०७

. अथ सप्तमोऽध्यायः ।

यूपोऽथ यूपाञ्जनमाप्रियश्च पर्यग्न्युपप्रैषमथाध्रिगुश्च ॥

पशौ पुरोडाशविधिर्मनोता वनस्पतिस्विष्टकृदिडास्तुतिश्च ॥१॥ अथ सप्तमाध्याये पशुप्रैषप्रातरनुवाको वक्तव्यौ तत्र पर्यनिकरणस्तुत्यर्था ख्यायिकामाह

देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्या यन्यज्ञवेशसमेषां करिष्याम इति तानाप्रीते पशौ पुर इव पर्यनेषूपं प्रति पुरस्तादुपायंस्ते देवाः प्रतिबुध्याग्निमयीः पुरस्त्रिपुरं पर्यास्यन्त यज्ञस्य चाऽऽत्मनश्च गुप्त्यै ता एषामिमा

thma rator

१८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [७ ससमाध्या

अनिमय्यः पुरो दीप्यमाना भ्राजमाना अति $स्ता असुरा अनपधृष्यैवापाद्रवंस्तेऽमिनैव

पुरस्तादसुररक्षांस्यपानतानिना पश्चात् , इति । पुरा कदाचिदेवा यज्ञमतन्वत विस्तारितवन्तः । यद्यपि पूर्वमीमांसाकमि नवमाध्याये देवानामशरीरत्वात्कर्माधिकारो नास्तीत्युक्तं तथाऽपि प्रशंसार्थत्वेव स्वार्थतात्पर्याभावादविरोधः। यद्वोत्तरमीमांसाकर्तृभिः शरीरमङ्गीकृत्य विद्यापि कारोपपादनादितरेषां शरीरराहित्यमृत्विगादिवत्कर्मकाले प्रत्यक्षशरीरं नास्ती ति(त्ये) तदभिप्रायम् । कर्माधिकारनिराकरणस्य(णं च) कर्मसाध्यस्य स्वर्गस प्राप्तत्वात्तत्प्रयोजनाभावाभिप्रायम् ।जगदनुग्रहार्थं तु तेषां शरीरिणामस्त्येवापि कार इत्यभिप्रेत्य यज्ञमतन्वतेत्यत्रोच्यते । तान्देवान्यज्ञविस्तारिणोऽभिलक्ष्या सुरा आगच्छन् । केनाभिप्रायेणेति तदुच्यते। एषां देवानां यज्ञवेशसं यज्ञविया करिष्याम इति तदभिप्रायः । कदा कुत्र समागता इति तदुच्यते । पशावादी प्रयास्तपिते सति पर्यनेः पुर इव पर्यग्निकरणात्पूर्वस्मिन्काले यूपं प्रति पुर स्तात्पूर्वदेशे तान्देवानसुरा उपागच्छन् । ते देवास्तदागमनं निश्चित्याग्निमयी पुरोऽग्निप्राकारास्त्रिपुरं वेष्टनत्रयं यथा भवति तथा पर्यास्यन्त पशोः पुरत प्रक्षिप्तवन्तः। तच्च प्रक्षेपणं यज्ञस्य देवानां स्वरूपस्य च रक्षणाय भवति । एष देवानां संबन्धिन्यस्ताः पुरः पशोः परितो ज्वलन्त्योऽन्धकारं निवर्त्य तं दे प्रकाशयन्त्योतिष्ठन् । ता अग्निमयीः पुरोऽनपधृष्यैव तिरस्कारमकृत्वैवापा वनपगताः । तत्र देवास्तेन च प्राकाररूपेणाग्निना पूर्वस्यां दिश्यसुरान्सा च हतवन्तः पश्चादप्यग्निनैव इतवन्तः ।

अथ पर्यनिकरणं विधत्ते

तथैवैतद्यजमाना यत्पर्यग्नि कुर्वन्त्यग्निमयीरेव तत्पु रत्रिपुरं पर्यस्यन्ते यज्ञस्य चाऽऽत्मनश्च गुप्त्यै

तस्मात्पर्यग्नि कुर्वन्ति तस्मात्पर्यग्नयेऽन्वाह, इति । यथा देवैरग्निमाकाराः कृतास्तथैवैतयजमानानां पर्यनिकरणम् । अतो य तत्कुर्युस्तदानीममिप्राकारवेष्टनं पशोः परितः प्रक्षिपन्ति । तच्च यज्ञस्य चा त्मनश्च रक्षणाय भवति । तस्मादवश्यं पर्यनिकरणमपेक्षितं तदर्थमनुवचनं च। क्षितम् । तत्र पर्यनिकरणमापस्तम्बो विस्पष्टयति-‘आहवनीयादुल्मुकमार

१ स. मानाः प’ । २ क. ख. स.अ.न्ति य’।

प्रथमः खण्डः] ऐतरेयप्रामणम् ।

१४७ ऽग्नीध्रः परि वाजपतिः कविः[४-१५-३] इति त्रिः प्रदक्षिणं पर्यग्नि ति पशुम्’ इति । अनुवचनं पूर्वमेवाग्निोता नः [४-१५-१] इत्यादिना शतम् । पर्यग्निकरणादू पशोः शामित्रदेशं प्रत्यानयनं विधत्ते

तं वा एतं पशुमाप्रीतं सन्तं

पर्यनिकृतमुदञ्चं नयन्ति, इति । प्रयाजस्तोषितं पर्यनिकरणेन रक्षितं पशुमुदङ्मुखं कृत्वा नयेयुः। नीयमानस्य पशोः पुरतो नेतव्यं विधत्ते

तस्योल्मुकं पुरस्तादरन्ति, इति । तदेतदुभयमापस्तम्बेन स्पष्टीकृतम्-‘आहवनीयादुल्मुकमादायाऽऽग्नीध्रः प्रतिपद्यते शमिता पशुं नयति उरोरन्तरिक्षेत्यन्तरा चात्वालोत्करावुदश्चं नयन्ति’ इति । पशोः पुरतो वह्निनयनं प्रशंसति

यजमानो वा एष निदानेन यत्पशुरनेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्ग लोकमेष्यतीति तेन ज्योतिषा यजमानः

पुरोज्योतिः स्वर्ग लोकमेति, इति । यः पशुरस्त्येष निदानेन सूक्ष्मदृष्टिनिरूपणेन यजमान एव भवति । पशुना त्मनो निष्क्रीतत्वात्पशोर्यजमानत्वम् । [+निष्क्रयणं च पूर्वमेवाऽऽत्मनि- . यणमेवास्य स द्रढयति । श्रुत्यन्तरोदाहरणेन दर्शितम्] पशोः पुरतो नीय नज्योतिषा यजमानः पुरोवर्तिदीपयुक्तो भूत्वा स्वर्ग लोकं प्रयास्यति यथा जामात्यादिः पर्यटने रात्रौ पुरोवर्तिदीपयुक्तो गच्छति तद्वदित्यभिप्रेत्योल्मुकं स्तानयन्ति । तदभिप्रायानुसारेणैव यजमानोऽपि तथा स्वर्ग लोकं पामोति। तदनेः पुरतो नयनं शाखान्तरेऽप्यानातम्-‘यहि पशुमापीतमुदश्चं पशुं न्ति तर्हि तस्य पशुश्रपर्णमाहरेत्तेनैवैनं भागिनं करोति’ इति । शामित्रदेशं नीतस्य पशोहननस्थले बहिष्णक्षेपं विधत्ते

A

  • धनुश्चिनान्तर्गतं वाक्यमसंबद्धम् ।

१ क. पण है।

१८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ७ सप्तमाध्याये

तं यत्र निहनिष्यन्तो भवन्ति तद

ध्वर्युबर्हिरधस्तादुपास्यन्ति, इति । तं पशुं यस्मिन्देशे हनिष्याम इत्येवं मन्यन्ते तस्मिन्देशेऽध्वर्युमो बाम प्रक्षिपेत् । तदेतच्छाखान्तरे समत्रकमानातम्-‘पृथिव्याः संपृचः पारी बहिरुपास्यत्यस्कन्दायास्कनं हि तद्यर्हिषि स्कन्दत्यथो बर्हिषदमेवैनं करोति इति । तदेतदापस्तम्बेन स्पष्टीकृतम्-‘अथ पर्यग्निकृत उल्मुकं निदधाति । शामित्रस्तं दक्षिणेन प्रत्यञ्चं पशुमवस्थाप्य पृथिव्याः संपृचः पाहीति तस्या स्ताहिरुपास्यत्युपाकरणयोरन्यतरत्तस्मिन्संज्ञपयन्ति प्रत्यक्शिरसमुदीची पादम्’ इति ।

पशोरधो बर्हिष्मक्षेपं प्रशंसति

यदेवैनमद आप्रीतं सन्तं पर्यनिकृतं बहि

दि नयन्ति बर्हिषदमेवैनं तत्कुर्वन्ति, इति । प्रयाजैस्तोषितं पर्यग्निकरणेन रक्षितं पशुं सौमिकवेदेवहि गे संज्ञपना नयन्तीत्यदो यदस्ति तदानीमेनं पशुं वर्हिषदमेव दर्भेऽवस्थितमेव कुर्वन्ति । यद्वा बहिषदं यज्ञेऽवस्थितं वेद्यामवस्थितं कुर्वन्ति बाह्यदेशे नयनदोष (पं) परि हरती(न्ती)त्यर्थः।

पशोः पुरीषस्थापनार्थमवटखननं विधत्ते

___ तस्योवध्यगोहं खनन्ति, इति । ऊवध्यं पुरीषं तस्य गोहं गोपनस्थानं तत्कुयुः । अस्य खननस्य काल आपस्तम्बेन दर्शितः-‘ऊवध्यगोहं पार्थिवं खनतादित्यभिज्ञायोवध्यगो खनति’ इति । होता त्वध्रिगुप्रैषमत्रे यदोवध्यगोहमिति वाक्यं पठति तदा खनेदित्यर्थः।

तदेतदूवध्यगोहखननं प्रशंसति

औषधं वा ऊवध्यमियं वा ओषधीनां प्रतिष्ठा तदे. नत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयन्ति, इति । तदेतदर्थवादवाक्यं पूर्वाध्यायमत्रप्रसङ्गे व्याख्यातम् ।

