकस्मिन्निति । यस्मात्प्राणरूपाणां ग्रहा किपात्रत्वं तस्माद्वाक्चक्षुःश्रोत्ररूपाः प्राणा एकनामानः प्राणा इत्येवमेतेषां । ते च ग्रहा होमकाले द्विपात्रा होतव्यास्तत्तद्रहणपात्रेणाध्वर्युर्जुहोति प्रति ता पात्रान्तरेण जुहोतीति । यस्माद्धोमकाले पात्रद्वयं तस्माचक्षुरादयः स्वस्वगोलकेषु इंदं द्वौ द्वौ भूत्वा वर्तन्ते । अयमर्थः श्रुत्यन्तरेण प्रश्नो न्यामानातः-‘ब्रह्मवादिनो वदन्ति, कस्मात्सत्यादेकपात्रा द्विदे गृह्यन्त द्विपात्रा हृयन्त इति, यदेकपात्रा गृह्यन्ते तस्मादेकोऽन्तरतः द्वपात्रा हूयन्ते तस्माद्वौ द्वौ बहिष्टाः प्राणाः’ इति । होमकाले द्विपात्रत्व लम्बन स्पष्टीकृतम् -‘हविर्धानं गच्छन्सप्रेष्यति वायव इन्द्रवायुभ्यामनुब्र पयाम गृहीतोऽसि वाक्षसदसीत्यादित्यपात्रेण प्रतिप्रस्थाता द्रोणकलशा यस्य प्रतिनिग्राह्यं गृहीत्वा न सादयत्यैन्द्रवायवमादायाध्वर्युर्दोणकल
१ क. ख. स. “कोत्तर’ । म. कोऽन्तरः प्रा।
२४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [९ नवमाना शाच परिप्लवया(य)राजानमुभौ निष्क्रम्य दक्षिणतोऽवस्थाय दक्षिण पनि संधिमन्ववहत्याध्वरो यज्ञोऽयमस्तु देवा इति परिप्लवयाऽऽधारमाधारण श्राव्य प्रत्याश्राविते संप्रेष्यति वायव इन्द्रवायुभ्यां प्रेष्य वषट्कृते जुरोले मुत्तराभ्यां ग्रहाभ्यां प्रचरते’ इति ।
अथ होतुर्ग्रहशेषभक्षप्रतिग्रहमत्रं विधत्ते
येनैवाध्वर्युर्यजुषा प्रयच्छति
तेन होता प्रतिगृह्णाति, इति । अध्वर्योः प्रदानमत्र आपस्तम्बेन दर्शितः-‘ग्रहमध्वर्युरादाय सिमर हो रमनुद्रुत्य मयि वसुः पुरो वसुरिति ग्रह होत्रे प्रयच्छत्येतेनैव होता प्रति दक्षिण ऊरावासाय हस्ताभ्यां निगृह्याऽऽस्ते’ इति ।
अथ होतुः समन्त्रकं भक्षणं विधत्ते
एष वसुः पुरूवसुरिह वसुः पुरूवसु मयि वसुः पुरूवसुर्वाक्पा वाचं मे
पाहीत्यैन्द्रवायवं भक्षयतीति, इति । एष ऐन्द्रवायवग्रहो वसुनिवासहेतुः पुरूवसुः प्रभूतनिवासहेतुः । कस्मैि निवासहेतुरित्याकाङ्क्षानिवृत्त्यर्थमिह वसुरित्यादिकमुच्यते । अस्मिन्नेव मनुष लोके निवासं करोति । तत्रापि प्रभूतनिवासं करोति । कस्मिन्पुरुषे ग्रह निवास इत्याकाङ्क्षानिवृत्त्यर्थं मयि वसुरित्यादिकमुच्यते । मयि होतरि नि सति । तदाऽपि प्रभूतनिवासं करोति । स तादृशो ग्रहो वाक्पा वाचं पा यति । हे ग्रह मे वाचं पालयेत्यनेन मन्त्रेणेन्द्रवायवशेष भक्षयेत् ।
तस्य मवस्यावशिष्टभागं पठति
उपहूता वाक्सह प्राणेनोप मां वाक्सह प्रा. णेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपा वानस्तन्वस्तपोजा उप मामृषयो देव्यासो
ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति, इति । प्राणेन सह वाग्देवता मयोपहूताऽनुज्ञाता तस्मात्माणसहिता सावा” मामुपहयतामनुजानातु तथर्षय उपहूता मयाऽनुज्ञाताः । काशा दैव्यासो देवेषु भवास्तनूपावानोऽस्मच्छरीरपालकास्तन्वः शरीरस्याला
.
