०५

अथ पञ्चमोऽध्यायः।

अभिष्टवोपसत्तानूनप्त्राप्यायननिवाः।

कथिता धर्मसंभारा व्रतोपायनमेव च ॥ अथ सोमक्रयाद्या वक्तव्याः। तत्र क्रयं वक्तुमाख्यायिकामाह

सोमो वैराजा गन्धर्वेष्वासीत्तं देवाश्च ऋषयश्चा भ्यध्यायन्कथमयमस्मान्सोमो राजाऽऽगच्छे. दिति सा वागबवीत्त्रीकामा वै गन्धर्वा मयैव स्त्रिया भूतया पणध्वमिति नेति देवा अब्रुव न्कथं वयं त्वदृते स्यामेति साऽब्रवीत्रीणीतैव यर्हि वाव वो मयाऽर्थो भविता तर्खेव वोऽहं

११४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५ पञ्चमा

पुनरागन्ताऽस्मीति तथेति तया महानग्न्या

भूतया सोमं राजानमक्रीणन् , इति । स्वानभ्राजेत्यादिनामधारिणो गन्धर्वा धुलोके सोमस्य रक्षकाः शाखान्तरे मत्रव्याख्यानब्राह्मणे श्रूयते-‘स्वानभ्राजेत्याह । एतेषाम सोममरक्षन्’ इति। अथवा विश्वावसुप्रभृतयः सोमस्यापहन्तारो गन्धर्वाः तत्रैव श्रुतम्-‘तं सोममाह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्स रात्रीः परिमुषितोऽसत्’ इति । तेषु गन्धर्वेषु यः सोम आसीत्तं सोमं मि देवा वसिष्ठादिऋषयश्च केन प्रकारेण सोमोऽस्मान्मामुयादिति विचारित तदानीं गन्धर्वहृदयाभिज्ञा वाग्देवी देवानब्रवीत् । गन्धर्वाः सर्वेऽपि म्पटा अहं च स्त्री भूत्वा तिष्ठाम्यतो मया पणध्वं सोममूल्यत्वेन मां। णामग्रे कुरुतेति । ततो देवा अनङ्गीकृत्य त्वहते त्वां वाचं विना व स्याम मत्ररूपवाग्राहित्ये सति कर्मणामप्रवृत्तेः केन प्रकारेण वयं र्ज वाचमध्रुवन् । ततो वाग्देवानब्रवीत् । संदेहं मा कुरुतावश्यं मया क्रीणीत यदैव मया युष्माकं प्रयोजनं भविष्यति तदैवाहं पुनरपि युए प्स्यामीति । ततो देवा अङ्गीकृत्य तया वाचा सोममक्रीणन् । कीदृश्य नग्न्या । महती चासौ नग्री च महाननी तया । रूपसंपत्तिविवक्षया मुच्यते । बाल्यविवक्षया नग्नत्वम् । भूतया तदानीमेव कुमारीरूपेण प्रया । तदेतच्छाखान्तरे स्पष्टमानातम्-‘ते देवा अब्रुवन्त्रीकामा वै स्त्रिया निष्क्रीणामेति । सेवाचं स्त्रियमेकहायनी कृत्वा तया । णन्’ इति ।

इदानी सोमक्रयं विधत्ते

तामनुकृतिमस्कनां वत्सतरीमाजन्ति सोम

क्रयणीं तया सोमं राजानं क्रीणन्ति, इति । तामनुकृति तां स्त्रीरूपां वाचमनुक्रियमाणां निष्पनां तत्सहशीमि अस्कमां वीर्यस्कदनरहितामप्राप्तयौवनां वत्सतरीमतिशयेन बाला यसाधनभूतां कांचिद्रामाजन्ति संपादयेयुरित्यर्थः । तया तादृश्या ग राजानं क्रीणन्ति क्रीणीयुः । तां गां मूल्यरूपेण दत्त्वा सोमं स्वीकुयुः

क. ग, घ.

छ. हाणग्न्या ।

११५

गं विधत्ते

द्वितीयः खण्डः] ऐतरेयत्रामणम् । पल्यत्वेन सोमविक्रयणे दत्ता या गौस्तस्याः पुनर्मूल्यान्तरदानेन स्वीक तां पुनर्निष्क्रीणीयात्पुनर्हि सा तानागच्छन्, इति ।

सादियं वाग्गन्धर्वेभ्यो निष्क्रम्य पुनस्तान्देवान्मामोत्तस्मात्सोमक्रयण्याः जगदानं युक्तम् । वाचो वृत्तान्तः शाखान्तरे स्पष्टमानातः-‘सा रोहिदूपं वा गन्धर्वेभ्योऽपक्रम्याऽऽतिष्ठत्तद्रोहितो जन्म ते देवा अब्रुवनयं युष्मदक्र प्रास्मानुपावर्तेते विहयामहा इति ब्रह्मगन्धवों अवदनगायन्देवाः सा देवा यशुपावर्तत तस्मादायन्ते स्त्रियः कामयन्ते’ इति । मन्त्राणां मन्द्रध्वनि विधत्ते

तस्मादुपांशु वाचा चरितव्यं सोमे राजनि क्रीते गन्धर्वेषु हि तर्हि वाग्भवति साऽना

वेव प्रणीयमाने पुनरागच्छति ॥२७॥ इति । सोमक्रयादूर्घकाले मूल्यरूपा वाग्देवी गन्धर्वेषु तिष्ठति पुनरप्यग्नौ प्रणीय ने देवानागच्छति । यस्मादेवं तस्मात्सोमक्रयादूर्ध्वमग्निप्रणयनात्माग्वाचो शु चरितव्यम् । यथा परैर्ध्वनिर्न श्रूयते तथा मत्रपाठादिकं कर्तव्यमित्यर्थः।

अत्र मीमांसा । द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्

“क्रयणेषु विकल्पः स्यात्साहित्यं वाऽग्रिमो यतः।

कार्यैक्यमानतेाभादशोक्तेश्च समुच्चयः” । अजया क्रीणाति हिरण्येन क्रीणाति वाससा क्रीणातीत्यादीनि बनि मिक्रयसाधनानि द्रव्याण्यानातानि तेषां कार्यैक्याद्विकल्प इति चेन्मैवम् । हुभिद्रेव्यैर्विक्रेतुरानतेः सौलभ्यादशभिः क्रीणातीति संख्योक्तेश्च समुखयः ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय प्राह्मणभाष्ये पञ्चमाध्यायस्य प्रथमः खण्डः॥१॥(२७).

सोमक्रयमभिधायामिप्रणयनीया ऋचो विधातुमादौ प्रैषमत्र विधत्ते

अगये प्रणीयमानायानुबृहीत्याहाध्वर्युः, इति । पाचीनवंशगत आहवनीयेऽवस्थितस्याग्नेः सौमिक्यामुत्तरवेद्यां नयनं यदस्ति

साममणयन तत्पूर्वप्रध्वर्यरमये प्रणीयमानायानब्रहीति भैषमत्रं होता।

दिश्य पठेत् ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[५ पञ्चम तत्र होत्राऽनुवक्तव्यावष्टास्त्रक्षु प्रयमामृचं विधत्ते

प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षदानुषगिति गायत्रीं ब्राह्मणस्यानुब्रूयात्, इति हे ऋत्विजो जातवेदसं देवं देव्या तद्रूपप्रकाशिकया तद्भावनायुक्तर प्रभरत प्रकर्षणोत्तरवेदिं प्रति हरत नयत । अयं च जातवेदा आनुष चामनुषक्तः सनो हव्या, अस्मदीयानि हवींषि वक्षदेवान्मति वहतु ।। गायत्रीछन्दस्का तां ब्राह्मणस्य यजमानस्य होताऽनुयात् ।