अथ पशुपुरोडाशं प्रशंसितुं प्रश्नमुत्थापयति

तदाहुर्यदेष हविरेव यत्पशुरथास्य बह्वपैति

१८९

प्रथमः खण्डः] ऐतरेयब्राह्मणम् ।

लोमानि त्वगसृकुष्ठिकाःशफा विषाणे स्कन्दति पिशितं केनास्य तदापूर्यत इति, इति । सत्तत्र पशौ चोद्यवादिन आहुः । यद्यदा यः पशुरस्त्येष सर्वोऽपि हविरेव सस्य पशोरुपाकृतत्वात् । अथ तदानीं कस्याप्यवयवस्यापनयो न युक्तः । त बहवयवजातमपैति । तद्यथा लोमानि रोमाणि त्वक्चर्मास्यक्तं कुष्ठिका दरवतिनो भक्षितास्तृणादयः शफाः खुरा विषाणे शृङ्गद्वयमेतत्सर्वमपैत्यग्नो माभावात् । किंच पिशितं मांसं यत्किंचित्स्कन्दति भूमौ पतति तदप्यपैति । वं सति केन प्रकारेणास्य पशोः संबन्धि तत्सर्वमवयवजातं समन्तात्पूर्यत ति प्रश्नः।

तस्योत्तरमाह–

यदेवैतत्पशौ पुरोळाशमनु निर्व

पन्ति तेनैवास्य तदापूर्यते, इति । पश्वालम्भनमनुसृत्य पुरोळाशं निर्वपन्तीति यदिदमस्ति तेनैवास्य पशोः वन्धि तत्सर्वमवयवजातं पूरितं भवति । तदेतदुपपादयति

पशुभ्यो वै मेधा उदकामंस्तौ व्रीहिश्चैव यवश्च भूता वजायेतां तद्यत्पशौ पुरोळाशमनुनिर्वपन्ति समेधेन

नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति, इति । मनुष्याश्वादिभ्यः सकाशान्मेधा यज्ञयोग्या भागा उदक्रामन् । तदेतत्पुरुषं देवा इत्यस्मिन्खण्डे प्रपञ्चितम् । उत्क्रान्तमेधा भूमौ प्रविश्य व्रीहिर्यवश्चेति गौ धान्यविशेषौ विद्यते तावुभौ भूमौत्तौ) तद्रूपतां प्राप्तावजायेतां भूमेः सका. हादुत्पन्नौ । तद्यत्पशावित्यादिकं तस्मिन्नेव खण्डे व्याख्यातम् ।

देतवेदनं प्रशंसति

समेधेन हास्य पशुनेष्टं भवति केवलेन हास्य

पशुनेष्टं भवति य एवं वेद ॥११॥ इति । एतदपि तत्रैव व्याख्यातम् । पुनरप्यत्रोक्तिर्यवप्रशंसा । पूर्वत्र व्रीहिमात्रे पाशस्त्यम् । इह तु व्रीहियवावुभावपि प्रशस्येते इत्य(ति)विशेषः ।

१ . अ. वै । ख. द्वौ।

१९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ७ सप्तमाध्या

अत्र यदेष हविरेव यत्पशुरित्युक्तं तत्र कश्चिद्विशेषो दशमाध्यायस्यमा पादे चिन्तित:

“पशुः कृत्स्नो हविः किं वा प्रत्यक्षं हविरन्यता ।

आद्यश्चोदनया मैवमवदानपृथक्त्वतः” इति । अग्नीषोमीयं पशुमालभेतत्यत्र कृत्स्नस्य पशोरेकहविष्टं युक्तम् । कताः। अग्नीषोमदेवता प्रति द्रव्यत्वेन पशोचोदितत्वात् । न हि हृदयाघझं साश त्पशुर्भवतीति प्राप्ते ब्रूमः । हृदयस्याग्रेऽवद्यत्यथ जिहाया अवधति वक्षसो वद्यति दोष्णोरवद्यति पार्श्वयोरवद्यतीत्यादिना हृदयाघङ्गानामवदानानि पृथगाम्नायन्ते । अवदानं च हविष्वप्रयोजकः संस्कारः पुरोडाशादी होता वदीयमानत्वदर्शनात् । हविःशब्दः स्वकर्मव्युत्पत्त्या होमयोग्यं द्रव्यं आते। पवाकृतिचोदना तु हृदयाघनाद्वारेण । तस्मात्मत्यहं हविर्भेदः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये सप्तमाध्याये प्रथमः खण्डः ॥१॥ (११) [४]

अथ स्तोकानुवचनीया विधातुमादौ प्रैषमन्त्रं विधत्ते

तस्य वपामुखिद्याऽऽहरन्ति तामध्वर्युः सुवे

णाभिघारयन्नाह स्तोकेभ्योऽनबहीति, इति । तस्य पशोर्वपामुदरगतां वस्त्रसदृशीमुखिद्योद्धृत्य होमार्थमाहरन्ति । तां च वपामध्वर्युरभिधारयन्षमत्रं ब्रूयात् । तदेतदापस्तम्बो विशदयति–‘त्वामुते दधिरे हव्यवाहमिति सुवेण वपामभिजुहोति प्रादुर्भूतेषु स्तोकेषु स्तोकेभ्योऽनु ब्रहीति संप्रेष्यति’ इति ।

तस्य प्रैषिकस्य तात्पर्य दर्शयति

तद्यत्स्तोका श्वोतन्ति सर्वदेवत्या वै स्तोका

नेन्म इमेऽनभिप्रीता देवान्गच्छानिति, इति । तत्तस्यां वपायां तदानीमेव क्लिन्नायामायां श्रप्यमाणायां यदा स्तोका नीरबिन्दवः श्रोतन्ति निर्गत्याधः पतन्ति तदानीं सर्वदेवानां प्रियत्वादि स्तोकाः खयमनभिप्रीता अस्मासु प्रीतिरहिता देवान्गच्छान्गमिष्यन्ति । तय सति महदेतदस्माकं भयकारणं तन्मा भूदित्यभिप्रेत्य स्तोकप्रीणनार्थमिदं प्रा नुवचनम् । अत्र नेदित्ययं शब्दः परिभयार्थः ।

१.क. ख. भ. ‘नाच्छन् ।-

द्वितीयः खण्डः] ऐतरेयबामणम् ।

१९१ अथानुवचनं विधत्ते

जुषस्व सप्रथस्तममित्यन्वाह, इति । तस्यानुवचनस्य काल आश्वलायनेन दर्शितः—‘वपायां श्रप्यमाणायां तः स्तोकेभ्योऽन्वाह जुषस्व’ इति । अत्रानुवचनवक्ता मैत्रावरुणः । तदाह यन:-‘यदा जानाति स्तोकेभ्योऽनुब्रहीति तदा मैत्रावरुणः स्तोकीया वाह जुषस्व सपथस्तमम्’ इति । तस्या ऋचो द्वितीयतृतीयपादमनुवदति वचो देवप्सरस्तमम्। हव्या जुह्वान आसनीति, इति । सर्वस्या ऋचोऽयमर्थः । हेऽग्ने हव्या हवींष्यस्मदीयानि आसन्यास्ये व जुबानः प्रक्षिपन्वचोऽस्मदीयं स्तोत्रं जुषस्व सेवस्व । कीदृशं वचः सम तममतिशयेन प्रथसा विस्तरेण सहितं देवप्सरस्तमं देवानामतिशयेन णयितु ।

अत्राऽऽसनीतिपदस्याभिप्रायं दर्शयति

अनेरेवैनांस्तदास्ये जुहोति, इति । तत्वेन मत्रपाठेन स्तोकानग्नेरेव मुखे जुहोति । अनुवचनीयामेकामृचं विधाय पुनरप्यनुवचनीयं पश्चर्च सूक्तं विधत्ते

इमं नो यज्ञममृतेषु धेहीति सूक्तमन्वाह, इति । जातवेद इति संबोधनं वक्ष्यते । नोऽस्मदीयमिमं यज्ञममृतेषु देवेषु धेहि पिय। द्वितीयपादमनूध व्याचष्टे

इमा हव्या जातवेदो जुष

खेति हव्यजुष्टिमाशास्ते, इति । जुषस्वेत्यभिधानाद्धविःसेवायाः प्रार्थनम् । तृतीपादमनूध व्याचष्टे

स्तोकानामग्ने मेदसो घृतस्येति मेद

सश्च हि घृतस्य च भवन्ति, इति । जुषस्व सप्रथ०-१-७५-१ । इमं नो यज्ञममृतेषु०-३-२१-१ ।

१९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [७ सप्तमाध्याने

हेऽग्ने मेदसो वपाया हूयमानस्य च घृतस्य ये स्तोका बिन्दवः सन्ति । मध्ये स्वादून्विन्दूनित्यध्याहारः । पाशानेति वक्ष्यमाणेनान्वयः । सो स्तोकाः पतन्ति यस्मान्मेदसश्च घृतस्य च संबन्धिनो भवन्ति तथा तोऽयं वादः।

चतुर्थ पादमनूध व्याचष्टे

होतः प्राशान प्रथमो निषद्येयनि देवानां

होताऽने प्राशान प्रथमो निषोत्येव तदाह, इति । हे होत.मनिष्पादकाने त्वं प्रथमो मुख्यः सन्निषद्योपविश्य स्तोकामा शान भक्षय । यद्यपि होतृशब्दोऽत्र प्रयुक्तस्तथाऽप्यनेरेव देवहोतृत्वादग्निस संबोध्य चतुर्थपादो ब्रूते ।

अस्मिन्सूक्ते द्वितीयस्या ऋचः पूर्वार्धमनूद्य व्याचष्टे .. घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदस

इति मेदसश्च ह्येव हि घृतस्य च भवन्ति, इति । हे पावक शोधकाने ते त्वदर्थ मेदसो वपायाः संबन्धिनो धृतवन्तो घृतमः हिताः स्तोका बिन्दवः श्वोतन्ति । अत्र मेदःसंबन्धे घृतसंबन्धे च पृथवा सिद्धिं वक्तुं मेदसश्च ह्येव हि घृतस्य चेति हिशब्दद्वयम् । .

