श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ ८ अष्टमाध्या
अथाष्टमोऽध्यायः ।
पर्यग्न्यादेविशेषांश्च स्तोकाः स्वाहाकृतीरपि ॥
वपां चाधीयते मातरनुवाकविधिः परम् ॥ १॥ अथापोनप्त्रीयादयो वक्तव्याः । तदर्थमादावाख्यायिकामाह
ऋषयो वै सरस्वत्यां सत्रमासत ते कवषमै लूषं सोमादनयन्दास्याः पुत्रः कितवोऽब्राह्मणः कथं नो मध्येऽदीक्षिष्टेति तं बहिर्धन्वोदवहन त्रैनं पिपासा हन्तु सरस्वत्या उदकं मा पादिति स बहिर्धन्वोदूहळः पिपासया वित्त एतदपो नप्त्रीयमपश्यत्य देवत्रा ब्रह्मणे गातुरेखिति तेनापां प्रियं धामोपागच्छत्तमापोऽनूदा
यंस्तं सरस्वती समन्तं पर्यधावत , इति । भृग्वहिरमभृतय ऋषयः कदाचित्सरस्वत्यामेतन्नामकनदीतीरे सत्रमासत द्वादशाहमारभ्योपरितनं त्रयोदशरात्रादिकं बहुयजमानकं कर्म सत्रमित्युच्यते सदुद्दिश्य तत्र स्थितवन्तः सत्रमन्वतिष्ठनित्यर्थः । तदानीं तेषां मध्ये कश्चिदि लपाख्यस्य पुरुषस्य पुत्रः कवषनामकोऽवस्थितोऽभूत् । ते च ऋषयस्तं का सोमयागानिसारितवन्तः। तेषामभिप्राय उच्यते । दास्याः पुत्र इत्युक्ति रधिक्षेपार्था । कितवो घूतकारस्तस्मादब्राह्मणोऽयम् । ईदृशो नोऽसाव शिष्टानां मध्ये स्थित्वा कथं दीक्षां कृतवानिति तेषामभिप्रायः। तं कवर्ष सर खतीतीरादहिरे धन्व जलरहितां भूमि प्रत्युदवहनदृतवन्तो बलादपसारित वन्तः।धन्वदेशे बलात्प्रेरयितूणामयमभिप्राय:-अत्र जलवर्जितदेश एनका पिपासा मारयतु सरखत्या नद्याः पवित्रमुदकमयं पापिष्ठो मा पिबत्विात । स च कवषोऽत्र सरस्वत्या बहिरं धन्व निर्जलं देशं प्रत्युदूहळ उत्कर्षणापा रितः पिपासया वित्तो लब्ध आक्रान्तस्तत्परिहारार्थमेतत्य देवत्रेत्यादिकमा नप्तदेवताकं सूक्तं वेदमध्ये विचार्यापश्यत् । तेन सूक्तेन जपितेनापा जा
प्र देवत्रा ब्रह्मणे०-१०-३०-१।
4
१ क. म. “स्वतीयेत।
प्रथमः खण्डः] ऐतरेयब्राह्मणम् ।
.२१७ जिनीनां देवतानां प्रियं स्थानमुपागच्छत् । तं चाऽऽगतमापो देवता अनु
नग्रहेणोत्कर्षों यथा भवति तथा प्राप्तवत्यः । ततः सरस्वती नदी-तं अपं पर्यधावत्परितःप्रवाहवेगेन प्रवृत्ताऽऽसीत ।
उक्तमर्थ लोकप्रसिद्धया द्रढयति
तस्मादाप्येतर्हि परिसारकमित्याचक्षते
यदेनं सरस्वती समन्तं परिससार, इति । यद्यस्मिन्स्थाने सरस्वती नद्येनं कवर्ष समन्तं सर्वासु दिक्षु परिससार स्थानमेतीप्येतस्मिन्नपि काले तीर्थविशेषाभिज्ञाः पुराणकर्तारः परिसारक. येतनाम्ना व्यवहरन्ति । अथ सत्रानुष्ठायिनां तेषामृषीणां कृत्यं दर्शयति
ते वा ऋषयोऽब्रुवन्विदुर्वा इमं देवा उपमं ह्वया महा इति तथेति तमुपाह्वयन्त तमुपहूयै तदपोनप्त्रीयमकुर्वत प्र देवत्रा ब्रह्मणे गातुरेविति तेनापां प्रियं धामोपागच्छन्नुपदेवानाम्, इति । ते भृग्वादयः परस्परमिदमब्रुवनिमं कवर्ष देवाः सर्वेऽपि विदुवै जानन्ये गोऽस्य कितवत्वादिदोषो नास्ति तस्मादिममस्मत्समीपं प्रत्यायाम इति वार्य तमुपहूय तेन दृष्टमेतदपोनप्तृदेवताकं प्र देवत्रेत्यादि सूक्तमकुर्वत प्रयु. न्तिः । तेन सूक्तेन जलदेवतानामन्यदेवतानां च प्रियं स्थानमुपागच्छन् । एतद्वेदनपूर्वकमनुष्ठानं च प्रशंसति
उपापां प्रियं धाम गच्छत्युप देवानां जयति परमं लोकं य एवं वेद
यश्चैवं विद्वानेतदपोनप्त्रीयं कुरुते, इति । यस्मादेवं प्रशस्तं तस्मादपोनप्त्रीयं कुर्यादिति विधिरुग्नेयः । तस्मिन्नपोनप्त्रीयसूक्ते प्रातरनुवाकवत्मसक्तमर्धर्चेऽवसानं निवारयितुं नैर
विधत्ते
तत्संततमनुबूयात्, इति ।
होतुर्वेदनं प्रशंसति
१ क. म, मन्ततः स । २ अ, स्मादिदं प्र।
२१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ८ अष्टमाध्यादे
संततवर्षी ह प्रजाभ्यः पर्जन्या भवति
यत्रैवं विद्वानेतत्संततमन्वाह, इति । पर्जन्यो मेघः संततवर्षी नैरन्तर्येण दृष्टिमान्यावती दृष्टिरपेक्षिता सा संपी भवतीत्यर्थः।
विपक्षे षाधकपूर्वकं स्वपक्षमुपसंहरति
यवग्राहमनुब्रूयाजीमूतवर्षी ह प्रजाभ्यः
पर्जन्यः स्यात्तस्मात्तत्संततमेवानूच्यम्, इति । अवग्राहं तमिस्तस्मिन्नर्धर्चे पादे वाऽवगृह्यावगृह्य पुनः पुनरवसानं कल यधनुश्यात्तदा प्रजोपकारार्थ प्रवृत्तः पर्जन्यो जीमूतवर्षी स्यात् । जीमा पर्वतः। जीमूतौ मेघपर्वतावित्युक्तत्वात् । अनुपयुक्त पर्वत एव वर्षति न तूपयुक्त, सस्येष्वित्यर्थः । यस्मादेवं तस्मादवग्रहो न कार्यः किं तु संततमेवानूच्या
तस्मिन्सूक्ते प्रथमाया ऋच आवृत्तिसहितं सातत्य विधीयते
तस्य त्रिः प्रथमां संततमन्वाह तेनैव
तत्सर्व संततमनूक्तं भवति ॥ १९॥ इति । अस्य सूक्तस्य प्रथमायास्त्रिरात्तिः (त्ति)सातत्येन सर्वस्यापि सूक्तत सातत्य सिध्यति । प्रथमायां सातत्यमाश्वलायनो दर्शयति-‘अध्यर्धकारंग मामृगावानमुत्तराः’ इति । त्रिरावृत्तायाः प्रथमाया अर्धत्रयेणावसानं कृत्वा पठेवुत्तरासामृचामवसानं कृत्वा पाठः कर्तव्य इत्यर्थः। .
