०६

अथ द्वितीयपश्चिकाप्रारम्भः।

षष्ठोऽध्यायः।

.

राजक्रयब्राह्मणमुक्तमादौ वढेः प्रणीतिप्रतिपादिकाममा विर्धानविक तेनार्या अग्रेश्च सोमस्य च या ऋचः स्युः । अय पटाध्यायजमानोमीया वक्तव्यः ।

तत्राऽऽदौ यूपं वक्तुमाख्यायिकामाह

यज्ञेन वै देवा ऊर्ध्वाः स्वर्ग लोकमायंस्तेऽ बिभयरिमं नो दृष्टा मनष्याश्च ऋषयश्वान प्रज्ञास्यन्तीति तं वै यूपेनैवायोपयंस्तं यापेन वायोपयंस्तयूपस्य यूपत्वं तमवाचीनाग्रं निमि यो; उदायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्यायन्यज्ञस्य किंचिदेषि ष्यामः प्रज्ञात्या इति ते वै यूपमेवाविन्दनवा चीनाग्रं निमितं ते विदुरनेन वै देवा यज्ञ मयूयुपनिति तमुत्खायोर्ध्व न्यमिन्वंस्ततो वै

ते प्र यज्ञमजानन्प्र स्वर्ग लोकम्, इति । पुरा कदाचिद्देवा ज्योतिष्टोमं यज्ञमनुष्ठाय तत्फलभूतं स्वर्ग प्राप्तास्तत्र चाप स्थाय भीति प्राप्ताः । केनाभिप्रायेणेति स उच्यते । ये मनुष्या वर्णाश्रम प्रवृत्ता ये च ऋषयस्तपसि प्रवृत्तास्ते सर्वेऽप्यस्मदीयमिमं यज्ञं दृष्ट्वा खयमय नुष्ठाय स्वर्गे समागत्यास्मान्मज्ञास्यन्ति ततोऽस्मत्समा भविष्यन्ति । ततस्ते दा भीता मनुष्याणामृषीणां च व्यामोहाय तमेव स्वकीयं यज्ञं यूपस्तम्भेनैवायापन मिश्रितवन्तः । अन्यथानुष्ठानरूपं भ्रममुत्पादितवन्त इत्यर्थः । यस्मात्कार, धूपेनैव तं यज्ञमयोपयनन्यथा कृतवन्तस्तस्माद्योपनसाधनत्वायूपनाम मम् । केन क्रमेण व्यामोहितवन्त इति । उच्यते । तं यूपं पूर्वमूवान सन

प्रथमः खण्डः] ऐतरेयबामणम् ।

वाचीनाग्रमधोमुखं निमित्य निखायोर्चाभिमुखा उद्गतास्तदानीं मनुष्या

देवानां यज्ञवास्तु यज्ञभूमिमागत्य यज्ञस्य संबन्धि चिह्न यत्किंचिदव यामस्तच देवानुष्ठितस्य प्रज्ञात्य संपद्यत इत्यभिप्रेत्य यज्ञभूमि सर्वतः

याचितमिदमिति यूपमेवाविन्दनलभन्त । कीदृशं यूपमवाचीनाग्रं निमि जोखत्वेन निखातं ततस्ते मनुष्या ऋषयश्चैवं विदुः । कथमिति तदुच्यते ।

बाधोमुखेन यूपेन देवा असदमाय स्वकीयं यज्ञं मिश्रितवन्त इति । तत मधोमुख निखातं यूपमुत्खाय पुनरूर्वाभिमुखं न्यमिन्वन्निखातवन्तः । ततो थाशास्त्रमवस्थितेन यूपेन मनुष्या ऋषयश्च देवैरनुष्ठितं यज्ञं प्रज्ञाय स्वर्ग लोक जानन् । तं यज्ञमनुष्ठाय स्वर्ग गता इत्यर्थः । सोऽयमर्थः शाखान्तरे संगृ. त:-‘यझेन वै देवाः सुवर्ग लोकमायंस्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्य नीति ते यूपेन योपयित्वा सुवर्ग लोकमायंस्तमृषयो यूपेनैवानु माजानंस्तधू स्य यूपत्वम्’ इति ।

इदानीं यूपनिखननं विधत्ते

तद्याप ऊो निमीयते यज्ञस्य

प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्य, इति । निमीयते निखातव्य इत्यर्थः। तस्य यूपस्य तक्षणेनाष्टाश्रित्वं विधीयते

वज्रो वा एष ययूपः सोऽष्टाश्रिः कर्तव्योऽ धानि वज्रस्तं तं प्रहरति द्विषते भ्रातृव्याय

वधं योऽस्य स्तुत्यस्तस्मै स्ततवै, इति । यूपस्य वज्रांशत्वेन वचत्वम् । तच्च शाखान्तरे श्रूयते-‘इन्द्रो त्राय वजं (त्स धा व्यभवत्स्फ्य स्तृतीयं रथस्तृतीयं यूपस्तृतीयम्’ इति । लोके वज. कोणत्वात्तद्रूपस्य यूपस्याप्यष्टाश्रित्वं कुर्यात् । द्विषते भ्रातृव्याय वधं द्वेषं

शत्रोधहेतुं तं वचं तं यूपं च पुरुषः प्रहरति प्रहारार्थ प्रयुक्ते । अतो बरमहरणसामर्थ्याघूपस्याष्टाश्रित्वं युक्तम् । यः शत्रुरस्य यजमानस्य स्तुत्यो यो भवति तस्मै स्ततवै तस्य शत्राहिसार्थमिदमष्टाश्रित्वम् । अष्टाश्रित्वसिद्धये यूपस्य यदज्रत्वमुक्तं तदेव शबोरप्रियहेतुत्वेनोपपादयति ___वत्रो वै यूपः स एष द्विषतो वध उद्यतस्ति

१ ख. ‘साय स्वयमूर्वा ।

ARHARE

११० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ षष्ठाध्याये

ष्ठति तस्मादाप्येतहि यो दृष्टि तस्याप्रियं भव

त्यमुष्यायं यूपोऽमुष्यायं यूप इति दृष्ट्वा, इति । यो यूपोऽस्ति स एव शत्रोर्वधे निमित्तभूते सति स्वयमुद्यतस्तिष्ठत्युद्योग. पानवतिष्ठतेऽतो वज्रत्वम् । यस्मादेवं पुराऽऽसीत्तस्मादिदानीमपि यः शचर्य जमानं देष्टि तस्य शत्रोविरोधियजमानानां यूपस्य दर्शनेन महदप्रियं भवति । अमुष्य विरोधिनो यूप इति निश्चये सत्यप्रियं न तु यूपमात्रदर्शनेन ।

अथ कामनाविशेषेण यूपस्य प्रकृतिभूता वृक्षविशेषा वक्तव्याः । तत्रा खदिरवक्षं विधत्ते

खादिरं यूपं कुर्वीत स्वर्गकामः खादिरेण वै यूपेन देवाः स्वर्ग लोकमजयंस्तथैवैतद्यजमानः

खादिरेण यूपेन स्वर्ग लोकं जयति, इति । फलद्वयार्थ बिल्ववृक्षं विधत्ते

बैल्वं यूपं कुर्वीतानाधकामः पुष्टिकामः समां समां वै बिल्वो गृभीतस्तदनाद्यस्य

रूपमामूलाच्छाखाभिरनुचितस्तत्पुष्टेः, इति । समां समां तस्मिंस्तस्मिन्संवत्सरे बिल्ववृक्षो गृभीतः फलैहीतः, तच्च फळ ग्रहणमदनयोग्यस्यानस्य रूपम् । बिल्वफलानि भुञ्जानैर्भक्ष्यन्ते । मूलमारम शाखाभिरनुक्रमेणोपचितो बिल्ववृक्षस्तत्रोपचयनं पुष्टेः स्वरूपं तस्मात्फलदा युक्तम् ।

अध्वयोंवेदनं प्रशंसति

पुष्यति प्रजां च पशृंश्च य एवं

विद्वान्बैल्वं यूपं कुरुते, इति । लोकमसिद्ध्या बिल्वस्य प्रशस्ततां द्रढयति

यदेव बैल्वा३ बिल्वं ज्यो

तिरिति वा आचक्षते, इति । अत्र किंपदमध्याहृत्य योजनीयम् । हेऽध्वर्यो किमत्र बैल्वं यूपं कृतः नसि तत्सम्यग्भवता कृतम् । बिल्ववृक्षस्वरूपं वृक्षमध्ये श्रीवक्षनामकाप्रथमः खण्डः] ऐतरेयब्राह्मणम् ।

१४१ रूपत्वात्पूज्यत्वेन ज्योतिर्भवति । प्युतिस्तु प्रशंसायोतकध्वन्यभिन

यदेव यस्मादेव कारणाद्ब्रह्मवादिन एवमाचक्षते तस्माद्वैल्वो यूपोऽति स्त इत्यर्थः। एतद्वेदनं प्रशंसति

ज्योतिः स्वेषु भवति श्रेष्ठः

स्वानां भवति य एवं वेद, इति । वेष ज्ञातिषु ज्योतिस्तेजस्वी श्रेष्ठः श्रुतवृत्तसंपन्नः । पुनः फलद्वयाय वृक्षान्तरं विधत्ते ___ पालाशं यूपं कुर्वीत तेजस्कामो ब्रह्मवर्चसकाम

स्तेजो वै ब्रह्मवर्चसं वनस्पतीनां पलाशः, इति । तेजः शरीरकान्तिः । ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः । पुष्पाणामतिरक्त बेन पलाशस्य तेजस्त्वं परब्रह्मत्वश्रवणाद्ब्रह्मवर्चसत्वम् । तथाच शाखान्तरे

यते-‘देवा वै ब्रह्मन्नवदन्त तत्पर्ण उपाशृणोत्’ इति । अध्वर्योरेतद्वेदनं प्रशंसति–

तेजस्वी ब्रह्मवर्चसी भवति य एवं

विद्वान्पालाशं यूपं कुरुते, इति । बिल्वात्पलाशं प्रशंसति

यदेव पालाशां३ सर्वेषां वा एष वनस्पतीनां योनिर्यत्पलाशस्तस्मात्पलाशस्यैव पलाशेनाऽऽ चक्षतेऽमुष्य पलाशममुष्य पलाशमिति, इति । हेऽध्वर्यो कि पालाशं यूपं कृतवानसि तत्सम्यकृतमिति प्रशंसाों प्युतिः। चि पलाशः सर्ववनस्पतीनां कारणभूतस्तस्माद्योनित्वात्पलाशाख्य विक्षस्य संबन्धिना पलाशशब्देन सर्ववृक्षाणां पत्रमाचक्षते व्यवहरन्ति । मुख्य न्यग्रोधस्य पलाशं पत्रममुष्य चतवृक्षस्य पलाशं पत्रमेवं सर्वक्षसंग्रहाथों सा । पलाशशब्दः पुंलिङ्गो वृक्षविशेषवाची । नपुंसकलिङ्गः पत्रवाची । लाशः किंशुकः पर्णः’ ‘पत्रं पलाशं छदनं दलं पर्ण छदः पुमान्’ इत्यभि

रक्तत्वात् । यस्मात् तिमयोगो यस्माच सर्वक्षयोनित्वं तस्मात्पला इपः प्रशस्त इत्यर्थः।

१४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाध्याये.

वेदनं प्रशंसति

सर्वेषां हास्य वनस्पतीनां काम

उपाप्तो भवति य एवं वेद ॥ १॥ इति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये षष्टाध्याये प्रथमः खण्डः ॥ १॥ (१) [३१]

यूपं विधाय तस्याञ्जनादिमवान्विधातुमादौ औषं विधत्ते

अज्मो यूपमनुब्रूहीत्याहाध्वर्युः, इति । यूपममो यूपस्य घृतेनाञ्जनं कुों हे होतस्तदनुरूपामृचं बृहीत्येवमध्वर्यः प्रेष अयात् । स च भैषो विकल्पेनाऽऽपस्तम्बेन दर्शित:-‘यूपायाज्यमानाय. नुव्हीति संप्रेष्यति, अज्यमानायानुब्रूहीति, अफेमो यूपमनुब्रूहीति वा’ इति। एवमध्वर्युणा मेषितो होताऽञ्जनकाले वक्ष्यमाणा ऋचोऽनुयात् । अञ्जनं त्वार स्तम्बेन दर्शितम्-‘अथैनमसंस्कृतेनाऽऽज्येन यजमानोऽग्रतः शकलेनानी न्द्रमसीति चषालमत्वा सुपिप्पलाभ्यस्त्वौषधीभ्य इति प्रतिमुच्य देवस्त्वा सविता मध्वाऽनक्त्विति वेण संततमविच्छिन्दन्नमिष्ठामश्रिमनक्ति’ इति ।

एतस्मिन्नञ्जनकालेऽनुवचनीयामृचं विधत्ते

। अञ्जन्ति वामध्वरे देवयन्त इत्यन्वाह, इति । हे यूप त्वां देवयन्तो देवान्पूजयितुमिच्छन्त ऋत्विजोऽञ्जन्ति घृतेनाकं कुर्वन्ति ।

एतत्पादार्थस्य याशिकमसिद्धि दर्शयति

अध्वरे ह्येनं देवयन्तोऽजन्ति, इति । द्वितीयपादमनूध व्याचष्टे

वनस्पते मधुना दैव्येनेत्येत?

मधु दैव्यं यदाज्यम्, इति । हे वनस्पते यूप मधुरेण देवयोग्येनाऽऽज्येन त्वामञ्जन्तीति पूर्वत्रान्वयः। द्वितीयार्धमनूध व्याचष्टे

यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्दा क्षयो मातु- -

मअन्ति त्वामध्वरे०-३-८-१।

..

-.

.-

—..

द्वितीयः खण्डः] ऐतरेयबामणम् ।

रस्या उपस्थ इति यदि च तिष्ठासि यदि च

शयासै द्रविणमेवास्मासु धत्तादित्येव तदाह, इति । पप त्वं यदूर्वाग्रः संस्तिष्ठा अवटे स्थितोऽभवः । यद्वा जगन्मातुरस्याः या उपस्थ उपरि क्षयो निवासस्ते शयनं स्यात्सर्वथाऽपीड कर्मणि

धनान्यस्मदपेक्षितानि धत्तात्संपादयतु । अयमुत्तरार्धस्याओं यदि यादिना स्पष्टीकृतः। द्वितीयामृचं विधत्ते

उच्छ्रयस्व वनस्पत इत्युच्छ्रीयमाणाया

भिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम्, इति । हे वनस्पते त्वमुच्छ्यस्व शयनं परित्यज्योच्छूितो भव । उच्छ्यस्वेत्युक्तत्वा ड्रीयमाणाय यूपायेयमृगभिरूपा । तदेतदुच्छ्यणमापस्तम्बेन दर्शितम् पायोच्छ्रीयमाणायानुब्रूहीति संप्रेष्यत्युच्छीयमाणायानुब्रूहीति वोदिवर स्त नान्तरिक्षं पृणेत्युच्छ्यति’ इति । ‘अस्या ऋचो द्वितीयं पादमनूध व्याचष्टे

. वर्मन्पृथिव्या अधीत्येतदै वर्म

पृथिव्यै यत्र यूपमुन्मिन्वन्ति, इति । पृथिव्याः संबन्धिनि वर्णशरीरवत्प्रधानभूतेऽस्मिन्देशेऽध्युपर्युच्छ्यस्वेवि गान्वयः । ऋत्विजो यत्र वेदितत्पूर्वदेशयोरन्तराले यूपमुन्मिन्वन्त्यूर्ध्वतया वनन्ति सोऽयं देशः पृथिव्या वर्मेति । मने तृतीयं पादमनूध व्याचष्टे

सुमिती मीयमानो वक़धा यज्ञ

वाहस इत्याशिषमाशास्ते, इति । अमिती सुमित्या शोभनेन प्रक्षेपेण स्थापनेन मीयमानः स्याप्यमानो यन

यज्ञनिर्वाहकाय यजमानाय वर्णोधा वर्चसां दीप्तीनां धाता संपादयिता पो विशेष्यते । व!धा इत्येतदाशी प्रार्थना ।

तीयामृचं विधत्ते

समिदस्य श्रयमाणः पुरस्तादिति, इति । उच्छ्यस्व वनस्पते०-३-(-३ । समिद्धस्य श्रयमाण०-३-८-२॥

१४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ षष्ठाध्याये

अन्वाहेत्यनुवर्तते । अयं यूपः समिद्धस्य प्रदीप्तस्याऽऽहवनीयस्य पुरता. त्पूर्वस्यां दिशि श्रयमाण आश्रित्य वर्तमानः । एतत्पादार्थस्य याज्ञिकप्रसिद्धिं दर्शयति

समिद्धस्य ह्येष एतत्पुरस्ताच्छ्रयते, इति । अर्धमन्तवेद्यधु बहिर्वेदि यूपस्थापनादाहवनीयपूर्वदिगाश्रयणम् । द्वितीयपादमनूद्य व्याचष्टे

ब्रह्म वन्वानो अजरं सुवीरमि

त्याशिषमेवाऽऽशास्ते, इति । अजरमविनाशं सुवीरं कल्याणपुत्रादिसमृद्धिकारणम् । ब्रह्म परिवार कर्म वन्वानः संभजमानो यूपः । अजरादिशब्दैरेतस्मिन्पादे प्रार्थनं शंसते।

तृतीयपादमनूद्य व्याचष्टे

आरे अस्मदमतिं बाधमान इत्यश नाया वै पाप्माऽमतिस्तामेव तदा

रानुदते यज्ञाच यजमानाच, इति । अमतिबुद्धिभ्रंशस्तामस्मद्यजमानविग्भ्य आरे दूरे यथा भवति तथा वार मानो यूपः । एतत्पादगतेनामतिशब्देन क्षुधा वा पापं वाऽभिधीयते । तयो बुद्धिभ्रंशहेतुत्वादस्मदित्यनेन यज्ञो यजमानश्च विवक्षितः । ताभ्यां दु दिदी निराक्रियते ।

चतुर्थपादमनूद्य व्याचष्टे

उच्छ्रयस्व महते सौभगायेत्याशिषमेवाऽऽशास्ते, इति । हे वनस्पते यजमानस्याधिकसौभाग्यसिद्धयर्थमुच्छूितो भव । अस्मिना आशीविस्पष्टा।

चतुर्थीमचं विधत्ते ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सवितेति, इति । हे यूप नोऽस्माकमूतये रक्षणायोर्ध्व ऊर्ध्वाकार एव मुतिष्ठ स्थिति का तत्र दृष्टान्तः सविता देवो न सूर्यो देव इव स यथाऽस्मद्रक्षणायोध्वनि तद्वत्त्वमपीत्यर्थः।

ऊर्ध्व ऊ षु०-१-३६-१३ ।

.