"
२४५
तीयः खण्डः] ऐतरेयब्रामणम् ।
इति शेषः । तपोजाः पूर्वजन्मानुष्ठितात्तपसो जाताः । यस्मादीशा पो मयाऽनुज्ञातास्तस्मात्तेऽपि यथोक्तविशेषणा मामुपहयन्तामनुजानन्तु जमवशेषः। अस्य शेषस्य तात्पर्य दर्शयति
प्राणा वा ऋषयो दैव्यासस्तनूपावानस्त
न्वस्तपोजास्तानेव तदुपह्वयते, इति । प्रयोक्तविशेषणविशिष्टा ऋषयः माणस्वरूपा एव । तस्मात्तेन मन्त्रशेषपाठेन व प्राणाननुजानाति । मैत्रावरुणग्रहस्य समन्त्रकं शेषभक्षणं मत्रशेषव्याख्यानं च दर्शयति एष वसुर्विदहसुरिह वसुर्विवसुमयि वसुर्विदव मुश्चक्षुष्पाश्चक्षुर्मे पाहीति मैत्रावरुणं भक्षयत्युप हूतं चक्षुः सह मनसोप मां चक्षुः सह मनसा ह्वय तामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्त पोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावान स्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्त नूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते, इति । एष मैत्रावरुणग्रहो विदद्वसुर्ज्ञानपूर्वकनिवासहेतुरन्यत्सर्व पूर्ववत् । आश्विनग्रहशेषस्य समत्रकं भक्षणं मवशेषव्याख्यानं च दर्शयति एष वसुः संयबसुरिह वमुः संयहसुर्मयि वमुः संयहसुः श्रोत्रपाः श्रोत्रं मे पाहीयाश्विनं भक्ष यत्युपहूतं श्रोत्रं सहाऽऽत्मनोप मां श्रोत्रं सहाऽऽत्मना ह्वयतामुपहता ऋषयो दैव्यास स्तनूपावानस्तन्वस्तपोजा उपमामृषयो दैव्या सो ह्रयन्तां तनूपावानस्तन्वस्तपोजा इति माणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्त
…-
–
१क. म. अशे।
२४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ९ नवमाध्य
पोजास्तानेव तदुपह्वयते, इति । एष आश्विनग्रहः संयद्वसनियतनिवासः । अथवा वसशब्दः सर्वक त्वेन व्याख्येयः । मत्रशेषस्य पृथक्पाठो व्याख्येयत्वप्रदर्शनार्थः।
भक्षणे कंचिद्विशेषं विधत्ते
पुरस्तात्मत्यञ्चमैन्द्रवायवं भक्षयति तस्मात्पुर स्तात्प्राणापानौ पुरस्तात्प्रत्यञ्चं मैत्रावरुणं भक्ष यति तस्मात्पुरस्ताचक्षुषी सर्वतःपरिहारमा श्विनं भक्षयति तस्मान्मनुष्याश्च पशवश्व
सर्वतो वाचं वदन्ती शृण्वन्ति ॥ २७ ॥ इति । प्राङ्मुखो होता स्वस्य पुरस्तात्सन्तमैन्द्रवायवं प्रत्यञ्च स्ववक्त्रसमीपी कृत्वा भक्षयेत् । अत एव पुरुषस्य प्राणापानवायू पुरोभागे संपन्नौ । मे वरुणेऽपि समानन्यायः। आश्विनं तु सर्वतःपरिहारं सर्वासु दिक्षु परि हरणं कृत्वा शिरः प्रदक्षिणीकृत्येत्यर्थः । यस्माच्छोत्ररूपस्याऽऽश्विनस्य परि हरणं तस्माच्छोत्रेण सर्वतः शृण्वन्ति पुरतः पृष्ठतः पार्श्वयोर्वाचं वदन्ती स्वा मभिदधानां वाचं शृण्वन्ति । यथा होतुरीदृशं भक्षणं तथाऽध्वर्योरपि शास्त्र न्तरे श्रुतम्-‘वाग्वा ऐन्द्रवायवश्चक्षुमैत्रावरुणः श्रोत्रमाश्विनः पुरस्तादैन्द्र यवं भक्षयति तस्मात्पुरस्ताद्वाचा वदति पुरस्तान्मत्रावरुणं तस्मात्पुरस्ता क्षुषा पश्यति सर्वतःपरिहारमाश्विनं तस्मात्सर्वतः श्रोत्रेण शृणोति’ इति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये नवमाध्याये तृतीयः खण्डः ॥३॥ (२७) [५७]
अथ द्विदेवत्यग्रहेषु होत्रा प्रयोक्तव्यानां मत्राणां मध्येऽनुच्छ्वासं विषये प्राणा वै दिदेवत्या अनवानं दिदेवत्यान्यजे
प्राणानां संतत्यै प्राणानामव्यवच्छेदाय, इति । द्विदेवत्यग्रहेषु याज्यां पठन्होताऽनवानं यजेन्मत्रमध्य उच्छ्वासमत यजेत् । द्विदेवत्यानां प्राणरूपत्वादयं नैरन्तर्यपाठः प्राणानां संततावस्थापन भवति । ततस्तेषां व्यवच्छेदो न भवति । संततिरव्यवच्छेदश्वेत्येक एका
१ क. ख. भ. यं यथैव स्व । इ.