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्येऽष्टमाध्याये प्रथमः खण्डः ॥१॥ (१९) [४९]
तत्सूक्तवचने प्रकारविशेषं विधत्ते
ता एता नवानन्तरायमन्वाह, इति । प्र देवत्रेत्यारभ्य नवसंख्याका ऋचो याः सन्ति तासां दयोचोमध्यन रायो विच्छेदो न भवति तथाऽनुब्रूयात् ।
अपरं विशेषं विधत्ते
हिनोता नो अध्वरं देवयज्येति दशमीम् , इति । .
हिनोता नो अध्वरं०-१०-३०-११ ।द्वितीयः खण्डः] ऐतरेयबामणम् ।
२१९ नक्रमेणाऽऽवततीरिति दशमी तां परित्यज्य तदुत्तरभाविनी(नी) नोता न इति दशमी कृत्वाऽनुयात् । परित्यक्तायास्तस्या अनुवचने कालविशेष विधत्ते
आवईततीरथ नु द्विधारा
इत्यावृत्तास्वेकधनासु, इति । अनायं प्रयोगक्रमः । सुत्यादिनात्पूर्वस्मिन्दिनेऽनीषोमीयं पशुमनुष्ठाय प्रतीवरीसंशिताः सोमाभिषवकाले सवनीया अपः खानीय वेद्यामवस्थाप्य यरात्रादूर्ध्व निद्रा परित्यज्याऽऽग्रीध्रधिष्ण्यादींस्तत्तन्मवैरभिमृश्य सोमा नां पात्राण्यासाद्य प्रातरनुवाकार्थ होतारं संप्रेष्य प्रातरनुवाकान्ते शृणोत्व रिति मत्रेण हुत्वा तत एकधना अप आनेतुं गच्छन्नपोनप्त्रीयसूक्तार्थ तारं संप्रेष्यकथना अप आनयेदिति । सोऽयं प्रयोगक्रम आध्वर्यवसूत्रेषु व्यः । तत्र होतारं प्रत्यपोनप्त्रीयविषये प्रैषमापस्तम्बो दर्शयति-‘यत्राभि नात्यभूदुषा रुशत्पशुरिति तत्पचरण्या जुहोति शृणोत्वामिः समिधा हवं म यपरं चतुर्ग्रहीतं गृहीत्वा संप्रेष्यत्यप इष्य होतमैत्रावरुणस्य चमसाध्वर्यवाद धनिन आद्रवत नेष्टः पत्नीमुदानयोनेतहोतचमसेन वसतीवरीभिश्च चात्वालं यास्त्र’ इति । अस्मात्मेषादूर्व होता सूक्तमनुब्रूयात् । तदाहाऽऽश्वलायन: रिहितेऽप इष्य होतरित्युक्तोऽनभिहिंकृत्यापोनप्त्रीया अन्वाई’ इति । तत्र ोक्तदशमीसहिता ऋचोऽनूच्यैकधनिनः पुरुषाः प्रेषिताः सन्त एकधनाख्या पो घटैBहीत्वा यदा जलसमीपादावर्तन्ते तदानीं तास्वेकधनास्वप्स्वात्तासु नीषु तदात्तिं प्रतीक्षमाणो होता पूर्व परित्यक्तामावततीरित्येतामचं स्मन्कालेऽनुब्यादित्यर्थः। ऋगन्तरकालं विधत्ते
प्रति यदापो अदृश्रमायती
रिति प्रतिदृश्यमानासु, इति । ता एकधनाख्या आपो ग्रहणस्थानात्मतिनिवृत्य तैः पुरुषैरानीयमाना यदा जा दृश्यन्ते तदानी प्रति यदाप इत्येतामृचमनुयात् । पुनरप्यगन्तरकालं विधत्ते
भाववृततीरध०-१०-३०-१०। प्रति यदापो०-१०-३०-१३ ।
१ क. ख. स. म. प्रेष्यति । ए ।
२२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ८ अष्टमाध्यो
आ धेनवः पयसा तूर्य इत्युपायतीषु, इति । होत्रा दृष्टास्ता एकधनाख्या आपो यदा चात्वालसमीपं प्रत्यागही तदानीमुपायतीषु समीपमागच्छन्तीषु तासु आ धेनव इत्येतामृचं ब्रूयात् ।
पुनरप्यूगन्तरकालं विधत्ते
समन्या यन्त्युप यन्त्यन्या इति समायतीषु, इति । पूर्वत्रोतहोतचमसेन वसतीवरीभिश्च चात्वालं प्रत्यास्स्वेत्यापस्तम्मान प्रोक्तः प्रैष उदाहतस्तत उन्नेता होतृसंबन्धिनं चमसं वसतीवर्याख्याः पर नानीता अपश्चात्वालसमीपे समानयति । मैत्रावरुणस्य चमसाध्वर्यवान्दो प्रेषितत्वान्मत्रावरुणस्य परिचारकश्चमसाध्वर्युरपि तदीयं चमसं चात्वालसमी समानयति । तेन होतृचमसेन वसतीवयों गृह्यन्ते । मैत्रावरुणचमसेनकधना गृह्यन्ते । ततो वसतीवरीसहित होतृचमसे मैत्रावरुणचमसगतास्वेकघनास्वभ गुंणा समीपनीतासु संयोजयितुं समागतासु समन्या यन्तीत्यादिकामचमनुन यात् । तमेतमनुवचनकालमापस्तम्बो विशदयति-‘होतृचमसेन वसतीवरीको निषिच्योपरि चात्वाले होतृचमसं मैत्रावरुणचमसं च सस्पर्य वसतीवरीया नयति समन्या यन्तीत्यभिज्ञाय होतचमसान्मत्रावरुणचमस आनयति मैत्रावर पचमसाद्धोतृचमस एतद्वा विपरीतम्’ इति ।
एतस्या ऋचः प्रशंसार्थमाख्यायिकामाह
आपो वा अस्पर्धन्त वयं पूर्व यज्ञं वक्ष्यामो वयमिति याश्चेमाः पूर्वयुर्वसतीवों गृह्यन्ते याश्च प्रातरेकधनास्ता भृगुरपश्यदापो वै स्पर्धन्त इति ता एतयर्चा समज्ञपयत्समन्या
यन्त्युप यन्त्यन्या इति ताः समजानत, इति । पूर्वेधुः संपादिता वसतीवर्याख्या या आपो याश्च परेधुः संपादिता एक नाख्यास्ता उभयविधा अपि यज्ञनिर्वहणे पूर्वभावित्वार्थमन्योन्यं स्पा कृत वत्यः। तदानीं भृगुनामक ऋषिराप एव परस्परं स्पर्धन्त्य इत्यपश्यन अर्थवादत्वादचेतनानां स्पर्धायां न चोदनीयम् । यद्वा तत्तदभिमानिनाद
वहणे पूर्वभावित्वासपादि
अर्थवादलादानी भृगुनामक
आ धेनवः पयसा०-५-४३-१ । समन्या यन्त्युप०-२-३५-३।
१ ख, म. वालं समा ।
द्वतीयः खण्डः] ऐतरेयब्राह्मणम् ।
२२१ त्यवगन्तव्यम् । ततो भृगुः स्पर्धा दृष्ट्वा समन्या यन्तीत्येतयर्चा ता पः समज्ञपयत्संज्ञानं परस्परमैकमत्यं प्रापयत् । ततो मत्रसामोत्ता विधा आपः समजानकमत्यं प्राप्ताः। दिनं प्रशंसति
संजानाना हास्याऽऽपो यज्ञ
वहन्ति य एवं वेद, इति । या वसतीवों याश्चैकधनास्ता द्विविधा अपि संजानानाः परस्परमैकमत्यं ।। अस्य विदुषो यह निर्वहन्ति ।। ऋगन्तरकालं विधत्ते,
आपो न देवीरुपयन्ति होत्रियमिति होतृचमसे समवनीयमानास्वन्वाह