द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

१४५ पर्वार्धगतस्य नशब्दस्य निषेधार्थत्वं परित्यज्याङ्गीकारवाचित्वातेनात्रो गर्थो विवक्षित इत्येतदर्शयति

यदै देवानां नेति तदेषामोमिति तिष्ठ

देव इव सवितेत्येव तदाह, इति । देवानां देवप्रतिपादकमत्राणां वर्णव्यत्ययेन वा वेदानां संबन्धि मेति पदमस्ति तदेषां वेदानां संबन्धिनि प्रयोग ओमित्येतस्मिन्नर्थे वर्तते । तथा त्यहीकार्यस्यार्थस्य विवक्षितत्वादत्रोपमार्थे विवक्षिते सति तिष्ठ देव इवेत्या वाक्यार्थी लभ्यते । तृतीयपादमनूध व्याचष्टे

ऊों वाजस्य सनितेति वाज

सनिमेवैनं तद्धनसां सनोति, इति । अयं यूप ऊर्ध्वः सन्वाजस्यान्नस्य सनिता दाता तत्तेन पादपाठेनैनं यूपं नसनिमेवानदातारमेव सनोति करोतीत्यर्थः । एतस्योपलक्षणत्वाद्धनसा

दिदातारं च करोति । चतुर्थपादमनूध व्याचष्टे

यदनिभिषिद्भिविह्वयामह इति च्छन्दांसि वा अञ्जयो वाघतस्तैरेतद्देवान्यजमाना विह्व

यन्ते मम यजमागच्छत मम यज्ञमिति, इति । यस्मात्कारणादजिभिः क्रत्वभिव्यक्तिकारिभिर्वाग्भिावद्भिः क्रत्वनुष्ठा वहद्भिऋत्विग्भिः सहिता यजमाना वयं विद्वयामहे विशेषेण देवानाह तस्माधूप त्वमूर्ध्वस्तिष्ठेति योज्यम् । अत्राञ्जिवाघच्छब्दाभ्यामृत्विग्रूप पाश्छन्दोभिमानिनो देवा उच्यन्ते । एतत्पादपाठे छन्दोभि नाम भः पठ्यमानैस्तैस्तैर्यजमाना देवान्विशेषेण हयन्ति । भो देवा ममैव यज्ञ छतेत्येक एवमन्येऽपि । सर्वसंग्रहार्थेयं वीप्सा । तुरेतवेदनं प्रशंसति

यदि ह वा अपि बहव इव यज

न्तेऽथ हास्य देवा यज्ञमेव गच्छ … न्ति यत्रैवं विद्वानेतामन्याह, इति ।

१४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ षष्ठाध्यारे . यद्यप्येकस्मिन्काले बहवो यजमाना यजन्त एव यागं कुर्वन्त्येव तथाऽ स्यैव विदुषोऽभयुक्तस्यैव यजमानस्य यज्ञ प्रति देवा आगच्छन्ति ।

‘पञ्चमीमचं विधत्ते

ऊों नः पाद्यंहसो नि केतुना

विश्वं समत्रिणं दहेति, इति । हे यूप त्वमूर्ध्वः सन्केतुना प्रज्ञया नोऽस्मानंहसः पापानिपाहि नितरां पार यात्रिणं भक्षणशीलं राक्षसादि विश्वमपि संदह समूहीकृत्य भस्मी कुरु ।

तस्य पूर्वार्धस्य तात्पर्य दर्शयति

रक्षांसि वै पाप्माऽत्रिणो रक्षांसि

पाप्मानं दहेत्येव तदाह, इति । यानि रक्षांसि सन्ति यश्च पाप्मा विद्यते तत्सर्वमत्रिशब्देन विवक्षितम् अत उभयदहनं मत्रप्रार्थितं भवति ।

तृतीयपादमनूय व्याचष्टे

कृधी न ऊर्वी चरथाय जीवम इति यदाह कृधी न ऊी चर

णाय जीवस इत्येव तदाह, इति । चशब्दः पूर्ववाक्येण समुच्चयार्थः। अपि च हे यूप रथाय जीवसे रथारो। णपूर्वकाय जीवनाय । यद्वा चरथायेत्येकमेव पदम् । चरथं चरणमाचारस्तर जीवनाय च नोऽस्मानू नुच्छ्तिान्कृधि कुरु, इत्यनेन पादेन मत्रो यदा तत्तत्र चरणस्य विवक्षितत्वादस्मदुक्तमेवार्थ मन्त्र आह । __ चरथायेति शब्दमाश्रित्य तात्पर्यमभिधाय जीवस इति शब्दमाश्रित्य ता

र्शयति

यदि ह वा अपि नीत इव यजमानो भवति

परि हैवेनं तत्संवत्सराय ददाति, इति । यद्यपि यजमानो मृत्युना नीत एव भवति तथाऽपि तत्पादपाठेन मृत्युप हत्यैनं संवत्सरायाऽऽयुष्मदाय कालात्मने ददाति ।

ऊर्यो न:- पा०-१-३६-१४ ।

द्वितीयः खण्डः] ऐतरेयबामणम् । चतुर्थपादमनूध व्याचष्टे

विदा देवेषु नो दुव इत्या

शिष मेवाऽऽशास्ते, इति । नोऽस्मदीयं दुवः परिचरणं देवेषु विदा वेदय कथयेत्यर्थः । अनेन स्वक. गां सफलत्वं प्रार्थयते ।

षष्ठीमृचं विधत्ते

जातो जायते सुदिनले अहामिति, इति । अयं यूपो जातो नित्यप्रादुर्भूतोऽप्यहां दिवसानां मध्ये मुदिनत्वे यागयु. स्याहः सुदिनत्वाय जायते ।

एतमेवार्थ दर्शयति

जातो ह्येष एतजायते, इति । एतदेतेन पादपाठेन । द्वितीयपादमनूध व्याचष्टे

समय आ विदथे वर्धमान

इति वर्धयन्येवैनं तत्, इति । समर्ये मनुष्यैर्यजमानादिभिर्युक्ते विदथे यज्ञदेश आसमन्ताद्वर्धमानो पूप स्ते तत्पादपाठेन यूपं वर्धयन्त्येव ।। तृतीयपादमनूध व्याचष्टे

पुनन्ति धीरा अपसो मनी

षेति पुनन्त्येवैनं तत्, इति । धीरा धीमन्तो यजमानादयोऽपसः कर्मणो निमित्तभूतान्मनीषा स्वकीयया पिया बुद्ध्या पुनन्ति तमिमं यूपं शोधयन्ति । तत्तेन तृतीयपादपाठेन । चतुर्थपादमनूध व्याचष्टे

देवया विप्र उदियति वाचमिति

देवेभ्य एवैनं तनिवेदयति, इति । विमो ब्राह्मण ऋत्विक्संघो देवया देवगामिनी वाचं यूपस्तुतिमुदियति, पयत्युचारयतीत्यर्थः । तत्तेन चतुर्थपादपाठेननं यूपं देवेभ्यः कथयति ।

जातो जायते०-३-८-५ ।

अस्या समापनमा सुवासादिधाति लोके मुवा परितो रस

१४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाध्यारे,

सप्तम्या समापनं विधत्ते

युवा सुवासाः परिवीत आगा

दित्युत्तमया परिदधाति, इति । उक्तास्वृक्षु येयमन्तिमा तयाऽनुवचनं समापयेद्यथा लोके सुवासाः शोक वस्त्रोपेतो युवा यौवनयुक्तः पुरुषोऽग्रत आगच्छति, एवमयं यूपः परितो र नया वेष्टित आगादिह कर्मण्यायातः ।

यद्वा युवशब्देन यूपस्य माणरूपत्वं विवक्ष्यते तामेतां विवक्षा दर्शयति प्राणो वै युवा सुवासाः सोऽयं शरीरैः परिवृतः, इति । कदाचिदपि जरारहितत्वात्माणस्य युवत्वं प्राणवेष्टनरूपत्वाच्छरीरामय वानां वस्त्ररूपत्वमीदशमाणरूपत्वेन यूपः प्रशस्यते ।

द्वितीयपादमनूद्य व्याचष्टे

स उ श्रेयान्भवति जायमान इति श्रेया

छ्यान्ह्येष एतद्भवति जायमानः, इति । ततः स उ स एव यूपो जायमानः कर्मणि निष्पाद्यमानः श्रेयान्दिने दिने प्रशस्यतरो भवति । प्रथमतछेदनेन प्रशस्तत्वं ततस्तक्षणेन प्रशस्तत्वमञ्जनेन ततोऽपीत्येवंविधविवक्षया श्रेयाश्रेयानिति वीप्सा प्रयुक्ता ।

उत्तरार्धमनूध व्याचष्टे

तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति ये वा अनूचा

नास्ते कवयस्त एवैनं तदुन्नयन्ति, इति । ते यूपं धीरा बुद्धिमन्तः कवयोऽनूचानादय उभयन्ति स्तूयमानैगुणेरुच्चिन कुर्वन्ति । कीदृशाः कवयः स्वाध्यः सुष्ठासमन्ताद्ध्यायतीति स्वाधीस्तस्य बहन वचनं सुधिय इत्यर्थः । मनसा स्वकीयेन देवयन्तो देवानातुमिच्छन्तः। उन एवार्थो ये वाऽनूचाना इत्यादिना स्पष्टीकृतः । अत्र प्रथमममो यूपमनुहार पोषितो यथाऽञ्जति(न्ति) त्वामिति प्रथमामन्वाह तथा यूपायोच्छ्रीयमाणायानुन हीति प्रेषित उच्छ्यस्वेत्याद्या ऋचः पञ्चानब्रूयात् । तथा यूपाय परिवा णायानुव्हीति प्रेषितो युवा मुवासा इत्येतामनुब्रूयात् ।

युवा सुवासाः०-३-८-४ ।

१ ख. ति । स ।


.

.

११२



द्वितीयः खण्डः] ऐतरेपनामणम् । उक्तमत्रसंख्यादिकं दर्शयति

ता एताः सप्तान्वाह रूपसमृद्धा एतदै यज्ञस्य समृद्धं यदूपसमृद्ध यत्कर्म क्रियमाणमृगभिव दति तासां त्रिः प्रथमामन्वाह विरुत्तमां ता एकादश संपद्यन्त एकादशाक्षरा वै त्रिष्टुपत्रिष्टु बिन्द्रस्य वज्र इन्द्रायतनाभिरेवाऽऽभी राध्नोति य एवं वेद त्रिःप्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव

तद्वौ नद्यति स्थेने बलायाविनसाय ॥२॥इति । त्रिशुभ इन्द्रस्य वज्रत्वमर्थवादान्तरे द्रष्टव्यम् ।

अथ मीमांसा-द्वादशाध्यायस्य तृतीयपादे चिन्तितम् ।

“उदिवेत्युच्छ्रयस्वेति विकल्पो वा समुच्चयः ।

विकल्पः स्मारकत्वैक्यात्मकारान्यत्वतोऽन्तिमः” || यूपस्योच्छ्यणे करण एष मनोऽध्वर्युणा पठयते-‘उदिवस्तभानान्तरिक्ष । पृथिवीमुपरेण दृश्ह’ इति । उच्छ्रीयमाणाय यूपाय प्रेषितेन होत्राऽयं मनः यते-‘उच्छ्यस्व वनस्पते वर्मन्पृथिव्या अधि’ [ऋ० सं०३-८-३]इति। नयो!पोच्छ्यणस्मारणमेकमेव कार्य तस्माद्विकल्प इति चेत् । मैवम् । कर “घ उच्छ्रयणं करोमीत्येवं स्मारयति हौत्रस्तु क्रियमाणमुच्छ्यणमनुवदन गों यूपोच्छ्यणं कर्तव्यमित्येवंविधां स्मृति जनयति । तत्र स्वार्थस्योच्छ स्यैकत्वेऽपि कर्तव्यमित्यस्य करोमीत्यस्य च स्मृतिप्रकारस्यान्यत्वाम पैक्यं तेन समुच्चयः। तत्रैवान्यचिन्तितम्

“उच्छ्यस्व समिद्धस्येत्यादीनां किं विकल्पना ।

समुच्चयो वा कार्यैक्यादायोऽनुस्मृतयेऽन्तिमः” । पच्छ्यस्वेत्येका समिद्धस्य श्रयमाण इति द्वितीया, ऊर्ध्व ऊषुण इति तृतीया, वो नः पाहीति चतुर्थी ता एताः क्रियमाणमनुवदन्त्यो होत्रा पठ्यन्ते तासां च्छ्यणकर्तव्यतास्मरणस्य कार्यस्यैकत्वाद्विकल्प इति चेन्मैवम् । प्रथममधे. पनायाः स्मृतरुत्तरोत्तरमनुस्मृतेः पृथक्प्रयोजनत्वात्तस्मात्समुच्चयः। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय बामणभाष्ये षष्टाध्याये द्वितीयः खण्डः ॥२॥ (२) [१२]

१५. श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाध्या यूपाजनादिसंबद्धा ऋचो विधाय यूपविषयं किंचिद्विचारमवतारयति

तिष्ठेचूपाः३ अनुप्रहरे३०, इत्याहुः, इति । कर्मणि समाप्ते सति पश्चादयं यूपः किं स्वस्थाने तिष्ठेत्कि वा तं यह पहरेदित्येवं विचारं ब्रह्मवादिन आहुः । विचारार्थ छुतिद्वयम् ।

तत्र कामनाविशेषेण स्थितिपक्षं स्त्री करोति

तिष्ठेत्पशुकामस्य , इति । तदेतदुपपादयितुमाख्यायिकामाह

देवेभ्यो वै पशवोऽन्नाद्यायाऽऽलम्भाय नाति अन्त तेऽपक्रम्य प्रतिवावदतोऽतिप्रनास्मा नालप्स्यध्वे नास्मानिति ततो वै देवा एतं यूपं वज्रमपश्यंस्तमेभ्य उदश्रयंस्तस्माद्विभ्यत उपावर्तन्त तमेवाद्याप्युपावृत्तास्ततो वै देवेभ्यः

पशवाऽन्नाधायाऽऽलम्आयातिष्ठन्त , इति । पुरा कदाचिदेवेभ्यो देवानामन्नाधाय पयोदध्याघमभक्षणायाऽऽलम्भायः ग्रीषोमीयवायव्यादिपश्वालम्भनकर्मणे च पशवो नातिष्ठन्त नागीकृतवन्तोमा जीकत्य ते पशवो देवेभ्योऽपक्रम्य प्रतिवावदतः प्रत्युत्तरं पुनः पुनर्वदन्तो रे तिष्ठन् । किं तदुत्तरमिति तदुच्यते । हे देवा यूयं कदाचिदपि नास्मानालप्स ध्वेऽस्मान्पशूनालन्धुं कर्मणि विशसितुं समर्था न भविष्यथ । पुनरपि नास्मा नितिवाक्यावृत्तिरादरार्था । सर्वथैवास्मदालम्भो न घटिष्यते । तत्मत्युमा श्रुत्वा देवाः पशुभीतिहेतुमेत यूपं वज्ररूपमपश्यन् । यूपस्य वज्रत्वश्रुतिः पूर्व वोदाहृता । तं यूपमेभ्यः पश्वर्थमुदश्रयन् , ऊर्ध्वमवस्थापयन् । तस्मादुनिया घूपादिभ्यतः पशवो देवानुपावर्तन्त । यस्मादेवं पूर्व वृत्तं तस्मादिदानीमा यागेषु तमेव यूपमुद्दिश्य पशव उपाहत्ता दृश्यन्ते । ततो देवानां दध्यायमा कर्मखालम्भाय च पशवोऽङ्गीकृतवन्तः ।

एतवेदनं यूपावस्थानं च प्रशंसति

तिष्ठन्तेऽस्मै पशवोऽन्नाद्यायाऽऽलम्भाय य एवं

वेद यस्य चैवं विदुषो यूपस्तिष्ठति , इति । यस्य यजमानस्येत्यर्थः।-

  • .

तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।

१५१ अथ फलविशेषाय पहरणपक्षमुपादत्ते

अनु प्रहरेत्स्वर्गकामस्य , इति । कर्मसमाप्तिमनु तं यूपमग्नौ प्रक्षिपेत् । तदेतदुपपादयति

तमु ह स्मैतं पूर्वेऽन्वेव प्रहरन्ति , इति । पूर्वे यजमानाः स्वर्गकामाः कर्मसमाप्तिमनु तमेतं यूपं प्रहरन्त्येव । तत्रैव युक्त्यन्तरमाह

यजमानो वै यूपो यजमानः प्रस्तरोऽग्नि देव योनिः सोऽनेर्देवयोन्या आहुतिभ्यः संभूय हिर

ण्यशरीर ऊर्ध्वः स्वर्ग लोकमेष्यतीति, इति । योऽयं यूपोऽस्ति यश्च प्रस्तराख्यो दर्भमुष्टिस्तयोर्यजमानवत्कर्मणि मुख्य घजमानत्वोपचारः । अग्निश्च देवानां योनिः कारणमनिसाध्यकर्मणो देव हेतुत्वात् । एवं सति स यजमानो देवयोन्या अग्नेस्तस्मिन्हुतायुपादाहु पश्च संभूय देवजन्म प्राप्य सुवर्णमयशरीर उर्वाभिमुखः स्वर्ग लोकं स्यति । तस्मात्स्वर्गकामस्य यूपप्रहरणं युक्तम् । नन्विदानींतनैः स्वर्गकामैः क्रतोपो न पहियत इत्याशङ्कय तेषां पति ध दर्शयति

अथ ये तेभ्योऽवर आसंस्त एतं स्वरुम पश्यन्यूपशकलं तं तस्मिन्कालेऽनुप्रह रेत्तत्र स काम उपाप्तो योऽनुप्रहरणे

तत्र स काम उपाप्तो यः स्थाने, इति । पूर्वसिद्धेभ्योऽनुष्ठातृभ्य ऋषिभ्योऽवरे ये केचिदर्वाचीना इदानींतना यज. " मासस्ते सर्वे यूपस्य प्रतिनिधित्वेन यूपशकलमेतं स्वरुनामकं स्वल्पं काष्ठ मपश्यन् । तस्मादिदानीतनो यजमानस्तस्मिन्यूपपहरणकाले तं स्वरुमनु. ति । एतच्च शाखान्तरे श्रूयते- ‘देवा वै संस्थिते सोमे प्रस्नुचोऽहरन्म यूपं अन्यन्त यज्ञवेशसं वा इदं कर्म इति ते प्रस्तरसुचां निष्क्रयणमपश्यन् , स्वर्क

स्थत साम मस्तरं प्रहरति जहोति स्वरुपयनवेशसाय’ इति । तथा रण या काम उक्तः स कामस्तत्र स्वरुपहरणे प्राप्तो भवतीति

-.-

१५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्– [६ षष्ठाध्या, पूपमतिनिधित्वेन स्वरोः प्रक्षिप्तत्वात् । यश्च यूपस्थाने पशुप्राप्तिलक्षणः क उक्तः सोऽपि तत्र प्रक्षेपणपक्षे प्राप्तो भवति यूपस्य स्वरूपेणावस्थितत्वात तदेतत्स्वरुपहरणमापस्तम्बेन दर्शितम्-‘जुहां स्वरुमवदायानूयाजान्ते जाने धा ते धूमो गच्छतु’ इति ।

अयामीषोमीयपश्वालम्भं विधत्ते

सर्वाभ्यो वा एष देवताभ्य आत्मान मालभते यो दीक्षतेऽमिः सर्वां देवताः सोमः सर्वा देवताः स यदनीषोमीयं पशुमालभते सर्वाभ्य एव तद्देवताभ्यो

यजमान आत्मानं निष्क्रीणीते, इति । पो यजमानो दीक्षते सोमयागे दीक्षां पामोति स यजमानः सर्वदेवता मात्मानमेव पशुत्वेनाऽऽलब्धुमुपक्रमते । अत्र च योऽग्निर्यश्च सोमस्तावुभौ स देवतात्मकायमेराहुत्यधिकरणत्वेन सोमस्य च होमद्रव्यत्वेन च सर्वोपका स्वात् । तथा सत्यग्नीषोमदेवताकपश्वालम्भनेन सर्वदेवतानां सकाशाधजमा स्वात्मानं निष्क्रीणीतवान्भवति । तस्मादग्नीषोमीयः पशुरालब्धव्यः । सोऽ मर्थः भुत्यन्तरे संग्रहीत:-‘पुरा खलु वावैष मेधायोऽऽत्मानमारभ्य चर यो दीक्षते यदनीषोमीयं पशुमालभत आत्मनिष्क्रयणमेवास्य’ इति । अथ पूर्वोत्तरपक्षाभ्यां पशुशरीरस्य रूपविशेषं निश्चिनोति

तदाहुईिरूपोऽग्नीषोमीयः कर्तव्यो विदे वत्यो हीति तत्तनाऽऽदृत्यं पीव इव कर्तव्यः पीवोरूपा वै पशवः कृशित इव खलु वै यजमानो भवति तद्य पीत्वा पशुर्भवति यजमानमेव

तत्स्वेन मेधेन समर्धयति, इति । तत्तत्राग्नीषोमीयपशौ ब्रह्मवादिनः पूर्वपक्षमाहुः । यस्मादस्य पशोरा सोमश्वेत्येते द्वे देवते तस्मात्तदनुसारेण यः पशुद्धिरूपः शुक्लकृष्णादिवर्णद्वया। स कर्तव्य इति तदेतद्ब्रह्मवादिमतमनादरणीयम् । किं तु पीव इव शरीर

१. दिवं । २ ख. ‘यामारमा ।


तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।

पशः कर्तव्यः । लोके हि पशवः पीवोरूपा वै मेदोवृद्ध्या वै प्रायेण पा एव भवन्ति । यजमानस्तु पश्चनुष्ठानदिने कृशित इवोपसदिनेषु श्रीगहारेण तदानीं कश एव भवति । तत्तथा सति यद्ययं पशुः स्थूलो जोन पाशस्थौल्येन कशशरीरं यजमानमेव स्वेन मेधेन स्वकीययज्ञसाधन

ण समृद्धं करोति ।

पनरपि पर्वोचरपक्षाभ्यां पशुळक्षणस्य इविषः शेषमक्षणमुपपादयितुं पूर्व

माह

तदाहु ग्रीषोमीयस्य पशोरश्नीयात्पुरुषस्य वा एषोऽश्नाति योऽग्नीषोमीयस्य पशोरश्राति यज

मानो ह्येतेनाऽऽत्मानं निष्क्रीणीत इति, इति । सत्ता पशौ पूर्वपक्षिण माहुरग्नीषोमीयस्य पशोर्मासं नाश्नीयाधस्तद्भक्ष सौ पुरुषस्य मांसमेव भक्षयति । यस्माबजमान एतेन पशुना स्वात्मानं कीणीते तस्मात्तत्स्वरूपोऽयं पशुः । इतिशब्दः पूर्वपक्षसमाप्त्यर्थः ।

निराकृत्य सिद्धान्तमाह तत्तन्नाऽऽदृत्यं वात्रघ्नं वा एतद्धविर्यदनीषोमी योऽग्नीषोमाभ्यां वा इन्द्रो वृत्रमहंस्तावेनमबू तामावाभ्यां वै वृत्रमवधीवर ते वृणावहा इति वृणाथामिति तावेतमेव वरमवृणातां श्वः सुत्यायां पशुं स एनयोरेषोऽच्युतो वरवृतो ह्येनयोस्तस्मा त्तस्याशितव्यं चैव लीप्सितव्यं च ॥३॥ इति । त्पूर्वपक्षिभिरुक्तमनादरणीयं योऽग्नीषोमीयः पशुरस्ति एतद्वात्रघ्नं त्रहत्या. त हविः । कथमेतदिति तदुच्यते । अग्नीषोमाभ्यां निमित्तभूताभ्यामिन्द्रो इतवान् । अस्यार्थस्य श्रुत्यन्तरद्योतनार्थो वैशब्दः । सोऽयमर्थः श्रुत्य त्वष्टा हतपुत्र इत्यनुवाके अपश्चितः । वत्रे हते सतीन्द्रं प्रत्यग्नीषोमावेवम है इन्द्र वा निमित्तं वृत्रं हतवानसि । अतो वृत्रवधस्य निमित्तभूतावावां काशावर माथेयावहै । इत्युक्त्वा वरं पार्थितवन्तौ श्वः सुत्यायां परेधुः भिषवे प्रसक्ते सति पूर्वदिने पशुरूपं वरं व्रतवन्तौ । स एष पभुरेनयो पारच्युताऽवश्य कतेव्यः । वरेण वृतत्वात । तस्मादेवं प्रशस्तत्वात्तस्य

INDI

१५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाध्या पशोर्मासमशितव्यं चैव सर्वदा भक्षितव्यमेव । न केवलं भक्षणं किंतु लोक तव्यं च भक्षणात्पूर्वमादरेण महता लन्धुमेष्टव्यमपि । तावेतो पूर्वोत्तर शाखान्तरे संगृहीतौ-तस्मानाऽऽश्यं पुरुषनिष्क्रयणेमथो खल्वारी माभ्यां वा इन्द्रो वृत्रमन्निति यदग्नीषोमीयं पशुमालभते वान एवास्य। तस्माद्वाऽऽश्यम्’ इति ।

अत्र मीमांसा-प्रथमाध्याये चतुर्थपादे चिन्तितर

“यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुतिः ।

सामानाधिकरण्येन स्यादेकस्यान्यनामता ॥ गुणो वा यजमानोऽस्तु कार्ये प्रस्तरवर्ति(लक्षि)ते । अंशांशित्वाधभावेन पूर्ववनात्र संस्तुतिः ॥

सर्व(अर्थ)भेदादनामत्वं गुणश्चेत्मह्रियेत सः” । यागसाधनताद्वारा प्रधान(विधेय)प्रस्तरस्तुतिः । इदमानायते-‘यजम प्रस्तरः’ इति । तत्र यजमानस्य प्रस्तरशब्दो नामधेयं यागेनेत्यादाविव सा नाधिकरण्यादित्येकः पक्षः। गुणविधिरित्यपरस्तत्रापि यजमानकार्य जप मस्तरस्याचेतनस्य सामर्थ्याभावात् । प्रस्तरकायें मुग्धारणादौ यजमान शक्तत्वाद्यजमानरूपो गुणो विधीयते । एवं सति पश्चाच्छूतस्य प्रस्तरशब्द कार्यलक्षकत्वेऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिभविष्यति । न था पूर्वन्यायेन स्तुतिः संभवति । अष्टाकपालद्वादशकपालयोरिवाशांशित्वाभावार वायुर्वं क्षेपिष्ठा देवता, ऊर्जाऽवरुध्या इति वत्स्तुतिरिति चेत् । न, प्रस्ता दिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः । तस्मानामगुणयोरन्यतरत्वमिति ब्रूमः । गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्न नामधेयत्वं युक्ता गुणपक्षेऽनौ प्रहरणस्य प्रस्तरविषयत्वायजमाने प्रहृते सति कर्मलोपः स्याह तस्मात्मस्तरशब्दो यजमानशब्देन स्तूयते । यथा सिंहो देवदत्त इत्यत्र सि गुणेन शौर्यादिनोपेतो देवदत्तः सिंह इत्याख्यायते तथा यजमानगुणेन या साधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते । एवं यजमानो यूपो । मानः प्रस्तर इत्यादिषु द्रष्टव्यम् ।

चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम्

“स्वरुं कुरुत इत्यत्र स्वरुपात्पृथक्रियाम् । प्रयोजयेत्र वाऽऽद्योऽस्तु विशिष्टस्य विधानतः॥

१ क. म. ‘स्मात्तस्य नाऽऽश्य । २ क. गमिव त्ययो ।

तुर्थः खण्डः] ऐतरेयब्राह्मणम् ।

आद्यस्य यूपखण्डस्य खरौ तस्य विशेषणे ।

विहिते लाघवं तस्मादनुनिष्पन्न एव सः” । ग्रीषोमीयपशौ श्रूयते-‘यूपस्य खरं करोति’ इति । तत्र यूपो यथा स्य प्रयोजकस्तथा स्वरु छेदनं प्रयोजयति । कुतः करोतीत्यनेन विशिष्ट प्रतीतेः । करोतिधातोर्भावना मुख्योऽर्थः । तत्र यूपशब्दोपलक्षितः खदि. TA: करणं छेदनादिरितिकर्तव्यता छिन्नेन वृक्षण स्वरुरुत्पादनीय इति प्रविधिः। उत्पन्नस्य स्वरोविनियोग एवमानातः-‘स्वरुणा पशुमन इति । तस्मात्स्वरुश्छेदनस्य प्रयोजक इति प्रासे ब्रूमः। वक्ष्यमाण(छिय स्य यपस्य यः प्रथमः पतितः शकलः स स्वरुरिति स्वरुत्वनाममात्र सांघवात्स्वरुन च्छेदनस्य प्रयोजकः किंतु यूपप्रयुक्ते छेदने स्वयमनुनि

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये षष्ठाध्याये तृतीयः खण्डः ॥३॥ (३) [३३]

वग्नीषोमीयं पशु विधाय तत्रैकादश प्रयाजान्विधत्ते

आप्रीभिराप्रीणाति, इति । पां प्रयाजादीनां याज्याः प्रीतिहेतुत्वादापीशब्देनोच्यन्ते । एतच शाखा श्रुतम्-‘आप्रीभिरामुवन् , तदापीणामाप्रीत्वम्’ इति । ताभिरापी नाभिः प्रयाजादिभिरामीणाति देवताः सर्वत्र प्रीणयेत्तत्प्रीत्यर्थ याज्याः

इत्यर्थः।

प्रशंसति

तेजो वै ब्रह्मवर्चममाप्रियस्तेजसैवैनं

तद्ब्रह्मवर्चसेन समर्धयति, इति । ज्यद्रव्यकत्वात्तेजस्त्वं शास्त्रीयसंस्कारसाधनत्वाब्रह्मवर्चसत्वं तेन याज्या यजमानस्य तदुभयं समृद्धं भवति । मिं प्रयाज विधत्ते

समिधो यजति, इति । मिनामकदेवतात्वाधागोऽपि समिध इत्यनेन शब्देनोच्यते । समिनामक

समिद्धो अ०-१०-११०-१।

१५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाघ्यावे यागं कुर्यादित्यर्थः। यद्वा हौत्र प्रकरणत्वात्समिदेवताविषयां याज्यां पर स्यर्थः। तत्प्रकारं बौधायन आह-‘यदा जानाति समिद्भ्यः प्रेष्यति तय वरुणः प्रेष्यति होता यक्षदग्निं समिधा सुषमिधा समिद्धमित्यथ होता यजा समिद्धो अद्य मनुषो दुरोणे तावेवमेव व्यतिषङ्गमुत्तरेण मैत्रावरुणः प्रेष्यात उत्तरेणोत्तरेण होता यजति’ इति । अस्यायमर्थः । समिद्भ्यः प्रेष्यति मोग ध्वर्युमत्रावरुणं प्रेष्यति तदानीमयं मैत्रावरुणः गैषसूक्तेन होता यक्षदमिं सी घेत्यनेन प्रथममत्रेण होतारं प्रेष्यति होताऽप्यापीसूक्ते समिद्धो अधेत्येतां शश मयाज्यां पठति । एवमुत्तरत्राध्वर्युक्त्रावरुणहोतारौ परस्परसंनिधौ स्वस्वमा पागं कुर्यातामिति तत्र प्रथमा याज्येति ।