तथैव स्व ।
तुर्थः खण्डः] ऐतरेयब्राह्मणम् ।
२४७ अतिरेकाभ्यामुच्यते । इतरेषु ग्रहेषु याज्यान्ते वषट्कारेण सकृद्धत्वा स्याने वीहीत्यनुवषट्कारेण पुनर्यजन्ति । प्रतः प्रसक्तमनुवषट्कारमत्रं निषेधति
प्राणा वै द्विदेवत्या न दिदेव
त्यानामनुवषट्कुर्यात् , इति । विपक्षे बाधपुरःसरं स्वपक्षं निगमयति
यद्विदेवत्यानामनुवषट्कुर्यादसंस्थितान्प्राणा संस्थापयेत्संस्था वा एषा यदनुवषट्कारो य एनं तत्र ब्रूयादसंस्थितान्प्राणान्समति ष्ठिपत्प्राण एनं हास्यतीति शश्वत्तथा स्यात्त
स्मान दिदेवत्यानामनुवषट्कुर्यात् , इति । यदि होता द्विदेवत्येष्वनुवषट्कारमन्त्रं पठेत्तदानीमसंस्थितानसमाप्ताननुपर पाणान्संस्थापयेदुपरतान्कुर्यात् । योऽयमनुवषदकार एषैव संस्था ग्रहस्य प्तिः । अतो ग्रहरूपाणां प्राणानामप्युपरतिः स्यात् । तत्रानुवषदकारकाले कोऽप्येनं होतारं ब्रूयाच्छपेत् । कथमिति तदुच्यते । अनुपरतान्माणानुपर करोत्तस्मादेनं होतारं प्राणः परित्यजतीति । ततोऽपराधिनो होतुरवश्यं । भवेत् । तस्मादेतेष्वनुवषदकारमनं न पठेत् । अथैन्द्रवायवे कंचिद्विशेषं वक्तुं प्रश्नमुत्थापयति
तदाहुर्दिरागूर्य मैत्रावरुणो दिः प्रेष्यति सकृदा
गूर्य होता दिर्वषट्करोति का होतुरागूरिति, इति । आगूःशब्देन प्रतिज्ञाऽभिधीयते । मैत्रावरुणो द्विरागूर्य द्विः प्रतिज्ञाय द्विः गत । द्वावस्य भेषमन्त्री होता यक्षद्वायुमग्रे गामित्येको होता यक्षदिन्द्रवायू तति द्वितीयः । तयोरुभयोरप्यादावयं होता यक्षदिति द्विः प्रतिजानाति । मैत्रयोरन्ते होतर्यज होतर्यजेति द्विः प्रेष्यति । होता त्वग्रं पिबा मधूना सादक द्वे याज्ये पठितुमादौ ये यजामह इति सकृदेव प्रतिजानीते । पाययोरन्ते वौषडवौषडिति द्विषदकरोति । तच्च न्यायेन द्वितीयमत्रा
प यजामह इत्यागूःकरणमपेक्षितम् । तच्च न क्रियते तस्माद्धोतुर्द्वितीय पादावागू का नाम स्यादिति प्रश्नः।
२४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्– [ ९ नवमाधा द्वितीययाज्यादौ मा भूदेवाऽऽगूरित्येतदुत्तरं विपक्षबाधपूर्वकं दर्शयति
प्राणा वै दिदेवत्या आगूर्वजस्तबदन होताऽ न्तरेणाऽऽगुरेताऽऽगुरा वज्रेण यजमानस्य प्राणा न्वीयाद्य एनं तत्र ब्रूयादागुरा वज्रेण यजमानस्य प्राणान्व्यगात्प्राण एनं हास्यतीति शश्वत्तथा
स्यात्तस्मात्तत्र होताऽन्तरेण नाऽऽगुरेत, इति । द्विदेवत्यग्रहाः प्राणरूपा येयमागूर्ये यजामह इति प्रतिज्ञा सा वज्ररूप तथा सत्यत्र कर्मण्यन्तरेण याज्ययोर्मध्ये यदि होताऽऽगुरेत प्रतिजानीयात्त नीमागूःस्वरूपेण वज्रेण यजमानस्य प्राणान्वीयाद्विगतान्कुर्यात् । तत्र तर मागुरि क्रियमाणायां यः कोऽप्येनं होतारं शपेत् । कथमिति तदुच्यते आगुरा वज्रेण होता यजमानस्य प्राणान्व्यगाद्विगतानकरोत् । तस्मात्माण। यजमानं होतारं वा परित्यजतीति । तेन कृतः शापोऽवश्यं तथैव स्यात्तस्मार तयोर्याज्ययोरन्तरेण मध्ये होता नाऽऽगुरेत ।
तत्रैव युक्त्यन्तरमाह
अथो मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता मनसा वा इषिता वाग्वदतियां धन्यमना वाचं वदत्यसुर्या वै सा वागदेवजुष्टा तबदेवात्र
मैत्रावरुणो हिरागुरते सैव होतुरागूः॥२८॥ इति । अपि च मैत्रावरुणो यज्ञस्य मनस्थानीयो होता तु वाक्स्थानीयः । हि मनसा प्रेरिता वाग्वक्तव्यं ब्रूते । यस्त्वन्यमनस्को यां वाचं वदति तत्र वागसुरेभ्यस्तामसेभ्यो हिता तेषामसंबद्धमलापप्रियत्वात् । न त्वसो वार विकानां देवानां प्रिया । तस्मान्मनःपूर्विकैव वाग्वक्तव्या। तथा सन मनोरूपो मैत्रावरुणो द्विरागुरत इति यदस्ति सैव तत्प्रेषितस्य वायूपस्य राद्वितीया भविष्यति । तस्माद्याज्ययोर्मध्ये होता नाऽऽगुरेत ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनामा
भाष्ये नवमाध्याये चतुर्थः खण्डः ॥४॥ (२८) [१८]चमः खण्डः]
ऐतरेयबामणम् ।
२४९
ऋतुग्रहयागान्विधत्ते
Hama
r
.. .
.
.
. .
.
. .