वसतीवरीष्वेकधनासु च, इति । रतासु द्विविधास्वप्सु होतृचमसे सिच्यमानासु तस्मिन्काल आपो न देवी तामृचमनुब्रूयात् । अथ होतुः कंचिद्यजुरात्मकं मत्रं विधत्ते
अवेरपोऽध्वर्या३उ इति होताऽध्वर्यु पृच्छति, इति । ऽध्वर्यो द्विविधा अपः किमवेर्लब्धवानसि । अस्मिन्मन्त्रे प्लुतिः प्रश्नार्था । समेतं मन्त्रं व्याचष्टे
आपो वै यज्ञोऽविदो यज्ञा३म्, इत्येव तदाह, इति । हताहविधा अप्यापः सोमाभिषवसाधनत्वेन यज्ञनिर्वाहकत्वायज्ञस्वरूपा । तथा सति यज्ञमब्रूपमविदः किं लब्धवानसीत्यनेन प्रकारेण तदाह तन्म क्यं ब्रूते । यज्ञामिति लुतिः पूर्ववत् । अध्वर्योः प्रत्युत्तरमन्त्रं विधत्ते–
उतेमननमुरियध्वर्युः प्रत्याह, इति । तशब्दोऽपिशब्दार्थः । ईमिति वाक्यपूरणार्थो निपात इमा इत्यस्मिन्नर्थे । इमा द्विविधा अप्यापोऽनन्नमुरतिशयेनोपनताः प्राप्ता इति ।
आपो न देवीरुपयन्ति०-१-८३-२ ।
२२२ . श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ ८ अष्टमा
एतमध्वर्योरुत्तरमन्त्रं व्याचष्टे
उतेमाः पश्येत्येव तदाह, इति । इमा द्विविधा अप्यपो हे होतः पश्येत्यनेन प्रकारेण तन्मत्रवाक्यं बूते।शासन रेऽप्येतत्सर्वश्रुतम्-अध्वर्योऽवेरपा इत्याहोतेमनभमुरुतेमाः पश्येति वावैतदा
अथ किंचिनिगदरूपेण मत्रेण होतुः प्रत्युत्थानं विधत्ते
तास्वध्वर्यो इन्द्राय सोमं सोता मधुमन्तं वृष्टि वनि तीव्रान्तं बहुरमध्यं वसुमते रुद्रवत आदि त्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावते ।यस्येन्द्रः पीत्वा वाणिजङ्घनत्य
स जन्यानि तारिषोशमिति प्रत्युत्तिष्ठति, इति । तास्वित्यादिरोमित्यन्तो निगदस्तेन मत्रेण होता द्विविधानामप्यपां पर स्थानं कुर्यात् । हेऽध्वर्यो द्विविधास्वप्सु सोमं सोता सोमस्याभिषवकर्ता म कीदृशं सोमं मधुमन्तं माधुर्यरसोपेतं दृष्टिवनिं दृष्टेः संभजनकर्तारं दृष्टिमा त्यर्थः । तीव्रान्तं तीव्रमवश्यंभावि फलमन्ते यस्य सोमस्य सोऽयं तीवाना अविघ्नेन सोमयागे समाप्ते सति सर्वथा फलत्येवेत्यर्थः । बहुरमध्यं बहुल नादिकमनुष्ठानं मध्ये प्रारम्भसमाप्त्योरन्तराले यस्यासौ बहुरमध्यः । ऋार ग्वरणमारभ्योदवसानीयेष्टेः पूर्व दीक्षणीयाधङ्गकर्मभिरुपश्चिन्तर्यामग्रहादिनि प्रधानैरनुष्ठानबाहुल्यं प्रसिद्धम् । कीदृशायेन्द्राय । वसुरुद्रादित्यैरन्यैरप्यूर्ण दैवविभुभिः समभृत्यैर्वाजेनामेन बृहस्पतिना सुरगुरुणा सर्वदेवहितभागि ग्यैश्च युक्तत्वेन वखादिमते । अयमिन्द्रो यस्य सोमस्य वल्लीरूपस्य रसं पीर वृत्राणि यजमानस्य शत्रन्पापानि च जवनविनाशितवांस्तादृशं सोमा पूर्वत्रान्वयः। अथवा यस्य यजमानस्य संबन्धिनं सोमं पीत्वेति व्याख्या स यजमानो जन्यानि जने संभावितानि पापानि प्रतारिषत्प्रकर्षण की वान्भवति । ओमित्यङ्गीकारार्थः । अयं युक्तार्थ एवमेवेत्यङ्गीकारायः।
एतन्मत्रसाध्यं प्रत्युत्थानमुपपादयति
प्रत्युत्थेया वा आपः प्रति वै श्रेयांसमा यन्तमुत्तिष्ठन्ति तस्मात्प्रत्युत्थेयाः, इति ।
१ ख. स. तेयाऽन अमुरुतेमाः पश्यति ।
तीयः खण्डः] ऐतरेयबामणम् ।
२२६ विविधा भापस्ताः प्रत्युत्थेया एव । दर्शनानन्तरमेव प्रत्युत्थानं कर्त लोकेऽपि श्रेयांसमतिप्रशस्तमाचार्यपित्रादिकमायान्तं स्वसंमुखत्वेन तं प्रति शिष्यपुत्रादय उत्तिष्ठन्त्येव । तस्मादतिमशस्ता भाप:
पानयोग्याः।
केवलं प्रत्युत्थानं किं त्वनुवर्तनमपि कर्तव्यमिति विधत्ते
अनुपर्यावृत्याः, इति । अनु पृष्ठतः पर्यावत्याः परितः संचरणयोग्या द्विविधा आपः ।
देतदुपपादयति
अनु वै श्रेयांसं पर्यावर्तन्ते तस्मादनुप
ढित्या अनुब्रुवतैवानुप्रपत्तव्यम् , इति । श्रेयांसमाचार्यादिकमनुगम्य शिष्यादयः परितः संचरन्ति तस्मादत्रापि यस्थानीयेन होत्रा पूर्वोक्तमपोनप्त्रीयं निगदमनुब्रुवतैव तासामपां पृष्ठतोऽ तव्यम् । मनु यागकर्तृत्वायजमानस्यैवानुव्रजनं युक्तं न तु होतुरित्याशङ्कयाऽा । ईश्वरो ह यद्यप्यन्यो यजेताथ होतारं । यशोऽति॒स्तस्मादनुब्रुवतैवानुप्रपत्तव्यम्, इति । पद्यपि होता यागकर्ता न भवत्यथाप्यनुवजन्तं होतारं यशः कीर्ति
श्वरो ह प्राप्तुं समर्थैव । तस्मात्कीर्तिहेतुत्वादनुब्रवतैव होत्रा तासाम नुगमनं कर्तव्यम् । मनु म देवत्रेत्यादीनामृचा तास्वध्वर्यवित्यादिनिगदस्य च पूर्वमेवानूक्त दतः परमनुगमनकाले किमनुवक्तव्यमित्याशझ्यानुवक्तव्यामवशिष्टामचं ते अम्बयो यन्त्यध्वभिरियेतामनुब्रुवन्ननु प्रपद्येत, इति । भस्या ऋचो द्वितीयतृतीयपादावनुवदति जामयो अध्वरीयताम् । पृञ्चतीमधुना पय इति, इति । तस्यायमर्थः । अम्बेत्यव्ययं मातृवाचकं तद्रूपत्वं यातीत्यम्बयाः । छान्द
अम्बयो यन्त्यः-१-२३-१६॥
२२४
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम-[८ अष्टमा
सो हस्वः । मातृसमाना एता द्विविधा आपोऽध्वभिर्नानाविधैर्मागन्तिा न्ति । कीदृश्यः । अध्वरीयतामध्वरं यज्ञमात्मन इच्छतां यजमानानांजा सनाभयो भ्रातृस्थानीया इत्यर्थः । तथा स्वकीयं पय उदकं मधुना मागे सोमरसेन पृश्चतीः संयोजयन्त्यः ।
अस्यामृचि मधुशब्दतात्पर्य दर्शयति