अथ समिद्देवतां प्रशंसति

प्राणा वै समिधः प्राणा हीदं सर्व समिन्धते यदिदं किंच प्राणानेव तत्पी

णाति प्राणान्यजमाने दधाति, इति । समिधः समिन्धनस्य सम्यक्प्रकाशहेतवः प्रथमप्रयाजदेवताः। प्राणस्वरू देवताया एकत्वेऽपि समिध इति बहुवचनं पूजार्थम् । जगति यत्किचिदि शरीरजातमस्ति तत्सर्व प्राणाः समिन्धते प्रकाशयन्त्यतस्तेषां समिपर सत्तेन याज्यापाठेन प्राणानेव तोषयति तद्यजमानेऽपि प्राणान्संपादयति अत्र प्रयाजानां क्रमेण समिधस्तनूनपानराशंस इळो बहिर्दुर उपासानन दैव्या होतारा तिस्रो देव्यस्त्वष्टा वनस्पतिः स्वाहाकृतय इत्येता देवता वसिष्ठशुनकात्रिवध्यश्वराजन्यानां नराशंसो द्वितीयः । अन्येषां तनूनपा तीया(य:)।

तद्देवताविषयां द्वितीया याज्यां विधत्ते

तनूनपातं यजति प्राणो वै तनूनपास हि तन्वः पाति प्राणमेव तत्पीणाति प्राणं यजमाने दधाति, इति । अत्राध्वर्युप्रैषप्रकारमापस्तम्ब आह-‘समिद्भ्यः प्रेष्येति प्रथम समय मेष्य प्रेष्यतीतरान्’ इति । अतोऽस्माद्वितीयपर्याये प्रेष्येति मत्रेणाध्वयुमा रुणं प्रेष्यति । स च मैत्रावरुणः प्रेषसूक्तगतेन होता यक्षत्तनूनपातामा

तनूनपा०-१०-११०-२।।

चतुर्थः खण्डः]

ऐतरेयनांमणम् ।

१५७ सण होतारं प्रेष्यति।स तु होताऽऽप्रीमूक्तगतां तनूनपादित्येतां द्वितीयां

पटेत । तनं शरीरं न पातयतीति तनूनपात् । शारीरे वसति माणे न निकित प्राणः शरीराणि चालयत्यतस्तनूनपाद्देवस्य प्राणरूपत्वम् । द्वितीयप्रयाजयाज्यान्तरं विधत्ते

नराशंसं यजति प्रजा वै नरो वाक्शंसः प्रजां चैव तहाचं च प्रीणाति प्रजां

च वाचं च यजमाने दधाति, इति । अध्वर्यप्रेषितो मैत्रावरुणो होता यक्षनराशंसमिति मत्रेण होतारं प्रेष्यति जा नराशंसस्येति याज्यां पठेत् । नरान्मनुष्याशंसति वाचा स्तौतीति शंसः । तथा सति प्रजाया नरशब्दवाच्यत्वाद्वाचश्व शंसनहेतुत्वादुमय तिर्यजमानेऽपि तदुभयसंपत्तिः। अनयोरुभयोर्मत्रयोरधिकारिभेदेन व्यवस्था पस्तम्ब आह-‘नराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानां तनूनपादित. । गोत्राणाम्’ इति ।

तृतीयां प्रयाजयाज्यां विधत्ते

इळो यजत्यन्नं वा इळोऽनमेव तत्प्री

णायनं यजमाने दधाति, इति । होता यक्षत् [१-१३९-१०] अग्निमीळ [१-१-१] ईळित इति पेतो होताऽऽजुहान इत्येतां याज्यां पठेत् । इष्यत इति व्युत्पत्त्याऽनमिदन वाच्यम् । चतुर्थी विधत्ते

बर्हिर्यजति पशवो वै बर्हिः पशूनेव तत्प्री ___णाति पशून्यजमाने दधाति , इति । हाता यक्षर्हिः सुष्टरीमिति मन्त्रेण प्रेषितो होता प्राचीनं बहिरित्येतां ज्या पठेत् । बृंहणस्य पोषणस्य हेतुबंहिः पशवश्व क्षीरादिदानेन ताडयत्वा हि:स्वरूपाः।

अथ पञ्चमी विधत्ते

नराशसमि०-१-१३-३ । आजुहान०-१०-११०-३ । प्राचीन ब०

०-११०-४।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाध्यादे दुरो यजति दृष्टि दुरो दृष्टिमेव तत्प्री

णाति दृष्टिमनाचं यजमाने दधाति, इति । होता यक्षदुर ऋष्वा इत्यादिना मत्रेण प्रेषितो व्यचस्वतीवियेत्येतां या पठेत् । दुरो द्वारदेवतां दृष्टिश्च जीवनद्वारा।

षष्ठी विधत्ते

उषासानक्ता यजयहोरात्रे वा उषासानक्ताऽहो.

रात्र एव तत्पीणात्यहोरात्रयोर्यजमानं दधाति, इति । होता यक्षदुषासानक्तेति मन्त्रेण प्रेषित आसुष्वयन्तीत्यादिकां याण पठेत् । उषःशब्दस्य नक्तशब्दस्य चाहोरात्रविषयत्वं लोकमसिद्धम् ।

सप्तमी विधत्ते

दैव्या होतारा यजति प्राणापानौ वै दैव्या होतारा प्राणापानावेव तत्प्री

णाति प्राणापानौ यजमाने दधाति, इति । होता यक्षहव्या होतारेति मत्रेण प्रेषितो दैव्या होतारा प्रथमेति याज्य पठेत् ।

अष्टमी विधत्ते

तिस्रो देवीर्यजति प्राणो वा अपानो व्यानस्तिस्रो देव्यस्ता एव तत्प्री

णाति ता यजमाने दधाति, इति । होता यक्षत्तिस्र इत्यादिमन्त्रेण प्रेषित आ नो यज्ञमिति याज्यां पठेत् । इळा सरस्वती भारतीतिशब्दैरभिधेया देव्यो यथा तिस्र एवं प्राणापानव्याना अपि संख्यासाम्यात्तिस्रो देव्यः।

नवमी विधत्ते

त्वष्टारं यजति वाग्वै त्वष्टा वाग्धीदं

व्यचस्वती०-१०-११०-५ । आसुष्व०-१०-११०-६ । देव्या हा १०-११०-७ । आनो य०-१०-११०-८ ।


चतुर्थः खण्डः] ऐतरेयब्राह्मणम् ।

सर्व ताष्टीव वाचमेव तत्पीणाति

वाचं यजमाने दधाति, इति । मायक्षलधारमिति मत्रेण प्रेषितो होता य इमे घावापृथिवी इति यो पठेत । तमू त्वष तनूकरण इत्यत्र त्वक्षीत्यादिधातोरुत्पनः शब्द

देवतामाचष्टे । वाचश्च तक्षणहेतुत्वात्त्वष्ट्टत्वं तदेव वाग्घीत्यनेन स्पष्टी गते । यस्मादिदं सर्व जगद्वाक्ताष्टीव तक्षतीव यथा तक्षणेन काष्ठं प्रौढमपि में भवति । एवं महान्तोऽपि पर्वतादयोऽल्पेनैव शब्देन गृह्यन्ते । तदेतज्ज राष्टमिव भवति । दशमी विधत्ते

वनस्पति यजति प्राणो वै वनस्पतिः प्राणमेव

तत्प्रीणाति प्राणं यजमाने दधाति, इति । होता यक्षद्वनस्पतिमित्यादिमत्रेण प्रेषित उपावसजदिति पाग्यां पठेत । पतिजन्यफलानां प्राणावस्थितिहेतुत्वावनस्पतेः प्राणत्वम् । एकादशी विधत्ते

स्वाहाकृतीर्यजति प्रतिष्ठा वै स्वाहाकृतयः

प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयति, इति । होता यक्षदनि स्वाहेति मत्रेण प्रेषितः सद्यो जात इति याज्यां पठेत् ।। हाकृतीनामाहुतिसमाप्तिहेतुत्वात्प्रतिष्ठात्वं तन्मत्रपाठेनेनं यसमन्ततः समा. वसरे प्रतिष्ठायामेव वैकल्यराहित्यरूपायां प्रतिष्ठापयति । दशतो बहुविधानामाप्रीसूक्तानामानातत्वाद्विकल्पः स्यादित्याशयाधि रिभेदेन व्यवस्था विधत्ते

ताभिर्यथऋष्यापीणीयाद्यद्यथऋष्यापीणाति

यजमानमेव तद्वन्धुताया नोत्सृजति, इति । नोत्सृजति न निःसारयति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

ब्राह्मणभाष्ये षष्ठाध्याये चतुर्थः खण्डः ॥ ४॥ (४) [३४] य इमे०-१०-११०-९ । उपावस०-१०-११०-१० । सयो जा. -११०-११।

१६०

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाध्या आमियो विधाय पर्यनिकरणा ऋचो विधातुमादौ प्रैषमनं विधते

पर्यनये क्रियमाणायानुब्रूहीत्याहाध्वर्युः, इति । पर्यनिकरणस्य स्वरूपमापस्तम्बो दर्शयति-‘आहवनीयादुल्मुकमादायार पीध्रः परि वाजपतिः’ [४-१५-३] इति त्रिः प्रदक्षिणं पर्यग्निकरी पशुम्’ इति । एवं परितः क्रियमाणायामये योग्या ऋचो हे मैत्रावरुण लम शूहि । अनेनैव मत्रेणाध्वर्युः प्रेषयेत् ।

मैत्रावरुणेनानुवक्तव्यास्तिस्र ऋचो विधत्ते

अग्निर्होता नो अध्यरत इति तृचमाग्नेयं गाय त्रमन्वाह पर्यग्निक्रियमाणे स्वयैवैनं तद्दे.

वतया स्वेन च्छन्दसा समर्धयति , इति । पशोः परितोऽगिरित्यस्मिन्नर्थे पर्यनीत्युच्यते। तस्मिन्क्रियमाणे तचं मैत्रा वरुणोऽनुब्रूयात् । तदाहाऽऽश्वलायन:-‘प्रेषितो मैत्रावरुणोऽग्निहोता न तचं पर्यनयेऽन्वाह’ इति । तृचस्याऽऽदावग्निरित्युक्तत्वादानेयत्वं छन्दश्च तृचम गायत्रं परितः क्रियमाणोऽग्निरेव मत्रप्रतिपाद्योऽपि । स एवातः स्वयैव देव तयेत्युच्यते । अग्निगायत्र्योर्मुखजत्वसाम्याच्छन्दसः स्वत्वम् । नोऽस्माका ध्वरे यज्ञेऽयमग्निहोता यज्ञनिष्पादक इति तस्य पादस्यार्थः ।

द्वितीयं पादमनूद्य व्याचष्टे

वाजी सन्परिणीयत इति वाजिन

मिव ह्येनं सन्तं परिणयन्ति, इति । अयमग्निर्वाज्यन्नप्रदानेनानवान्गतिमान्वा तादृशः सवैत्विग्भिः पो परितो नीयते । तत्पादपाठेनैनमग्निं वाजिनमेव सन्तमृत्विजः परितो नयन्ति

द्वितीयस्या ऋचः पूर्वार्धमनूध तात्पर्य दर्शयति–

परित्रिविष्टयध्वरं यायनी स्थीरिवे.

त्येष हि रथीरिवाध्वरं परियाति, इति । तृतीयस्या ऋचः प्रथमपादमनूद्य व्याचष्टे

परि वाजपतिः कविरित्येष हि वाजानां पतिः, इति ।

अग्नि) ०-४-१५-१।पञ्चमः खण्डः] ऐतरेयब्राह्मणम् ।

१६१ जमिनचानः। ‘ये वा अनूचानास्ते कवयः’ इति श्रुतेः। तादृशोऽनिर्वाजप बस्वामी । एष हीत्यादिना तदर्थेप्रसिद्धिरुच्यते । अन्नभक्षकत्वाद्वाजपतिः । अथ होतारं प्रति मैत्रावरुणप्रैषार्थ मैत्रावरुणं प्रत्यध्वर्योः प्रैषमत्रं विधत्ते

अत उपप्रेष्य होतहव्या देवेभ्य इत्याहाध्वर्युः, इति । अतः पर्यग्निकरणानुवचनादूर्ध्वमध्वर्युरुपप्रेष्येत्यादिकं प्रैषमन्त्रं पठेत् । देवेभ्यो हवींष्युपप्रेष्य प्रेरयेति तस्यार्थः। अत्र मैत्रावरुणस्य होतस वरणीयत्वाद्धोतशब्द उपलक्षकः । तथा सति मैत्रावरुणं प्रत्यध्वर्योमत्रो वेष्यति । अथ मैत्रावरुणेन पठनीयं मत्रं विधत्ते

अजैदनिरसनहाजमिति मैत्राव

रुण उपप्रैष प्रतिपद्यते, इति। अत्र शामित्रदेशं प्रति नीयमानस्य पशोः पुरतो य उल्मुकाकारोऽमिर्गच्छति ऽग्निरजैजयतु । पशोः पुरस्तादग्नेर्गमनं शाखान्तरे श्रूयते-‘अग्निना पुरस्ता । रक्षसामपहत्यै’ इति । तस्यानेजयो नाम हविःसंपादनसामर्थ्य सोऽग्नि मन्नं हविर्लक्षणमसनत् । अस्य मत्रस्यान्तरुपप्रेष्य होतहव्या देवेभ्य श्रूयते । यतो होतारं प्रति मैत्रावरुणो मुख्यस्याध्वर्युप्रैष्यस्य समीपवति। दयमुपप्रेष्यः । अत्र ब्रह्मवादिनां चोचं वैयधिकरण्यरूपमुद्भावयति

तदाहुर्यदध्वर्युीतारमुपप्रेष्यत्यथ कस्मा - न्मत्रावरुण उपप्रैषं प्रतिपद्यत इति, इति । अध्वर्युप्रयुक्त मन्त्रे होतुः संबोधितत्वान्मत्रावरुणस्य मत्रपाठे वैयधिकरण्यम् । स्य चोयस्य परिहारं दर्शयति

मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता मनसा वा इषिता वाग्वदति यां ह्यन्यमना वाचं वदत्यसुर्या वैसा वागदेवजुष्टा तद्य न्मत्रावरुण उपप्रैषं प्रतिपद्यते मन सेव तद्दाचमीरयति तन्मनसेरितया वाचा

१६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६षष्ठाध्या

देवेभ्यो हव्यं संपादयति ॥५॥ इति । यज्ञपुरुषस्य मैत्रावरुणो मनःस्थानीयो होता तु वाक्स्थानीयः । लोके । मनसैव प्रेरिता वाक्शब्दमुच्चारयति । यदा वन्यमनस्कः पुरुषो वाचं अनेक वागसुर्याऽसुराणां प्रिया न तु देवजुष्टा देवानां न प्रिया । तथा सति यति मैत्रावरुणः प्रथममुपप्रैषं ब्रूते । मनसैव वाक्प्रेरिता भवति । ततो मनसा मेरी तया वाचा देवेभ्यो हव्यं संपादितं भवति । अन्यथा तद्धविरसुरेभ्यः संपा दितं स्यात् । तस्मादध्वर्युणा होतरित्येवं संबोधितेऽपि मैत्रावरुणोक्तमेष मेव होतवचनं युक्तम् ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय. ब्राह्मणभाष्ये षष्ठाध्याये पञ्चमः खण्डः ॥५॥ (५) [३५]

मैत्रावरुणोपप्रैषादूर्ध्व होतुरध्रिगुप्रैषो बौधायनेन दर्शितः-‘यदा जाना पप्रेष्य होतहव्या देवेभ्य इति तं मैत्रावरुणः प्रेष्यत्यजेदनिरित्यथ होताऽधि मन्वाह दैव्याः शमितारः’ इति । अध्रिगुः कश्चिदेवः पशुविशसनस्य कर्ता प्रति होता दैव्याः शमितार इत्यादिकं प्रैषमत्रमनुब्रयादिति तस्य सूत्रवाक्य स्यार्थः।

तमिमं सूत्रोक्तमर्थ विधत्ते

देव्याः शमितार आरभध्वमुत मनुष्या इत्याह, इति । हे दैव्या देवसंबन्धिनः शमितारः पशुविशसनकारिण आरमध्वं विशसन स्योपक्रमं कुरुतोत मनुष्या अपि मनुष्यरूपा अपि शमितार आरभध्वमित्या दिकमध्रिगुप्रैषमत्रं होता पठेत् ।।

यथोक्तमन्त्रस्य प्रथमपादं व्याचष्टे

ये चैव देवानां शमितारो ये च मनु

ष्याणां तानेव तत्संशास्ति, इति । तत्तेन प्रथमपादभागेन द्विविधजातीयाशमितन्नेरयति । मन्त्रस्य द्वितीयभागमनुवदति