उत्तरार्धमनूय व्याचष्टे

स्वधर्म देववीतये श्रेष्ठं नो धेहि

वार्यमित्याशिषमाशास्ते, इति । देववीतये देवानां भक्षणाय नोऽस्माकं स्वधर्म कुलोचितयागादावनुष्ठान रूपं धर्म धेहि संपादय । कीदृशं धर्म श्रेष्ठमतिप्रशस्तम् । अत एव वार्य सर्व रणीयम् । अत्र स्वधर्म धेहीत्यनेनाऽऽशी प्रतीयते ।

तृतीयस्या ऋचः पूर्वार्धमनूय व्याचष्टे

तुभ्यं स्तोका वृतश्रुतोऽग्ने विप्राय

सन्येति वृतश्चुतो हि भवन्ति, इति । सन्तिनं तामहतीति सन्त्यो हे सन्त्य फलप्रदानकुशलाग्ने विप्राय में घृतवन्तः पावक०-३-२१-२ । तुभ्यं स्तोका घृत०-३-२१-३।

। द्वितीयः खण्डः] ऐतरेयबामणम् ।

१९३ ने तुभ्यं त्वदर्थ स्तोका बिन्दवो घृतश्चतो घृतस्राविणो वर्तन्ते । अत्र घृत. प्रावित्वप्रसिद्धि हिशब्देन दर्शयति ।

उत्तरार्धमनूध व्याचष्टे

ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता

भवेति यज्ञसमृद्धिमाशास्ते, इति । हेऽग्ने, ऋषिर्देष्टा श्रेष्ठः प्रशस्ततमश्च समिध्यसेऽस्माभिः प्रज्वाल्यसे । अतो स्यास्मदीयस्य माविता प्रकर्षण रक्षिता भव । अत्र यज्ञरक्षणवचनेन या. समृद्धिमार्थनम् ।

चतुर्थ्या ऋचः पूर्वार्धमनूध व्याचष्टे

तुम्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो

घृतस्येति मेदसश्च ह्येव हि घृतस्य च भवन्ति, इति । हेऽध्रिगो घृतरश्मे हे शचीवः शक्तिमन्नने मेदसो वपायाः संबन्धिनो तस्य स्तोकासो बिन्दवस्तुभ्यं त्वदर्थ श्चोतन्ति क्षरन्ति । अत्रापि हिश दद्वयं पूर्ववत् ।

उत्तरार्धमनूध व्याचष्टे

कविशस्तो बृहता भानुनाऽऽगा हव्या जुष

ख मेधिरेति हव्यजुष्टिमेवाऽऽशास्ते, इति । हेऽने त्वं कविशस्तो विद्वद्भित्विग्भिः स्तुतः सन्बृहता भानुना महता जसा युक्त आगा आगच्छ । हे मेधिर यज्ञयोग्यास्मदीयानि हव्यानि पस्व । तदेतद्धविःसेवायाः प्रार्थनम् ।

पञ्चम्या ऋचश्चतुरोऽपि पादाननुवदति

ओजिष्ठं ते मध्यतो मेद उद्धृतं प्र ते वयं ददामहे । श्चोतन्ति ते वसो स्तोका

अधित्वचि प्रति तान्देवशो विहीति, इति । हेऽने त्वदर्थमोजिष्ठं बलवत्तमं मेदो वपारूपं मध्यतः पशोर्मध्यभागावुद्धत. शिष्य संपादितं वयं यजमानास्ते तुभ्यं प्रददामहे प्रकर्षेण दमः । हे वसो तुम्यं श्रोतन्त्यध्रिगो०-३-२१-४ । ओजिष्ठं ते मध्यतो०-३-२१-५॥

–.

– – - .. .

.



. . . .

.

१९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [७ सप्तमाध्यारे सर्वेषां निवासहेतोऽधित्वचि वपायामधिश्रिताः स्तोका बिन्दवस्ते की बोतन्ति क्षरन्ति । देवशस्तत्तदेवतुष्ट्यर्थं तान्स्तोकान्मति विहि प्रत्येक पिव।

पतन्मवतात्पर्य दर्शयति

अभ्येवैनांस्तहषट्करोति यथा

सोमस्याग्ने वीहीति, इति । तत्तेन मवपाठेनैतान्स्तोकानभिवषदकारमत्रं पठति । यथा सोमस्येत्यादि। मनस्तद्वत् ।

इदानी स्तोकान्मशंसति

तद्यत्स्तोका श्रोतन्ति सर्वदेवत्या वै स्तोकास्तस्मा दियं स्तोकशो वृष्टिविभक्तोपाचरति ॥ १२॥ इति । तत्सस्यां वपायां यद्यस्मात्कारणात्स्तोका थोतन्ति ते च स्तोकाः सर्वासा देवतानां प्रिया एव तस्माद्देवानुग्रहादियं वृष्टिलोंके स्तोकशः प्रतिविन्दुभि विभक्ता सती भूसमीपमागच्छति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्रामण

भाष्ये सप्तमाध्याये द्वितीयः खण्डः ॥२॥ (१२) [१२] अय वपाप्रशंसा हदि निधाय तदुपयोगिनं कंचित्प्रश्नमुत्थापयति

तदाहुः काः स्वाहाकृतीनां पुरोनु

वाक्याः कः प्रेषः का याज्येति, इति । स्वाहाकतिशब्देनान्तिमप्रयाजदेवता उच्यन्ते । तासां देवतानां पुरो वाक्याऔषयाज्यासु ज्ञानरहिता ब्रह्मवादिनः पृच्छन्ति ।

तस्य प्रश्नस्योत्तरमाह

या एवैता अन्वाहैताः पुरोनुवाक्या यः प्रैषः

स प्रेषो या याज्या सा याज्या, इति । वपासंबन्धिस्तोकार्थ प्रेषितो मैत्रावरुणो जुषस्वेत्यादयो(घा) या एवंदा भन्वाह, एता एवं स्वाहाकृतीनां पुरोनुवाक्या भवन्ति । न त्वन्याः सान्त अनेन वपामशंसा सूचिता । भैषसूक्ते होता यक्षदमिं स्वाहाऽऽज्यस्येति भर जान्तिमो यः मेष आन्नातः स एष प्रेषः। आमीसूक्ते येयमुत्तमा याज्या गाऽऽनाता सेव स्वाहाकृतिदेवतानां याज्या। तदेतत्सर्वमानसमस्या

तृतीयः खण्डः]

ऐतरेयबामणम् ।

पुनरपि तथाविधं प्रभान्तरमुत्थापयति __ तदाहुः का देवताः स्वाहाकृतय इति, इति । अग्निवाय्वादिवत्स्वाहाकत्याख्या अपि प्रसिद्धाः काश्विन सन्ति तस्मा

का इत्यज्ञात्वा प्रश्नः। तस्योत्तरं दर्शयति

विश्वे देवा इति ब्रूयात, इति । प्रसिद्धा ये देवाः सन्ति ते सर्वे स्वाहाकत्याख्या इत्यभिज्ञात उत्तरं ब्रूयात् । तदेतदुपपादयति

तस्मात्स्वाहाकृतं हविरदन्तु

देवा इति यजन्तीति, इति । अस्या अन्तिमप्रयाजयाज्यायाश्चतुर्थपाद एवमानातः स्वाहाकृतं इविर । देवा इति । तस्य पादस्यायमर्थः । स्वाहाकारेण संस्कृतं हविः सर्वे देवा सयन्त्विति । एवं सति स्वाहाकृतिनामकाः सर्वे देवास्तस्मात्स्वाहाकतमि पादिपादसहितेन मत्रेणान्तिम प्रयाज यजति । मवलिङ्गमेवं स्वाहाकृतिश इन सर्वदेवताभिधाने प्रमाणमित्यर्थः । पशोः पर्यनिकरणात्पूर्व प्रयाजकाले शैव प्रयाजा इष्टा अन्तिमप्रयाजस्त्ववस्थापितः । तदुक्तमापस्तम्बेन-‘दशे. कादशायाऽऽज्यमवशिनष्टि’ इति । सोऽयमवशिष्टोऽन्तिमप्रयाजो जुषस्व सम. स्तमम् [१-७५-१] इत्यादिः स्तोकानुवचनादूर्व वपाहोमात्मागिज्यते । तो व्यवहितत्वादन्तिमप्रयाजविषयः पुरोनुवाक्याप्रेषयाज्याप्रश्नो युक्तः। समीपवर्तित्वादेव स्तोकानुवचनमत्राणामेतदीयपुरोनुवाक्यात्वं चोपपत्रम् । नुष्ठानस्य व्यवधानेऽपि प्रेषयाज्ये तत्तदनुवाकोक्त एवेति स्मर्यते ।

अथ वपाहोमं प्रशंसितुमाख्यायिकामाह

देवा वै यज्ञेन श्रमेण तपसाऽऽहुतिभिः स्वर्ग लोकमजयंस्तेषां वपायामेव हुतायां स्वर्गों लोकः प्राख्यायत ते वपामेव हुत्वाऽनादृत्ये तराणि कर्माण्यूाः स्वर्ग लोकमायंस्ततो वै क. स्व. स. अ. स्यान्ति । २ अ. क्यार्थत्वं । । १. वाक्योक्ते । ४ क. म. के

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[७ सप्तमाध्या, मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्याय- . न्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति तेऽ भितः परिचरन्त ऐत्पशुमेव निरान्त्रं शयानं ते

विदुरियान्वाव किल पशुर्यावती वपेति, इति । पुरा कदाचिद्देवा ज्योतिष्टोमादियागेन तीर्थयात्रादिश्रमेण कृच्छ्रचान्द्राय णादितपसा कूष्माण्डगणहोमादिगताभिराहुतिभिश्च स्वर्ग लोकमजयन्वशी. तवन्तः । तेषां देवानां यज्ञमध्ये वपायामेव हुतायां स्वर्गः प्रख्यातोऽभूत । ततस्ते देवा वपामेव हुत्वोत्तरकालीनानि सर्वाणि कर्माण्यनादृत्योर्वाभिमुखाः स्वर्ग लोकं प्राप्ताः । अनन्तरं मनुष्याश्च ऋषयश्च यज्ञसंबन्धि किंचिदुत्तमम मन्विष्य निश्चेष्याम इति विचार्य तत्प्रज्ञानाय यज्ञानां ज्ञानाय देवानां या भूमि प्रत्यागच्छन् । आगत्य च ते मनुष्यादयस्तदन्वेषणार्थ तस्यां यवभूमी परितश्चरन्तः । निरानं निरजं शयानं भूमौ पतितं पशुमेवैत्माप्तवन्तः । वपाया देवरुत्कृत्य हुतत्वादयं पशुनिराम्रो दृष्टः । यद्यप्यानशब्दः पुरीतद्वाची तया: प्यत्र तेन वपोपलक्ष्यते । मनुष्यादयः स्वमनस्येवं विदुनिश्चितवन्तः-पा यावती विद्यत एतावानेव किल पशुरन्यथा कथं देवा वपामेव हुत्वा शिष्टा. न्यान्युपेक्षितवन्तः । तथा पशौ सारभूतमङ्गं वपेति ।

आख्यायिकामुखेन वपां प्रशस्य श्रुतिः स्वयमपि साक्षात्पशंसति

स एतावानेव पशुर्यावती वपा, इति । पशुशरीरमध्ये वपा यावती वियत एतावानेव मुख्यः पशुः, हविरदन्न देवा इति मत्रे वपायाः सर्वदेवहविष्टाभिधानात् ।

ननु सुत्यादिने सवनीयपशोर्वपां प्रातःसवने हुत्वा शिष्टानि हृदयावानि तृतीयसवने पक्त्वा यजमाना जुहति वपामात्रस्य पशुस्वरूपत्वे तृतीयसब पशुशेषं जुहतां कोऽभिमाय इत्याशङ्कयाऽऽह–

अथ यदेनं तृतीयसवने श्रपयित्वा जुह्वति भूयसीभिर्न आहुतिभिरिष्टमस

केवलेन नः पशुनेष्टमसदिति, इति । अय वपायाः पशुसारत्वे सत्येनमवशिष्टं पशु तृतीयसबने अपयित्वा ।