योऽमधव्यो यशोऽर्बुिभूषेत्र , इति । यः पुमान्पूर्वममधव्यो मधुररसं सोमं नाईति स यदि यशोऽोः सोमयाग निमित्तां कीर्ति प्राप्तुं समर्थो भवितुमिच्छेत्स पुमान्पूर्वोक्तामनुब्रवननभपती त्यन्वयः।
ऋगन्तरं फलविशेषाय विधत्ते
अमूर्या उपसूर्ये याभिर्वा सूर्यः सहेति
तेजस्कामो ब्रह्मवर्चसकामः, इति । . शरीरकान्ति श्रुताध्ययनसंपत्तिं च कामयमानः पुमानमूर्या इत्येतामुत्र ध्यात् ।
फलान्तरार्थमृगन्तरं विधत्ते
अपो देवीरुपह्वये यत्र गावः
पिबन्ति न इति पशुकामः, इति । पशुमाप्त्यर्थमपो देवीरित्येतामृचमनुब्रूयात् । अम्बयो यन्त्यमूर्या अपो देवीरित्येतासां तिसृणां विधिमुपसंहरति
ता एताः सर्वा एवानुब्रुवन्ननुप्र
पद्यतैतेषां कामानामवरुद्धयै , इति । अथवा नित्यानुष्ठानार्थोऽयं पुनर्विधिः । एतेषामित्यादिस्तत्पशंसाथः । वेदनं प्रशंसति
एतान्कामानवरुन्धे य एवं वेद , इति । ऋगन्तरस्य कालं विधत्ते
अमूर्या उपसूर्ये०-१-२३-१७ । अपो देवीरुपह्वये०-११-२३-१४
१ ग. घ. इ. च. अ. ‘तॊ बुझ्।
तृतीयः खण्डः]
ऐतरेयबामणम् ।
२२५ एमा अग्मत्रेवतीर्जीवधन्या इति साधमाना
स्वन्वाह वसतीवरीष्वेकधनासु च , इति । कादिविधा आपो यदा वेद्यां सायन्ते तदानीमेमा अग्मनियेतामनुब्रूयात् । ऋगन्तरेण समाप्तिं विधत्ते
आऽग्मनाप उशतीबहिरेदमिति सन्नासु
स एतया परिदधाति ॥२०॥ इति । द्विविधास्वप्सु वेद्यां स्थापितास्वाऽग्मन्नाप इत्येतामृचमनुयात् । सोऽनुवक्ता तैतयैवर्चाऽनुवचनं समापयेत् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयवा
ह्मणभाष्येऽष्टमाध्याये द्वितीयः खण्डः ॥२॥ (२०)[५०]
‘पूर्वस्मिन्खण्डे द्विविधास्वप्सु वेद्यां सादितास्वपोनप्त्रीयानुवचनस्य समाप मुक्तम् । तत्र सादनप्रकार आपस्तम्बेन दर्शितः-‘अपरया द्वारा हविर्धा मपः प्रपादयति पूर्वया गतश्रियः पूर्वया यजमानः प्रपद्यते दक्षिणस्य हविर्धा स्य मधुरे प्रचरणीय सादयति यं कामयेत पण्डकः स्यादिति तं प्रथरण्योप पृशेदेतस्यैव हविर्धानस्याधस्तात्पुरोक्षं मैत्रावरुणचमसमुत्तरस्यां वर्तन्यां पुर किर होतृचमसमुत्तरस्य हविर्धानस्याधस्तात्पुरोक्षं वसतीवरीः पश्चादक्षमेक ना एतद्वा विपरीतमदो यजमानोऽनुप्रपद्यते’ इति । एवं सादितास्वप्स्वपोन श्रीया ऋचः समाप्य होताऽवतिष्ठते । ततोऽध्वर्युर्दधिग्रहेणांशुग्रहेणादाभ्यग्रहे. रोपांशुग्रहेणान्तर्यामग्रहेण क्रमात्पचरति तावदयं होता वाचं नियम्यैवाऽऽस्ते ।
तदिदं विधत्ते
शिरो वा एतद्यज्ञस्य यत्प्रातरनुवाकः प्राणा पाना उपांश्वन्तर्यामौ वज्र एव वाङ्नाहुतयो
रुपांश्वन्तर्यामयोहोंता वाचं विसृजेत, इति । योऽयं मातरनुवाकः पूर्वमुक्तः सोऽयं यज्ञस्य शिरस्थानीय उपांश्वन्तर्याम
मा अग्मन्त्रेवती०-१०-३०-१४ । आऽग्मन्नाप०-१०-३०-१५ ।
२९
१ क. अ. प्रकरे ।
२२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ८ अष्टमाध्यारे, प्रहौ प्राणापानस्थानीयौ, एष ते योनिः प्राणाय त्वा, एषते योनिरपान त्वेति तदीयमत्रयोः श्रवणात् । होतुर्या वाक्सा वज्रस्थानीया । अत एवाना भ्रूयते-‘यद्वै होताऽध्वर्युमभ्यायते वज्रमेवमभिप्रवर्तयति’ इति । एवं साल युणोपांश्चन्तर्यामग्रहयोर्हतयोः सतोः पश्चाद्धोता वाचं विसृजेत । तावत्पर्य वाचं नियच्छेत् ।
विपक्षबाधकपूर्वकं स्वपक्षमुपसंहरति
यदहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत वाचा वज्रेण यजमानस्य प्राणान्वीयाद्य एनं तत्र ब्रूयादाचा वज्रेण यजमानस्य प्राणान्व्यगा प्राण एनं हास्यतीति शश्वत्तथा स्यात्तस्मानाहु तयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत, इति । उपांश्चन्तर्यामहोमात्पूर्व वाचं विसृजन्होता वाग्वत्रेण यजमानस्य प्राणानी याद्विगतान्कुर्यात् । कथं प्राणविगम इति तदुच्यते । तत्र तस्मिन्होतुर्वाग्विसमें सति यः कश्चिदागत्यायं होता वाग्वज्रेण यजमानस्य प्राणान्व्यगाद्विगतानक रोत्तस्मात्माण एनं यजमानं हास्यति परित्यजतीत्येनं होतारं प्रति ब्रूयात् । तदानीं तेन पुरुषेण होतरि शप्ते सति तदीयशापो(पे)न शश्वत्तथा स्यादव यजमानप्राणविगमो होतुस्तद्वधप्रत्यवायश्च भवेत् । तस्मानाहुतयोरुपश्चिन्तगोप यो:ता वाचं विसृजेत ।
सपश्चिन्तर्यामहोमादूर्ध्व वाग्विसर्गप्रकारं विधत्ते
प्राणं यच्छ स्वाहा वा सुहव सूर्यायेत्युपांशु मनुमन्त्रयेत तमभि प्राणेत्प्राण प्राणं में यच्छेत्यपानं यच्छ स्वाहा वा सुहव सूर्या येत्यन्तर्याममनुमन्त्रयेत तमभ्यपानेदपाना पानं मे यच्छेति व्यानाय वेत्युपांशुसवनं
ग्रावाणमभिमृश्य वाचं विसृजते, इति । शोभनों हवो होमो यस्येत्युपांशुग्रहस्य सोऽयं सुहवो हे सुहव सूर्यायत
१ क. ‘थुमित्याह।
| चतुर्थः खण्डः] ऐतरेयबामणम् ।
२२७ मानिसूर्यदेवताप्रीत्यर्थं त्वोपांशुग्रहरूपं स्वाहा सुष्ठु हुतं करोमि । अतो
बन्धिनं पाणं यच्छ देहीत्यनेन मत्रेणोपांशुग्रहस्यानुमत्रणं कुर्यादिति। दीय मन्त्रणमनुमत्रणम् । ततस्तमभि माणेत्तमुपांगुग्रहमभिलक्ष्योच्छ्वासं यति । तत्र प्राणेत्यादिको मत्रो हे प्राणरूपोपांशुग्रह मे मह्यं प्राणं यच्छ