तदेतत्पशंसति

गायत्रो वै ब्राह्मणस्तेजो वै ब्रह्मवर्चसं गायत्री

तेजसैवैनं तद्ब्रह्मवर्चसेन समर्धयति , इति । बामणस्य प्रजापतिमुखजन्यत्वसाम्येन गायत्रीसंबन्धः । तेजो वा दिकं पूर्ववयाख्येयम् ।

क्षत्रियस्य यजमानस्य योगेऽन्यामृचं विधत्ते

इमं महे विदथ्याय शूषमिति

त्रिष्टुभं राजन्यस्यानुबया, इति । तदेतत्पशंसति

त्रैष्टुभो वै राजन्य ओजो वा इन्द्रियं वीर्य त्रिष्टु

बोजसैवैनं तदिन्द्रियेण वीर्येण समर्धयति , इति । त्रिधुब्राजन्ययोः प्रजापतिबाहुजन्यत्वेन संबन्धः । एतदपि गायत्री योरिव सप्तमकाण्डे तैत्तिरीयैराम्नातम्-‘उरसो बाहुभ्यां पञ्चदश नि तदिन्द्रो देवताऽवसृजत त्रिष्टुप्छन्दो बृहत्साम राजन्यो मनुष्याणाम्

ओजो वा इत्यादिकं पूर्ववद्वयाख्येयम् । तस्या ऋचो द्वितीयपादं पठति

शश्वत्कृत्व ईड्याय प्रजभ्रुरिति, इति । उक्तस्य पादद्वयस्यायमर्थः। शूषं सुखहेतुमिममनिं महे विदध्याय मा नाय लाभाय तत्सिद्ध्यर्थं शश्वत्कृत्वो बहुकृत्व ईड्याय प्रजाभिः ।

प्र देवं दे०-१०-१७६-२ । इमं महे०-३-५४-५ ।

.

……..

द्वितीयः खण्डः] ऐतरेयबामणम् ।

११७ जन्यस्य यागसिद्ध्यर्थ प्रजधुः प्रकर्षेण हतवन्त उत्तरवेद्यां नीत. इति । श्रौत इतिशब्दो द्वितीयपादसमाप्त्यर्थः । तत्पादपठनेन ज्ञातीनां मध्ये यजमानस्य श्रेष्ठथं दर्शयति

स्वानामेवैनं तच्छष्ठयं गमयति, इति । तस्या ऋच उत्तरार्धं पठति

शृणोतु नो दम्येभिरनीकैः शृणो

त्वग्निदिव्यैरजस्र इति, इति । दम्येभिः परकीयसेनां दमयितुमहेरनीकैः स्वकीयैः सैन्यैः सहायं प्रणीय नोऽमिनोंऽस्मान्शृणोतु । एते यजमानाः सम्यगनुतिष्ठन्तीत्येवं स्वकीयदूतमु दवगच्छतु । यद्वा । दमो गृहं तद्योग्यैर्दम्यैहरक्षणार्थमवस्थापितैरित्यर्थः । चायमग्निर्दिव्यैर्देवलोकयोग्यैर्भोगैः सहाजस्रो निरन्तरमस्मगृहे वर्तमानोऽ दीयां स्तुतिं गणोत्विति । श्रौत इतिशब्द उत्तरार्धसमाप्त्यर्थः । उक्तवेदनं प्रशंसति

आजरसं हास्मिनजस्रो दीदाय य एवं वेद, इति । वेदितुर्जरासमाप्तिपर्यन्तमस्मिन्नेवदीये गृहेऽजस्रो नैरन्तर्येण वर्तमानोऽमिदी. प दीप्यते ।

वैश्यस्य यजमानस्यान्यामृचं विधत्ते

अयमिह प्रथमो धायि धातृभि

रिति जगतीं वैश्यस्यानुब्रूयात्, इति । तदेतत्पशंसति

जागतो वै वैश्यो जागताः पशवः

पशुभिरेवैनं तत्समर्धयति, इति ।। मजापतिमध्यदेशजन्यत्वसाम्येन जगतीसंबन्धः । एतदपि शाखान्तरे समा तिम्-‘मध्यतः सप्तदशं निरमिमीत तं विश्वे देवा देवता अन्वसृज्यन्त जगती दो वैरूपं साम वैश्यो वै मनुष्याणाम्’ इति । जागता इत्यादिकं पूर्ववद्या नेयम् ।

अयमिह-४-७-१। १ ख. ‘दपाठेन । २ ख. उतार्थवे ।

११८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ पञ्च

चतुर्थपादमनूध प्रशंसति

वनेषु चित्रं विश्वं विशे विश इत्यभि

रूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् , इति । अत्र तत्तद्वैश्यवाचिनो वीप्सायुक्तस्य विदशब्दस्य श्रूयमाणत्वादैः नुरूपत्वम् ।

इत्यं जातिभेदेन प्रथमाया ऋचो व्यवस्थामभिधाय जातित्रयसाध द्वितीयाचं विधत्ते

अयमु ष्य प्र देवयुरिति , इति । सोमक्रयणकाले यद्वाच उपांशुत्वं विहितं तस्यास्मिन्काले विसर्ग

अनुष्टुभि वाचं विसृजते, इति । अयमु प्येत्येतस्यामृच्युपांशुरूपां वाचं विसृजेत् । तदेतत्पशंसति

वाग्वा अनुष्टुब्वाच्येव तहाचं विसृजते, इति । अयमु प्येत्यस्या अनुष्टुप्छन्दस्कत्वादनुष्टुभो वायूपत्वस्य सर्वश्रुति त्वादनुभूपायां वाच्येवोपांशुध्वनिरूपां वाचं तन्मत्रपाठेन विसृजते ।

एतन्मत्रगतप्रथमपादस्य पूर्वभागमनूध व्याचष्टे

अयमु प्य इति यदाहायमु स्याऽऽगमं या

पुरा गन्धर्वेष्ववासमित्येव तहाक्पबूते, इति । ब्राह्मणगतोऽयंशब्दोऽत्र स्त्रीलिङ्गत्वेन परिणयः । तच्छब्दपर्यायस्य ब्दस्य टावन्तस्य स्येति रूपं भवति । एवं सत्ययमुष्य इति मत्रो यद वाग्देवतेत्यं ब्रूते । कथमिति तदुच्यते । पुरा गन्धर्वेषु याऽहं व स्थिताऽस्मि स्याऽऽगर्म सेयमेवाऽऽगममिदानीमागताऽस्मीति । अतो वतयैवमुच्यमानत्वादत्रार्ध!ऽभियुक्त इत्यर्थः ।

तृतीयामृचं विधत्ते

अयमग्रिरुरुष्यतीति, इति । अनुबयादित्यनुक्तस्थलेष्वनुवर्तते ।

अयमु ष्य०-१०-१७६-३ । अयमग्नि-१०-१७६-४ ।

  • बहुषु पुस्तकेषु-अवाक्समिति पाठः ।

द्वतीयः खण्डः] ऐतरेयब्राह्मणम् ।

११९ एतत्पदार्थप्रसिद्धं वैशब्देन दर्शयति

अयं वा अग्निरुरुष्यति, इति । अयं प्रणीयमानोऽग्निर्यजमानमुरुष्यति कर्मनिष्पादनेन रसतीत्येतत्मसिद्धम् । द्वितीयपादमनूध तात्पर्य दर्शयति

अमृतादिव जन्मन इत्यमृतत्वमेवास्मिंस्तद्दधाति, इति । अमृतान्मरणरहिताद्देवतारूपाजन्मनो यथा रक्षा संपद्यते । न हि मरणरा पदधिका रक्षा कचिदस्ति । तद्वदियमग्निकर्तृका रक्षेत्यर्थः । तत्तेन मत्रपा मृतत्वमेव देवत्वमेवास्मिन्यजमाने संपादयति । द्वितीयार्धमनुवदति