१ क. म. दिनस।

तुर्थः खण्डः]

१९७,

ऐतरेयबामणम् । गस्ति तत्र जुहतामयमभिप्रायः-यद्यपि वपायाग एव स्वर्गाय पयों नापि नोऽस्माकं भूयसीभिबहुलाभिराहुतिभिरिष्टमस्तु केवलेन द्रव्या नरपेक्षेण निरवशेषेण नोऽस्मदीयेन पशुनेष्टमस्त्विति । अत्राधिकं नैव ऐति लौकिकन्यायेन तृतीयसवने पश्वङ्गहोमो न तु वपायां न्यूनत्व त्यर्थः। दिनं प्रशंसति

भूयसीभिर्हास्याऽऽहुतिभिरिष्टं भवति केवलेन हास्य पशुनेष्टं भवति य एवं वेद॥ १३ ॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये सप्तमाध्याये तृतीयः खण्डः॥३॥ (१३) [१३]

पाज्याबाहुतीनां प्राशस्त्यप्रसिद्धस्तद्वद्वपाहुतिरपि प्रशस्तेति विवक्षया

सहैतामाहुति प्रशंसति सा वा एषाऽमृताहुतिरेख यदपाहुतिरमृताहुतिर ग्न्याहुतिरमृताहुतिराज्याहुतिरमृताहुतिः सोमाहु तिरेता वा अशरीरा आहुतयो या वै काश्चाशरीरा आहुतयोऽमृतत्वमेव ताभिर्यजमानो जयति, इति । [ वपाहुतिरस्ति सैषा स्वयममृताहुतिर्देवानाममृते यावती प्रीतिस्ताव पाहुतौ विद्यमानत्वात् । आतिथ्यकर्मसु मथितस्यामेराहवनीयामौ प्रक्षे. येयमाहुतिः साऽप्यमृताहुतिः । अमृतत्वाख्यस्य देवत्वस्य प्राप्तिहेतु. याऽप्यन्या काचिदाज्याहुतिः साऽप्यमृताहुतिरमृतं वा आज्यमिति याऽप्यन्या सोमाहुतिः साऽपि । अपाम सोमममृता अभूम [८-४८-३] सामस्यामृतत्वमाप्तिसाधनत्वश्रवणात् । या एताश्चतस्त्र आहुतयस्ताः सर्वा

राः शीघ्रमरणयुक्तशरीरमाप्तिसाधनत्वाभावात । अत एव याः काश्चि राि आहुतयः सन्ति ताभिर्यजमानश्चिरजीविनो रूपममृतत्वं देवत्व. पामोति।

ना प्रकारान्तरेण वां प्रशंसति

सा वा एषा रेत एव यहपा प्रेव वै रेतोलीयते

१९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [७ सप्तमाच्या

प्रेव वपा लीयते शुक्लं वै रेतः शुक्ला वपाऽशरीरं वै रेतोऽशरीरा वपा यदै लोहितं यन्मांसं तच्छरीरं तस्माद्व्याद्यावदलोहितं तावत्परिवासयेति, इति । येयं वपाऽस्ति सेयं रेत एव तत्सादृश्यात् । कथं सादृश्यमिति तदुच्या रेतो योन्यां निषिक्तं सत्सलीयत एव वपाऽप्यमौ हुता प्रलीयत एव । दी सादृश्यं शुलवर्णत्वं द्वितीयमशरीरत्वं तृतीयम् । तस्मात्मजोत्पादकरतोदर प्रास्ता । न च वपायाः शरीरमध्येऽवस्थानाच्छरीरत्वं शङ्कनीयम् । लोहितं रक्तमस्ति यच्च मांसम् । अनेन मुग्धबालादिप्रसिद्धास्त्वगस्थ्यवर उपलक्ष्यन्ते । अतो बालादिप्रसिद्धं रक्तमांसादिकमेव मुख्यं शरीरम् । न वपायां रेतसि वा बालमसिद्धिरस्ति । ततस्तयोरशरीरत्वम् । यस्माद्वपाशरी योविभाग उक्तस्तस्माद्याज्ञिको वपोद्धरणकर्तारं प्रत्येवं ब्रूयात्-वपाय स्वरूपं यावदलोहितं रक्तरहितं श्वेतं भवति तावत्सर्व परिवासय छिन्धीरि तदेवं वपा प्रशस्ता।

तस्या अवदाने विशेष विधत्ते

सा पञ्चावत्ता भवति यद्यपि चतुरखत्ती

यजमानः स्यादथ पञ्चावत्तैव वपा, इति । द्विविधा यजमानाश्चतुरवत्तिनः पञ्चावत्तिनश्चेति । चतुभिरवदानयुक्त तुरवत्ती पञ्चभिर्युक्ताः पञ्चावत्तिनः । एवं स्थिते वपा पञ्चभिरवदानेयु कर्तव्या । तत्र पञ्चावत्तिनो यजमानस्य स्वत एव पञ्चावदानानि प्राप्तानि यस्तु चतुरवत्ती तस्यापि पश्चावदानानि वपायां कुर्यात् ।

तान्येतानि पश्चापि विभज्य दर्शयति

आज्यस्योपस्तृणाति हिरण्यशल्को वपा हिर ण्यशल्क आज्यस्योपरिष्टादभिधारयति, इति । आज्यस्याऽऽज्येनेत्यर्थः । तदेतदापस्तम्बेन स्पष्टमुक्तम्-जुहामुपसा हिरण्यशकलमवधाय कृत्स्ना वपामवदाय हिरण्यशकलमुपरिष्टात्कृत्वाऽभित्र रयत्येवं पञ्चावत्ता भवति चतुरवत्तिनोऽपि पञ्चावत्तैव स्यादिति।

हिरण्यरहितस्य प्रकारान्तरेण पञ्चावदानानि प्रश्नोत्तराभ्यां दर्शयति– तदाहुर्यदिरण्यं न विद्यत कथं स्यादिति हिराज्यस्यो

१९९

विमः खण्डः] ऐतरेयबामणम् ।

पस्तीर्य वपामवदाय हिरुपरिष्टादभिषारयति, इति । आज्यस्य हिरण्यप्रतिनिधित्वमुपपादयति

अमृतं वा आज्यममृतं हिरण्यं तत्र स काम उपाप्तो य आज्ये तत्र स काम

उपाप्तो यो हिरण्ये तत्पञ्च संपद्यन्ते, इति । भाज्यस्य स्वादुत्वेन हिरण्यस्य च दर्शनीयत्वेन प्रियत्वादमृतत्वमेवं सति यत्र ज्यं प्रक्षिप्यते तत्राऽऽज्यमयुक्तो यः कामः स प्राप्तो भवति । यत्र वाज्यं प्यते तत्र हिरण्यप्रयुक्तो यः कामः स प्राप्तो भवति । तस्मादाज्येन हिर । पश्चावदानानि संपद्यन्ते । अवदानगतां पञ्चसंख्यां प्रशंसति

पाक्तोऽयं पुरुषः पञ्चधा विहितो लोमानि

खङ्मांसमस्थि मज्जा स यावानेव पुरुषस्तावन्त। यजमानं संस्कृत्यानौ देवयोन्यां जुहोत्यनिर्वे देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः संभूयो हिरण्यशरीर ऊर्ध्वः स्वर्ग लोकमेति ॥१४॥ इति । पञ्चसंख्यायोगात्पुरुषस्य पालत्वं तद्योगाच्च लोमादिभिः पञ्चभिनिष्पादि

। तस्मात्पश्चभिरवदानैः पुरुषो यावल्लोमादिपञ्चावयवोपेतोऽस्ति तावन्तं रापि यजमानं संस्कृत्यानौ देवत्वप्राप्तिकारणे हुतवान्भवति । अग्नेश याग देवजन्मकारणत्वम् । एवं सति स यजमानो देवत्वकारणादग्नेः खेनानु भ्य आहुतिभ्यः समष्टिरूपेणोत्पद्य सुवर्णवर्णशरीरयुक्त ऊर्ध्वगामी स्वर्ग ति।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय. ब्राह्मणभाष्ये सप्तमाध्याये चतुर्थः खण्डः ॥४॥ (१४) [४४]

अथ मातरनुवाको वक्तव्यः । तदर्थमादौ औषं विधत्ते देवेभ्यः प्रातविभ्यो होतरनुबृहीत्याहाध्वर्युः, इति । उत्पादिने मातःकाले यान्ति यज्ञभूमि गच्छन्तीति प्रातर्यावाणस्ताशेभ्यो

विाणा

२०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्– [७ सप्तमाया देवेभ्यस्तत्मीत्यर्थ हे होतरनुकूला ऋचो भूहि समेतं भैषमत्रमध्वर्युकी

तं मन व्याचष्टे

एते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनी त एते सप्तभिः सप्तभिश्छन्दोभिरागच्छन्ति, इति । योऽयमनिर्या चोषःकालाभिमानिनी देवता यौ चाश्विनावेत एव है भैषमत्रे मातर्यावाण इति विशेष्यन्ते । तत्कथमिति तदुच्यते । त एते है प्रत्येकं सप्तच्छन्दोयुक्ताभिम्भिर्यज्ञभूमिमागच्छन्ति तस्मात्मातर्यावाण सप्तभिः सप्तभिरिति वीप्सा प्रत्येकं संख्यान्वयार्था । ताश्च ऋचः सर्वा आ लायनेनाऽऽपो रेवतीः क्षयथ [१०-३०-१२] इत्यादिग्रन्थेनोदाहत तत्रोप प्रयन्तः [१-७४-१] इत्यादिषु च्छन्दो गायत्रम् । त्वममे वसन् | ४५-१] इत्यादिष्वनुष्टुप्छन्दः । अबोध्यग्निः [५-१-१] इत्यादिषु ।

छन्दः । एना वो अग्निम् [७-१६-१] इत्यादिषु बृहती छन्दः । वाजस्य [१-७९-४] इत्यादिष्णिक्छन्दः । जनस्य गोपा [५-११ इत्यादिषु जगती छन्दः । अमिं तं मन्ये [५-६-१] इत्यादिषु पनिश्छन तान्येतानि सप्त च्छन्दांस्याग्नये ऋतौ प्रातरनुवाके द्रष्टव्यानि। प्रति ध्यास [४-५२-१] इत्यादिषु गायत्री छन्दः। उषो भद्रेभिः [१-४९ इत्यादिष्वनुष्टुप् । इदं श्रेष्ठम् [१-११३-१] इत्यादिषु त्रिष्टुप् । अदर्शि [७-८२-१ ] इत्यादिषु बृहती । उपस्तचित्रमाभर [१-९२ इत्यादिपूष्णिक । एता उ त्या [१-९२-१ ] इत्यादिषु जगती । म

च्छन्दांसि । एषो उषा[१-४६-१] इत्यादिषु गायत्री । यदद्य[ ५-७३ इत्यादिष्वनुष्टुप्। आभात्यग्निः[५-७६-१] इत्यादिषु त्रिष्टुप् । इमा उ [७-७४-१ इत्यादिषु बृहती। अश्विना वर्तिः[१-९२-१६ इत्या ष्णिक् । अबोध्यमिम[१-१५७-१]इत्यादिषु जगती । प्रति प्रियतमम्[५

१]इत्यादिषु पक्तिः। तान्येतान्याश्विने प्रातरनुवाके सप्त च्छन्दांसि ।।

एतद्वेदनं प्रशंसति

आऽस्य देवाः प्रातर्यावाणो हवं गच्छन्ति य एवं वेद, इति ।।

१ क. ख. म. ‘भिः

।-

..