के सहवान्तर्यामाहेत्येतावान्विशेषः । अन्यत्पूर्ववत् । अपानेनिश्वासं पति । उपांशुग्रहार्थ सोमाभिषवहेतुर्यः पाषाणस्तं व्यानाय त्वेति मवे. मिशेत । हे पाषाणोपांशुसवनाख्य त्वां प्राणापानयोर्मध्यवर्तिव्यानवायु विध्यर्थमभिमशामीति शेषः । अभिमर्शनादूर्व मौनं परित्यज्य बाग्व्यव रं कुर्यात् ।
उपांशुसवनम(ना)भिमर्शनमुपपादयति
आत्मा वा उपांशुसवन आत्मन्येव तद्वोता प्राणा न्प्रतिधाय वाचं विसृजते सर्वायुः सर्वायुत्वाय,इति । योऽयमुपांशुसवनो ग्रावा सोऽयमात्मा वै शरीरमेतत्तदीयाभिमर्शनेनायं ना शरीर एव प्राणानवस्थाप्य स्वयं शतसंवत्सरपरिमितेन सर्वेणाऽऽयुषा को वाचं विसृजते । तच्च यजमानस्य संपूर्णायुःप्राप्तये भवति । वेदनं प्रशंसति
सर्वमायुरेति य एवं वेद ॥२१॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्येऽष्टमाध्याये तृतीयः खण्डः ॥३॥ (२१) [१]
अन्तर्यामग्रहहोमादूर्व महाभिषवं कृत्वैन्द्रवायवमारभ्य यवमत्यन्त(प्र) । तत्तत्पात्रेषु सोमं गृहीत्वा सादितेषु वैग्रुषान्होमान्हुत्वा बहिष्पवमानार्थ पयेयुः । प्रसर्पणप्रकारमापस्तम्ब आह-‘सप्तहोतारं मनसाऽनुद्रुत्याऽऽह वि सग्रहं हुत्वोदश्चः महा बहिष्पवमानार्थ पचत्विजः समन्वारब्धाः सर्प ध्वयु प्रस्तोताऽन्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहारमुद्रातोद्गातारं ब्रह्मा गण यजमानः’ इति । आश्वलायनोऽप्याह-‘अध्वर्यमुखाः समन्वारब्धाः साताथदशात्तत्स्तोत्रायोपविशन्त्युदातारमभिमुखास्ताहोताऽनुमत्रयतेऽत्र सीनो यो देवानामिह’ इति । ततो होतुः सर्पणं निवारयितुं पूर्वपक्षमुपन्यस्यति
२२८ श्रीमत्सार्यणाचायविरचितभाष्यसमेतम्- [ ( अष्टमाध्यादे
तदाहुः सर्प३त्, न सर्पश्व, इति सपेंदिति हैक आहु रुभयेषां वा एष देवमनुष्याणां भक्षो यद्वहि
ष्पवमानस्तस्मादेनमभिसंगच्छन्त इति वदन्तः, इति । तत्तत्रैन्द्रवायवादिग्रहणादूर्घकालेऽध्वर्युप्रमुखाणां सर्पणे केचिदाहुर्विचार यन्ति । किमयं होता तैः सह सपेन वेति । विचारार्थे प्लतिः । अयं होताजी सपैदिति केचित्पूर्वपक्षिण आहुः । तत्रोपपत्तिं च कथयन्ति । उद्गाभिगेंयम पास्मै गायता नरः [९-११-१] इत्यादिकं स्तोत्रं बहिष्पवमानशब्देनोच्यते। यो बहिष्पवमान एष एव देवानां मनुष्याणां चोभयेषां भक्षः। तेन हि ते से तृप्यन्ति । अत एव पूर्वत्र स्तोमभागानां स्तोत्रेण प्रीतिः श्रुता । तस्मात्कारण देनं बहिष्पवमानं देवमनुष्याः सर्वेऽभिसंगच्छन्त इत्येतामुपपत्तिं वदन्तः।
पूर्वपक्षिणो यदाहुस्तनिराकरोति
तत्तनाऽऽहत्यम्, इति । तस्मिन्सर्पणे तत्पूर्वपक्षिमतं नाऽऽदरणीयम् । विपक्षे बाधं दर्शयति
यत्सदृचमेव तत्सानोऽनुवानं कुर्याद्य एनं तत्र ब्रूयादनुवमा न्वा अयं होता सामगस्या भूदुद्रातरि यशोऽधादच्योष्टाऽऽयतनाच्योष्यत
आयतनादिति शश्वत्तथा स्याव , इति । यद्ययं होता तैः सह सर्पत्तदानी स्वकीयामृचमेव सानोऽनुवानं पृष्ठमा मिनी कुर्यात् । तच्चायुक्तम् । ऋच आधारत्वात् । साम्न आधेयत्वात्पश्चा द्भावि । अत एव च्छन्दोगा आमनन्ति–‘तदेतस्यामृच्यध्यूहळं साम तस्मा दृच्यध्यूहळं साम गीयते’ इति । ततः पुरोगामिन्या ऋचः पश्चाद्वामित्वमयुक्तम् तत्र होतः सर्पणे यः कश्चिदागत्यैनं होतारं ब्रूयादयं होता सामगस्योगातुन वर्मा न्वै पृष्ठगाम्येवाभूत् । अतो होता स्वकीयां यशः कीर्तिमुद्गातयेधात् पितवान् । स्वयमायतनात्स्वकीयपदादच्योष्ट च्युतवान् । इतः परमाप का ष्यते स्वकीयस्थानात्मच्युतो भविष्यतीत्येवं पुरुषान्तरेण शप्तस्य हातुर तथा भवेत् ।
सर्पणं निवार्यानुमत्रणं विधत्तेतुर्थः खण्डः ] ऐतरेयब्राह्मणम् ।
२२९ तस्मात्तत्रैवाऽऽसीनोऽनुमन्त्रयेत, इति । स्यात्मसर्पणे दोषाः सन्ति तस्माद्यत्र पूर्वमवस्थितस्तत्रैवाऽऽसीन इतरेषां गमन्वीक्ष्यानुमत्रयेत। स्मिन्ननुमत्रणे मत्रं दर्शयति
यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्या ३म् , । तस्यापि भक्षयामसीति, इति । ह देशे क्रियमाणो यः सोमयागस्तस्मिन्या वेदिर्यच्च तत्रत्य बहिस्तत्र सर्व नां संबन्धी सोमपीथः सोमयागरूपो बहिष्पवमानाख्यो यो भक्षोऽस्ति प्यंशं वयं भक्षयाम इत्येषोऽनुमत्रणमन्त्रः। प्रशंसति
एवमु हास्याऽऽत्मा सोमपीथा
दनन्तरितो भवति, इति । एवमेवानुमत्रणे सत्यस्य होतुरात्मा जीवः सोमपानात्कदाचिदप्यन्तरितो
विति।
वान्तरं च विधसे
अथो ब्रूयान्मुखमसि मुखं भूयासमिति, इति । पूर्वोक्तान्मत्रादनन्तरं मुखमित्यादिकमपि मत्रं ब्रयात् । हे बहिष्पवमान य त्वं मुखमसि यामध्ये मुख्योऽसि । अतस्त्वत्प्रसादादहमपि मुखं मुख्यो सम् । रतं मवं प्रशंसति ___ मुखं वा एतद्यज्ञस्य यदहिष्पवमानः, इति । तोत्रेषु सर्वेष्वाद्यत्वादहिष्पवमानस्य मुखत्वम् । दनं प्रशंसति
मुखं स्वेषु भवति श्रेष्ठः स्वानां
भवति य एवं वेद, इति । खत्वं लोकव्यवहारप्रवर्तकत्वं श्रेष्ठत्वं विद्यावित्तादिसंपत्तिः। अथ सवनी हाराषु येयं मैत्रावरुणी पयस्याऽस्ति तत्सद्भाव आपस्तम्बन दर्शित:
मतिप्रस्थाता सवनीयाभिर्वपति सर्वे यवा भवन्ति लाजार्थान्परिहा.