सहसश्चित्सहीयान्देवो जीवातवे कृत इति, इति । देवोऽनिर्जीवातवेऽस्माकं जीवनौषधाय सहसश्चित्मबलादपि पुरुषात्सही तिशयेन प्रबलीकृतो निष्पादित इत्युत्तरार्धस्यार्थः। तामिममर्थ विस्पष्टयति

देवो ह्येष एतजीवातवे कृतो यदग्निः, इति । पोऽग्निरस्त्येष देव एतेनोत्तरार्धपाठेन जीवनौषधाय संपादितो भवति । चतुर्थ्या ऋचः पूर्वार्धं पठति

इळायास्त्वा पदे वयं नाभा पृथिव्या अधीति, इति । पृथिव्या नाभा भूमिस्थानात्मागुत्तरवेद्यां नाभिस्थानीये धिष्ण्ये हेऽने त्वा महीति वक्ष्यमाणपदेन संबन्धः । नाभिरेव विशेष्यते-इळायाः पद । इलाशब्दो गोवाची । इलाख्यां देवता प्रकृत्य गौर्वा अस्यै शरीरमिति त्वात् । इळेऽनन्ते सरस्वतीति वाङ्नामसु श्रुतत्वात् । तस्याः पदं घृतनि इनेन प्रशस्तं सा यत्र यत्र न्यक्रामत्ततो घृतमपीड्यत इति श्रुतेः । तत्प त्वविशेषेणोत्तरवेदिनाभिः प्रशस्यते । यद्वा सोमक्रयण्या गोपदपांसुरस्या सो प्रक्षिप्यत इति तत्पदरूपत्वम् । नाभेः पदरूपत्वं विशदयति

एतद्दा इळायास्पदं यदुत्तरवेदीनाभिः, इति । वृतीयं पादमनूद्य व्याचष्टे जातवेदो निधीमहीति निधास्यन्तो ह्येनं भवन्ति इति ।

इळायास्त्वा०-३-२९-४ ।

1

१२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[९ पर

एनमनि वेदिनाभौ निधास्यन्तः स्थापयितुमुधुक्ता भवन्त्यत्वि विधीमहीत्युपपनम् ।

चतुर्थ पादमनूय व्याचष्टे

अग्ने हव्याय वोहळव इति

हव्यं हि वक्ष्यन्भवति, इति । हेऽने हविर्वोढुं त्वां निधीमहीति पूर्वत्रान्वयः । हव्यं वक्ष्यन्वं भवननिस्तस्माद्वोढव इत्येतदुचितम् । पञ्चम्या ऋचः पूर्वार्ध पठति

अग्ने विश्वेभिः स्वनीक देवरूणा

वन्तं प्रथमः सीद योनिमिति, इति । खनीक शोभनसैन्योपेत हेऽने विश्वेभिः सर्वैर्देवैः सह त्वं प्रथम सपूर्णावन्तमूर्णायुक्तमुत्तरदिनाभिस्थानं सीद प्रामुहि ।

तत्पाठेनोक्तार्थसिद्धिं दर्शयति

विश्वैरेवैनं तद्देवैः सहाऽऽसादयति, इति । तृतीयचतुर्थपादौ क्रमेणानूध व्याचष्टे

कुलायिनं घृतवन्तं सवित्र इति कुलायमिव ह्येत द्यज्ञे क्रियते यत्पैतुदारवाः परिधयो गुग्गुलूर्णा स्तुकाः सुगन्धितेजनानीति यज्ञं नय यजमानार

साध्विति यज्ञमेव तहजुधा प्रतिष्ठापयति, इति कुलायो नीडं पक्ष्यादिनिवासस्थानसदृशं तद्वानयं यज्ञो घृतवान् । वन्तं यज्ञं सवित्रे प्रेरकायानुष्ठात्रे यजमानाय तदुपकारार्थ साधु न निष्पादय । तत्कुलायित्वं तृतीयपादेभिहितम् । तत्कुलायमिवेत्यादि क्रियते । पितुदारुः खदिरवक्ष इत्येके । देवदारुक्ष इत्यन्ये । तत्र पैतुदारवाः परिधयोऽस्यामुत्तरवेद्यां स्थाप्यन्ते । गुग्गुलु प्रसिद्धं धूपर ऊर्णास्तुका अविसंबन्धिरोमविशेषाः । सुगन्धितेजनं तृणविशेष: मूलानि धर्मकाले पानीयमध्ये स्थाप्यन्ते । एत उत्तरवेद्यां स्थापिता यथा कुलायः काष्ठतृणादिभिनिष्पाद्यते तद्वदत्र यज्ञे परिधिकाष्ठादि

अग्ने विश्वे०-६-१५-१६ ।द्वितीयः खण्डः] ऐतरेयब्राह्मणम् ।

१२१ लायित्वम् । यज्ञं नयेति चतुर्थपादे यद्यदुक्तं तेन यज्ञमेव तहजुधा, ऋजुम रिण प्रतिष्ठितं करोति ।

षष्टया ऋचः प्रथमं पादं पठित्वा व्याचष्टे

सीद होतः ख उ लोके चिकित्वानित्यनिर्वे देवानां होता तस्यैष स्वो लोको यदुत्तरवेदीनाभिः, इति । हे होतोमनिष्पादकामे चिकित्वान्विज्ञानवांस्त्वं स्व उ लोके स्वकीय स्थान उत्तरवेदिनाभिरूपे सीदोपविश । अग्नेर्देवहोतृत्वादुत्तरवेदिनाभेस्त यस्थानत्वाच प्रथमपादार्थ उपपन्नः । द्वितीयपादमनूध तत्रत्यस्य यज्ञशब्दस्य यजमानपरत्वं दर्शयति

सादया यज्ञं सुकृतस्य योनाविति यजमानो वै

यज्ञो यजमानायैवैतामाशिषमाशास्ते, इति । यज्ञं यष्टारं सुकृतस्य योनौ पुण्यकर्मणां स्थाने सादय हेऽमे स्थापय । पत इति व्युत्पत्त्या यज्ञशब्दः सर्वत्र यागवाची । इह तु यजतीति व्युत्पत्या परमाचष्टे । अतस्तदर्थमेवाऽऽशीः प्रार्थिता भवति । उत्तरार्धमनूध तत्रत्यस्य वयःशब्दस्य प्राणवाचित्वं दर्शयति

देवावीर्देवान्हविषा यजास्यग्ने बृहद्य जमाने वयो धा इति प्राणो वै वयः

प्राणमेव तद्यजमाने दधाति, इति । देवान्वेति कामयत इति देवावीदेवप्रिय हेऽग्ने त्वं देवप्रियत्वाइवान्हविषा सि पूजयसि । यजमाने वयः प्राणं बृहदधिकं यथा भवति तथा धाः, स्थापय । अत्र वयःशब्देन प्राण उपलक्ष्यते । बाल्यादिवयोविशेषहेतो. पो निमित्तत्वात् ‘यावदस्मिञ्शरीरे प्राणो वसति तावदायुः’ इति श्रुतेः। [दुत्तरार्धपाठेन प्राणमेव यजमाने स्थापयतीति । सप्तम्या ऋचः प्रथमपादमनूध व्याचष्टे

नि होता होतृषदने विदान इत्यग्निर्वे देवानां होता तस्यैतरोतृषदनं यदुत्तरवेदीनाभिः, इति । ता होमनिष्पादकोऽग्निस्तादृशस्य स्वस्य होतुः सदने योग्यस्थान उत्तर … सीद होतः०-३-२९- नि होता.-२-९-१ ।