प्राणा वाऋतुयाजास्तवतुयाजेश्वरन्ति
प्राणानेव तयजमाने दधति, इति । माधवादय ऋतुदेवा योज्यन्ते त एत ऋतुयाजास्ते च प्राणस्वरूपाः । शब्देन प्राणापानव्यानास्त्रयोऽपि विवक्षिताः । तैऋतुयाजैरनुतिष्ठेयुस्तेन नेव यजमाने स्थापयन्ति । ऋतुग्रहाय द्वादशसंख्याकास्तत्राऽऽयेषु षट्सु कंचिद्विशेषं विधत्ते
षकतुनेति यजन्ति प्राण
मेव तद्यजमाने दधति, इति । अध्वर्यणा प्रेषितो मैत्रावरुणः प्रैषसूक्तगतैर्मत्रैः क्रमेण होत्रादीन्मेष्यति तेन बता होत्रादय ऋतुना सोममित्येवं यजेयुः। एतेषां षण्णामृतुयाजानां माण रूपत्वाद्धोत्रादयः षडपि यजमाने पाणं स्थापयन्ति । सप्तममारभ्य दशमान्ते विशेष विधत्ते
चत्वार ऋतुभिरिति यजन्त्यपा
नमेव तद्यजमाने द्धति, इति । अध्वर्गुणा प्रेषितो मैत्रावरुणः प्रैषसूक्तगतैः सप्तमादिभिश्चतुभिर्मत्रैर्होत्रादी मेण चतुरः प्रेष्यति । त ऋतुभिः सोममिति बहुवचनान्तप्रयोगेण चत्वा ऽपि यजेयुस्तेषां चतुर्णामृतुयाजानामपानवायुस्वरूपत्वात्तद्यागेनापानमेव
माने स्थापयन्ति । एकादशद्वादशयोविशेष विधत्ते
विक्रतुनेत्युपरिष्टाधानमेव
तद्यजमाने दधति, इति । अध्वर्युमेषितो मैत्रावरुणः प्रैषसूक्तगताभ्यामेकादशद्वादशाभ्यां मत्राभ्यां पात । तेन प्रेषितौ द्वावध्वर्युयजमानावतुना सोममित्येवमेकवचनान्तप्रयोगेण तामन्ययोद्वेयोर्यागयोानस्वरूपत्वात्तधागेन व्यानमेव यजमाने सर्वेऽ. लजा स्थापयन्ति । अनेनैव क्रमेण मैत्रावरुणं प्रत्यचर्योःप्रैष आपस्तम्बेन प्रता–‘ऋतुना प्रेष्यति त्रिष्वावध्वर्यः संप्रेष्यत्येवं प्रतिप्रस्थाता पात्रयो [पयांवृत्यर्तुभिः मेष्यति द्वयोरध्वर्युरेवं प्रतिप्रस्थाता पुनः पर्यावृत्यर्तुना
१ क. म. व तद्यज।
.
..–.
. . . .
.-
H-…
… … .
.
.
.mmtained
२५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ९ नवमाध्या प्रेष्यति सकृदध्वर्युरेवं प्रतिप्रस्थाता’ इति । तदेकवचनान्तबहुवचनान्तकार न्तैर्ऋतुशब्दैरुदाहृतः भैषस्तैत्तिरीयब्राह्मणे संगृह्याऽऽनात:-‘ऋतना षट्कृत्व आह षड्वा ऋतव ऋतूनेव मीणाति ऋतुभिरिति चतुश्चतुष्पद पता मीणाति द्विः पुनर्ऋतुनाऽऽह द्विपद एव प्रीणाति’ इति ।
तानेतान्तुयाजामशंसति
स वा अयं प्राणस्त्रेधा विहितः प्राणोऽपानो . व्यान इति तद्यतुन ऋतुभिर्ऋतुनेति यजन्ति
प्राणानां संतत्यै प्राणानामव्यवच्छेदाय, इति । शरीरमध्ये स्थितस्य प्राणवायोः प्राणापानव्यानाख्याभिवृत्तिभिलिपि स्वाहतुशब्दप्रयोगेण त्रिविधेन यजमानस्य प्राणा: संतता भवन्ति न तु च च्छिद्यन्ते ।
तेष्वृतुयाजेष्वनुवषट्कारं निषेधति
प्राणा वा ऋतुयाजा नर्तुयाजानामनु वषट्कु
दिसंस्थिता वा ऋतव एकैक एव, इति । लोके वसन्ताघृतवोऽसंस्थिता असमासा अनुपरता एकस्यैकस्यानन्तरं द्वितीय इत्येवमेकैकक्रमेण वसन्तग्रीष्मवर्षाशरद्धेमन्तशिशिराख्याः भले मासद्वयेन द्वादशमासात्मका घटीयत्रवत्पुनः पुनरावर्तन्ते । अतो न कदापि प्यूतूनामुपरतिरस्ति।
विपक्षबाधकपूर्वकं स्वपक्षमुपसंहरति
यदृतुयाजानामनु वषट्कुर्यादसंस्थितानृतू न्संस्थापयेत्संस्था वा एषा यदनुवषट्कारो य एनं तत्र ब्रूयादसंस्थितान्तून्समतिष्ठि पदुःषमं भविष्यतीति शश्वत्तथा स्यात्त
स्मान याजानामनु वषट्कुर्यात् ॥२९॥ इति । दुःषमं रोगदारियादिरूपं विषमं किंचिदस्वास्थ्यम् । अन्यत्पूर्ववव्याख्यो इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनामन
भाष्ये नवमाध्याये पञ्चमः खण्डः॥५॥ (२९)[५९)
.