.
२१. श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [ ८ अष्टमायं प्येन्द्राय हरिवते धाना इन्द्राय पूषण्वते करम्भं सरस्वत्यै भारसै परिवा। न्द्राय पुरोडाशं मित्रावरुणाभ्यां पयस्याम्’ इति । तामेतां पयस्यां प्रशंसितुमाख्यायिकामाह
आसुरी वै दीर्घजिह्वी देवानां प्रातःसवनमवा लेट् तब्यमाद्यत्ते देवाःप्राजिज्ञासन्त ते मित्राव रुणावब्रुवन्युवमिदं निष्कुरुतमिति तौ तथेत्य ब्रूतां तो वै वो वरं वृणावहा इति वृणाथा मिति तावेतमेव वरमवृणातां प्रातःसवने पयस्यां सैनयोरेषाऽच्युता वरवृता ह्येनयोस्त घस्यै विमत्तमिव तदस्यै समृद्ध विमत्तमिव
हि तो तया निरकुरुताम् ॥ २२॥ इति । दीर्घा जिहा यस्याः सा दीर्घजिही । असुरजातावुत्पन्नत्वादासुरी । म च तलवकारा आमनन्ति-‘दीर्घजिही वा असुर्या सा’ इति । सा च देवान संबन्धि प्रातःसवनमवालेट् स्वकीयया जिहया तस्यावलेहं कृतवती तत्रा प्रातःसवनं विषजिहालेहनेन व्यमाद्यद्विविधं मत्तमभूत् । सर्वस्यापि सबनमय गस्य विपर्यासो जातः। ते देवास्तत्परिहारोपायं प्राजिज्ञासन्त प्रकर्षेण विच रितवन्तः । विचार्य च तत्परिहारसमथौँ मित्रावरुणावब्रुवन्हे मित्रावरुणो ! युवामुभाविदं प्रातःसवनं निष्कुरुतं निर्गतदोषं कुरुतम् । तत्तावदगीकृत्य है। भ्यो वरं याचित्वा प्रातःसवनगतां पयस्यामेव स्वकीयवरत्वेन वृतवन्तौ । पर्या भवाऽऽमिक्षा पयस्या। सैषा वरवृतत्वादेनयोः कदाचिदप्यविच्युता ! प्रातःसवने यदङ्गमस्या अनया दीर्घजिवथा विमत्तमिव कृतमासीत् । तत्सवमल अनया पयस्यया समृद्धमासीत् । यस्माद्विमत्तमिव स्थितं प्रातःसवनं तो नि घरुणी तया पयस्यया निरकुरुतां निवारितवन्तौ तस्मात्समृद्धियुक्ता।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्रामणभाष्येऽष्टमाध्याये चतुर्थः खण्डः ॥ ४ ॥ (२२) [२]
अथ सवनीयपुरोडाशान्विधातुमादौ कथामाह
देवानां वै सवनानि नाघ्रियन्त त एतान्पुरो
–
धमः खण्डः]
२११
ऐतरेयबामणम् । लाशानपश्यंस्ताननुसवनं निरवपन्सवनानां ध्यै ततो वै तानि तेषामध्रियन्त , इति । प्रातःसवनमाध्यंदिनसवनतृतीयसवनानि सन्ति तानि प्रीणि देवा नाध्रियन्त नैव धृतानि देवरवरोद्धमशक्यान्यासन् । ते देवास्तद्धारण पञ्च पुरोडाशान्दृष्ट्वा तान्मतिसवनं निरवपस्तैः पुरोडाशैस्तुष्टानि सवनानि नामर्थे धृतान्यासन् । भाख्यायिकया प्रशस्य पुरोडाशान्विधत्ते
तद्यदनुसवनं पुरोळाशा निरुप्यन्ते सवनाना
मेव धृत्यै तथा हि तानि तेषामध्रियन्त , इति। . त्तिस्माद्देवैर्निरुप्तत्वाधदि यजमानाः(नैः) प्रतिसवनं पुरोळाशी निरुप्येरं इस निर्वापः सवनानां धारणाय भवति । तथा तेनैव हि प्रकारेण तानि नि तेषां देवानामर्थे ध्रियन्तेऽतो मनुष्याणामपि निर्वाप एव धार
दानी पुरोडाशशब्दं निर्वक्ति
पुरो वा एतान्देवा अक्रत यत्पुरोळाशा
स्तत्पुरोळाशानां पुरोळाशत्वम्, इति । त्पुरोळाशाः सन्त्येतान्देवाः पुरो वै सोमाहुतिभ्यः पुरस्तादेवाकत तस्तस्मात्पुरोडाशेति नाम संपन्नम् । दोशृ दान इति धातुः, पुरतो दीय. हविरित्यर्थः । यद्यप्यत्र धानादिषु हविष्षु चतुर्थ एव पुरोडाशस्तथाऽपि न्यायेन धानादीनां सर्वेषां पुरोडाशत्वोपचारः । यद्वा पुरःशब्द एवं येयः । सवनानां धारणार्थ देवा एतानि हवींषि दुर्गमाणि पुराण्यकु ।। यदि पुरस्ताद्यदि वा पुराणि सर्वथाऽपि पुरोडाशशब्दो निष्पद्यते । यि पुरोडाशस्वरूपविशेष निर्धारयितुं पूर्वपक्षमाह
तदाहुरनुसवनं पुरोळाशानिर्वपेदष्टाकपालं प्रातःसवन एकादशकपालं माध्यंदिने
सक्ने दादशकपालं तृतीयसवने तथाहि . स. म. शानिरु’ । २ क. ख. झ. म. “ति । पुरों। ३ क. स. श. म. ‘स्तारवा १४ क. स. ह. अ. दा दा।
२१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ ८ अष्टमाया
सवनानां रूपं तथा छन्दसामिति, इति । तत्तेषु पूरोडाशेषु पूर्वपक्षिण आहुः । प्रतिसवनं निर्वपणीयेषु पोरी क्रमेण कपालसंख्याऽष्टत्वादिरूपा द्रष्टव्या सवनानां रूपस्य तथाविधता तच्च च्छन्दोद्वारेण द्रष्टव्यम् । गायत्री त्रिष्टुन्जगती चेति च्छन्दांसि मम पादकानि गायत्रं प्रातःसवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनी श्रुत्यन्तरात् । तथा सति तत्तच्छन्दोगताक्षरसंख्यानुसारेण कपाल युक्तेति पूर्वपक्षः।
तं निराकृत्य सिद्धान्तं दर्शयति
तत्तनाऽऽहत्यमैन्द्रा वा एते सर्वे निरु प्यन्ते यदनुसवनं पुरोळाशास्तस्मा