१६

१२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५ पञ्च वेदिनाभिरूपे विदानः क्रियमाणं कर्म विचारयन् । असददिति व नान्वयः । अग्निर्वा इत्यादिव्याख्यानं विस्पष्टम् ।

द्वितीयं पादमनूचासददिति पदं व्याचष्टे

खेषो दीदिवां असदत्सुदक्ष इत्या

सन्नो हि स तर्हि भवति, इति । कीदृशोऽग्निः । त्वेषः स्वयं दीप्यमानः । दीदिवानन्येषामपि मुदक्षः सुष्टु कुशलः । तादृशोऽग्निरासन्नो वेदिता भवति । स तहिं ता यनकाले सोऽग्निर्यस्मादुत्तरवेदिनाभेरासनस्तस्मादसददित्युचितम् ।

तृतीयपादमनूध वसिष्ठशब्दार्थ दर्शयति

अदब्धव्रतप्रमतिर्वसिष्ठ इत्यग्नि देवानां वसिष्ठः, इ अदब्धे हिंसारहिते व्रते कर्मणि प्रकृष्टा मतिर्यस्याग्नेः सोऽयमद मतिः । वसिष्ठोऽतिशयेन निवासहेतुः । हविर्वहनेन देवानां स्वस्वस्था सहेतुत्वादग्नेर्वसिष्ठत्वम् ।

चतुर्थ पादमनूध व्याचष्टे

सहस्रंभरः शुचिजिह्वो अग्निरित्येषा ह वा अर सहस्रंभरता यदेनमेकं सन्तं बहुधा विहरन्ति, इति अयमग्निर्बहुषु धिष्ण्येषु विहृतः सन्ननेकस्वरूपभरणात्सहस्रंभरः । हविःस्वीकारेण शुचिजिह्वः शुद्धा जिहा यस्यासौ शुचिजितः । स्वर सन्तममिमृत्विजो बहुधिष्ण्येषु बहुधा विहरन्तीति यदस्ति, एषैवा भरता।

वेदनं प्रशंसति

प्र ह वै साहस्रं पोषमानोति य एवं वेद, इति अत्र सहस्रसंख्योपेतं पोषं गोसुवर्णादिपुष्टिं वेदिता मानोति । अष्टमीमृचं विधत्ते त्वं दूतस्त्वमु नः परस्पा इत्युत्तमया परिदधाति,

त्वं दूत इत्यनयाऽन्तिमयाऽग्निप्रणयनीया ऋचः समापयेत् । दूतोऽसि ‘अग्निर्देवानां दूत आसीत्’ इति श्रुतेः । त्वमेव नोऽस्मा अतिशयेन पालयिताऽसि ।

त्वं दूतस्त्व० -२-९-२।।

द्वतीयः खण्डः] ऐतरेयब्राह्मणम् ।

१२३ अवशिष्टं पादत्रयं पठति

खं वस्य आ वृषभ प्रणेता । अग्ने तोकस्य नस्तने । तनूनामप्रयुच्छन्दीद्यद्बोधिं गोपा इति, इति ।

देवपम श्रेष्ठाग्ने त्वमासमन्ताद्वस्यो निवासहेतुः प्रणेता बहुषु कर्मसु प्रेरको म तोकस्यापत्यस्य तनूनां शरीराणां च तने विस्तारेऽप्रयुच्छन्नमाद बन्दीयत्मकाशयन्गोपा रक्षकः सन् , बोधि बुध्यस्व सर्वदा चित्तेऽनुगृहा यर्थः। उक्तार्थामचं प्रशंसयति

अग्नि देवानां गोपा अग्निमेव तत्सर्वतो गोप्तारं परि दत्त आत्मने च यजमानाय च यत्रैवं विद्वानेतया परिदधायथो संवत्सरीणामेवैतां स्वस्ति कुरुते, इति । यत्र यस्मिन्कर्मणि एवमुक्तं मत्रमहिमानं विद्वानेतयाऽन्तिमया समापयति होताऽनेर्देवरक्षकत्वमभिप्रेत्याऽऽत्मार्थ यजमानार्थ चाग्निमेव सर्वतो रक्षक दत्ते स्वी करोति । किंच । संवत्सरीणामेवास्मिन्संवत्सरे निरन्तरमेवैतां स्त क्षेमं कुरुते । न्यूनाधिकसंख्याभ्रमं व्युदसितुमाह

ता एता अष्टावन्वाह रूपसमृद्धा एतदै यज्ञस्य समृद्धं यदूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति, इति । प्रणीयमानस्याग्नेः प्रकाशकत्वादेतासां रूपसमृद्धिः।

आघन्तयोर्कचोरावृत्तिं विधाय प्रशंसति

तासां त्रिः प्रथमामन्वाह विरुत्तमां ता द्वादश संप धन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजा पतिः प्रजापत्यायतनाभिरेवाऽऽभी रानोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्वर्सी नयति स्थेने बलायाविसंसाय ॥ २८ ॥ इति । पूर्ववद्याख्येयम् ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्यस्य पञ्चमाध्याये द्वितीयः खण्डः ॥ २॥ (२८)

1281

Memorial Collection Ps. Amritansusekhar Bagchi

१२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[५ पञ्च

अथ हविर्धानप्रवर्तनीया ऋचो विधातुमादौ औषं विधत्ते हविर्धानाभ्यां प्रोद्यमाणाभ्यामनुबूहीत्याहाध्वर्युः । हविः सोमरूपं धत्तो धारयत इति हविर्धाने द्वे शकटे। तयोः स्वरूपम दर्शयति-‘प्रयुक्तः पूर्वे शकटे बद्धयुगे प्रकटितशम्ये पक्षाल्य तय मग्रथितान्वित्रस्य नवान्प्रज्ञातान्कृत्वाऽग्रेण माग्वंशमभितः पृष्ठयामर रिश्रिते सच्छदिषी अवस्थापयति’ इति । तयोर्हविर्धानयोः प्राचीनवंश भागमुपक्रम्योत्तरदेशपर्यन्तं नयनं प्रवर्तनं तदपि स एवाऽऽह—‘मा ध्वरमित्युक्तं गृहन्तं प्रवर्तयन्ति, इति । तत्पवर्तनकालेऽध्वर्युहोतारं प्रति नाभ्यामित्यादिप्रैषमत्रं प्रश्रूयात् ।।

होत्राऽनुवचनीयानामचा मध्ये प्रथमामृचं विधत्ते

युजे वां ब्रह्म पूर्य नमोभिरित्यन्वाह ब्रह्मणा वा एते देवा अयुञ्जत यद्धविर्धाने ब्रह्मणैवैने

एतद्युङ्क्ते न वै ब्रह्मण्वद्रिष्यति, इति । हे हविर्धाने वां युवां ब्रह्म युजे ब्रह्मणा युनक्तीत्येवं मत्रे यदु ठेन ब्राह्मणमुखेनैव हविर्धाने युक्ते भवतः । पूर्व देवैस्तथा कृतत्वात् । ब्रह्मण्वद्राह्मणोपेतं कर्म नैव विनश्यति तस्माद्युक्तोऽयं मनः।

द्वितीयाद्यास्तिस्र ऋचो विधत्ते

प्रेतां यज्ञस्य शंभुवेति तृचं द्यावापृथिवीयमन्वाह, मध्यमायाचि द्यावा नः पृथिवी इममिति श्रूयमाणत्वादयं तु पृथिवीयः।

अस्य तृचस्य हविर्धानप्रतिपादकत्वाभावाद्वैयधिकरण्यमित्याक्षिप्य स

तदाहुर्यविर्धानाभ्यां प्रोद्यमाणाभ्यामनुवा चाऽऽहाथ कस्मात्तृचं द्यावापृथिवीयमन्वाहेति द्यावापृथिवी वै देवानां हविर्धाने आस्तां ते उ एवाद्यापि हविर्धाने ते हीदमन्तरेण सर्व हवि.