उपनयत मेध्या दुर आशासाना मेधपतिभ्यां मेधमिति, इति ।

१ न. ‘त् । अथो । २ ख. ‘कप्रैषम ।

१६३

षष्ठः खण्डः] ऐतरेयब्राह्मणम् ।

प्रारम्भ किंकर्तव्यमिति चेत् । तदुच्यते । मेध्या मेधार्हा दुरो द्वारो हवि विशसनहेतीर्वोपनयत संनिधापयत मेधपतिभ्यां यज्ञस्वामिपत्नीयजमा. मनीषोमदेवतार्थ वा मेधं यज्ञमाशासानाः प्रार्थयमाना हे शमितारो यूय

जनयत ।

अत्र मेघशब्दं मेधपतिशब्दं च व्याचष्टे

पशुवै मेधो यजमानो मेधपतिर्यजमा

नमेव तत्स्वेन मेधेन समर्धयति, इति । मतान्तरानुसारेण मेघपतिशब्दस्यार्थ दर्शयति

अथो खल्वाहुर्यस्यै वाव कस्यै च देवतायै

पशुरालभ्यते सैव मेधपतिरिति, इति । अस्तु मेधपतिशब्दो देवतापरस्तावता च को लाभ इत्याशक्याऽऽह

स योकदेवत्यः पशुः स्यान्मेधपतय इति ब्रूयाद्यदि दिदेवत्यो मेधपतिभ्यामिति यदि

बहुदेवत्यो मेधपतिभ्य इत्येतदेव स्थितम्, इति । तृतीयभागमनुवदति

प्रास्मा अग्निं भरतेति, इति । अस्मै पश्वर्थ हे शमितारोऽग्निं प्रभरत प्रथमं नयत । अग्नेः प्रथमतो नयनमुपपादयितुमाख्यायिकामाह

पशुवै नीयमानः स मृत्यु प्रापश्यत्स देवाबान्व कामयतैतुं तं देवा अब्रुवन्नेहि स्वर्ग वै खा लोकं गमयिष्याम इति स तथेत्यब्रवीत्तस्य वै मे युष्माकमेकः पुरस्तादेखिति तथेति तस्याग्निः पुरस्तादैरसोऽग्निमनु प्राच्यवत, इति । मित्रदेशं प्रति नीयमानः पशुः प्रत्यक्षेण मृत्यु दृष्टवान् । ततः स पशु नान्वकामयताऽऽगन्तुं नैच्छत् । ततो देवाः पशुं प्रत्येवमब्रुवन्हे पशो

त्वया सह वयं सर्वे स्वर्ग गच्छाम इति । पशुश्च तदङ्गीकृत्य देवान्म वात, युष्माकं मध्ये कश्चिदेवो मम पुरस्तादच्छत्विति । तद्वचनमी

१६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाध्यावे. कृत्यानिर्देवस्तस्य पशोः पुरस्तादगच्छत् । ततः स पशुस्तममिमनु स्वयमी तुष्टः सन्मकर्षणागच्छत् । तस्मादनि प्रभरतेत्येतद्युक्तम् ।

उक्तमर्थ लोकप्रसिद्धया द्रढयति

तस्मादाहुराग्नेयो वाव सर्वः पशुरनिं

हि सोऽनु प्राच्यवतेति, इति । यस्मादग्निमनु पशुः प्रागच्छत्तस्मादानेयः सर्वः पशुरित्येवं याज्ञिकलोन प्रसिद्धिः। अत एव सर्व पशुमग्नौ जुह्वति ।।

यस्मादेवं प्रसिद्धिस्तस्मादेव कारणात्पशोः पुरस्तादमिं नयेयुरित्येता प्रसङ्गाद्विधत्ते

तस्मादस्यामिं पुरस्तादरन्ति, इति । तस्माद् तस्मादेव ।

चतुर्थभागमनूय व्याचष्टे

स्तृणीत बर्हिरित्योषध्यात्मा वै पशुः

पशुमेव तत्सर्वात्मानं करोति, इति । संज्ञपनस्थानं नीतस्य पशोरधस्तादुपाकरणसाधनयोबहिषोरन्यतराई शमितार उपक्षिपत । पशुभक्षितानामोषधीनां पश्ववयवत्वेन परिणतत्वात्पर्श रोषध्यात्मत्वमतस्तद्भागपाठेन पशुं सर्वोषध्यात्मानं करोति ।

पञ्चमभागमनूध व्याचष्टे

अन्वेनं माता मन्यतामनु पिताऽनु भ्राता सगर्योऽनु सखा सयूथ्य इति

जनित्रैरेवैनं तत्समनुमतमालभन्ते, इति । संज्ञप्यमानमेनं पशुं मात्रादयोऽङ्गी कुर्वताम् । समाने गर्भे भवः सग एकोदरो भ्रातृविशेषणमेतत् , समाने यूथे भव: सयूथ्यः पशुसमूहाधावतक शेषणमेतत् । तद्भागपाठेनैनं पशु जनित्रैस्तजन्मसंबन्धिभिः पश्वन्तरेरनु कृत्वा पश्चादालभन्ते ।

षष्ठं भागमनूध व्याचष्टे __ उदीचीना अस्य पदो निधत्तात्सूर्य चक्षुर्गमयता

१ क. ख. म. प्रहर।

छः खण्डः]

ऐतरेयब्राह्मणम् । । द्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं

पृथिवी शरीरमियेष्वेवैनं तल्लोकेष्वादधाति, इति । नियमानस्य पशोः पदः पादानुदीचीनानुत्तरदिग्गतानिधत्तात्स्थापयत । रिन्द्रियं सूर्यदेवतां प्रापयत । प्राणं वायुदेवतां प्रत्यन्ववसृजतात्मापयत । जीवमन्तरिक्ष प्रापयत । श्रोत्रं दिग्देवतां पापयत । शरीरं पृथिवीं यत । तद्भागपाठेनैनं पशुमेष्वेव यथोक्तदेवतासंबन्धिषु लोकेषु स्थापयति । सप्तमभागमनूध व्याचष्टे

एकधाऽस्य त्वचमाच्छ्यतात्पुरा नाभ्या अपि

शसो वपामुखिदतादन्तरेवोष्माणं वारयध्वा दिति पशुष्वेव तत्प्राणान्दधाति , इति । एक’कविधया विच्छेदराहित्येनास्य त्वचमाच्छयतासमन्ताच्छिन्नां कुरुत। ग्या अपि शसश्छेदात्पूर्वमेव वपामुत्खिदतादुद्धरत । ऊष्माणमुच्छ्वासमन्त. वारयध्वान्निवारयत पिहितास्यं संज्ञपयतेत्यर्थः । तद्भागपाठेन पशुष्वेव

संपादयति । भष्टमभागमनूद्य व्याचष्टे

श्यनमस्य वक्षः कृणुतात्प्रशसा बाहू शला दोषणी कश्यपेवांसाच्छिद्रे श्रोणी कवषोरू नेकपर्णाऽष्ठीवन्ता पविंशतिरस्य वक्रयस्ता अनुष्ठ्योच्यावयतादात्रं गात्रमस्यानूनं कृणु

तादित्यनान्येवास्य तगात्राणि प्रीणाति, इति । चन श्यनाकृतिकमस्य पशोर्वक्षः कुरुत । बाह प्रशसा प्रक्रष्टच्छेदनो कुरुत। जी प्रकोष्ठौ शला कृणुताच्छलाकाकारौ कुरुत । उभावप्यंसौ कश्यपा (कुरुत । श्रोणी उभे अप्यच्छिद्रे अनूने कुरुत । कवषोरू कवषाकारा सकपणी करवीरपत्राकारावष्टीवन्तावरू मूलयुक्तौ कुरुत । अस्य पशोर्व ग वाणि पार्थास्थीनि पइविंशतिर्भवन्ति । ताः सर्वा अनुष्ठयानुक्रमेण पानगतान्युझ्यावयतोद्धरत । गात्रं गात्रं सर्वमप्यदनीयमङ्गमनूनं कृणुतादवि. उरत । तद्भागपाठे तस्य पशोरङ्गान्येवावयवरूपाण्येव गात्राणि मीणाति ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ षष्ठाध्या गात्रशब्दः शरीरे तदवयवे च वर्तते । अतोऽत्रावयवविवक्षा द्योतयितुमा निर्देशः।

नवमभागमनूध व्याचष्टे

ऊवध्यगोहं पार्थिवं खनतादित्याहौषधं वा ऊवध्यमियं वा ओषधीनां प्रतिष्ठा तदेनत्स्वा

यामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयति, इति । ऊवध्यगोहं पुरीषगृहनस्थानं पार्थिवं खनतात्पृथिवीसंबन्धमेव खनन अत्रोवध्यशब्देनौषधमेवोच्यते पुरीषस्य पशुभक्षितस्यौषधिविकारत्वात । ओ धीनां चेयमेव भूमिः प्रतिष्ठाऽऽश्रयः । तत्तथा सत्येनमूवध्यं स्वकीयाया प्रतिष्ठायां भूमिरूपायामन्ततः पशुविशसनान्ते प्रतिष्ठापयति ।

अत्र मीमांसा-नवमाध्याये चिन्तितम्

“अविकारो विकारो वा स्यान्मेधपतिशब्दयोः। विकारे स्वामिदेवार्थ एकार्थो वाऽन्तिमेऽपि किम् ।। स्वाम्यों देवताओं वा स्यादन्याय्यत्वतोऽग्रिमः ।

अर्थसत्त्वा(भेदा)द्विकारोऽत्र द्वावौँ शब्दयोयोः ।। मत्रैक्यादर्थ एकोऽत्र स्वाम्यस्मिञ्जायया द्विता ।

देवार्थाशीर्देव एकोऽधिष्ठाने द्वे द्विधेरणम्” ॥ अध्रिगुप्रैषनिगदस्याऽऽदाविदमानायते-‘दैव्याः शमितार आरमध्वम् मनुष्या उपनयत मेध्या दुर आशासाना मेधपतिभ्यां मेधम्’ इति । शाखान्न तु मेधपतये मेधमिति । अयमर्थः। शमितारः पशुपातिनो द्विविधा दैव्या माद् पाश्च, तानुभयान्संबोध्य होता कर्तव्यविशेषानिर्दिशति-‘प्रारम्भः कर्तव्य मेधो यज्ञस्तद्योगादु(ग्यान्दु)रः पदार्थान्हिसाहेतूनिहाऽऽनयत । किं कुर्वन्तः। यज्ञपतिभ्यां यज्ञपतये वा यज्ञमाशासाना इति । तत्रैकवचनान्तस्य द्विवचना न्तस्य च मेधपतिशब्दस्य बहुपशुयुक्तासु विकृतिष्वनूह ऊहो वेति संशय ऊहपक्षेऽपि किमेकवचनान्तस्य यजमानोऽर्थो द्विवचनान्तस्याग्रीषोमो देवता इत्येवमर्थभेदः किं वा शब्दद्वयस्यैक एवार्थ इति संशयः। एकार्थत्वपक्ष यजमान एवार्थो देवतैव वेति संशयः । अत्राग्रीषोमीये पशौ यजमानोऽना चेति त्रयो मेधस्य पतयस्तेष्वेकवचनस्य द्विवचनस्य चान्यायनिगदत्वेन म वविवक्षितस्य वचनस्य विकृतावनूह इत्याधः पक्षः। प्रकृती समवेताथ यितुं शक्ये सत्यन्यायनिगदत्वाभावाद्विकृतावूहः कर्तव्य इति द्वितीय

वः खण्डः ] ऐतरेयब्राह्मणम् ।

१६७ ठितीयपक्षेऽपि प्रकृतावुपन्यस्तप्रकारेणार्थभेदाद्विकृतिषु द्विबहुयजमानयु स्वहीनादिषु यजमानानुसारेणैकवचनान्त ऊहनीयः । अनेकपशुयुक्तासु इतिषु देवतानुसारेण द्विवचनान्त ऊहनीयः । सोऽयं शाखाविकल्पे प्रथमः

। शाखाभेदेन पाठभेदेऽपि मत्रभेदाभावादर्थभेदो न युक्तः किं त्वेक अर्थ इति पक्षान्तरम् । तदाऽपि देवतायाः संप्रदानत्वेन स्वामित्वाभावान्मे तिशब्दयोग्यता नास्तीति यजमान एव तच्छब्दार्थः। तस्मिन्यजमान वं जायया सह द्वित्वमित्येकवचन द्विवचने उभे अपि समवेतार्थे । ततो मानद्वयोपेतायां विकृतावेकवचनान्तो द्वित्वेनोहनीयो द्विवचनान्तो बहुत्वे ’ पूर्वः पक्षः । मेधस्य यजमानार्थत्वेनैवाऽऽशासनीयत्वस्य सिद्धत्वादेवता.

त्वाशासनीयम् । ततो मेधमाशासाना इत्येतदेवतायां समवेतार्थसंप्रदान प्युद्देश्यत्वेन प्राधान्यान्मेधपतित्वमविरुद्धम् । देवत्वाकारेणैकत्वादमित्वसो.

-.

.

सिद्धान्तः। त्रैवान्यचिन्तितम्

“आदित्येष्वेकवाच्येष ऊह्यो नो वोद्यतेऽन्यवत् ।

गणार्थत्वादनुहोऽतो विकल्पः प्रकृताविव” ॥ जापशुसंपत्तिकामस्य बहुदेवत्यः पशुराम्नायते–‘यः कामयेत प्रथेयं पशुभिः जया जायेयेति स एतामविं वशामादित्येभ्यः कामायाऽऽलभेत’ इति । ‘वन्ध्या कामाय कामुकेभ्य इत्यर्थः । अत्र चोदकप्राप्तो मेधपतय कवचनान्तः शब्द आदित्यानां बहुत्वादहुवचनान्तत्वेनोहनीयः। यथा तिभ्यामिव द्विवचनान्त ऊह्यते । यथा वा प्रास्मा इत्येकवचनान्त ऊहते ति चेत् । मैवम् । प्रकृतावनीषोमयोर्गणैकत्वमेकवचनान्तो ब्रूते । आदि माप गणैकत्वं समानमित्यनूहः । तस्मादविकृत एकवचनान्त इतरेण सह विवात्रापि विकल्प्यते । त्रैवान्यचिन्तितम्

“कृष्णग्रीवादिकेऽनूह ऊहो वा नास्य पूर्ववत् ।

देवत्वं न गणस्यात ऊहो बहभिधित्सया” ॥ एकादशिन्यामग्न्यादिदेवताकाः पशव आन्नाता:-‘प्रैवाऽऽग्नेयेन वाप मन सारस्वत्या करोति रेतः सौम्येन दधाति मजनयति पौष्णेन’ इत्या. । तच स्वनामभिरन्यत्राऽऽनाता:-आग्नेयः कृष्णग्रीवः सारस्वती

रणनीवादिकन हो बहानातान’ इत्या

..

acid.—–

१६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [६ षष्ठा मेषी बभ्रुः सौम्यः पौष्णः श्यामः’ इत्यादिना। तत्रास्यैकवचनान्तस्य मे शब्दस्याऽऽदित्येष्विव नोह इति चेत् । मैवं वैषम्यात् । आदित्यगण देवत्वमिह त्वेकैकस्य पृथग्देवत्वमतो बहून्देवानभिधातुं बहुवचनान्तम नीयम् ।

तत्रैवान्यचिन्तितम्

“द्विपश्वोश्चक्षुराहो न वोहः पशुभेदतः।

तेजोमात्रस्य सूर्यादावेकीभावादनूहनम्” ॥ अग्नीषोमीयपशावध्रिगुप्रैषे पशुसंबन्धिचक्षुरादीनां सूर्यादिसंसर्ग १ यते-‘सूर्य चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्री इत्यादि । मैत्रं श्वेतमालभेत वारुणं कृष्णमिति विहितयोर्द्वयोः पश्चोर्मत्रगा क्षुरादिशब्दा द्विवचनान्तत्वेनोहनीयाः । कुतः, पशुभेदेन चक्षुरादीनां दिति चेत् । मैवम् । न खल्वत्रेन्द्रियाधिष्ठानं शरीरगतगोलकं चक्षुःशब्देन क्षितम् । तद्विवक्षायामकस्मिन्पशौ गोलकभेदादेकवचनान्तचक्षुःशब्दस्यान प्रसङ्गागोलकस्य सूर्यादिमाप्त्यसंभवाच्च । यत्तु रूपदर्शनादिसामर्थ्य : तेजोमात्रं तदत्र चक्षुरादिशब्दै विवक्षितम् । तच्च पश्वनेकत्वेऽपि ततो नि सूर्यादावेकीभूतत्वात्समुद्रप्रविष्टनदीवन भेदेनावतिष्ठते । तस्मानास्त्यूहः।

तत्रैवान्यचिन्तितम्

“एकत्यविकारः स्यादभ्यासो वा सहत्वतः।

आयो मैवं माकृतस्य सकृत्त्वस्योचितत्वतः” । तस्मिन्नेवाध्रिगुप्रैषे श्रूयते–‘एकथाऽस्य त्वचमाच्छ्यतात्’ इति । छि त्यर्थः । तत्र द्वयोः पश्चोरेकधेत्यस्य शब्दस्य नास्ति विकारः । कुतः, शब्दस्य सहत्ववाचित्वादेकधा गाः पाययतीत्यत्र यौगपो प्रयोगदर्शन पश्चनेकत्वेऽपि त्वगुत्पाटनस्यैककालीनत्वं बहुपुरुषककत्वं च घटत इति ब्रूमः । प्रकृतावेकस्मिन्पशौ योगपघलक्षणोऽर्थो न संभवति ततः सकृत्त्व शब्दस्यार्थः । त्वगियमवयवशो बहुकृत्वो न च्छेत्तव्या किंतु सर्वाऽपिस कप्रयत्नेनेत्युक्तं भवति । यत्प्रकृतौ सकृत्त्वं तदेव विकृतावुचितम् । ततः पशु सकृत्त्वमभिधातुमेकधेत्ययं मत्रोऽभ्यसितव्यः ।

तत्रैवान्यचिन्तितम्

“सादृश्यमुत साकल्यं श्येनाद्युक्तौ विवक्षितम् ।

प्रसिद्धसंनिधेराधस्तत्सत्त्वादखिलोधृतिः” ।

N.