पञ्चमः खण्डः] ऐतरेयबामणम् ।

२०१ यतेऽत्रेति हवो यज्ञोऽस्य वेदितुईवमुक्ता देवाः प्रामुवन्ति । वैषमन्ने देवेभ्योऽनुबहीति यदुक्तं तदुपपादयितुं मातरनुवाकस्य देवसंबन्ध

.

.–

सदयति

प्रजापतो वै स्वयं होतरि प्रातरनुवाकमनुवक्ष्य त्युभये देवासुरा यज्ञमुपावसनस्मभ्यमनुवक्ष्य

त्यस्मभ्यमिति स वै देवेभ्य एवान्वब्रवीद, इति । पुरा कदाचित्कस्मिंश्चियज्ञे प्रजापतिः स्वयं होता भूत्वा मातरनुवाक बक्तमुद्यतस्तस्मिन्ननुवक्ष्यति देवाचासुराश्चास्मभ्यमस्मदर्थमेवानुवश्यतीति पेकमभिप्रेत्य तं यज्ञमुपेत्य तत्राऽऽसनिति । अस्मभ्यमिति वीप्सा वर्गद्वयस्य कमन्वयार्थम् । तदानीं प्रजापतिरसुरानुपेक्ष्य देवार्थमेवान्वब्रवीत् । ततः परनुवाकस्य पूर्वोक्तैरग्न्यादिभिर्देवसंबन्धः। प्रातरनुवाकस्य देवोत्कर्षहेतुत्वं तदभावस्यासुरपराभवहेतुत्वं [च] दर्शयति

ततो वै देवा अभवन्पराऽसुराः, इति । अभवन्भूतिमुत्कर्ष प्राप्ताः । असुरास्तु पराभवनपकर्ष प्राप्ताः । वेदनं प्रशंसति

भवत्यात्मना पराऽस्य द्विषन्पाप्मा

भ्रातृव्यो भवति य एवं वेद, इति । आत्मना भवति स्वयमुत्कृष्टो भवति । तदीयस्तु भ्रातृव्यः पराभवति । मातरनुवाकशब्दस्य निर्वचनं दर्शयति

प्रातर्वै स तं देवेभ्योऽन्वब्रवीद्यत्प्रातरन्वन

वीत्तत्मातरनुवाकस्य प्रातरनुवाकत्वम्, इति । पातकाल एव स प्रजापतिस्तमनुवाकमृक्समूहं देवार्थमनुक्रमेणाब्रवीत् । देिवं तस्मात्मातरनुवाक इति नाम संपन्नम् । वस्य मातरनुवाकस्य कालविशेषं विधत्ते

महति राज्या अनच्यः सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीयै यो वै भवति यः श्रेष्ठ तामश्नुते तस्य वाचं प्रोदितामनुप्रवदन्ति

२०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ७ ससमाको

तस्मान्महति राज्या अनूच्यः, इति । राज्याः पूर्वस्यौपवसथ्याख्यस्य दिनस्यानीपोमीयपश्चनुष्ठानयुक्तस्य । रात्रिस्तस्या रात्रे संबन्धिनि शेषे महत्यवतिष्ठमाने सति प्रातरनवाकर ऋक्समूहो वक्तव्यः । एतदुक्तं भवति-यस्मिन्काले मारब्धः पातरनुवार मसोपघातात्पुरैव समापयितुं शक्यः स्यात्तदा प्रारब्धव्य इति । तथाशि नुवचनं लौकिक्याः सर्वस्या वाचो ब्रह्मणो वेदस्य सर्वस्यापि परिणाम भवति । यो वा इत्यादिना लौकिको न्याय उच्यते । लोके यः पुमान्भवले श्वर्य मामोति, यश्च विद्यावृत्तादिभिः श्रेष्ठत्वं मामोति तस्योभयविधस्य का पस्य संबधिनी वाचं मोदितां प्रथमत उक्तामनु पश्चात्सर्वे भृत्या शिष्या प्रवदन्ति । तस्मात्तत्रापि राजाचार्यादिवाक्स्थानीयः प्रातरनुवाकः खेतरी कलौकिकसर्ववाक्प्रवृत्तेः पूर्व राज्याः संबन्धिनि महत्यवशिष्टे काले पाचार यामेऽनुवक्तव्यः । यद्यप्ययमुषःकालो न तु प्रातःकालस्तथाऽपि प्रातःका समीपवर्तित्वात्मातरनुवाकत्वं द्रष्टव्यम् ।

पाथात्ययामेऽपि कंचिद्विशेषं विधत्ते

पुरा वाचः प्रवदितोरनूच्यः, इति । रात्रौ निद्रां कुर्वन्तः पाणिन उषःकाले प्रबुध्य वाचं प्रवदन्ति तस्मात्म दितोः प्रवचनात्पूर्वमेवायमनुवक्तव्यः ।

विपक्षे बाधकमाह

यहाचि प्रोदितायामनुबूयादन्यस्यै

वैनमुदितानुवादिनं कुर्याद , इति । निद्रा परित्यज्य प्रबुद्धः पुरुषैर्वाचि मोदितायां यदि पश्चात्यात्तदानी प्रातरनुवाकमुदितानुवादिनं कुर्यादन्यैरुदिता या वाक्तदनुवादित्वे सति भूत दिशिष्यादिरूपत्वं स्याम तु राजाचार्यादिरूपत्वम् ।

स्वपलं निगमयति

तस्मान्महति राच्या अनूच्यः, इति । अपरं विशेष विधत्ते

पुरा शकुनिवादादनुबयाव, इति । शकुनयः पक्षिण उषःकाले प्रबुध्य बदन्ति ध्वनि कुर्वन्ति तस्माद्वादान बानुबयान। .

श्चमः खण्डः]

ऐतरेयब्रामणम् ।

२०३

देतदुपपादयति

.

..

संबन्धविना पुराना

तवन्तो मा

नितेर्वा एतन्मुखं यहयांसि यच्छकुनयस्तद्यत्पुरा शकुनिवादादनुबूयान्मा यज्ञियां वाचं प्रोदितामनु प्रवदिष्मेति तस्मान्महति राज्या अनूच्यः, इति । नितिः काचिद्राक्षसरूपा मृत्युदेवता । यानि वयांसि ये च शकुनय सर्व मृत्युदेवताया मुखम् । अत्र वयःशब्देन पक्षिसामान्यमुच्यते शकुनि देन पक्षिविशेषः । येषां संचारादध्वनीष्टानिष्टसूचकतया मनुष्या व्यवह न ते शकुनयः । यस्मादुभयं मृत्युमुखं तद्यदि तदुभयध्वनेः पुराऽनुयात्त नी पोदितां प्रथमत उक्तामयज्ञियां यज्ञसंबन्धरहितां वाचमनु मा प्रवदिष्म परनुवाकं पश्चादुक्तवन्तो मा भवामेति होतुरभिप्रायो भवति । अतो महति

शेषेऽवस्थिते सति शकुनिवादशङ्कानुदयात्तदानीमेवानूच्यः। पक्षान्तरं विधत्ते

अथो खलु यदैवाध्वर्युरुपाकुर्यादथानुबूयात्, इति । अवोरुपाकरणं प्रैषमधपाठः । स एव प्रातरनुवाकस्य कालः। तदेतदुपपादयति

यदा वा अध्वर्युरुपाकरोति वाचैवोपाकरोति वाचा होताऽन्वाह वाग्वि ब्रह्म तत्र स काम

उपाप्तो यो वाचि च ब्रह्मणि च ॥ १५॥ इति । अध्वर्योरुपाकरणं भैषमत्ररूपया वैदिकवाचैव संपयते । होतुरनुवचन । वैदिकवाचा भवति । यस्मादुभयविधा वाग्ब्रह्म वेदरूपं तस्मादुप गानन्तरभाविनाऽनुवचनेन लौकिकवाचि वैदिकवाचि यत्फलं भाविनं मोति । अत्र कालविशेषः शाखान्तरेऽप्यानातः-‘पुरा वाचः प्रवदितो: रनुवाकमुपाकरोति यावत्येव वाक्तामवरून्धे’ इति । उपाकरणं चाऽऽपस्त. स्पष्टीकृतम्-‘पुरा वाचः पुरा वा वयोभ्यः प्रवदितोः मातरनुवाकमुपा. ति मातयोवभ्यो देवेभ्योऽनुशाहि ब्रह्मन्वाचं यच्छ प्रतिपस्थातः सवनीया. ५ सुब्रह्मण्य सुब्रह्मण्यामाहयेति संप्रेष्यति’ इति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय बाह्मणभाष्ये ससमाध्याये पचमः खण्डः ॥५॥ (१५)[४५]

२०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [ ७ सप्तमाध्याय

अथ प्रातरनुवाके प्रथमामृचं विधातुमाख्यायिकांमाह

प्रजापतौ वै स्वयं होतरि प्रातरनुवाकमनुवक्ष्यति सर्वा देवता आशंसन्तमामभि प्रतिपत्स्यति मामभीति स प्रजापतिरेक्षत ययेकां देवतामादि टामभि प्रतिपत्स्यामीतरामेकेन देवता उपाप्ता भविष्यन्तीति स एतामृचमपश्यदापो रेवतीरि त्यापो वै सर्वा देवता रेवत्यः सर्वा देवताः स एतयर्चा प्रातरनुवाकं प्रत्यपद्यत ताः सर्वा देवताः

प्रामोदन्त मामभि प्रत्यपादि मामभीति, इति । प्रजापतौ वै स्वयमेव होतृत्वं प्राप्य कस्मिंश्विद्यज्ञे प्रातरनुवाकमनुवक्तमद्यले सति सर्वा अपि देवताः प्रत्येकं मामभिलक्ष्य प्रतिपत्स्यति प्रारम्भं करिष्य तीत्येवमाशंसन्तापेक्षां कृतवन्तः । मामभीति वीप्सा सर्वसंग्रहार्था । मदेव