युजे वा०-१०-१३-१ । प्रेतां यज्ञ०-२-४१-१९ । १ स. म. युक्तपू । २ क. ज. गेष्वरुडिः । ३ झ. म. प्रतिहत । ४३ तान्वि। ५ क. ज. पृथिव्याम । ६ क. ज. स. म. त्रा ।

तृतीयः खण्डः] ऐतरेयबामणम् ।

१२५ यदिदं किंच तस्मात्तृचं द्यावापृथिवीयमन्वाह, इति । यद्यप्यत्र हविर्धानयोरनुकूलया वाचा भैषमाह तथाऽपि द्यावापृथिवीय चोन व्यधिकरणः पुरा द्यावापृथिव्योरेव हविर्धानत्वात् । अद्यापि धावा

यावेव हविर्धाने । तत्कथमिति चेदुच्यते । यस्माल्लोके यत्किचिद्धविरस्ति हे सर्व ते अन्तरेण द्यावापृथिव्योमध्ये वर्तते तस्माद्यावापृथिव्योईविर्धा वात्तदीयस्य तृचस्यानुवचनं युक्तम् । पञ्चमीमृचं विधत्ते

यमे इव यतमाने यदैतमिति यमे

इव घेते यतमाने प्रबाहुगितः, इति । यमशब्द एकस्या मातुरुदरे सहोत्पन्नस्य शरीरद्वयस्य वाचकः । यमे इव

लोके तादृश्यौ द्वे कन्यके सह वर्तेते तथेमे शकटे यतमाने जगदुपकारार्थ त्निं कुर्वती यस्मात्कारणादैतमागतवती इत्येतस्य पादस्यार्थः प्रसिद्ध इति शब्दो द्योतयति । युगपदुत्पन्नकन्यकाद्वयवदेवैते प्रबाहुक्परस्परसादृश्येन व वर्तमाने इतः प्रचरतः । तदेतल्लोके प्रसिद्धमेव दृश्यते । द्वितीयपादमनूय व्याचष्टे

प्रवां भरन्मानुषा देवयन्त इति देव

यन्तो ह्येने मानुषाः प्रभरन्ति, इति । पच्छब्दस्य पूर्वपादेऽभिहितत्वात्तच्छब्दोऽस्मिन्पादेऽध्याहर्तव्यः । यस्मा. ण्युपकारार्थ प्रयतमाने स्थिते तस्मात्कारणादेवयन्तो यष्टव्यत्वेन देवानि न्तो मानुषा ऋत्विग्यजमाना हे हविर्धाने वां युवां प्रभरन्मकर्षेण संपाद. स्त । एतत्पदार्थस्य याज्ञिकप्रसिद्धिद्योतनार्थो हिशब्दः। द्वितीयार्धमन्य व्याचष्टे

आसीदतं स्वमु लोकं विदाने स्वासस्थे भव तमिन्दवे न इति सोमो वै राजेन्दुः सोमा

यवैने एतद्राज्ञ आसदेऽचीक्लपद , इति । ६ इविधोने उभे युवां प्रवर्तमाने सती स्वमु लोकं स्वकीयमेव स्थान

यमे इव य.—१०-१३-२ ।

१ ख. स. ‘स्य पद।

१२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ५ पञ्च विदाने ज्ञातवती आसीदतं तत्र स्थिति प्रामुतं नोऽस्मदीयायेन्दवे स्वासस्थे सुशोभन आसने स्थिति प्राप्ते भवतम् । अत्रेन्दुश राजोच्यते । अत एव तत्पाठेन सोमराजार्थमासद आसा(स)दनाया याचीकृपत्कल्पितवान्भवति ।

षष्ठीमचं विधत्ते

अधि द्वयोरदधा उक्थ्यं वच इति, इति । हविर्धानाख्ययोः शकटयोरुपरि सोमस्यावस्थानाय गृहाकारेण वेष्टनमुपर्याच्छादनं यत्क्रियते तदेतदाच्छादनं छदिःशब्दवाच्यम् ।। छदिषी द्वयोईविर्धानयोरवस्थाप्य तयोश्छदिषोरुपरि तृतीयं छदिही रुदाहृतयोरवस्थाप्यते । तदेतत्तैत्तिरीया आमनन्ति–‘दण्डो वा औ तीयस्य हविर्धानस्य वषट्कारेणाक्षमाच्छिनद्यत्तृतीयं छदिर्हविर्धानर यते तृतीयस्य हविर्धानस्यावरुध्यै’ इति । तदेतत्तृतीयच्छदिरवस्थापन न्मत्रप्रथमपादे प्रस्तूयते । यद्वयोश्छदिषोरध्यदधा उपरि तृतीयं छदि तदिदमुक्थ्यं वच उक्थ्यशस्त्रनामकं यद्यज्ञियं कर्म तद्योग्यं वचो म दूपमिदं छदिरिति च्छदिषः प्रशंसा ।

अस्मिन्पादे पूर्वभागस्याओं याज्ञिकप्रसिद्ध इत्यभिप्रेत्य हिशब्दयुक्ते ध्याचष्टे

द्वयोर्धेतत्तृतीयं छदिरधि निधीयते, इति । उत्तरभागं व्याचष्टे

उक्थ्यं वच इति यदाह यज्ञियं वै कर्मो

क्थ्यं वचो यज्ञमेवैतेन समर्धयति, इति । उक्थ्यं वच इति यत्पदद्वयं मत्रो ब्रूते तेन पदद्वयन शस्त्रपाठाख्यं धिकर्मोच्यते । तस्मादेतेन मत्रपाठेन यज्ञमेव समृद्धं करोति ।

द्वितीयतृतीयपादौ पठति

यतमुचा मिथुना या सपर्यतः । असं

यत्तो व्रते ते क्षेति पुष्यतीति, इति । यदा तृतीयं छदिनिधीयते तदानीं ये हविर्धाने स्तस्ते उभे यतस्नुन तत्रुग्युक्ते कृतहोमे हुतसोमे मिथुना मिथुनवत्परस्परयुक्ते सपर्यत

अधि द्वयो०-१-८३-३ ।

तीयः खण्डः]

ऐतरेयग्राह्मणम् ।

१२७ । अयमर्थः । द्वयोरुपरि तृतीये छदिषि व्यवस्थापिते सति विवाहहो

परस्परसंयुक्तौ मिथुनरूपी स्त्रीपुरुषो यथा पूज्यते तथा हविर्धाने जापजिते भवत इति । संपूर्वो यतिधातुः सङ्ग्रामे वर्तते । तेन क्रौर्यगुणो

संयत्तः फरः । असंयत्तः शान्तः । अत्रेन्द्रसंबोधनमध्याहर्तव्यम् । द शान्तोऽध्वर्युस्ते व्रते त्वदीये कर्मणि क्षेति निवसति पुष्यति तच्च कर्म करोति । एतस्य तृतीयपादस्य तात्पर्य दर्शयति

यदेवादः पूर्व यत्तवत्पदमाह तदे

वैतेन शान्या शमयति, इति । यत्तवत्पदवाच्यस्तृतीयः पादः । अत्र व्रतपदात्पूर्व यदेवादो यदिदं यत्तव. इयत्तशब्दोपेतं संयत्त इति पदं तेन युद्धवाचिना यत्क्रौर्य घोतितं तदेव पेमेतेनासंयत्तः पुष्यतीति पदद्वयेन प्रतीतया शान्त्या होता शमयति । चतुर्थपादमनूध व्याचष्टे भद्रा शक्तिर्यजमानाय सुन्वत इत्याशिषमाशास्ते, इति । मुन्वते सोमाभिषवं कुर्वते यजमानाय भद्रा कल्याणरूपा शक्तिर्भवत्विति