त्तानेकादशकपालानेव निर्वपेन, इति । पञ्चसु हविष्षु धानादिषु मध्ये चतुर्थस्य पुरोडाशस्यैन्द्रदेवताकत्वादैन्द्र न्यत्रैकादशकपाल एव प्रायेण विधीयत इति तत्मयत्नावगमादत्रापि विश्व सवनेष्वैन्द्रान्पुरोडाशानेकादशकपालानेव निर्वपेत् । शाखान्तरेऽपि विलोम दोषेण पूर्वपक्षं निराकृत्य सिद्धान्तोऽभिहितः-एकादशकपालानेव पाता बने कुर्यादेकादशकपालान्माध्यंदिने सवन इत्यादि । आपस्तम्बस्त्वन्यशास्त भेदमनुसृत्य पक्षद्वयमप्युदाहरति-‘अष्टौ पुरोडाशकपालान्येकादश माध्यी द्वादश तृतीयसवने सर्वानन्द्रानेकादशकपालाननुसवनमेके समामनन्ति’ इति
अथ तत्पुरोडाशशेषभक्षणे कंचित्पूर्वपक्षमुपन्यस्यति
तदाहुर्यतो घृतेनानक्तं स्यात्ततः पुरो काशस्य प्रानीयात्सोमपीथस्य गुप्त्य
घृतेन हि वज्रणेन्द्रो वृत्रमहनिति, इति । तत्सोमपानस्य रक्षणाय भवति । यस्मादिन्द्रो घृतमेव वजं कृत्वा तना हतवास्तस्मात्तस्य क्रूरत्वाद्धृतरहितं सकलं भक्ष्यमिति पूर्वपक्षिण आहु।
तं निराकृत्य सिद्धान्तं दर्शयति
तत्तत्राऽऽदृत्यं हविर्वा एतद्यदुत्पूतं सोमपीथो वा एष यदुत्पूतं तस्मात्तस्य यत. एव कुतश्च प्राश्नीयात्सर्वतो वा एताः स्वधा. यजमा
।
छः खण्डः]
ऐतरेयब्राह्मणम् । नमुपक्षरन्ति यदेतानि हवींष्याज्यं धानाः
करम्भः परिवापः पुरोळाशः पयस्येति, इति । पतरहितभाग एव भक्षणीय इति मतं नाऽऽदरणीयम् । उत्पवनसंस्कारर स्य घृतस्य वज्रत्वेऽपि यदुत्पूतं घृतं तद्धविरेव । किं च यदुत्पूतं तत्सोमपी दशमेव । तस्मात्तस्य पुरोडाशस्य यतः कुतश्च घृतयुक्ताद्धृतरहिताद्वा यस्मा मादपि भागात्मानीयात् । आज्यं (ज्य)धानादीनि यानि हवींषि सन्ति ता
सर्वतः स्वधाऽनं तद्रूपा एव भूत्वा यजमानमुपक्षरन्ति सवन्ति । तस्मा. र्वतः प्राशनमुपपन्नम् । वेदनं प्रशंसति
सर्वत एवैनं स्वधा उपक्षरन्ति
य एवं वेद ॥ २३ ॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्येऽष्टमाध्याये पञ्चमः खण्डः ॥५॥ (२३) [५३]
1861
Memorial Collection K. Amaritanswekbar Bagatur
विहितान्सवनीयपुरोडाशान्धानादिरूपान्प्रशंसति
यो वै यज्ञं हविष्पङ्क्तिं वेद हविष्पङ्क्तिना यज्ञेन राम्रोति धानाः करम्भः परिखापः पुरो लाशः पयस्येत्येष वै यज्ञो हविष्पङ्क्तिहवि
प्पक्तिना यज्ञेन राम्रोति य एवं वेद, इति । हविषां धानादिद्रव्यरूपाणां पङ्गिः समूहो यस्मिन्सोमयागे सोऽयं हविष्पक्ति दिशं यज्ञं यो वेद स तथैव तादृशेन यज्ञेन समृद्धो भवति । भृष्टा यवतण्डुला नाः । तदाहाऽऽपस्तम्बः-‘कपालानामुपधानकाले प्रथमकपालमत्रेण धानार्थ साथ कपाले अधिश्रित्य तण्डुलानोप्य धानाः करोति व्रीहीनोप्य लाजान्क त पुराडाशमधिश्रित्याऽऽमिक्षावत्पयस्यां करोत्युद्वासनकाले धाना उद्वास्य मित्रण विभज्यार्थी आज्येन संयौत्यर्धाः पिधानात्मावृता(?) सक्तन्क
न्य संयुतं करम्भ इत्याचक्षते लाजान्परिवाप इति न वै लाजेभ्यः स्तुवा सहरात’ इति । पुरोडाशः प्रसिद्धः। अन्ये धानाकरम्भपरिवापपयस्या आपस्तम्बेन व्याख्याताः । एतैईविभियुक्तो यो हविष्पतिः । इवि
सहरतिकरमापन संयौत्युदासनका
पकिराण
वापः पूरे
त्वम्’
२३४. श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [ ८ अष्टमाध्याचे पक्लिनेत्यादिपुनर्वचनमुपसंहारार्थम् । यद्वा पूर्व वेदनपूर्वकानुष्ठानप्रशंसेहत नमात्रप्रशंसा द्रष्टव्या। हविषां पञ्चसंख्यानां समूहरूपा या पतिः सा न्तरेऽप्यानाता-‘ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पंक्तिराप्यतेऽय यज्ञस्य पाङ्गत्वमिति । धानाः करम्भः परिवापः पुरोळाशः पयस्या तेन पर राप्यते तद्यज्ञस्य पति(पाङ्गत्वम्’ इति । अत्रार्थवादेन धानादीनां पुरोडा व्याणां विधिरुन्नेतव्यः।
अनेनैव न्यायेनाक्षराणां पञ्चानां विध्युनियनं दर्शयति
यो वै यज्ञमक्षरपङ्क्तिं वेदाक्षरपङ्क्तिना यज्ञेन रानोति सुमत्पदग्द इत्येष वै यज्ञोऽक्षरपङ्क्ति रक्षरपक्तिना यज्ञेन राम्रोति य एवं वेद, इति । पञ्चसंख्याकानामक्षराणां समूहोऽक्षरपतिः सु, इत्येकमक्षरं मदिति द्वितीय मक्षरं पदिति तृतीयमक्षरं वगिति चतुर्थमक्षरं दे, इति पञ्चममक्षरं तान्येतान्न क्षराणि होतृजपादौ प्रयोक्तव्यानि । तथाच संप्रदायविद आहुः
“एतद्धोतृजपाख्यस्य चाऽऽदितोऽक्षरपञ्चकम् ।
एकैकमक्षरं चात्र परस्य ब्रह्मणो वपुः ॥ सुपूजितं मत्महष्टं पत्सर्वव्यापि तच वक् ।
सर्वस्य वक्तृ ब्रह्मैव दे फलानां प्रदातृ तत्” इति । अन्यत्पूर्ववद्याख्येयम् । तथा पञ्चविधनाराशंसविध्युनयनं दर्शयति
यो वै यज्ञं नराशंसपङ्क्तिं वेद नराशंसपङ् क्तिना यज्ञेन राम्रोति दिनाराशंसं प्रातःसवनं दिनाराशंसं माध्यंदिनं सवनं सकनाराशंसं तृतीयसवनमेष वै यज्ञो नराशंसपक्तिनराशं
सपङ्क्तिना यज्ञेन राम्रोति य एवं वेद, इति । भक्षिताप्यायितानां सादितानां चमसानां नाराशंसशब्दः संज्ञा। अत: माचार्येणाऽऽप्यायितांश्चमसान्सादयन्ति ते नाराशंसा भवन्तीति । भान चमसेषु पुनः पूरणमाप्यायनम् । तथाविधाश्चमसाः प्रातःसवने द्विः
.”–
.