यैवर्चा प्रारम्भ इति सर्वासां देवतानां प्रत्येकमाशामवलोक्य स प्रजापति स्वमनसि विचारितवान् । स एव विचारो यदीत्यादिना स्पष्टी क्रियते । आदिष्टां केनचिन्मत्रेण प्रतिपादितामेकां देवतामभिलक्ष्य यद्यहं प्रतिपत्स्यापि प्रारम्भं करिष्यामि तदानीमितरा देवताः कुप्येयुरिति शेषः। तस्मात्कारणाचे मम केन प्रकारेण देवताः सर्वा अप्युपाता उपक्रमे माता भविष्यन्ति ।। विचार्य स प्रजापतिः सर्वदेवतासिद्ध्यर्थमापो रेवतीः क्षयथा हि वस्त्र इसे तामृचमपश्यत् । तत्राशब्देन रेवतीशब्देन च सर्वा देवता उक्ता भवन्ति आनुवन्तीत्यापः। रायो धनानि यासां सन्तीति रेवत्यः। यज्ञभूमिप्राप्तिर्धन च सर्वासु देवतासु विद्यते तस्मात्सर्वदेवताप्रतिपादिकेयमृक् । स प्रजाप रेवत्यैवोपक्रान्तवान् । तेन सर्वा देवताः प्रत्येकं मामभिलक्ष्य प्रारम्भः कृत हैं। प्रहृष्टवत्यः । वीप्सा पूर्ववत् ।

अथार्थवादेन विधिमुन्नयति

सर्वा हास्मिन्देवताः प्रातरनुवा कमनुब्रुवति प्रमोदन्ते, इति । आपो रेवती:०-१०-३०-१२ । १ ख. ख. म. म. वत्य एवो।

षष्ठः खण्डः]

ऐतरेयबामणम् ।

२०५ तयर्चा प्रातरनुवाकं प्रतिपद्यत इति शेषः । यः पुमानापो रेवतीरित्ये प्रातरनुवाकं प्रारभतेऽस्मिन्प्रारभ्यानुवति सर्वा देवताः प्रहष्यन्ति स्मादनयैवर्चा पारभेतेति विधिरुभयः ।

वेदनं प्रशंसति

सर्वाभिर्हास्य देवताभिः प्रातरनुवाकः

प्रतिपनो भवति य एवं वेद, इति । तदेतदाश्वलायनेनाभिहितम्-‘अन्तरेण युगधुरावुपविश्य प्रेषितः मातरनु कमनुब्यान्मन्द्रेणाऽऽपो रेवतीः क्षयथा हि वस्व उप प्रयन्त इति सूक्ते’ इति ।

आपो रेवतीरित्येतामृचमाख्यायिकया मशंसति

ते देवा अबिभयुरादातारो वै न इमं प्रातर्यज्ञम सुरा यथौजीयांसो बलीयांस एवमिति तानब्रवी दिन्द्रो मा बिभीत विषमृद्धमेभ्योऽहं प्रातर्वजं प्रह

र्ताऽस्मीत्येतां वाव तदृचमब्रवीद्वजस्तेन यदपोन प्त्रीया वज्रस्तेन यत्रिष्टुब्वजस्तेन यदाक्तमेभ्यः प्राह रत्तेनैनानहंस्ततो वै देवा अभवन्पराऽसुराः, इति । पुरा कदाचित्प्रजापतौ प्रातरनुवाकमनुब्रवति सति तत्समीप आगता देवा बिभयुर्भाति प्राप्ताः । केनाभिप्रायेणेति तदुच्यते । यथा लोके केचिच्छत्रव जसोऽतिशयेनौजसा सप्तधातुना युक्तत्वात्पुष्टशरीरा बलीयांसो महता न्येन युक्तत्वादतिशयेन प्राबल्यादागत्य धनमपहरन्ति, एवमसुरा नोऽस्मदी. मिमं प्रातर्यज्ञं प्रातरनुवाकरूपमादातारो वा आदास्यन्त्येवापहरिष्यन्त्येवेति । दानीमिन्द्रो मा बिभीत भीति मा कुरुतेति तान्देवानब्रवीत् । कथं भीत्या भाव इति तदुच्यते । अहमिन्द्र एवैभ्योऽसुरेभ्योऽसुरविनाशार्थ प्रातःकाले समृदं त्रिभिः प्रकारैः समृद्धं प्रबलं वज्र प्रहर्ताऽस्मि तेषामुपरि प्रक्षेप्स्यामि । ता है देवा अस्माकं भीतिर्मा भूत । इत्युक्त्वा तत्तदानीमेतां वावाऽऽपो बतारिति याऽस्ति तामृचमेवाबवीत् । तस्या ऋचत्रिपकारवज्रत्वं कथमिति पुज्यते । यद्यस्मात्कारणादपोनप्त्रीया सा, ऋगपोनतृदेवताका । तथा चानु जाणकाकार:–‘यस्मिन्सूक्ते सोऽस्ति तस्य सूक्तस्य देवतां ते प्रदेवत्रा

१मः अस्या।

२०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्– [ ७ सप्तमाध्या पचोना कवष ऐलूप आपमपोनप्त्रीय वा’ इति । तेनापोनतृदेवताकत्वेन

नायं मनो वज्रः संपनः । सोऽयमेकः प्रकारः । अपोनप्ता देवोऽतिक सदीयाया ऋचो वज्रत्वं युक्तम् । यस्मादियं त्रिष्टुप्छन्दस्का तेनापि प्रकारे वजत्वम् । इन्द्रियं वै वीर्य त्रिष्टुबिति श्रुत्यन्तरे वीर्यरूपत्वश्रवणाजत्वा । सोऽयं द्वितीयः प्रकारः । यस्मादियं वायूपा तेनापि प्रकारेण वज्रम। स वाग्वजो यजमानं हिनस्तीत्यत्र शब्दरूपाया वाचो वज्रत्वश्रवणात । सोऽयं तृतीयः प्रकारः। तमेवं विषमृद्धमृग्रूपं वज्रमेभ्योऽसुरेभ्यः पारने नैनानमुरानहनद्धतवान् । तत एवासुरवधाद्देवा विजयिनोऽभवनसुराश्च पर भवन् ।

वेदनं प्रशंसति

भवत्यात्मना पराऽस्य द्विषन्पाप्मा

भ्रातृव्यो भवति य एवं वेद, इति । पूर्ववव्याख्येयम् ।

अस्या ऋचत्रिरात्तिं विधत्ते

तदाहुः स वै होता स्याद्य एतस्यामृचि सर्वाणि च्छन्दांसि प्रजनयेदित्येषा वाव विरनूक्ता सर्वाणि

च्छन्दांसि भवत्येषा छन्दसां प्रजातिः ॥१६॥ इति । तत्तस्यामापो रेवतीरित्युचि ब्रह्मवादिन एवमाहुः-यः पुमानेतस्यागनि सर्वाणि च्छन्दांस्युत्पादयेत्स एव मुख्यो होता स्यान त्वन्य इति । एतद्रमः वादिनां वचनं श्रुत्वा कश्चिदभिज्ञः सर्वच्छन्दसामुत्पादनप्रकारं ब्रूते । येयाः गनूक्ता सेयमेव त्रिः पठिता सती सर्वच्छन्दसां स्वरूपं भवति । इयं त्रिप वाचतुश्चत्वारिंशदक्षरा । तस्यां त्रिरात्तायां द्वात्रिंशदधिकशताक्षराणि स. धन्ते । तेषु जगत्यादीन्यधिकाक्षराणि गायत्र्यादीनि न्यूनाक्षराणि सर्वच न्दांसि संपादयितुं शक्यते । तस्मादेषा सर्वेषां छन्दसां प्रजातिरुत्पत्तिस्था नम् । योषा त्रिरावृत्तिः सूत्रकारेण नोक्ता तर्हि सर्वच्छन्दोन्तर्भावनेयपुर प्रशंसाऽस्तु ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थमकाश ऐतरेयब्राह्मण

भाष्ये सप्तमाध्याये षष्ठः खण्डः ॥ ६॥ (१६)[४६]

१ म. ‘रेणोका।

सप्तमः खण्डः]

ऐतरेयबामणम्।

२०७ अथ प्रातरनुवाकगतानामृचा काम्या विशेषा वक्तव्याः। तत्राऽऽयुरर्थ

संख्यां विधत्ते

शतमनूच्यमायुष्कामस्य शतायुर्वं पुरुषः शतवीर्यः शतेन्द्रिय आयुष्येवैनं तदीर्य इन्द्रिये दधाति, इति । अपमृत्युरहितमायुर्यः कामयते तस्यर्चा शतमनूच्यम् । ऋग्विशेषास्तु मूत्रा रे द्रष्टव्याः। शतसंख्याका वत्सरा आयुर्यस्य मनुष्यस्य सोऽयं शतायुः। संपादितस्यापमृत्योरभावे संवत्सरशतं मनुष्या जीवन्ति । दशसंख्याका. न्द्रियाणि प्रत्येक दशसु नाडीषु वर्तमानत्वात्तमिलित्वा तेन्द्रियाणि वन्ति । ततस्तद्यापाराणामपि शतत्वेन शतवीर्यत्वम् । तस्माच्छतानुवचनेन

संख्याक आयुषि वीर्य इन्द्रिये चैनं यजमान स्थापयति । अहीनरात्रादुत्तरकतुकामस्य संख्यान्तरं विधत्ते

त्रीणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तावान्संवत्सरः संव

त्सरः प्रजापतिः प्रजापतिर्यज्ञः, इति । पष्टद्युत्तरातत्रयदिवसपरिमितो यः संवत्सरः कालात्मा स एव मजापतिः। पत्सरादि कालविशेषणम् । प्रजापतिसृष्टत्वेन तदभेदोपचारः । तथा या पि तेन सृष्टत्वात्तद्रूपत्वम् । एवं सति षष्टयुत्तरशतत्रयसंख्यायाः संवत्स जापतिद्वारा यज्ञसंबन्धादुत्तरक्रतुमाप्तिहेतुत्वं भवति । होतुर्वेदनं मशंसति

उपैनं यज्ञो नमति यस्यैवं विद्वां

अथ मजा पशूध कामयमानस्य पूर्वसंख्याया द्विगुणां संख्यां विधत्ते

सप्त च शतानि विंशतिश्चानूच्यानि प्रजापशुकामस्य सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्रास्तावान्सं

१ ख. तस्मिन्मि।

२०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [ ७ सप्तमाध्याके

वत्सरः संवत्सरः प्रजापतिर्य प्रजायमानं विश्वं रूपमिदमनु प्रजायते प्रजापतिमेव तत्प्रजाय

मानं प्रजया पशुभिरनु प्रजायते प्रजात्य, इति । संवत्सरगतानामहां रात्रीणां च पृथग्गणनायां मिलित्वा विंशत्यधिक