। अनेन पादेन प्रार्थनीयं प्रार्थयते । सप्तमीमचं विधत्ते

विश्वा रूपाणि प्रतिमुञ्चते कवि

रिति विश्वरूपामन्वाह, इति । कविर्मेधावी मत्रप्रतिपाद्यो देवः सविता विश्वा रूपाणि शुक्लकृष्णादीनि नि रूपाण्याभरणत्वेन प्रतिमुञ्चते स्वशरीरे स्थापयति । अत्र रूपशब्दस्य

शब्दस्य च विद्यमानत्वादियमृग्विश्वरूपशब्दाभिधेया। तस्या अनुवचने होतुः किंचिदितिकर्तव्यतामाह

स रराव्यामीक्षमाणोऽनुब्रूयात्, इति । हविर्धानमण्डपस्य चिकीर्षितस्य प्राच्या द्वारि बन्धनीया दर्भमाला रराटी।

यार्थे सप्तमी । तां दर्भमालां पश्यअनुयात् । अस्या ऋचो रराट्यनुरूपत्वं दर्शयति

विश्वमिव हि रूपं रराव्याः शुक्लमिव च

. विश्वा रूपा०-१-८२-२।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१प

कृष्णमिव च, इति । दर्भमालाया अत्यन्तशुष्कास्तृणविशेषाः शुक्ला दृश्यन्ते । अशुष्का अतो विश्वमिव बहुविधमिव दर्भमालायाः स्वरूपं तेन विश्वा । मनोऽनुकूलः।

होतुरेतवेदनं प्रशंसति

विश्वं रूपमवरुन्ध आत्मने च यजमानाय :

यत्रैवं विद्वानेतां रराव्यामीक्षमाणोऽन्वाह, इति विध रूपं प्रजापश्चादिविविधवस्तुस्वरूपम् । अष्टम्याऽनुवचनसमाप्ति विधत्ते

परि त्वा गिर्वणो गिर इत्युत्तमया परिदधाति, इ. परिधानस्य कालं विधत्ते

स यदैव हविर्धाने संपरिश्रिते

मन्येताथ परिदध्यात्, इति । यस्मिन्नेव काले प्रवर्तिते द्वे शकटे संपरिश्रिते स्वस्थानेऽवस्थाप्य च्छादिते इति स होता मन्येत तत्तदानीं समापयेत् ।

होतुरेतद्वेदनं प्रशंसति

अन भावुका ह होतुश्च यजमानस्य च भार्या भवन्ति यत्रैवं विद्वानेतया हवि

र्धानयोः संपरिश्रितयोः परिदधाति, इति । अननंभावुका आच्छादनबाडुल्यसंपत्त्या ननत्वरहिताः । हविर्धानयोः परिश्रयणकालं ज्ञात्वा परिदध्यादित्युक्तं स कालः। इत्याशङ्कयाऽऽह

यजुषा वा एते संपरिश्रियेते यद्धवि

र्धाने यजुषवैने एतत्परिश्रयन्ति, इति । यद्धविर्धाने ये शकटे विद्यते एते यजुषा वै यजुर्मवेणैव संपरिश्रिते तदेव कथमिति तदुच्यते । अध्वर्यव एते हविर्धाने यजुषैव परिश्रयन्त

परि त्वा गि०-१-१०-१२। .

तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।

१२९ मिति शेषः । तदेतदापस्तम्बो दर्शयति-‘विष्णोः पृष्ठमसीति । तेषु मध्यम इरभ्यूहति । अरनिविस्तारं नवायोमम्’ इति । परिधानस्य कालं विधत्ते

तो यदेवाध्वर्युश्च प्रतिप्रस्थाता चोभयतो

मेथ्यौ निहन्यातामथ परिदध्याव , इति । अवलिणस्य हविर्धानस्य मेथीमीषाग्रभागावस्थापनकाष्ठं स्थापयति । पच्छाखान्तरे श्रूयते-‘दिवो वा विष्ण उत वा पृथिव्या इत्याशी पदयी

णस्य हविर्धानस्य मेथीं निहन्ति’ इति । उत्तरस्य तु प्रतिप्रस्थाता करोति । नभयमापस्तम्बो दर्शयति-‘दिवो वा विष्ण इत्यध्वर्युर्दक्षिणस्य हविर्धा । मेथीं निहन्तीति । तस्यामीषां निहन्ति । एवमुत्तरस्य प्रतिप्रस्थाता गोर्नु कमित्युक्त्वाऽस्य हविर्धानस्योत्तरं कर्ण तदासमिति । तस्मिन्मेथीनि काले परिदध्यात्’ इति । पद्यप्ययं कालः परिश्रयणकालात्माचीनस्तथाऽपि तत्समीपवर्तित्वात्पूर्व

ना सह नात्यन्तं विरोध इत्येतदर्शयति

अत्र हि ते संपरिश्रिते भवतः, इति । अत्र मेथीनिहननदेशे तत्समीपवर्तिनि काले परिश्रयणं क्रियते । एक्संख्यादिकं दर्शयति

ता एता अष्टावन्वाह रूपसमृद्वा एतदै यज्ञस्य समृद्ध यद्रूपसमृद्धं यत्कर्म क्रियमाणमृगभिवदति तासां त्रिः प्रथमामन्वाह विरुत्तमां ता द्वादश संपद्यन्ते दादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवाऽऽभी रानोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्वौं नद्यति स्थेने बलायाविषेसाय ॥ २९ ॥ इति । विद्याख्येयम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये पश्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ (२९)

१ क. ज. अ. “यामि।

.

.

.

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५ पत्र अथानीषोमभणयनीया ऋचो विधातुमादौ भैषमत्रं विधत्ते

अग्नीषोमाभ्यां प्रणीयमाना

भ्यामनुबूहीयाहाध्वर्युः, इति । योऽयमग्निः प्राचीनवंशाख्यायाः शालाया मुखे द्वारभागे पूर्वसि यरूपणावतिष्ठते तस्माच्छालामुखीयादनेः सकाशात्कियानप्यानीधी नेतव्यः । सोमश्च पूर्व शालामुखीयसमीपेऽवस्थितस्तेनामिना स सन्पुनरपि हविर्धानमण्डपे नेतव्यः । तदिदमनीषोमप्रणयनं तदर्थ है ध्वर्युः औषमत्रं ब्रूयात् । तदेतत्सर्वमापस्तम्ब आह-शालामुखीये प्रा ध्ममादीप्य सिकताभिरुपयम्यानीपोमाभ्यां प्रणीयमानाभ्यामनुब्रही ति’ इति । अग्निप्रथमाः सोमप्रथमा चा प्राचीमभिप्रजन्त्यानीधीयेऽ प्येति स च सोमो जिगाति गातुविदित्यपरया द्वारा हविर्शनं राज यतीति च।

अग्नीषोमप्रणयनीयास्था प्रथमामृचं विधत्ते साऽवीहि देव प्रथमाय पित्र इति सावित्रीमन्वाह, सेयं शाखान्तरगतत्वात्सूत्रकारेण पठिता । तस्यास्तृतीयपादेऽस्म तरिति श्रुतत्वादियं सावित्री।

अत्र वैयधिकरण्यमाशङ्कय समाधत्ते

तदाहुर्यदनीषोमाभ्यां प्रणीयमानाभ्यामनु. वाचाऽऽहाथ कस्मात्सावित्रीमन्वाहेति स. विता वै प्रसवानामीशे सवितृप्रसूता एवैनौ