A5: खण्डः]
ऐतरेयबामणम् ।
२५१ सनीयपशपुरोडाशप्रचारादूर्ध्वं तदङ्गमिडोपहानमवस्थाप्य द्विदेवत्याहम
कृतः। तत ऊर्ध्वं तद्गहशेषभक्षणमपि प्राप्तम् । होगदानग्रहशेषभक्षणयोः किं पूर्व किमपरमिति क्रमस्य ज्ञातुमशक्यत्वातं विधत्ते
प्राणा वै विदेवत्याः पशव इळा द्विदेवत्यान्भ क्षयित्वेळामुपह्वयते पशवो वा इळा पशू
नेव तदुपह्वयते पशून्यजमाने दधाति, इति । द्विदेवत्यानां वागादिप्राणरूपत्वं पूर्वमेवोक्तमिडादेवता च गौर्वा अस्यै रमिति श्रुतेः पशुरूपा । तत्रैवं स्थिते प्रथमतो द्विदेवत्यग्रहशेषान्मक्षयित्वा दिलोपहानं कुर्यात् । तथा सतीडायाः पशुरूपत्वेन पशुनेवोपहूतवान्भवति । । पशून्स्वकीयैः पाणैः सुस्थिते यजमाने स्थापयति । अयमेवार्थो व्यतिरेक न(ण) श्रुत्यन्तरे प्रतिष्ठापितः-‘प्राणा वा एते यद्विदेवत्याः पशव इला डां पूर्वी द्विदेवत्येभ्य उपह्वयेत पशुभिः प्राणानन्तर्दधीत प्रमायुकः स्यावि यान्मक्षयित्वेडामुपह्वयते प्राणानेवाऽऽत्मन्धित्वा पर्नुपहयते’ इति । इत्थं वत्यभक्षणस्य पूर्वभावित्वमिळोपहानस्य पश्चाद्भावित्वं च व्यवस्थापितम् । दिडापात्रे भागमवदाय क्रियमाणमुपहानम् । पा तु होतुर्हस्ते संपादिताऽवान्तरेडा तत्माशनस्य होतचमसभक्षणस्य च पर्य विचार्य निश्चिनोति
तदाहुरवान्तरेळां पूर्वी प्राश्रीयाश्व, होतृच मसं भक्षयेश्व, इति । अवान्तरेळामेव पूर्वा
प्राश्नीयादथ होतृचमसं भक्षयेव , इति । बेचारार्थ प्लुतिद्वयम् । अवान्तरेलाप्राशनं पूर्वभावि चमसभक्षणं पश्चाद्भा । निर्णयः।
देतदुपपादयति
यहाव दिदेवयानपूर्वान्भक्षयति तेनास्य सोमपीथः पूर्वो भक्षितो भवति तस्मा दवान्तरेळामेव पूर्वी प्राश्नीयादथ होतृच मसं भक्षयेत्तदुभयतोऽनाचं परिगृह्णाति
२५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्– [ ९ नवमात्र
सोमपीथाभ्यामन्नाद्यस्य परिगृहीत्य, इति । द्विदेवत्यानां भक्षणं पूर्वभावीति यदस्ति तेन सोमपानरूपस्य भान प्राशनात्पूर्वत्वं सिध्यति । तत इळां माश्य होतृचमसभक्षणे सत्युपरिश सोमभक्षणसिद्धेरिडाया उभयतः पार्थद्वयेऽपि सोमपानाभ्यामयं होता परिगृह्णाति । तच यजमानस्यानाधपरिग्रहाय भवति । द्विदेवत्यग्रहशेषस्य विन्दोर्होतृचमसे प्रक्षेपं विधत्ते
प्राणा वै दिदेवत्या आत्मा होतृचमसो द्विदेवत्यानां संस्रवान्होतृचमसे समवनयत्यात्मन्येव तहोता
प्राणान्समवनयते सर्वायुः सर्वायुत्वाय, इति । संस्रवा बिन्दवस्तत्प्रक्षेपेण द्विदेवत्यरूपान्माणानात्मन्येव शरीरे होतृक रूपे होता प्रक्षिपति । प्राणानामवस्थापनात्स्वयं सर्वायुरपमृत्युरहितो भवा तयजमानस्य सर्वायुत्वाय संपद्यते ।
वेदनं प्रशंसति
सर्वमायुरेति य एवं वेद ॥ ३०॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्ये नवमाध्याये षष्ठः खण्डः ॥६॥ (३०)[६०]
’ अथ तूष्णींशंसविधानार्थमितिहासमाह
देवा वै यदेव यज्ञेऽकुर्वस्तदसुरा अकुर्वस्ते समावदीर्या एवाऽऽसन्न व्यावर्तन्त ततो वै देवा एतं तूष्णींशंसमपश्यंस्तमेषामसुरा नान्व
वायंस्तूष्णींसारो वा एष यतूष्णींशंसः, इति । देवाः पुरा स्वकीये यझे यदेवाङ्गमन्वतिष्ठनमुरा अप्यवेक्ष्य तदेवान्यति तदा ते देवाश्चासुराश्च परस्परं समावदीर्यास्तुल्यसामर्थ्या एवाभवमेकस्य, सामर्थ्याधिक्यमितरस्य तु न्यूनमित्येवं व्यावृत्ति न प्राप्ताः। तता सामर्थ्याधिक्यलक्षणव्यावृत्तिहेतुं वेदेष्वन्विच्छन्त एतं वक्ष्यमाणं तू तदुपायत्वेन दृष्टवन्तः । सर्वेष्वपि शस्त्रेष्वप्यूचः पठ्यन्ते । अस्मिस्तु पठयन्त इति तूष्णींशंसत्वम् । ऋक्पाठराहित्येन गूढमेषां देवाना त ।
mar
n..