विंशत्युत्तरसप्तशतसंख्यायाः प्रजापतिसंबन्धो दर्शितः । यं प्रजायमानमित्या दिना काम्यमानानां प्रजानां पशूनां च प्रजापतिसंबन्धः प्रदर्श्यते । लोर कस्मिंश्चिद्रहे मजायमानं यं पुरुषमनु विश्वरूपमिदमोषधिवनस्पत्यादिस्थान भ्रातभगिनीगोमहिष्यादिकं जङ्गमं च सर्व प्रजायते तत्तगृहे प्रजायमानं प्रजा पतिमेवानु प्रजापशुरूपेण सर्वमुत्पद्यते । एतदुक्तं भवति । कस्यचिद्धनिकाल पुत्र उत्पद्यमाने सति कुटुम्बाभिवृद्ध्या तज्जीवनार्थ सस्यादिनिष्पत्तिं गोमाह ष्यादिसंपत्तिं च स धनिकः प्रभूतां करोति । तस्य पुत्रस्य भ्रातृभगिन्यार योऽपि पुनर्जायन्ते । तत्र च स्थावरजङ्गमरूपाणां प्रजानां पालनहेतुत्वाद जायमानः पुत्र एव च प्रजापतिः। अतः प्रजापतिद्वारा प्रजापशुसंबन्धोजी भवतीति । तस्मादियं संख्या यजमानस्य प्रजात्यै प्रजापशूत्पादनाय संपद्यते ।

वेदनं प्रशंसति

प्रजायते प्रजया पशुभिर्य एवं वेद, इति । अथ दुर्नामणत्वपरिहारकामस्य संख्यान्तरं विधत्ते

अष्टौ शतान्यनूच्यान्यब्राह्मणोक्तस्य यो वा दुरु तोक्तः शमलगृहीतो यजेताष्टाक्षरा वै गायत्री गायत्र्या वै देवाः पाप्मानं शमलमपाघ्रत गाय

ज्यैवास्य तत्पाप्मानं शमलमपहन्ति, इति । अब्रामणत्वेन स्मृतिषु योऽभिहितः सोऽयमब्राह्मणोक्तो राजसेवाधिकार स्मृतिवाक्यं चात्र पूर्वमेवोदाहृतम् । तादृशस्याष्टौ शतान्यनुब्रूयात् । अथ यो वा दुरुक्तोक्तो दुरुक्तेनापवादेन जनैर्व्यवहृतः स शमलगृहीतो मालन लोकविरुद्धेन स्वीकृतस्तादृशो यदा यजेत तदाऽप्यष्टौ शतान्यनुयाद गायच्या अष्टाक्षरत्वात्तया च मलिनस्य पापस्य देवैविनाशितत्वात् । अE ख्यामनुतिष्ठन्गायत्र्यैव मलिनं पापं विनाशयति ।


सप्तमः खण्डः ] ऐतरेयब्राह्मणम् ।

२०९ वेदनं प्रशंसति

___ अप पाप्मानं हते य एवं वेद, इति । अपइन्तीत्यर्थः। संख्यान्तरं विधत्ते

सहस्रमनूच्यं स्वर्गकामस्य . सहस्रा श्वीने वा इतः स्वर्गो लोकः स्वर्गस्य

लोकस्य समष्टयै संपत्त्यै संगत्य, इति । प्रबलोऽश्व एकेनाहा यावन्ति योजनानि गच्छति तावद्योजनपरिमितो देशो धीनः । स च सहस्रसंख्यया गुणितः सहस्राश्वीनः । ‘अश्वस्यैकाहगमः’ । पाणिनीयसूत्रादाश्वीनशब्दनिष्पत्तिः । इतो भूलोकादारभ्य सहस्राचीन बंदेशे स्वर्गो लोको वर्तते । अतः सहस्रसंख्या स्वर्गस्य लोकस्य समष्टय त्यै भवति । प्राप्तस्य संपत्त्यै स्वापेक्षितसर्वभोग्यवस्तुसंपादनाय भवति । नस्य च संगत्यै महतामिन्द्रादिदेवानां प्रीतिपूर्वकसंबन्धाय भवति । सर्वकामसिद्धयर्थमियत्तापरिच्छेदराहित्यसंख्यां विधत्ते

अपरिमितमनूच्यमपरिमितो वै प्रजापतिः प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकस्तस्मि न्सर्वे कामा अवरुध्यन्ते स यदपरिमितम.

न्वाह सर्वेषां कामानामवरुद्धयै, इति । शतं सहस्रमित्यादिसंख्यापरिमाणं परित्यज्य मध्यरात्रादूर्ध्वमुपक्रम्य सूर्यो आत्माचीनकाले यावतीरनुवक्तुं शक्तिरस्ति तावतीरनुब्रूयात् । जगत्कारण

मजापतिश्चापरिमितः। न होतावदस्य स्वरूपमिति प्रजापतिः परिमातुं यते । यः प्रातरनुवाकोऽस्ति तदेतत्ताहशस्य प्रजापतेरुक्थं पियं शस्त्रमतस्त यातरनुवाके सर्वे कामा अन्तर्भवन्ति । एवं सति स होता यद्यपरिमितम मात्तदानीं तदनुवचनं सर्वकाममाप्त्यै भवति ।

दिनं प्रशंसति

सर्वान्कामानवरुन्धे य एवं वेद, इति । हुफलहेतुत्वादपरिमितपक्षमादरेण निगमयति

१स. विद्यते।

२१०

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ७ सप्तमाध्या.

तस्मादपरिमितमेवानूच्यम् , इति । मातरनुवाकगतास्वृक्षु च्छन्दोविशेषान्विधत्ते

सप्ताऽऽनेयानि च्छन्दांस्यन्वाह

सप्त वै देवलोकाः, इति । प्रातरनुवाके प्रयो भागाः । तत्र प्रथमो भाग आमेयः । तस्मिश्च गायच्या पुत्रिष्टुब्बृहत्युष्णिग्जगती पनिरिति सप्तभिश्छन्दोभिर्युक्ता ऋचोऽनुयात् । देवानां संबन्धिनो बहुलोकयुक्ता लोकविशेषाः सप्त । तस्माच्छन्दसामा संख्या प्रशस्ता।

वेदनं प्रशंसति

सर्वेषु देवलोकेषु राम्रोति य एवं वेद, इति । भूलोकादयः सत्यलोकान्ताः सप्त वै देवलोका द्रष्टव्याः। मातरनुवाकस्य द्वितीयभागे छन्दांसि विधत्ते

सप्तोषस्यानि च्छन्दांस्यन्वाह

सप्त वै ग्राम्याः पशवः, इति । यथा प्रथमभागस्यामिदेवता तथा द्वितीयभागस्योषा देवता तस्मादुषमदि पादिकास्वृक्षु पूर्ववद्वायत्र्यादीनि सप्त च्छन्दांसि द्रष्टव्यानि । ग्रामे भन्न ग्राम्याः पशवस्ते च सप्त । तथा च बौधायन:-‘सप्त ग्राम्याः पशवोऽजाया गौमहिषी घराहो हस्त्यश्वतरी च’ इति ।

आपस्तम्बमतानुसारिणस्त्वेवं वर्णयन्ति

“अजाविकं गवाश्वं च गर्दभोष्टनरस्तथा ।

सप्त वै ग्राम्यपशवो गीयन्ते कविसत्तमैः” इति । तस्मादत्र सप्तसंख्या युक्ता। घेदनं प्रशंसति

अव ग्राम्यान्पशून्रुन्धे य एवं वेद, इति । तृतीयभागच्छन्दांसि विधत्ते

सप्ताऽऽश्विनानि च्छन्दांस्यन्वाह सप्तधा वै वागवदत्तावहै वासवदत्सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्य, इति ।Dr. Amritansusekhar Bagchi

Memorial Collection

MISSION 1M811TR

MTE OF

LIBRARY

.

अष्टमः खण्डः ] ऐतरेषत्रामणम् ।

जीवभागस्याश्विनौ देवता तत्संबन्धिनीः सप्त च्छन्दोयुक्ता ऋचोऽनुबू

लोके गानरूपा या वागस्ति सा सप्तधाऽवदत्षड्जऋषभादिस्वरोपेता Farतावदेव वैदिकवागप्यवदत्सानि कृष्टप्रथमद्वितीयादीनां सप्तस्वराणा. समानत्वात । अतोऽत्र सप्तसंख्या लौकिक्याः सर्वस्या वाचो वेदस्य च स्य परिग्रहाय भवति । त्रिष्वप्येष्वानेयोपस्याश्चिनभागेषु च्छन्दांस्यस्माभिः मेवोदाहत्य प्रदर्शितानि । भागत्रये देवतात्रयं विधत्ते

तिस्रो देवता अन्वाह त्रयो वा इमे त्रितो

लोका एषामेव लोकानामभिजित्यै॥१७॥इति । अनिरुषाऽश्विनाविति देवतात्रयम् । यथा गुणत्रयमेलनरूपा रज्जुनिदे ते प्रथिव्यन्तरिक्षधुलोकाः परस्परमिलितात्रिकृतः। यद्वैकैकस्मिल्लोके सत्त्वर तमोगुणभेदेनास्योत्तममध्यमाधमरूपत्वात्मत्येकं त्रिवृत्त्वमतो देवतात्रिसंख्या त्रियजयाय भवति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय. बामणभाष्ये सप्तमाध्याये सप्तमः खण्डः ॥७॥ (१७) [४७]

अथ तस्प मातरनुवाकस्यानुवचनमकारविशेष निर्णेतुं प्रश्नमवतारयति

तदाहुः कथमनूच्यः प्रातरनुवाक इति, इति । किमेकैकस्मिन्भागे गायच्यादीनि च्छन्दांस्यनुक्रमेणैवानुवक्तव्यानि, आहो. दन्यथेत्येकः संशयः । अनुक्रमपक्षेऽपि कि पादे पादेऽवसानं कृत्वाऽनुव

यम् , आहोस्वित्तत्तदर्थेऽवसानं कृत्वेति द्वितीयः संशयः। पत्र प्रश्नोत्तरमाह

यथाछन्दसमनूच्यः प्रातरनुवाकः प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांस्येष उ एव प्रजाप तिर्यो यजते तयजमानाय हितम् , इति । अनुक्रमेणावस्थितानि गायत्र्यादीनि च्छन्दस्यिनतिक्रम्येति यथाछन्दसं क्रमणेवायमनुवचनीयश्छन्दसां प्रजापतिसृष्टत्वेन तदवयवत्वात् । यज “प मजापतिपदमातियोग्यस्थेन प्रजापतिरूपत्वाचदारूपच्छन्दसा

.