3: खण्डः] ऐतरेयब्राह्मणम् ।

१६९ धिगषे वचनमेतदानायते-‘श्येनमस्य वक्षः कृणुतात्’ इति । तत्र पी पिपिण्डाः सिंहाः क्रियन्तामित्युक्ते प्रसिद्धसिंहसंनिधानास्पिष्टपिण्डेषु पश्यं कर्तव्यतया प्रतीयते तथैवास्य पशोर्वक्षः श्येनं कृणुतादित्यत्र पादृश्यं वक्षसि कर्तव्यतया प्रतीयते । ततो बहु(वक्ष) उद्धृत्य कर्तनायुपा पक्षचरणखुरादिकं संपाय श्येनसंस्थानं कर्तव्यमिति प्राप्ते ब्रूमः । वक्षसि सादृश्यं स्वत एव पूर्वमस्ति । ततो यथा तन्न नश्यति तथा साकल्येनो

यमिति विवक्षया श्येनशब्दः प्रयुज्यते । तथा सति हविरविकलं भवति । दिष्वनेनैव न्यायेन साकल्यविवक्षया तत्तद्रूपकोक्तिद्रष्टव्या । एतदेवाभि

श्रूयते-गात्र गात्रमस्यानूनं कृणुतात्’ इति । त्रैवान्यचिन्तितम्

“प्रशसेत्यसिरर्थः स्यात्स्तुतिर्वा छेदनादसिः ।

स्तुतिः कात्याय बाहोः स्यात्स्वधितिश्छेदसाधनम्” । ध्रिगुप्रैषे वाक्यान्तरमाम्नातम्-प्रशसा बाहू इति । शसु हिंसायामित्य तोः सोपसर्गादुत्पन्नस्य सकारान्तप्रातिपदिकस्य तृतीयैकवचनान्तस्य ति रूपं भवति । तच्चासिवाचकं तदेतत्केनचिद्राह्मणवाक्येनानूयते-दश गानिष्ट्वा शासमाहरेति । असिवै शास इत्याचक्षत इति । सोऽयमसिर्बाहो नहेतुस्तस्मादृष्टार्थलाभादसिः प्रशसेत्यस्य पदस्यार्थ इति चेत् । मैवम् । तुतावित्यस्माद्धातोरयमुत्पनः । प्रशस्तावित्यस्य द्वितीयाद्विवचनान्तस्य स्य च्छान्दसे तकारलोप आकारादेशे च कृते प्रशसेति भवति । बाहोः त्वं नाम कात्स्न्य प्रशस्तौ बाहू कृणुतादित्युक्ते निःशेषेणोद्धर्तव्यो बाडू दृशो दृष्टोऽर्थो लभ्यते । नात्र च्छेदनसाधनत्वमसेः संभवति स्वधितेस्त नत्वेन विहितत्वात् । तस्मात्स्तुतिरेवास्य शब्दस्यार्थः । तथा सति बाहु बहुवचनान्तत्वेन प्रशसेति पदमूहनीयम् । त्रैवान्यचिन्तितम्

“पड्विंशतिर्वक्रयोऽस्येत्यनूहः स्यादुतोह्यते । ऊहेऽपि वचनान्यत्वमस्येत्यावर्त्यतेऽथ वा ॥ पइविंशतेरुताभ्यासः समस्तोक्तिर्भवेदुत । अनूहोऽकरणत्वेन दृष्टलाभात्तदूहनम् ।। संख्यायाश्च पशोर्युक्तेर्वक्रीणां मुख्यतावशात् ।

अमी पक्षों युज्यन्तेऽन्त्यस्ता अनुष्ठयेति शेषतः” । क. ख. स. म. किन चेदु । २ क. ख. अ. अ. क्षा न युज्यन्ते ता । ३ क. ख. स.

दोष।

१७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्टाध्या अध्रिगुप्रैषे वाक्यमिदमानायते-‘पइविंशतिरस्य वक्रयस्ता अनुष्योल वयतात्’ इति । अयमर्थः । वज्रयो वक्राणि पार्थास्थीनि तान्यस्य पशोः विंशतिसंख्याकान्येकैकस्मिन्पार्वे त्रयोदशानामवस्थितत्वात् । वीरना नुष्ठायानुक्रमेण गणयित्वेति यावत् । उच्यावयतादुद्धरतादिति । सोऽयं म वक्रीणामुद्धरणे करणतया न विनियुक्तः किं तु संझपनात्माक्पशौनी माने होत्रा प्रयुज्यते । ततोऽसमवेतार्थत्वादनूह इत्याद्यः पक्षः । अकरणत्वे नादृष्टार्थत्वं वक्ष्यमाणार्थस्मारकत्वेन दृष्टार्थलाभात् । तस्मात्मकृतौ समवेतार्थन विकृतावूहः। तदापि चत्वारः पक्षाः। तत्र संख्या मुख्यत्वेन प्रकाश्यते। तेन स पश्चोद्विगुणितां षइविंशतिसंख्यां प्रकाशयितुं द्विवचनान्ततया षड्विंशति ऊहनीय इत्याद्यः पक्षः। पशोश्वोदितत्वेन मुख्यत्वात्तद्वाचकं षष्ठयन्तमस्पेति पश्चनुसारेणाऽऽवर्तनीयमिति द्वितीयः पक्षः।युक्तिोगः। षइविंशतिसंख्याया पशुना सह संबन्धात्तस्य मुख्यत्वात्मतिपशु विभक्तसंख्यां प्रकाशयितुं पड़ी शतिपदस्याभ्यास इति तृतीयः पक्षः । अत्र सर्वत्र मुख्यानुसारेण पदाना ण्यूहनीयानि । संख्येयानां वक्रीणां मुख्यत्वात्तासामियत्ता समस्य वक्तव्य ततो द्वापश्चाशदनयोर्वक्रयोऽष्टसप्ततिरेषां वक्रय इत्येवं यथायोगमूह यमिति चतुर्थः पक्षः । अयमेव सिद्धान्तो वाक्यशेषानुगुण्यात् । ता अनुपूर्व त्ययं वाक्यशेषः । स च व्याख्यातः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

ब्राह्मणभाष्ये षष्ठाध्याये षष्ठः खण्डः ।।६।। (६) [३६]

यद्यप्यधिगुप्रैषमत्रो न समाप्तस्तथाऽप्यनन्तरभागे बहुवक्तव्यसद्भावा ण्डान्तरं कृतम् ।

दशमं भागमनूय व्याचष्टे

अस्ना रक्षः संसृजतादित्याह तुर्वे फलीकरणै देवा हविर्यज्ञेभ्यो रक्षांसि निरभजनस्ना महा यज्ञात्स यदस्ना रक्षः संसृजतादित्याह रक्षा स्येव तत्स्वेन भागधेयेन यज्ञानिवदयते, इति ।

१ क. ख. ह. भ. चकषड्विंशतिरस्य । २ क. ख. श. म. ‘तिरस्येतिपदयारमासमः खण्डः] ऐतरेयब्राह्मणम् ।

१७१ प्रसाऽसजा रुधिरेण रक्षः संसृजतान्मांसाभिलाषव्यावृत्त्यर्थ राक्षसानक्ते संयोजयत । एनं मत्रभागं होता ब्रूयात् । किमर्थमेतदिति तदुच्यते । पुरा स्तपै!हिगतहेयांशैः फलीकरणैस्तण्डुललेशैश्च दर्शपूर्णमासादिहविर्यज्ञेषु गतानि रक्षांसि तोषयित्वा तेभ्यो यज्ञेभ्यो निरभजन्हविर्भागरहितान्यकु. । महायज्ञे ज्योतिष्टोमादिके समागतानि रक्षांसि पशुरक्तेन तोषयित्वा विज्ञानिरभजनिःसारितवन्तः । हविर्यज्ञेभ्यो निःसारणं शाखान्तरे दर्श सिप्रकरणे मत्रव्याख्याने समानातम्-‘रक्षसां भागोऽसीत्याह तुरेव से निरवदयते’ इति । तदेतदापस्तम्बेनोक्तम्-‘मध्यमे पुरोडाशकपाले सोप्य रक्षसां भागोऽसीत्यधस्तात्कृष्णाजिनस्योपवपति’ इति । महायज्ञा रणमनीषोमीयपशुप्रकरणे तैत्तिरीयैरान्नातम्-‘रक्षसां भागोऽसीति स्थवि बहिरङ्कत्वाऽपास्यत्यस्यैव रक्षा सि निरवदयतः’ इति । स्थविमतः ययुक्ते बहिर्मूलभाग इत्यर्थः । एतदपि सूत्रकारेण स्पष्टीकृतम्-‘बहिषोऽअर न पाणिनाऽऽदत्ते’ तं मध्यं यत आर्छति तदुभयतो लोहितेनाकृत्वा । भागोऽसीत्युत्तरमपरमवान्तरदेशं निरस्य’ इति । एवं सति यद्यस्ना रक्ष भागं पठेत्तदानी रक्षांसि स्वकीयभागेन युक्तानि कृत्वा महायज्ञानिरव निःसारयति । थास्नेत्येतस्य मत्रभागस्य पादं पूर्वपक्षत्वेनाऽऽक्षिपति

तदाहुन यज्ञे रक्षसां कीर्तयेत्कानि

रक्षास्यूतरक्षा वै यज्ञ इति, इति । तत्र मत्रभागे चोद्यवादिन आहुः । कथमिति, उच्यते । यज्ञे प्रवर्तमाने कानिचिदपि रक्षांसि न कीर्तयेत । जातिविशेषानपेक्ष्य बहुवचननि । राक्षसावान्तरजातीनां मध्ये राक्षसमसुरं पिशाचं वा न कंचिदपि त् । जातिविशेषाः श्रुत्यन्तरे सैन्यद्वयोपन्यासे श्रूयन्ते-‘देवा मनुष्याः तेऽन्यत आसन्नसुरा रक्षासि पिशाचास्तेऽन्यतः’ इति ।अकीर्तने हेतुमृते. इतिपदेनोपन्यस्यति । तदेतत्समस्तमेकमेव पदम् । ऋतशब्दो वर्जन । वर्जितं रक्षो यस्मिन्यज्ञे सोऽयमृतेरक्षाः। यज्ञो(ञ) हि हविर्भागत्वा व नामग्रहणमर्हन्ति न तु रक्ष:मभृतयः । तस्मादेतं मत्रभागं न कीर्त

क्षेपवादिनामभिमायः।

१ ख. ते तमध्यय।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाया समाधत्ते

तदु वा आहुः कीर्तयेदेव, इति । तदुवै तस्मिन्नेवास्ता रक्ष इति मत्रभागे संप्रदायविदः समाधानमाहः यद्यपि तत्र रक्षोनामास्ति तथाऽपि तं भागं कीर्तयेदेव ।

तत्रोपपत्तिमाह

यो वै भागिनं भागानुदते चयते वैनं स यदि वैनं न चयतेऽथ पुत्र

मथ पौत्रं चयते त्वेवैनमिति, इति । यः पुमान्मागिनं भागाई सन्तमन्यं पुरुषं तदीयाद्भागानुदते नाशय विनाशयितारं स नष्टभागः संश्चयते वैनं च्यावयत्येव । यदि वा यदा कद चिद्विनाशयितुः प्राबल्ये सति तदानीमेनं न चयते न च्यावयति । अथार कालान्तरे तदीयं पुत्रं पितृद्वेषेण विनाशयति तदाऽप्यशक्तौ पौत्र वा विनाव यति । किं बहुना भागभ्रष्टो मनसि द्वेषं गृहीत्वा स्वविरोधिनमेनं भ्रंशयिता यदा कदाचित्केनापि द्वारेण चयते त्वेव विनाशयत्येवेत्यनेनाभिप्रायेण पत्र भागं कीर्तयेदेवेत्यभिज्ञैरुक्तम् । यद्यपि रक्षसां हविर्भागो नास्ति तथाऽपि यो सुषकणादिदेवानहभागोऽस्त्येव तस्मात्कीर्तनपक्ष एव युक्तः।

तत्रैतस्य मत्रभागस्य कीर्तने कंचिद्विशेषं विधत्ते

स यदि कीर्तयेदुपांशु कीर्तयेत्तिर इव वा एत

दाचो यदुपांशु तिर इवैतद्यद्रक्षांसि, इति । स याज्ञिको यज्ञे रक्षसां नामधेयं द्वेषपरिहाराय यदि कीर्तयेत्तदाऽप्युपा परैर्यथा न श्रूयेत तथा कीर्तयेत् । वाचः संबन्धि यदुपांशुकीर्तनमेतत्तिर तिरोहितमिव भवति । यथा कुड्यादिव्यवहितं स्तम्भादिकं चक्षुषा न दृश्य तथैवोपांशुकथितं न श्रूयते । रक्षांसीति यदस्त्येतदपि तिर इव चोरवय रक्षसां गूढचारित्वात् । तस्मात्तदीयकीर्तनस्योपांशुत्वं युक्तम् ।

विपक्षे बाधं दर्शयति

अथ यदुच्चैः कीर्तयेदीश्वरो हास्य वाचो रक्षोभाषो जनितोः, इति ।

१ क. रवैति ति। २ झ. म. इवैति ति।

मः खण्डः]

ऐतरेयबामणम् । गोपांशवलक्षण्येन यधुचैः कीर्तयेदस्य कीर्तयितुः संबन्धिनीर्वाचो रतो. जनितोर्जनयितुमयमीश्वरो भवति । रक्षोभिर्भाष्यत इति रक्षोभार, । स्त्रीलिङ्गस्य द्वितीयाबहुवचनं रक्षोभाष इति । तदेतद्वाच इत्यस्य णम । अस्योच्चैः कीर्तयितुर्या वाचः सन्ति ताः सर्वा र मोक्तवाम्पेणो येतुमयं संकीर्तयिता समर्थो भवतीति । ऽयं समर्थ इत्याशङ्कय तं विशेषाकारेण दर्शयति

योऽयं राक्षसीं वाचं वदति सः , इति । के यः पुमावक्षसां वाचं परभर्सनरूपामुच्चध्वनित्वेन भीतिकरी पाचं

पुमांस्तामप्युच्चैः कीर्तयवक्षसां वागुत्पादको भवति । ऽसौ राक्षसी वागित्याशङ्कयाऽऽह वै दृप्तो वदति यामुन्मत्तः सा वै राक्षसी वाक् , इति । विद्यादिना दृप्तो दर्प प्राप्तः परतिरस्कारहेतुं यां वाचं वदत्युन्म द्धिराहित्यात्पूर्वापरसंबन्धरहितां यां वाचं वदति सेयमुभयविधाऽपि । वाक् ।

दिनं प्रशंसति

नाऽऽत्मना दृप्यति नास्य प्रजायां

दृप्त आजायते य एवं वेद , इति । ता स्वयमपि दर्प नाऽऽमोति तदा स्वीयायां प्रजायां कश्चिदपि सो

ते।

दर्श भागमनूध व्याचष्टे

वनिष्ठमस्य मा राविष्टोरूकं मन्यमाना नेद्वस्तोके तनये रविता खच्छमितार इति ये चैव देवानां शमितारो ये च मनु

ष्याणां तेभ्य एवैनं तत्परिददाति, इति । मितारो दैव्या मानुष्याश्च वनिष्ठं वपायाः समीपवतिनं मांसखण्ड शः संबन्धिनमुरूकमुलूकाख्यं पक्षिसदृशं मन्यमाना विशेषाकारेण तो मा राविष्ट मैव लवनं कुरुत । उलूकसदृशो पनिछुर्यथा वर्तते तथै न तु मध्यतश्छिन्नं कुरुतेत्यर्थः । एवं कुर्वतां वो युष्माकं संबन्धिनि