.
A ..
.
.
.
समः खण्डः]
ऐतरेयब्रामणम् ।
२५१ Laववायनानुगतवन्तः। एतदनुष्ठानमविज्ञाय न कृतवन्त इत्यर्थः।
शंस एष तूष्णींसारो वा ऋक्पाठराहित्यलक्षणातूष्णीभाव एवा. शस्त्रे शस्तः । असुराणां तु निष्फलं तूष्णीमवस्थानमिति निश्चयः। अस्य तूष्णींशंसस्यासुरविनाशहेतुत्वं दर्शयति
देवा वै यं यमेव वज्रमसुरेभ्य उदयच्छंस्तं तमे षामसुराः प्रयबुध्यन्त ततो वै देवा एतं तूष्णीं शंसं वज्रमपश्यंस्तमेभ्य उदयच्छंस्तमेषामसुरा न प्रत्यबुध्यन्त तमेभ्यः प्राहरंस्तेनैनानप्रतिबु
देनाघ्नंस्ततो वै देवा अभवन्पराऽसुराः, इति । देवा असुरविनाशार्थमायुधरूपं मत्ररूपमाभिचाररूपं वा यं यं वज्र प्रत्युक्त एषां देवानां तं तं वज्रमसुराः प्रत्यबुध्यन्त तदा तदा प्रतीकारं कुर्वन्ति । देवा एतं तूष्णींशंसं वज्रत्वेन दृष्ट्वा तदसुरविनाशार्थ प्रयुक्तवन्तः । असु. देवानां तं तूष्णींशंसमज्ञात्वा प्रतीकारं न कृतवन्तः । ततो निर्विघ्नेन स्तं तूष्णींशंसं वज्रमसुराणामुपरि माहरंस्तद्विनाशार्थ प्रयुक्तवन्तः । असुरैर तेन तेनैवासुरान्हतवन्तः । ततो वै देवा विजयिनोऽभवन्मुख्येष्वमुरेषु हते. शिष्टा असुराः पराभूताः। रतवेदनं प्रशंसति
भवत्यात्मना पराऽस्य द्विषन्पाप्मा
भ्रातृव्यो भवति य एवं वेद, इति । अथोपाख्यानमुखेनैव तूष्णींशंसस्य स्वरूपं दर्शयति
ते वै देवा विजितिनो मन्यमाना यज्ञमतन्वत तमेषामसुरा अभ्यायन्यज्ञवेशसमेषां करि प्याम इति तान्समन्तमेवोदारान्परियत्तानुद पश्यंस्तेऽब्रुवन्संस्थापयामेमं यज्ञं यज्ञं नोऽ सुरा मा वधिषुरिति तथेति तं तूष्णींशंसे संस्थापयन्भूरनियोतिर्योतिरग्निरियाज्यप्रउगे संस्थापयबिन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति
1861
Memorial Collection Dr.Amritansusekhar Bagcht
२५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ९ नवगा
निष्केवल्यमरुत्वतीये संस्थापयन्सूर्यो ज्योति ज्योतिः स्वः सूर्य इति वैश्वदेवानिमारुते संस्था पयंस्तमेवं तूष्णींशंसे संस्थापयंस्तमेवं तूष्णीं
शंसे संस्थाप्य तेनारिष्टेनोहचमाश्रुवत , इति । मुख्यानामसुराणां हतत्वात्ते देवा विजितिनो विजयवन्तो वयमिति । माना यज्ञं विस्तारितवन्तः । एषां देवानां यज्ञमभिलक्ष्यासुरास्तत्र गत केनाभिमायेणेति तदुच्यते । एषां देवानां यज्ञवेशसं यज्ञविधात कति इति तदभिमायः । ततो देवाः समन्तमेव पुरतः पृष्ठतः पार्थयोश्च समाग दारानुद्धतान्परियत्तानत्यन्तसंनिधानुदपश्यनुदङ्मुखाः सन्तो दृष्टवन्तः। च परस्परमिदमब्रुवनिमं यज्ञं संस्थापयामः शीघ्रं समापयामस्तथा सति नो दीयं यज्ञमसुरा मा वधिषुर्मा विनाशयन्तु विलम्बे सति विनाशयिष्य तन्मा भूदिति । तद्वचनं परस्परमङ्गीकृत्य स्वकीयं तं यज्ञं तूष्णींशंसे संस्था शीघ्रं समापितवन्तः । यद्वा तूष्णींशंसस्य वज्ररूपेण रक्षकत्वाद्रक्षार्थ तो न्स्थापितवन्तः । कोऽयं तूष्णींशंस इति स उच्यते। भूरग्निज्योतिज्योतिरी त्येष नवाक्षरात्मको मन्त्र एकस्तूष्णींशंसभागः । आज्यं प्रउगं चेत्युभे म सवनकालीने शस्त्रे तदुभयमप्युक्ते तूष्णीशंसभागे स्थापितवन्तः । इन्द्रो ज्यं र्भुवो ज्योतिरिन्द्र इत्येष दशाक्षरात्मको मत्रो द्वितीयस्तूष्णींशंसभाग निष्केवल्यं मरुत्वतीयं चेत्युभे माध्यंदिनसवनकालीने शस्त्रे तदुभयमिन्द्रो । तिरित्यस्मिस्तूष्णींशंसभागे स्थापितवन्तः । सूर्यो ज्योतिज्योतिः स्वः इत्येष नवाक्षरात्मको मत्रस्तृतीयस्तूष्णींशंसभागः । वैश्वदेवमामिमारुतं च तृतीयसवनकालीने शस्त्रे तदुभयं सूर्यो ज्योतिरित्यादिके तूष्णीशंसा स्थापितवन्तः । तं सवनत्रयगतैः षभिः शस्त्रैरुपेतं यजमेवमुक्तेन प्रक तूष्णींशंसे स्थापितवन्त इत्येवमुक्तार्थस्योपसंहारः पुनस्तमेवमित्यादिः ।
नुवादपविधशस्त्रसंस्थापनादूर्ध्वमरिष्टेन हिंसारहितेन तेन यज्ञेनादृचमुर मृचं यज्ञसमाप्तिमाभुवत प्राप्तवन्तः ।
इत्थमाख्यायिकामुखेन तूष्णीशंसस्वरूपमभिधाय तदनुष्ठानं विधत्ते
स तदा वाव यज्ञः संतिष्ठते यदा होता तूष्णींशंसं शंसति, इति ।
A
१ क. ख. ग. म. म.