तत्प्रणयन्ति तस्मात्सावित्रीमन्वाह, इति पूर्ववयाख्येयम् । द्वितीयां विधत्ते

प्रेतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यामन्वाह, इ अत्रापि वैयधिकरण्यमाशङ्कय समाधत्ते तदाहुर्यदनीषोमाभ्यां प्रणीयमानाभ्यामनुवाचा

प्रैतु ब्रह्म०-१-४०-३।

-बतुः खण्डः]

ऐतरेयबामणम् । कस्माद्ब्राह्मणस्पत्यामन्वाहेति ब्रह्म वै बृहस्पतिब्री वाऽऽभ्यामेतत्पुरोगवमकर्ण वै ब्रह्मण्वद्रिष्यति, इति । परोगवं ब्राह्मणमेव पुरोगन्तारमकः करोति ब्रामणोपेतस्य कर्मणो विना

वात्तयुक्तम् । द्वितीयपादमुपजीव्य तामृचं प्रशंसति

प्र देव्येतु सूनृतेति ससूनृतमेव तद्यज्ञ

करोति तस्माद्ब्राह्मणस्पत्यामन्वाह, इति । तृता प्रियवचनरूपा वाग्देवी #तु ब्रह्मणा सह पुरो गच्छत्विति द्वितीय भूयते तत्पाठेन यज्ञं ससूनृतमेव प्रियवचनयुक्तमेव करोति । तीयाद्यास्तिस्त्र ऋचो विधत्ते

होता देवो अमर्त्य इति तृचमानेयं गाय

त्रमन्वाह सोमे राजनि प्रणीयमाने, इति । होत्यस्मिन्ननाविति होताऽग्निः । अतो होतृशब्दश्रवणादिदमानेयम् । आग्नेयस्य सोमप्रणयनानुकूल्यं दर्शयति सोमं वै राजानं प्रणीयमानमन्तरेणैव सदो हविर्धाना न्यसुरा रक्षांस्यजिघांसंस्तमग्निर्माययाऽत्यनयत् , इति । दिदं सदोनाम मण्डपं यच्च हविर्धाननामक मण्डपं शकद्वयं च तान्य । तेषां मध्येऽसुराश्च रक्षांसि च नीयमानं सोमं हन्तुमैच्छन् । तं भीतं निः स्वकीयया मायया तानसुरांस्तानि रक्षांस्यतिक्रम्य नीतवान् । सोमप्रणयनेऽप्यानेयस्य योग्यत्वमस्ति । असुराणां रक्षसां चावान्तरजा हो द्रष्टव्यः । थमाया ऋचो द्वितीयपादमनूध व्याचष्टे

पुरस्तादेति माययेति मायया हि स तमत्य नयत्तस्मादस्याग्निं पुरस्तादरन्ति , इति । पया सहितोऽग्निः पुरस्ताद्वच्छतीति द्वितीयपादे श्रूयते । यस्मात्सोऽग्नि

शक्त्या भीतिस्थानमतिलथ्य तं सोममनयत्तस्मादु तस्मादेव कारणा सोमस्य पुरस्तादानीध्रपर्यन्तमग्निमृत्विजो हरन्ति ।

होता देवो०-३-२७-७ ।

११२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [५ पञ्चमाध्यादे.

षष्ठीमारभ्य चतस्र ऋचो विधत्ते

उप त्वाऽने दिवे दिव उप प्रियं पनि

प्रतमिति तिस्रश्चैकां चान्वाह, इति । उप त्वाऽग्न इत्यादिकाः क्रमेणाऽऽन्नातास्तिस्र उप प्रियमित्येका । उक्तस्य तृचस्योक्तायाश्चैकस्या अनुवचनमुपपादयति

ईश्वरौ ह वा एतौ संयन्तौ यजमानं हिंसि तोर्यश्चासौ पूर्व उद्धृतो भवति यमु चैनमपरं प्रणयन्ति तद्यत्तिस्रश्चैकां चान्वाह संजानाना वैवैनौ तत्संगमयति प्रतिष्ठायामेवैनौ तत्प्रति

ठापयत्यात्मनश्च यजमानस्य चाहिंसाय, इति । __यश्वासावनिः पूर्वमृद्धतः पूर्वभावी सनुत्तरवेद्यामानीय स्थापितः। यमर परममिमिदानीमानीध्रधिष्ण्यं प्रति प्रणयन्ति । एतावुभावनी संयन्तौ में वाऽऽहुतिरित्येवं सङ्घामं कुर्वन्तौ यजमानं हिंसितोरीश्वरौ हिंसितुं समर्थों तथा सति यदि तिस्रश्चैको चानुबयात्तदानीमेतौ द्वावप्यग्री संजानानावेव प स्परैकमत्ययुक्तावेव कृत्वा संगमयत्यन्योन्यं संयोजयति । तिसृष्वृक्षु ना भरन्त एमसीति पूर्वोद्धृतस्याग्नेमस्कारः श्रूयते । एकस्यामृच्यगन्म बिभ्रा नम इति प्रणीयमानस्यानेनमस्कारः श्रुतस्तेन तुष्टौ परस्परद्वेषं परित्यजतः तत्तथा सत्येतावुभावनी प्रतिष्ठायामेवोत्तरवेद्यानीध्रलक्षणस्वस्वोचितस्थान ए प्रतिष्ठापयति । तच्च होतुरात्मनश्च यजमानस्य च हिंसापरिहाराय भवति ।

दशमीमृचं विधत्ते

अग्ने जुषस्व प्रति हर्य तहच इया

हुयां हूयमानायामन्वाह, इति । आहुतिस्तु यजुर्वेदविहिता । तयैवेत्युचाऽऽग्नीधे जुहोति सुवर्गस्य लोप उप त्वाऽग्ने०-१-२-७। उप प्रियं०-९-६७-२९ । अग्ने जुषस्व० १४५-७।

१ क. ज. स. म. ‘यैव त्य।

चतुर्थः खण्डः] ऐतरेयबामणम् ।

१५ नया इति । सा चाऽऽपस्तम्बेन स्पष्टीकृता-‘आनीधीयेऽमिं मतिष्ठा नयर्धमाज्यशेषस्य जुहोति’ इति । तदाहुतिकाले होताऽये जुषस्वेत्ये. नुब्रूयात् । वामेतां प्रशंसति ___ अनय एव तज्जुष्टिमाहुतिं गमयति , इति । जुषस्वेति मत्रेऽभिधानादाहुतिमनेः प्रियं संपादयति । एकादशीमारभ्य तिन ऋचो विधत्ते

सोमो जिगाति गातुविदिति तृचं सौम्यं गाय त्रमन्वाह सोमे राजनि प्रणीयमाने स्वयै वैनं तद्देवतया स्वेन च्छन्दसा समर्धयति, इति । वे सोमदेवताया एव प्रतिपाद्यत्वात्सोमात्मकस्येयं स्वकीयदेवता गायच्या स्य धुलोकादाहृतत्वाच्छन्दोऽपि स्वकीयम् । पस्य हचस्यान्तिमं पादमादाय व्याचष्टे

सोमः सधस्थमासददित्यास

त्स्यन्हि स तर्हि भवति, इति । यं सोमः सधस्थं इविर्धानाभ्यां सहावस्थानप्रदेशं प्राप्याऽऽसददास भूत् । यस्मात्स सोमस्तहि तत्पादपाठकाल आसत्स्यन्भवति हविर्धानदे [ऽऽसन्नतां करिष्यन्वर्तते तस्मात्सधस्थमासददिति युक्तम् । स्यि तृचस्यानुवचनदेशं विधत्ते तदतिक्रम्यैवानुबूयात्पृष्ठत इ(ए)वाऽऽनीधं कृत्वा, इति । वर्वोक्तायामाहुत्यामध्वर्युणा हूयमानायां होता त्र्यचमुपक्रम्यानुनुवाणो स्तदामीध्रस्थानमतिक्रम्यैवाऽऽग्नीधं पृष्ठत एव कृत्वा तं पादमनुष्यूयात् । कम्येत्यस्यैव पृष्ठतः कृत्वेति व्याख्यानम् । तुर्दशीमृचं विधत्ते तमस्य राजा वरुणस्तमश्विनेति वैष्णवीमन्वाह, इति । जं च विष्णुरिति चतुर्थपादे श्रुतत्वात् ।

.