"

२१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [७ सप्तमाध्याने क्रमेणानुवचनं यजमानायावयवविपर्यासराहित्येन हितं भवति। तस्मासन क्रमेणैवानुवक्तव्यम् ।

द्वितीयविचारे पूर्वपक्षमाह

पच्छोऽनूच्यः प्रातरनुवाकश्चतुष्पादा

वै पशवः पशूनामवरुद्धयै, इति । पच्छ एकैकस्मिन्पादेवसायेत्यर्थः । सिद्धान्तमाह

अर्धश एवानूच्यो यथैवैनमेतदन्वाह प्रति ष्ठाया एवं विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्दिप्रतिष्ठं चतुष्पात्सु पशुषु

प्रतिष्ठापयति तस्मादर्धचंश एवानूच्यः, इति । अर्धर्चश एकैकस्मिन्नृचोऽर्धेऽवसायावसाय प्रातरनुवाकोऽनूच्यः । एक्कार पूर्वपक्षव्यावृत्त्यर्थः । यथैवेत्यादिनाऽर्धर्चश इत्येतदेव स्पष्टी क्रियते । एनसे यथैव येनैव प्रकारेणैतदन्वध्ययनकालीनं गुरूवारणमनु यथाऽध्ययनको प्रत्यर्धमवसायाऽऽह पठति तथैव प्रातरनुवाकानुष्ठानकालेऽपि । न त्वत्र ऋगर्न प्रणवप्रक्षेपादिवकिचिनूतनं कर्तव्यमस्ति । तदेतदर्धर्चशोऽनुवचनं प्रतिष्ठाण एव यजमानस्य प्रतिष्ठार्थमेव भवति । तत्कथमिति तदेवोच्यते । यकस ऋचो द्वे अर्धर्चे एवं पुरुषो द्विप्रतिष्ठः प्रतितिष्ठति स्थैर्येणावस्थितो भर त्याभ्यां पादाभ्यामिति प्रतिष्ठे द्वे पादौ प्रतिष्ठे यस्यासौ द्विप्रतिष्ठः । पश्न चत्वारः पादाः । तथा सति पादचतुष्टयोपेतास्वृक्षु द्वाभ्यामर्धाभ्यामवसान ताभ्यामनुवचने कृते सति द्विप्रतिष्ठं द्विपादं यजमानं चतुष्पात्सु पशुषु भागे टापयति । तस्मादर्धर्चश एवानुवचनं युक्तम् । तत्र प्रातरनुवाकक्रममाक्षिप्य समाधत्ते

तदाहुर्यद्व्यूहळः कथमव्यूहळो भवतीति यदे

वास्य बृहती मध्यानैतीति ब्रूयात्तेनेति, इति । छन्दसा योऽयमनुक्रमः सोऽयमनुक्रमणिकाकारेण दर्शितः-‘अथ च्छन्दा गायत्र्युष्णिगनुष्टब्बृहतीपतित्रिजगत्यतिजगतीशकर्यतिकर्यष्ट्यत्यष्टीधृत्या तयश्चतुर्विशत्यक्षरादीनि चतुरुत्तराणि’इति।चतुर्विशत्यक्षरोपेतां गायत्रीमार

२१३

अष्टमः खण्डः] ऐवरेयबामणम् ।

त छन्दश्चतुभिश्चतुभिरक्षरैरधिकमित्यर्थः । तमेतं छन्दसां क्रमं विपर्यस्य या क्रमान्तरमूहितं गायत्र्यनुष्टुत्रिष्टुब्बृहत्युष्णिग्जगती पतिरिति । क्रमोऽस्माभिराश्वलायनोक्तक्रमेण पूर्वमेवोदाहृतः। तस्मात्मातरनुवाकोक्त. म्य विपर्ययेणोहनादयं व्यूढः संपन्नः। सोऽयमनुचितः । तस्मात्कथमव्यूहळो नीति प्रश्न आक्षेपे वा यदेवेत्यादिकमुत्तरं यस्मादेव कारणाच्छन्दःक्रमेs निक्रमे वाऽस्य प्रातरनुवाकस्य मध्याबृहतीछन्दो नैति नापगच्छतीत्युत्त भिडो यात्तेन कारणेनायमव्यूहळा संपन्न इत्यवगन्तव्यम् ।

अथ मातरनुवाकं प्रशंसति

आहुतिभागा वा अन्या देवता अन्याः स्तोम भागाश्छन्दोभागास्ता या अनावाहुतयो हूयन्ते ताभिराहुतिभागाः प्रीणायथ यत्स्तुवन्ति च

शंसन्ति च तेन स्तोमभागाश्छन्दोभागाः, इति । अन्याः काश्चिद्देवता अग्नौ हूयमानामाहुति भजन्त इत्यपराः काश्चिदेवताः न आवृत्तिमकारभेदेन निष्पन्नत्रिवृत्पश्चदशादिस्तोमं भजन्ते । अपराः काश्चि. ता ऋग्गतगायच्यादि च्छन्दो भजन्ते । एवं सति ता विधिवाक्येषु मसिद्धा हुतयो याः सन्ति ताभिराहुतिभागानां देवतानां प्रीतिः । उदातारः मयुक्तैः सामभिः स्तुवन्तीति यत्तेन स्तोमभागानां प्रीतिः । होतारश्छन्दो काभिग्भिः शंसन्तीति यत्तेन च्छन्दोभागानां प्रीतिः। वेदनं प्रशंसति

उभय्यो हास्यैता देवताः प्रीता

अभीष्टा भवन्ति य एवं वेद, इति । आहुतिभागा एको राशिःस्तोमभागा छन्दोभागाश्च द्वितीयो राशिः एता. यिविधा अपि देवता वेदनेन प्रीताः सत्यो वेदितुरभीष्टप्रदा भवन्ति । शंस | च्छन्दोभागानां प्रीत्यभिधानात्मातरनुवाकस्य प्रशंसा संपन्ना । विभिन्ने प्रीतिनिमित्ते दृष्टान्तमभिप्रेत्य सोमं पशुं प्रशंसति

त्रयस्त्रिंशदै देवाः सोमपास्त्रयस्त्रिंशदसो.

१क. भ. साम्रो । २ ख. म. विविधवा ।

२१४ श्रीमत्सायणाचार्यविरचिवभाष्यसमेतम् - [ ७ सप्तमाच्या

शाऽऽदित्याः प्रजापतिश्च वषट्कारश्चैते देवाः सोमपा एकादश प्रयाजा एका दशानुयाजा एकादशोपयाजा एतेऽसो. मपाः पशुभाजनाः सोमेन सोमपा

प्रीणाति पशुनाऽसोमपान , इति । वस्वादीनां वषदकारान्तानां देवानां सोमयागेन प्रीतिः। होता यादी मित्यादिमैत्रावरुणप्रैषमत्रेषु समिद्धो अघेत्यादियाज्यासु चाभिहिताः सपि दाद्या एकादश प्रयाजदेवताः देवं बर्हिः सुदेवमित्यादिमैत्रावरुणप्रैषमवेष है। बहिर्वसुवन इत्यादियाज्यासु चाभिहिता बर्हिराया एकादशानुयाजदेवताः समुद्रं गच्छ स्वाहेत्यादिमत्रोक्ताः समुद्रादय एकादशोपयाजदेवताः । सर्व अपि सोमपानवर्जिताः पशुमेव भजन्ते । तासां पशुना वृप्तिः।

वेदनं प्रशंसति

उभय्यो हास्यैता देवताः प्रीता

अभीष्टा भवन्ति य एवं वेद, इति । ’ अत्र सोमपानामसोमपानां च मिनप्रीतिनिमित्ततया छन्दोभागानां देवना नामितरदेवताविलक्षणं प्रीतिनिमित्तं प्रातरनुवाक इत्यभिप्रायः।

तस्य प्रातरनुवाकस्य समाप्तिमृचं विधत्ते __ अभूदुषा रुशत्पशुरित्युत्तमया परिदधाति , इति ।

अत्र कंचिदाक्षेपमुत्थापयति

तदाहुर्यत्रीन्क्रतूनन्वाहाऽऽग्नेयमुषस्यमा श्विनं कथमस्यैकयर्चा परिदधतः सर्वे

त्रयः क्रतवः परिहिता भवन्तीति, इति । ऋतुशब्दः सोमयागसंबन्धिनः प्रातरनुवाकभागानुपलक्षयति । ते च भाग स्त्रय आग्नेय उषस्य आश्विनश्चेति । तत्र सर्वानसौ होता ब्रूते तदानीमकया

अभूदुषा०-५-७९-९।

१ क.अ. म. दिप्रै।

टमः खण्डः ] . ऐतरेयत्रामणम् । : २१५ मानं कुर्वतोऽस्य होतुस्नयो भागाः सर्वेऽपि कथं समापिता भवन्तीत्या.

गहुः।

पत्र समाधानं दर्शयति

अभूदुषा रुशत्पशुरित्युषसो रूपमाऽमिरधा म्यूलिय इत्यमेरयोजि वां वृषण्वसू रथो दला वमों माध्वी मम श्रुतं हवमित्यश्विनोरेवमु हास्यैकयर्चा परिधतः सर्वे त्रयः क्रतवः

परिहिता भवन्ति भवन्ति ॥ १८॥ इति । पेयमुषाः सूर्योदयात्पूर्वभाविनी सेयं रुशत्पशुरभूत् । रुशन्तः परस्पर न कुर्वन्तः पशवो यस्यामुषसि सेयं रुशत्पशुः। रात्रौ निद्रां कुर्वन्तः पशव काले प्राप्ते ध्वनि कुर्वन्तीति प्रसिद्धमेतत् । उपोदेवताया अस्मिन्पादेऽ हेतत्वादयं प्रथमः पाद उषसो रूपमनुकूल इत्यर्थः। ऋत्वियोरणिमथन ऋतुकाले भवस्तादृशोऽग्निरा समन्तादधाय्याधानेन संपादितः। अत्रामे. धानाद्वितीयपादोऽग्ने रूपम् । वृषण्वसू वर्धमानधनौ दसौ हेऽश्विनौ देवी युवयोरमकॊ रथो मनुष्याणामयोग्यः समीचीनो रथोऽयोज्यवाभ्यां नेतः । अतो माध्वी मधुरया वाचा मम हवं मदीयमाहानं श्रुतं युवां शृणु। । अस्मिन्नुत्तरार्थेऽश्विनोरभिधानादयम!ऽश्विनो रूपम् । तस्मादेकयर्चा त्रियप्रतिपादिकयैतमेव प्रातरनुवाकं परिदधतः समापयतोऽस्य होतुस्त्रयः

प्रातरनुवाकभागाः सर्वे परिहिताः समापिता भवन्ति । पदाभ्यासोऽ. यसमाप्त्यर्थः॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबामण

भाष्ये सप्तमाध्यायेऽष्टमः खण्डः ॥ ८॥ (१८) [१८] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्रा ज्यधुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये

सप्तमोऽध्यायः ॥७॥

१. यैवमु हैत ।

२१६