पर्यत्ता’।
T: खण्डः] ऐतरेयबामणस् । २५५
सालेहोता तमिमं मंत्रं शंसेत्तदैव स यज्ञो निर्विघ्रः समाप्यते । बातच्छवं शंसनीयम् । तत्प्रकार आश्वलायनेन दर्शित:-‘सुमत्पदग्दे
रिवाऽच्छिद्रा *पदाधादच्छिद्रोक्था कवयः शंसन्सोमो विश्ववि निनेषबृहस्पतिरुक्थामदानि शंसिषद्वागायुर्विश्वायुर्विश्वमायुः क इदं यति स इदं शंसिष्यतीति जपित्वाऽनभिहिंकृत्य शोसावोमित्युचराय शिसं शंसेदुपांशु समणवमसंतन्वनेष आहावः प्रातःसवने शस्त्रादिषु’ इति। यमर्थः । ऋतुपात्रभक्षणानन्तरं होतुर्मुखत आसीनोऽध्वर्युः परामुखः वर्तते तदानीं होता सुमदित्यादि स इदं शंसिष्यतीत्यन्तं म जपित्वाऽ कारमकृत्वा शोसावोमित्यनेन मत्रेणाध्वर्युमुच्चैराहय भूरमिरित्यादिकं साहितमुपांशु पठेत्प्रणवेन सहासंततमविच्छेदनं कुर्यात् । एष शोसावो. मत्रोऽध्वयोराहानरूपत्वादाहाव इत्युच्यते । स च प्रातःसवने शस्त्रादिषु
त इति ।
क्तिं तूष्णींशंसनं प्रशंसति
स य एनं शस्ते तूष्णींशंस उप वा वदेदनु वा व्याहरेतं ब्रूयादेष एवैतामातिमारिष्यति प्रात ववि वयमद्येमं शस्ते तूष्णींशंसे संस्थापया मस्तं यथा गृहानितं कर्मणाऽनुसमियादेवमेवैन मिदमनुसमिम इति स ह वाव तामार्तिमृच्छति य एवं विद्वान्संशस्ते तूष्णींशंस उप वा वद यनु वा व्याहरति तस्मादेवं विद्वान्संशस्ते तूष्णींशंसे नोपवदेवानुव्याहरेत् , ॥३१॥ इति । त्रा तृष्णीशंसे शस्ते सत्येने होता म उपवदेदाऽनव्याहरेता यः कोऽ. पुरुषो निन्देच्छपेद्वा । उपवादो निन्दाऽनुव्याहारः शापः । तदानी. होता निन्दितारं शतारं वा ब्रूयात् । कथं ब्यादिति तदुच्यते । यो सा शप्ता वाऽस्त्येष एव निन्दारूपां शापरूपां वाति विनाशमारिष्यति पति न त्वहं माप्स्यामि । तत्र हेतुरुच्यते । प्रातवि प्रातःसवन एव वयं राध्यास्मिन्दिवसेऽस्माभिः शस्ते तूष्णींशंसे तमिमं यज्ञं संस्थापयाम:
- अग्रे एतन्मश्रव्याख्यानमतब्राह्मणे तु पदाऽधा इति पाठः ।
२५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ९ नवमा समापयामो यथा लोके गृहानितं स्वकीयान्गृहान्माप्तमतिथि कर्मणा स्काररूपेणानुसमियादानुकूल्येन सम्यक्प्रामुयादुपचरेदित्यर्थः । एवो तूष्णींशंसानुष्ठानं कृत्वैनं यज्ञमनुसमिम आनुकूल्येन सम्यक्माममा इत्यर्थः । एष एवेत्यादिकोऽनुसमिम इत्यन्तो निन्दाशापपरिहारार्थो होता ब्रूयात् । तस्मिनुक्ते सति यः पुमान्स्वयं विद्वानेव संस्तूष्णींशंसस्य नादूर्व निन्दति शपति वा स एव तामाति पामोति । तस्मात्कारणादेव विद्वान्पुरुषस्तूष्णींशंसपाठादूचं होतारं न निन्दनापि शपेत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयना. ह्मणभाष्ये नवमाध्याये सप्तमः खण्डः ॥७॥ (३१) ६१]
.