१७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाध्या तोके पुत्रे तनये तदीयापत्ये च रविता शब्दयिता नेनैव रवयात ।

शास्त्रं छेदने क्रियमाणे भवतां गृहे पुत्रपौत्रादिकं निमित्तीकृत्य रोकि भविष्यतीत्यर्थः । तद्भागपाठेन देवानां मध्ये ये शमितारः सन्ति ष्याणां च मध्ये ये सन्ति तेभ्य एव सर्वेभ्य एनं वनिष्टुं परिददात्यवैकल्याण समर्पयति ।

द्वादशं भागमनूय व्याचष्टे

अधिगो शमीध्वं मुशमि शमीचं शमीध्वम ध्रिगा३ उ इति त्रिव॒यादपापेति चाध्रिगुर्वे देवानां शमिताऽपापो निग्रभीता शमितृभ्य

श्चैवैनं तनियभीतृभ्यश्च संप्रयच्छति, इति । हेऽध्रिगो, एतन्नामकदेवेषु शमितृषु मुख्यदेवा यूयं सर्वे शमीध्वं विशसना दिना पशुं संस्कुरुध्वम् । पुनरपि विशेषाकारेणोच्यते सुशमि सुष्टु शमनं शास्त्रीय विशसनं यथा भवति तथा शमीध्वं शमयत संज्ञपयत । अधिगादौ पति ईरादाबानार्था । ओकारस्य लतिवेलायामाकार उकारश्चेति वर्णद्वयं संपद्यते । तथाविधा यूयमितरैः सह यूयं सुशमीध्वं सर्वथा शमयत न तूपचरितं शमन कुरुत । क्रूरकर्मेति कृत्वा तदुपेक्षणं मा भूदिति पुनः पुनर्वचनम् । अधिगो शमीध्वमित्यादिकं वाक्यत्रयसमुदायं त्रिवारमावर्तयेत् । अपापेत्यपि तत्संबन्धिन त्रिवारमावर्तयेत् । तदेतदाश्वलायन आह–‘अधिग्वादि त्रिरुक्त्वा’ इति । अध्रिगो(?) अपापदेवः।सोऽयमपापवाची शाखान्तरे पठ्यते-‘अध्रिगुश्वापा पश्चोभौ देवानां शमितारौं’ इति । अत्र तु तदवान्तरविशेषोऽभिधीयते । देवाना मध्ये यः शमिता हन्ता सोध्रिगुर्यश्च ध्यानादिना निग्रभीता निग्रहस्य का सोऽयमपापस्तद्भागपाठेनाध्रिगुप्रभृतिभ्यः शमितृभ्यश्चापापप्रभृतिभ्यो निग्रहाँ तृभ्यश्चेनं पशुं संज्ञपनाय प्रयच्छति ।

अधिगुमत्रपाठानन्तरं जपं विधत्ते

शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यहु कृतमन्यत्र तदित्याहाग्नि देवानां होताऽऽ सीत्स एनं वाचा व्यशाहाचा वा एनं होता विशास्ति तद्यदग्यित्परः कृन्तन्ति यदुल्वणं

पप्तमः खण्डः] ऐतरेयब्राह्मणम् ।

१७५ यद्दिथुरं क्रियते शमितृभ्यश्चैवैनत्त निग्रभीतृभ्यश्च समनुदिशति स्वस्येव

होतोन्मुच्यते सर्वायुः सर्वायुत्वाय, इति । है शमितारो यदत्र पशुविशसनकर्मणि यत्सुकृतं कृणवथास्मासु तत् । तत्र कृतमन्यत्र तदिति जपित्वा दक्षिणादावर्तत इति । एतन्मत्रार्थमग्निर्वे दिनोच्यते । यदा देवा यज्ञं कुर्वन्ति तदानीं तेषां मध्येऽग्निरेव होताऽभूत् । एनं पशुं वाचाऽध्रिगुप्रैषरूपया व्यशाद्विशसनं कृतवान् । अध्रिगुप्रैष आर वंशीध्वामित्यादिप्रेरणवाचकानां पदानां बहूनां विद्यमानत्वादस्त्येव

चिकं विशसनम् । तथा सति पशोरवर्वाग्भागे यत्कृन्तन्ति यच्च परः पर ग उत्तमाओं कृन्तन्ति तस्मिन्नुभयस्मिन्नपि च्छेदने यदुल्बणं शास्त्रार्थादति के क्रियते यच्च विथुरं न्यूनं क्रियते तत्सर्वमेनत्पशुशमितृभ्यो निग्रभीतृभ्यश्च नुदिशति तेन मन्त्रजपेन सम्यकथयतीति वाचा होता स्वस्त्येव क्षेमेणैव रान्मुच्यते सर्वायुर्मुत्युरहितश्च भवति यजमानस्याप्यपमृत्युराहित्याय ।

एतवेदनं प्रशंसति

सर्वमायुरेति य एवं वेद ॥ ७॥ इति । अत्र मीमांसा । नवमाध्यायस्य तृतीयपादे चिन्तितम्

“पक्षी वपा वाऽथोरूको रलयोरविशेषतः । ___ पक्षी वपा संनिधानाद्धान्तिच्छेदनिषेधतः” ॥ अधिगुप्रैषवचन आम्नायते-‘वनिष्ठुमस्य मा राविष्टोरूकं मन्यमानाः’ इति । नेष्टुवैपासमीपवर्ती कश्चित्पश्वङ्गविशेषः । तं मा राविष्ट तस्य लवनं मा कुरु ते व्यत्ययेन लकारस्य रेफः । किं कुर्वन्त उलूकं मन्यमानाः । वनिष्ठावुरूक दः सादृश्यलक्षकः । विशेषेण मन्यमाना मा लाविष्टेति वाक्यार्थः । तस्मा किशब्दः पक्षीति प्राप्ते ब्रूमः । उरूकशब्देनात्र वपा लक्ष्यते वनिष्ठुसंनिधा छ । साहित्यसंनिधानादुरूकत्वभ्रान्तिर्वनिष्ठौ संभवति । भ्रान्तिप्राप्तं लवन निषिध्यते । उरूकं मन्यमाना वनिष्ठु मा राविष्टेत्युक्तत्वात् । वपालवन ल भ्रान्त्या वनिष्ठौ यल्लवनं तस्य निषेधे सति दृष्टार्थो लभ्यते भ्रान्ति धारणस्य दृष्टत्वात् । त्वत्पक्षे वनिष्ठोलवनमेव नास्ति तच्चायुक्तं हृदयाघव ठालवितव्यत्वात् । वनिष्ठमग्रीधे पडवत्त संपादयतीत्याधनुष्ठानात् । ततो निषधस्यासमवेतार्थत्वेनादृष्टार्थो मत्रपाठः । तस्माद्वपावचन उरूकशब्दः।

१ ख. ‘त्पशुं श।

१७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ षष्ठाध्यागे, पद्यपि वपायामप्रसिद्धस्तथाऽप्युरु विस्तीर्णमुको मेदो यत्रेत्यवयवार्थद्वारा स्विन्यां वपायां युक्त उरूकशब्दः । एवं सत्यनेकवपासु विकृतिप्वेकवचन उकशब्द ऊहनीयः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण

__ भाष्ये षष्टाध्याये सप्तमः खण्डः ॥ ७ ॥ (७) [३७]

अध्रिगुऔषं समाप्य पुरोडाशं विधातुं बहुभिः पर्यायैरुपेता काचिदाख्या. यिकोच्यते । तत्र प्रथमं पर्यायं दर्शयति

पुरुषं वै देवाः पशुमालभन्त तस्मादालब्धान्मेध उदक्रामत्सोऽश्वं प्राविशत्तस्मादश्वो मेध्योऽभवदथै

नमुत्क्रान्तमेधमत्यान्त स किंपुरुषोऽभवत्, इति । पुरा कदाचिद्देवाः स्वकीये यज्ञे पुरुषं मनुष्यं पशुमालभन्त पशुं कृत्वा तेल पशुना यधुमुधुक्ताः। तस्मादालब्धायष्टुमुधुक्तान्मनुष्यपशोर्मेधो मेध्यो यज्ञयोणे हविर्भाग उदक्रामन्मनुष्यं परित्यज्यान्यत्रागच्छत् । गत्वा च स भागोउन माविशत् । यस्मादेवं तस्मादश्वो यज्ञयोग्योऽभवत् । अथ तदानीमुत्क्रान्तम परित्यक्तहविर्भागमेनं मनुष्यं देवा अत्यान्तातिशयेन वर्जितवन्तस्तसि पशुत्वमपि नाकुर्वन् । देवैः स्वीकृत्य परित्यक्तः स मनुष्यः किंपुरुष किंनरावान्तरजातीयः।

द्वितीयं पर्यायं दर्शयति

तेऽश्वमालभन्त सोऽश्वादालब्धादुदकामत्स गां प्राविशत्तस्माद्रीमध्योऽभवदथैनमुत्क्रान्त

मेधमत्यार्जन्त स गौरमृगोऽभवत् , इति । आलब्धादश्वान्मेधो यज्ञयोग्यभाग उत्क्रम्य गां प्राविशत्स गौर्यज्ञया भासीत् । तदानीमयोग्यत्वेन त्यक्तः सोऽश्वो गौरमृगोऽभवद्यस्य लोमशौ भवतः।

तृतीयपर्यायं दर्शयति

ते गामालभन्त स गोरालब्धादुदक्रामत्सोऽविं प्राविशत्तस्मादविर्मेध्योऽभवदथैनमुत्क्रान्तमेध

  • .

.

.

.

अष्टमः खण्डः] ऐतरेयब्राह्मणम् ।

१७७ मयार्जन्त स गवयोऽभवत्तेऽविमालभन्त सोऽवेरा लब्धादुदक्रामत्सोऽजं प्राविशत्तस्मादजो मेध्योऽभ वदथै नमुनान्तमेधमयार्जन्त स उष्ट्रोऽभवत्, इति । अजादयः प्रसिद्धाः । उष्ट्रो दीर्घग्रीवः। अजं पुनरपि प्रशंसति

सोऽजे ज्योक्तमामिवारमत तस्मादेष . एतेषां पशूनां प्रयुक्ततमो यदजः, इति । स मेधाख्यो यज्ञयोग्यभागस्तस्मिन्नजे ज्योक्तमामिवातिशयेन चिरकालमे. परमत क्रीडितवांस्तस्माच्चिरकालमेव सद्भावाद्योऽयमजोऽस्ति स एष एतेषां

ोक्तानां पशूनां मध्ये प्रयुक्ततमः शिष्टैरतिशयेन प्रयुक्तः । पञ्चमं पर्यायं दर्शयति

तेऽजमालभन्त सोऽजादालब्धादुदक्रामत्स इमां प्राविशत्तस्मादियं मेध्याऽभवदथैनमु

स्क्रान्तमेधमत्यार्जन्त स शरभोऽभवत् , इति । इमां पृथिवीम् । शरभोऽष्टभिः पादैरुपेतः सिंहघाती मृगविशेषः । अत्र प्रसङ्गात्कंचिद्धर्मविशेषं दर्शयति

त एत उत्क्रान्तमेधा अमेध्याः पश

वस्तस्मादेतेषां नाश्रीयात् , इति । मनुष्याश्वगोव्यजेभ्यो मेधस्योत्क्रमणक्रमेण निष्पन्नास्त एते किंपुरुषा. पो मेघराहित्याधज्ञयोग्याः पशवो नाऽऽसन् । अत एतेषां पशूनां संबन्धि

‘सं नाश्नीयात् ।

अत्र पुरोडाशं विधत्ते

तमस्यामन्वगच्छन्सोऽनुगतो व्रीहिरभवत्तद्य स्पशौ पुरोळाशमनुनिर्वपन्ति समेधेन नः पशु

नेष्टमसकेवलेन नः पशुनेष्टमसदिति, इति । त मेधाख्यं हविर्भागमस्यां पृथिव्यां प्रविष्टं ग्रहीतुं देवा अन्वगच्छन् । स

दवरनुगत उत्क्रान्तुमशक्तः सन्सहसा व्रीहिरभवत् । तथा सति यदि

२३

१७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्टाध्याये पशौ पुरोडाशमनुनिर्वपन्ति पवालम्भानन्तरमेव निर्वपेयुस्तदानी नोऽस्माई समेधेन यज्ञयोग्यहविर्भागयुक्तेन पशुनेष्टमसदिष्टं भवति । पुरोडाशनिर्वा कर्तृणां कोऽभिप्राय इति सोऽभिधीयते । नोऽस्माकं केवलेन साधनान्तर रपेक्षेण मेधपूर्णेन पशुनेष्टमस्त्विति तदभिप्रायः ।

वेदनं प्रशंसति

समेधेन हास्य पशुनेष्टं भवति केवलेन हास्य

पशुनेष्टं भवति य एवं वेद ॥८॥ इति। समेधेनेत्यस्यैव वाक्यस्य व्याख्यानं केवलेनेत्यादि । तदेतत्सर्वं श्रुत्यता संगृहीतम्-‘पशुमालभ्य पुरोडाशं निर्वपति समेधमेवैनमालभते’ इति ।

अत्र मीमांसा

“उपकारी संस्कृतिर्वा पुरोडाशः पशूदितः । सद्धितोक्त्या द्वयोर्देवभेदादुपतिर्मता ॥ संदंशानिश्चितेऽङ्गत्वे दृष्टोऽर्थः स्मृतिसंस्कृतिः।

देवान्तरं चेद्विकृतम(ताव)ग्नीषोमनिवर्तनम्” ॥ ज्योतिष्टोमाङ्गभूताग्नीषोमीयपशौ श्रूयते-‘अग्नीषोमीयस्य वां प्रचर्याग्नीपी मीयमेकादशकपालं निर्वपति’ इति। तत्र पशावुक्तः पुरोडाशः स किं पशोरारा दुपकारक उत पशुदेवतासंस्कार इति संदेहः । तत्राग्रीषोमीयं पशुमालभतेर पशुविधौ तद्धितोक्त्याऽग्नीषोमदेवता यथा गुणत्वेन पशौ विधीयते तय पशुपुरोडाशेऽपि । तथा सति विधिभेदेन विधेयदेवताभेदात्संस्कारो । युक्तः । गुणत्वं च संस्कार्यविरोधीति पूर्वोक्तं तस्मात्पशोरारादुपकारक हो प्राप्ते ब्रूमः । देवताभेदवादिना तावदिदं वक्तव्यं पशुः पुरोडाशश्वेत्युभो । स्वतत्रौ यागौ किं वाऽङ्गाङ्गिरूपौ तत्रापि किमङ्गं किं वाऽङ्गीति । तत्र पशुधर भयतः संदष्टस्य पुरोडाशस्य स्वतन्त्राङ्गित्वे तयोः पशुप्रकरणपाठबाध्यत्वादा मतमुपकारकत्वं न सिध्येत् । अङ्गत्वेऽपि दृष्टसंभवाददृष्टकल्पनमन्याय्यम्। भवा चात्र दृष्टं पुरोडाशवाक्येन तद्धितान्तपदेन पशुवाक्यगताया देवताया अनुवा सति तदीयस्मरणपूर्वकनिर्वापे पशुदेवतायाः संस्क्रियमाणत्वात् । एवं च सा पशुवाक्ये गुणत्वेन प्रतीतायाः पुरोडाशवाक्ये प्राधान्यावगमात्संस्कायव विरुद्धम् । तस्मात्पशुदेवतासंस्कारः पुरोडाशः । एवं च सत्यग्नीषोमीयप कृतौ वायव्यपशावग्नीषोमदेवतायां निवृत्तायां तदीयपुरोडाशेऽपि सा नि इति बाधः फलिष्यति।

नवमः खण्डः]

ऐतरेयब्राह्मणम् । द्वादशाध्यायस्य प्रथमपादे चिन्तितम्

“पश्वर्थानुष्ठितैर्नास्ति पुरोडाश उपक्रिया।

अस्ति वा विध्यभावानो ह्यर्थतस्त्वस्तु लोकवत्” । अग्नीषोमीये पशौ यानि चोदकमाप्तानि प्रयाजादीन्यङ्गान्यनुष्ठितानि से: परोडाश उपकारो नास्ति । कुतः, तदुपकारबोधकस्य विधेरभावात् । चोद तदर्शपूर्णमासवत्पशुरनुष्ठेय इत्येवंरूपत्वात्पशावेवोपकारं बोधयति । ननु डाशस्यापीष्टिविकृतित्वात्तत्रापि चोदकोऽस्तीति चेत् । बाढम् । अत एवं निचोदकबलात्पुरोडाशोपकाराय प्रयाजाद्यङ्गानि पृथगनुष्ठेयानीति प्राप्ते म। यद्यपि पश्वथैः पुरोडाशस्योपकार इत्येतादृशं शास्त्रं नास्ति तथाऽप्यय कारोऽर्थप्राप्तो न निवारयितुं शक्यते । यथा प्रदीपस्य वेदिकार्ये निर्मि स्यार्थसिद्धं मार्गप्रकाशकत्वमनिवार्य तथा पशुतन्त्रमध्येऽनुष्ठीयमानस्य रोडाशस्य पश्वथैरङ्गैरुपकारः केन वार्येत । तस्मादन्यार्थैरप्यस्तूपकारः।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

ब्राह्मणभाष्ये षष्टाध्यायेऽष्टमः खण्डः ॥ ८॥ (८) [३८] विहितं पशुपुरोडाशं प्रशस्य पश्चाद्वपादियाज्या विवक्षुरादौ तं प्रशंसति

स वा एष पशुखाऽऽलभ्यते यत्पुरोळाशः, इति । पशुशरीरसादृश्यादयं पुरोडाशोऽनुष्ठितः पश्वालम्भ एव भवति । तदेतत्सादृश्यं विशदयति

तस्य यानि किंशारूणि तानि रोमाणि ये तुषाः सा लग्ये फलीकरणास्तदमृग्यपिष्टं किकसा स्तन्मांसं यत्किंचिकं सारं तदस्थि, इति । तस्य त्रीहिबीजस्य संबन्धीनि यानि किंशारूणि बुसपलालादीनि तानि रोमस्थानीयानि ये तुषास्तण्डुलवेष्टनरूपाः प्रथमावघातेन परित्याज्याः तुषसमष्टिः पशुत्वस्थानीया ये फलीकरणास्तण्डुलश्चैत्यार्थेनावघातेन हेया स्तित्सर्वममुक्पशुरक्तस्थानीयम् । यत्पिष्टं तण्डुलपेषणेन निष्पन्न पिण्ड यरूपं ये च किकसाः सूक्ष्माः पिष्टावयवास्तत्सर्व पशुमांसस्थानीयम् । कचित्कं सारं स्वार्थे कात्ययः किंचिदन्यव्रीहिसंबन्धिकाठिन्यरूपं सारं

स्य तत्पशोरस्थिस्थानीयम् । एवं पशुसाम्यात्पुरोडाशस्य पशुत्वम् । १ क. ख. अ. अ. भावेन यस्त्यकार्यत्वतोऽध्वव’ । २ ख… अ. ‘यस्त्युप’।

—-.