.-
:-
. १ ख. इ. पतिः प्राप्य । २ ख. स. म. लिनाऽऽप्य ।
ठः खण्डः]
ऐतरेयबामणम् ।
२३५ माध्यंदिनसवनेऽपि तृतीयसवने तु सकृदेव । एवं पञ्चसंख्योपेतत्वान सानां पक्तियज्ञे विद्यते।
थैव सवनपकिं दर्शयति
यो वै यज्ञं सवनपङ्क्ति वेद सवनपङ्क्तिना यज्ञेन राम्रोति पशुरुपवसथे त्रीणि सवनानि पशुरनूबन्ध्य इत्येष वै यज्ञः सवनपङ्क्तिः सव
नपतिना यज्ञेन रानोति य एवं वेद, इति । परेधुर्यक्ष्यमाणस्य यजमानस्य समीपे पूर्वेचुर्देवतास्तदीयं यज्ञं प्रतीक्षमाणा सन्ति तस्मादुप समीपे वसन्त्यस्मिन्दिवस इति पूर्वदिवसमुपवसथाख्ये पूर्वदि से यः पशुरनीषोमीयः सोऽप्यत्र सवनसमीपतित्वात्सवनत्वेन गण्यते । तःसवनादीनि तु त्रीणि प्रसिद्धान्येव सवनानि । सवनेभ्य ऊर्ध्वमनुष्ठे ऽनबन्ध्याख्यः पशुरपि पूर्ववत्सवनत्वेन गण्यते । अतः पञ्चानां सवनानां या समूहेन युक्तो यो यज्ञ एष एव सवनपतिः । एवं हविष्पतिप्रसङ्गेनाक्ष तिनराशंसपतिः सवनपतिश्चेत्येतावदभिहितम् । एतदेवाभिप्रेत्य तत्र तत्र को यज्ञ इति श्रूयते । अथ प्रकृतानां सवनीयपुरोडाशानां क्रमेण याज्या विधत्ते
हरिखाँ इन्द्रो धाना अत्तु पूषण्वान्करम्भ सरस्वतीवान्भारतीवान्परिखाप इन्द्रस्या
पूप इति हविष्पङ्क्त्या यजति, इति । हरिनामानौ द्वावश्वावस्य स्त इति हरिवानिन्द्रः। सोऽयं धाना अत्तु भक्ष । सेयं प्रथमहविषो याज्या । पोषकत्वात्पशवः पूषञ्छब्देनोच्यन्ते । खामी देवः पूषण्वान्स तु करम्भमत्त्वित्यनुवर्तते। सेयं द्वितीयहविषो याज्या। रस्वती वाक्साऽस्यास्तीति देवविशेषः सरस्वतीवान् । स एव भारतीवाशरी परणाद्भरणः माणस्तस्य संबन्धिनी देहेऽवस्थितिऔरती तद्युक्तो देवो भारती न्। अयं विशेषणद्वयोपेतो देवः परिवापः परिवापाख्यं हविरतु । इयं तृतीयस्य मा इन्द्रस्यापूपः पुरोडाशः प्रिय इति शेषः। तथा सतीन्द्रोऽपूपमचित्य पगम्यते । सेयं चतुर्थहविषो याज्या । पञ्चमहविःस्वरूपायाः पयस्यायाः
सदनापसंहतेव्या । एवं हविष्पक्त्या यजति हविष्पशिविषर्या . ज्यां पठेदित्यर्थः।
पमतिर
महविःस्व
’ एवं हवि
२३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ ८ अष्टमाना .. प्रथमयाज्यां व्याचष्टे
ऋक्सामे वा इन्द्रस्य हरी, इति । ऋग्देवता सामदेवता चेत्युभयदेवतारूपाविन्द्रस्याश्वावतो हरिवानि मन्त्रोक्तिरित्यर्थः।
द्वितीययाज्यां व्याचष्टे
पशवः पूषाऽनं करम्भः, इति । पोषकत्वात्पशूनां पूषत्वं स्वादुपोषकत्वात्करम्भस्यानत्वमतः पशुखामि करम्भो योग्य इत्यर्थः।
तृतीययाज्यां व्याख्यापूर्व व्याचष्टे
सरस्वतीवान्भारतीवानिति वागेव
सरस्वती प्राणो भरतः, इति । अत्र सरस्वतीवान्भारतीवानिति व्याख्येयमनूद्य वागित्यादिना तयाख्या क्रियते । वागेव सरस्वतीत्येतल्लोकप्रसिद्धं न त्वत्र किंचिद्वक्तव्यमस्तीत्येवशब्द स्यार्थः । शरीरभरणहेतुत्वात्माणो भरतशब्दवाच्यः । तदीयवृत्तिार तदुभयोपेतं मत्सत्ययस्यार्थ इति द्रष्टव्यम् ।
तृतीययाज्याया उत्तरार्ध चतुर्थयाज्यां चानूय व्याचष्टे
परिवाप इन्द्रस्यापूप इत्यनमेव
परिवाप इन्द्रियमपूपः, इति । परिवापशब्दवाच्यानां लाजानां मृदुत्वेनात्तुं सुकरत्वादनत्वम् । इन्द्रियहति हेतुत्वादपूपस्येन्द्रियत्वम् । अत्र हरिपूषादिविशेषणरूपदेवताभेदाधाज्याभेदेन यजनीयस्य विशेषस्येन्द्रस्यैकत्वादेकयाज्यात्वमभिप्रेत्य हविष्पक्त्या या तीत्येकप्रधानविधिरिति द्रष्टव्यम् । होतुरुक्तयाज्यावेदनं प्रशंसति
एतासामेव तद्देवतानां यजमानं सायुज्यं सरू पतां सलोकतां गमयति गच्छति श्रेयसः
सायुज्यं गच्छति श्रेष्ठतां य एवं वेद, इति । य एवं वेदिता होता यजमानमिन्द्रादिदेवतानां सायुज्यं सहवास सहन समानशरीरत्वं सलोकतामेकलोकावस्थानं च प्रापयति । स्वयं च होता
.
.
ठिः खण्डः] ऐतरेयब्राह्मणम् ।
२३७ तिप्रशस्तस्येन्द्रादेः सायुज्यं सहवासं पामोति भागाधिक्येन श्रेष्ठतां च
ति। सवनीयपुरोडाशसंबन्धिनः स्विष्टकृतो याज्यां विधत्ते
हविरमे वीहीयनुसवनं पुरो
ळाशः विष्टकृती यजति, इति । इन इदमस्माभिर्दत्तं हविवाहि भक्षय । एतामेव त्रिष्वपि सवनेषु याज्यां
एतामेव प्रशंसति
अवत्सारो वा एतेनाग्नेः प्रियं धामोपा
गच्छत्स परमं लोकमजयत्, इति । भवत्सारनामकः कश्चिदृषिहविरित्येतेन मत्रेणाग्निदेवतायाः प्रियं स्थान पंतत ऊर्ध्वं ततोऽप्युत्कृष्टं लोकं जितवान् । अत्र सर्वत्र यजुःस्वरूपैव
पा।
देतन्मत्रवेदनं तत्पूर्वकमनुष्ठानं च प्रशंसति
उपामेः प्रियं धाम गच्छति जयति परमं लोकं य एवं वेद यश्चैवं विद्वानेतया हविष्पङ्क्त्या यजते यजतीति च यजतीति च, ॥२४॥ इति । स्य त्रिवेदिनः फलतया(?) हविष्पति स्वार्थमनुतिष्ठतो यजमानस्य परार्थ मा पठतो होतुश्च फलं भवति। उभयविवक्षयाऽऽत्मनेपदपरस्मैपदप्रयोगः।। ति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
भाष्येऽष्टमाध्याये षष्ठः खण्डः ॥ ६॥ (२४)[५४] शत श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्रा
ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्येऽ.
ष्टमोऽध्यायः ॥८॥
२३८
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ९ नवमाध