अथ प्रकारान्तरेण तूष्णींशंसं प्रशंसति
चशंषि वा एतानि सवनानां यत्तूष्णींशंसो भूर मिर्कोतिर्योतिरग्निरिति प्रातःसवनस्य चक्षुषी इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति माध्यंदि नस्य सवनस्य चक्षुषी सूर्यो ज्योतियोतिः
स्वः सूर्य इति तृतीयसवनस्य चक्षुषी, इति । यत्तूष्णींशंसोऽस्त्येतान्येव तद्गतानि पदानि त्रयाणां सवनानां । स्थानीयानि । कथमेतदिति तदेव स्पष्टी क्रियते भरग्निज्योतिरिति प्रय तूष्णींशंसपादस्य पूर्वो भागः । स च प्रातःसवनस्य दक्षिणचक्षुःस्थानीय ज्योतिरनिरित्ययमुत्तरो भागो वामचक्षुस्थानीयो भूलोकवर्ती योऽग्निः स गोलकद्वये प्रकाशक इत्यर्थः । इन्द्रो ज्योतिरित्ययं द्वितीयस्य पूर्वो भागो ग दिनस्य सवनस्य दक्षिणं चक्षुः । भुवो ज्योतिरित्ययमुत्तरो भागो वामन न्तरिक्षलोकवर्ती परमैश्वर्ययुक्तो वायुगोलकद्वये भासक इत्यर्थः । सूया तिरित्येष तृतीयस्य पूर्वभागस्तृतीयसवनस्य दक्षिणं चक्षुः । ज्योतिः स्वक इत्ययमुत्तरो भागो वामचक्षुः स्वर्लोकवर्ती सूर्यो गोलकद्वये भासक इत्यमा
वेदनं प्रशंसति
चक्षुष्मद्भिः सवनै रानोति चक्षुष्मद्भिः सवनैः स्वर्ग लोकमेति य एवं वेद, इति । ।
.१ क. म. तिथ्येन स । .
–
–
मः खण्डः] ऐतरेयब्राह्मणम् ।
२५७ धिरिह लोके समृद्धिः। णीशंसस्य चक्षुःस्वरूपत्वमुपपादयति
चक्षुर्वा एतद्यज्ञस्य यतूष्णींशंस एका सती व्याहृतिधोच्यते तस्मादेकं सच्चक्षुधा, इति । पपि भरित्येषैव व्याहृतिस्तथाऽपि तद्योगादग्निज्योतिरित्यपि पदद्वयं तित्वेनोच्यते । सेयं व्याहृतिरेकैव सत्यारोहावरोहाभ्यां वेधोच्यते । देवं तस्माचक्षुरिन्द्रियमप्येकमेव सद्गोलकद्वये द्वेधा वर्तते । तस्माचक्षुष्ट्वं
नरपि प्रकारान्तरेण प्रशंसति
मूलं वा एतद्यज्ञस्य यत्तूष्णींशंसो यं कामयेताना यतनवान्स्यादिति नास्य यज्ञे तूष्णींशंसं शंसेदु न्मूलमेव तद्यज्ञं पराभवन्तमनु पराभवति, इति । यजमानमुद्दिश्य होता द्वेषादेवं कामयेतानायतनवान्स्वर्गसाधनरूपेणाऽऽ. ITSsश्रयेण रहितोऽयं यजमानः स्यादिति तदानीमस्य द्विषस्य यजमा यज्ञे तूष्णींशंसं होता न शंसेत् । तथा सति वृक्षमूलवद्यज्ञमूलत्वेनावस्थि तूष्णीशंसस्य पाठाभावादयं यज्ञो मूलरहितः पराभवति विनश्यति । यजमानोऽपि विनश्यति । तदेवं द्वेष्यस्य विनाशहेतुत्वेन प्रशंसा कृता । परप्य॒त्विजो होतुरनुकूलत्वेन प्रशंसति
तदु वा आहुः शंसेदेवापि वैतदृविजेऽ हितं यहोता तूष्णींशंसं न शंसत्यविजि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानस्त स्माच्छंस्तव्यः शंस्तव्यः ॥ ३२ ॥ इति । व तत्रैव तूष्णींशंसविषये ब्रह्मवादिन आहुः । किमिति तदुच्यते । यजमाने मीतिरहितो होता तथाऽपि शंसेदेव । अपि वेति पूर्वोक्तापे कान्तरापन्यासार्थः । होता न शंसतीति यदस्ति तदेतहत्विजे होत्रेड. अष्ट यझे दक्षिणाया अलाभात । यस्मात्विजि सर्वो यहः प्रतिष्ठित
२५८
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम-100
स्तस्माद्यज्ञयजमानयोः प्रतिष्ठाद्वारा होतुर्हितत्वेनायं तूष्णींशंसा अभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयनाम
भाष्ये नवमाध्यायेऽष्टमः खण्डः ॥ ८॥ (३२) [१२] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्राज्य
रसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये नवमोऽध्यायः॥९॥