१८०

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ षष्ठाध्यारे, एवं सति यत्फलितं तदर्शयति

सर्वेषां वा एष पशूनां मेधेन

यजते यः पुरोळाशेन यजते, इति । पुरोडाशयाग एव सर्वपशुसंवन्धियज्ञयोग्यहविर्यागः। सर्वपशुसंबन्धश्च पुरुष वे देवा इत्यादिना प्रपञ्चितः।

लौकिकोक्त्या पाशस्त्यं द्रढयति ___ तस्मादाहुः पुरोळाशसत्रं लोक्यमिति, इति । यस्मात्पुरोळाशयागः सर्वपशुसारभूतस्तस्मात्पुरोडाशानुष्ठानं लोक्यं प्रेत णीयमिति याज्ञिका आहुः । अत एव भैषमत्रे पुरोडाशार अलंकुर्वित्य मानातम् ।

अथ वपादीनां क्रमेण याज्या विवक्षुरादौ वपायाज्यां विधत्ते

युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धूरभिशस्तेरवद्यादग्रीषो

मावमुञ्चतं गृभीतानिति वपायै यजति, इति । हे सोम वं चाग्निश्च युवमेतावुभौ युवामेतानि सदृश्यमानानि रोचनानि प्रकाशरूपाणि नक्षत्रादीनि दिवि धुलोकेऽधत्तम् । कीदृशौ युवां सक्रतू समा नकर्माणौ हेऽग्नीषोमौ युवा स्वकीयत्वेन स्वीकृतान्सिन्धून्समुद्रवत्प्रौढाना जामात्यादीन्पुरुषान्यजमानादीन्वाभिशस्तेः सङ्कामादिषु ब्राह्मणवधादिरूपा. दपवादादवद्यात्तन्निमित्तदुरिताचामुञ्चतं मुक्तानकुरुतम् । एतत्पश्चादिकमान ष्ठानेन जनापवादो दुरितं च नश्यतीत्यर्थः । वपायै यजतीति वपाहोमार्थएन याज्यात्वेन पठेदित्यर्थः।

पूर्वोत्तरपक्षाभ्यामेतां याज्यां प्रशंसति

सर्वाभिर्वा एष देवताभिरालब्धो भवति यो दीक्षितो भवति तस्मादाहुन दीक्षितस्याश्रीया दिति स यदन्नीषोमावमुञ्चतं गृभीतानिति वपायै यजति सर्वाभ्य एव तद्देवताभ्यो यज

युवमेतानि दिवि०-१-९३-५ ।

-नवमः खण्डः] ऐतरेयब्रामणम् ।

१८१ मानं प्रमुञ्चति तस्मादाहुरशितव्यं वपायां हुतायां यजमानो हि स तर्हि भवतीति, इति ।

मान्यज्ञार्थो दीक्षितो भवत्येष सर्वाभिरपि देवताभिः स्वकीयहविर्दा Sarvधः स्वीकृतो भवति । तस्मादेतदीयस्य द्रव्यस्य देवताभिरवरुद्धत्वा क्षितस्य गृहे नाश्नीयादित्येवं पूवर्पक्षिण आहुः। तत्र होता यद्यमीषोमावमु.

भीतानियेतं याज्यायाश्चतुर्थपादं पठेत्तदा तेन पाठेन सर्वाभ्यो देव यो यजमान होता मोचयति । तस्मात्कारणाद्वपाहोमे निष्पन्ने सति तदहे तिव्यम् । तहि तस्मिन्वपाहोमोत्तरकाले स दीक्षितो यजमानो भवति । पूर्व दीक्षित एव न तु यजमानः । इदानीं यागस्य निष्पन्नत्वादयं यजमानः । पा सति देवतावरोधान्मुक्तस्य गृहे भोक्तुं शक्यमिति सिद्धान्तिन आहुः। अथ पुरोडाशस्य याज्यां विधत्ते

आऽन्यं दिवो मातरिश्वा जमा

रोति पुरोळाशस्य यजति, इति । द्वितीयपादमनूध पादद्वयस्य सहैव तात्पर्य दर्शयति

अमथ्नादन्यं परि श्येनो अद्रेरितीत इव च

ह्येष इत इव च मेधः समाहृतो भवति, इति । मातरिश्वा वायुरन्यमग्रीषोमयोरन्यतरं सोमाख्यदेवं दिवो द्युलोकादाजभा ‘ऽहतवान् । गायत्रीरूपं कृत्वा वायुः सोममानीतवान् । इति प्रथमपाद गर्थः । श्येनो बलवत्पक्षी तादृशोऽध्वर्युरन्यमुभयोर्देवयोरन्यतरमाग्निमद्रेः पर्व नन्याकाष्ठादरणिरूपात्पर्यमश्चात्परितो मथनं कृतवानिति द्वितीयपादार्थः । । मेधो यज्ञयोग्यः पुरोडाशोऽपीत ए(इ)व चेत इव चास्मान्मनुष्यादस्मा पादारवेरजाच भूम्याः समाहृतः। एवं सतीतस्तत आनयनसाम्यात्पुरोडा स्येयमग्रीषोमप्रतिपादिका याज्या योग्येत्यर्थः। पुरोडाशसंबन्धिस्विष्टकतो याज्यां विधत्ते

स्वदस्ख हव्या समिषो दिदीहीति

पुरोळाशस्विष्टकृतो यजति, इति । आऽन्यं दिवो०-१-९३-६ । स्वदस्व हव्या०-३-५४-२२ ।

१८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [६ षष्ठाच्यावे

हे स्विष्टकदमे हव्या हवींषि स्वदस्व स्वादूनि कुर्विषोऽनानि संदिदी। सम्यक्प्रयच्छेति(त्ये)तस्य पादस्यार्थः।

तामेतां याज्यां प्रशंसति

हविरेवास्मा एतत्स्वदयतीषमूर्जमात्मन्धत्ते, इति । एतेन याज्यापाठेनास्मै कर्मसिद्ध्यर्थे यजमानार्थ वा हविरेव स्वाद की य इषमोदनमूर्ज क्षीरादिरसं चाऽऽत्मन्धत्ते होता स्वात्मनि संपादयति । पुरोडाशीयस्विष्टकृयागादूर्ध्व पशुपुरोडाशसंबन्धीलोपाहानं विधत्ते

इळामुपह्वयते पशवो वा इळा पशूनेव तदुप

ह्वयते पशून्यजमाने दधाति ॥९॥ इति । इळोपहूता सह दिवेत्यादिना सूत्रगतेन, उपहृतं रथंतरं सह पृथिव्यत्यादिन शाखान्तरानातेन मन्त्रेण वेळाख्यां देवतामुपहयते । गौर्वा अस्यै शरीरमिरि श्रुत्यन्तरादिष्टदेवतायाः पशुरूपत्वम् । तत्तेनोपहानेन पशूनेवाऽऽहयति । यज माने च पशूसंपादयति ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

ब्राह्मणभाष्ये षष्टाध्याये नवमः खण्डः ॥९॥ (९)[३९]

अथ हृदयाघगरूपस्य प्रधानहविषोऽवदानकाले किंचित्सूक्तं विधातुं प्रेष मत्रं विधत्ते

मनोतायै हविषोऽवदीयमा

नस्यानुबूहीयाहाध्वर्युः, इति । देवानां मनांस्योतानि दृढं प्रविष्टानि यस्यां देवतायां सा मनोता तद हृदयाघेकादशाङ्गरूपं इविरवदीयते तस्य हविषोऽनुकूला ऋचोऽनुग्रहीत्यध्व मैषमन्त्रं पठेत् ।

सूक्तं विधत्ते

त्वं ह्यग्ने प्रथमो मनोति सूक्तमन्वाह, इति । त्वं ह्यन इत्यादिकं त्रयोदशर्च सूक्तं तन्मैत्रावरुणो ब्रूयात् । तदाह बोध

त्वं ह्यग्ने प्रथमो०-६-१-१।

A

.

१ क. ख. स. म. पठन्सूक्तं।

• दशमः खण्डः] ऐतरेयब्राह्मणम् ।

१३ -‘यदा जानाति मनोतायै हविषोऽवदीयमानस्यानुब्रूहीति तदा मैत्राव गो मनोतामन्वाह त्वं ह्यग्ने प्रथम इति ।

अत्र वैयधिकरण्यलक्षणं चोयमवतारयति तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्मादाग्नेयीरेख मनोतायै हविषोऽवदीयमानस्यान्वाहेति , इति । अत्र हविरग्नीषोमदेवत्यं सूक्तगता ऋचा केवलाग्निदेवताकास्तत्र यस्मात्का. तात्पशुरन्यदेवत्य उत देवतान्तरयुक्तः खलु भवति तस्मात्कारणाद्वैयधिकर मिदं तच्चायुक्तमिति ब्रह्मवादिनचोद्यमाहुः । तस्य समाधानं दर्शयति

तिम्रो वै देवानां मनोतास्तासु हि तेषां मनां स्योतानि वाग्वै देवानां मनोता तस्यां हि तेषां मनांस्योतानि गौ देवानां मनोता तस्यां हि तेषां मनांस्योतान्यग्निर्वे देवानां मनोता तस्मिन्हि तेषां मनांस्योतान्यग्निः सर्वा मनोता अनौ मनोताः संगच्छन्ते तस्मादाग्नेयी

ख मनोतायै हविषोऽवदीयमानस्यान्वाह, इति । वाग्गौरग्निरित्येतामु देवतासु देवमनःसमासक्तत्वात्तिस्रोऽपि देवता मनोते च्यन्ते । ताश्च तिस्रः सर्वा मनोता अग्निस्वरूपा एवानौ तासां संगतत्वात् । तिश्च तदीयहविषोऽग्न्याधारकत्वात् । तस्मादग्नेर्मुख्यत्वादग्निदेवताका

1981 Memorial Collection h. Amritansusekhar Bagchi

वोऽनुब्रूयात् ।

अथ हृदयाघङ्गरूपस्य प्रधानहविषो याज्यां विधत्ते

अग्नीषोमा हविषः प्रस्थितस्येति हविषो यजति, इति । अग्नीषोमेत्यादिकां याज्यां पठेदित्यर्थः।। अस्या याज्याया हविरानुकूल्यं दर्शयति हविष इति रूपसमृद्धा प्रस्थितस्येति रूपसमृद्धा, इति ।

अग्नीषोमा हविषः०-१-९३-७ ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ७ सप्तमाध्या? इदं हृदयादिकं हविः प्रस्थितं वेद्यामासादितं याज्यायां हविषा परिक स्येति पदद्वयं श्रुतं तस्मादियमनुकूला।

वेदनं प्रशंसति

सर्वाभिर्हास्य समृद्धिभिः समृद्धं

हव्यं देवानप्येति य एवं वेद, इति । हविषो यथाशास्त्रमवदानपाकविशेषः परस्परं हृदयादीनामसंकीर्णली त्यादयो याः समृद्धयोऽपेक्षितास्ताभिः संपूर्ण भूत्वा तद्धविर्देवान्मामोति

अथ वनस्पतियागं विधत्ते

वनस्पतिं यजति प्राणो वै वनस्पतिः, इति । घनस्पतिक्षस्तथाविधशरीरयुक्तां देवतां यजेत् । तत्मकार आपस्तम्भ दर्शित:–‘जुहामुपस्तीर्य सकृत्पृषदाज्यस्योपहृत्य द्विरभिघार्य वनस्पतयेऽनुन हि वनस्पतये प्रेष्यति संप्रेषौ वषट्कृते जुहोति’ इति । अत्र वनस्पतेक्षशरीर जीवाविष्टत्वात्माणरूपत्वम् । यष्णुर्वेदनं प्रशंसति

जीवं हास्य हव्यं देवानप्येति

यत्रैवं विद्वान्वनस्पतिं यजति, इति । विदुषो यष्टुईविरेवं प्राणोपेतं चेतनं भूत्वा तद्धविर्देवानामोति ।

अथ स्विष्टकृयागं विधत्ते

स्विष्टकृतं यजति प्रतिष्ठा वै स्विष्टकृत्प्रति

ष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयति, इति । वैकल्यपरिहारेण स्विष्टकृत्त्वापादनास्विष्टकृतः प्रतिष्ठात्वम् । सयागानुष्ठ नेनेमं यज्ञमन्ततः समाप्त्यवसरे प्रतिष्ठायां स्थापयति ।

इळोपहानं विधत्ते

इलामुपह्वयते पशवो वा इळा पशूनेव तदुपह्व

यते पशून्यजमाने दधाति दधाति, ॥१०॥ इति । पूर्ववयाख्येयम् । पुरोडाशेडा पूर्वखण्डेऽभिहितेह तु पश्विदेति विशा अत्र सर्वत्र यद्यचोदकतः प्राप्तं तस्य सर्वस्य विधिमनूध प्रशंसा कृतात , व्यम् । दधातीतिपदाभ्यासोऽध्यायसमाप्त्यर्थः।

१८५

प्रथमः खण्डः] ऐतरेयबामणम् ।

अन मीमांसा । दशमाध्यायस्य तृतीयपादे चिन्तितम्

“मनोतामत्र ऊहोऽस्ति वायव्ये नास्ति वाऽस्त्यसौ ।

आग्नेय्यवेति वचनं प्रकृतौ सार्थकं यतः ॥ अग्नीषोमावनिनैव लक्ष्येतां वचनं विना ।

अनर्थकात्तत्र वाक्याद्विकृतावूहवारणम्” ॥ खं ह्यग्ने प्रथमो मनोता [६-१-१] इत्ययं मनोतामत्रोऽग्नीषोमीयपशी ठितः । वायव्यपशावयं चोदकप्राप्तः । तत्र त्वं हि वायो प्रथम इत्येवमू ऽस्ति । यत्तु वचनं यद्यप्यन्यदेवत्यः पशुराग्नेय्येव मनोता कार्येति तत्पकृती ठेतं तत्रैव वचनं सार्थकम् । द्विदेवत्यपशावेकवचनमत्रस्य प्रकरणपठितस्या योग्यत्वशङ्कया पुनर्विधानार्थत्वात् । मैवम् । छत्रिणो गच्छन्तीत्यादिवन्मत्र स्याग्निशब्दस्याग्नीषोमलक्षकत्वेनायोग्यत्वशङ्काया अनुदयात् । अतः प्रकृता सर्थकं तद्वाक्यं विकृतावूहनिवारणेन चरितार्थ भवति । तस्मादूहो नास्ति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

ब्राह्मणभाष्ये षष्ठाध्याये दशमः खण्डः ॥१०॥(१०) [४०] इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुकणसाम्राज्यधुरं

धरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये

षष्ठोऽध्यायः समाप्तः ॥६॥