.

सोमो निगा०-३-६२-१३ । तमस्य रा०-१-१५६-४ ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[५ पञ्चमाध्यादे अवशिष्टं पादत्रयं पठति

क्रतुं सचन्त मारुतस्य वेधसः। दाधार दक्षमुत्तमम . हर्विदं व्रजं च विष्णुः सखियाँ अपोर्तृत इति, इति । ___ अस्या ऋचोऽयमर्थः । अस्य सोमस्योपनद्धस्य राजा स्वामी वरुण

ऋतुं यागं सचत इत्यध्याहारः। अश्विना उभावश्विनौ देवौ मारुतो वायुर्वेश ब्रमा च ऋतुं सचन्त समवयन्ति । मारुतस्य वेधस इति प्रथमार्य षष्टयौ। विष्णुर्देवो दक्षं देवानां तृप्तौ कुशलमत एवोत्तममहविदं श्रुत्या दिनाभिकं सोप दाधार प्रणयनकाले धृतवान् । तथा विष्णुः सखिवान्सोमरूपेण सख्या युक्त तया तद्वान्वज सोमस्थानं हविर्धानमपोर्गुतेऽपगताच्छादनं करोति सोमस्य प्रदे शाय द्वारं विवृणोतीत्यर्थः । विष्णुर्दाधारापोर्गुते चेति समुच्चयार्थश्वकारः।

उक्तमवतात्पर्य विस्पष्टयति

विष्णुवै देवानां द्वारपः स ए

वास्मा एतद्द्वारं विवृणोति, इति । पञ्चदशीमचं विधत्ते

अन्तश्च प्रागा आदितिर्भवा

सीति प्रपाद्यमानेऽन्वाह , इति । सोमे हविर्धानं प्राप्यमाणे सत्येतामृचमनुश्रूयात् । षोडशीमृचं विधत्ते

श्येनो न योनि सदनं धिया कृतमित्यासने, इति । आसने हविर्धान प्रति सोमे समीपवर्तिनि सत्येतामनुश्यात् । नकार उप मार्थः । यथा श्येन: पक्षी तत्र तत्र संचारं कृत्वा योनि स्वस्थान प्रामोति तथा धिया यजमानविग्बुद्ध्या कृतं संपादितं सदनं हविर्धानं प्रति सोम एषती वक्ष्यमाणेन संबन्धः।

द्वितीयपादमनुवदति

हिरण्ययमासदं देव एषतीति, इति । अन्तश्च प्रागा०-८-४८-२ । श्येनो न योनि.-९-७१-६ ।

पपनम् ।

चतुर्थः खण्डः] ऐतरेपबामणम् । रिव्ययं सुवर्णसदृशं कृष्णाजिनमासदमुपवेशनयोग्यं सोमो देव एषति मोति । इषु गताविति धातुः। हिरण्ययशब्दं व्याचष्टे

हिरण्मयमिव ह वा एष एतद्देवेभ्य

श्छदयति यकृष्णाजिनम् , इति । विर्धानस्य शकटस्योपरि सोमस्थापनार्थे कृष्णाजिनमास्तृणन्ति । तथा Issपस्तम्ब आह-‘दक्षिणस्य हविर्धानस्य नीडे पूर्ववत्कृष्णाजिनास्तरणं

सादनम्’ इति । यदेतत्कृष्णाजिनमस्ति तदेतद्धिरण्मयमिव ह वै सुवर्ण मितासनमिव देवार्थमेषोऽध्वर्युश्छदयत्यास्तृणाति । तस्मान्मत्रे हिरण्ययमि

Ds. Amritansusekhar Bagchi

Memorial Collection एतन्मत्रविधिमुपसंहरति

1981 तस्मादेतामन्वाह, इति । यस्मादासनदेशस्यानुकूलेयमुक्तस्मादेतामनुब्रूयात् । सप्तदश्या समापनं विधत्ते

अस्तनाद्यामसुरो विश्ववेदा इति

वारुण्या परिदधाति, इति । चतुर्थपादे वरुणस्य व्रतानीति श्रवणादियं वारुणी। तस्याः सोमसंबन्धं दर्शयति

वरुणदेवत्यो वा एष तावद्यावदुपनदो यावत्परिश्रितानि प्रपद्यते स्वयैवैनं तहे

वतया स्वेन च्छन्दसा समर्धयति , इति । पूर्ववव्याख्येयम् । अथात्र नैमित्तिकमृगन्तरं विधत्ते

तं याप वा धावेयुरभयं वेच्छेरनेवा वन्दस्व वरुणं बृहन्तमित्येतया परिदध्यात् , इति ।

अस्तनाया-(-४२-१।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५ पञ्चमाध्याचे ; तं यजमानमितरे बन्धवो जीवार्थिनो यधुप वा धावेयुः प्रामुयुः । अया वैरिभ्यो भीता अभयं यजमानसमीपे यदीच्छेरंस्तदानीमेवा वन्दस्वेत्येतर परिदध्यात् ।

होतुरेतवेदनप्रशंसापूर्वकमेतद्विधिमुपसंहरति

यावद्भ्यो हाभयमिच्छति यावद्भ्यो हाभयं ध्यायति तावद्भ्यो हाभयं भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्यात्, इति । यत्र यागे यथोक्तार्थ विद्वान्होतैतया परिदध्यात्तत्र यजमानो यावद्भ्यो बन भ्यो द्रोगपरिहाररूपमभयमिच्छत्यथवा वैरिभीतिपरिहाररूपमभयं ध्याय तावद्भ्यः सर्वेभ्यस्तादृशमभयं भवति । तस्मादेवा वन्दस्वेत्यनयैव परिदध्यात

मत्रगतसंख्यादिकं दर्शयति

ता एताः सप्तदशान्वाह रूपसमृद्धा एतदै यज्ञस्य समृद्धं यद्पसमृद्धं यत्कर्म क्रियमाण मृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरु त्तमां ता एकविंशतिः संपद्यन्त एकविंशो वै प्रजापतिर्दादश मासाः पञ्चर्तवस्त्रय

इमे लोका असावादित्य एकविंशः, इति । उक्तसंख्याप्रशंसार्थमेकविंशतिसंख्यापूरण आदित्ये बहून्गुणान्दर्शयति उत्तमा प्रतिष्ठा तदैवं क्षत्रं सा श्रीस्तदाधिपत्यं तद् ध्रस्य विष्टपं तत्प्रजापतेरायतनं तत्स्वाराज्यम्, इति । योऽयमादित्योऽसावुत्तमा प्रतिष्ठा । तल्लोकानां स्थैर्येणावस्थानात् । तदा दित्यस्वरूपमेव दैवं क्षत्रं देवसंबन्धिनी क्षत्रजातिः । ‘आदित्यो वै दैवं क्षत्रा इत्यन्यत्राभिधानात् । सा श्रीरादित्यप्राप्तिरेव भोग्यवस्तुसंपत्तिः । तदा त्यमण्डलमाधिपत्यं स्वामित्वमापकम् । ‘आदित्य एषां भूतानामधिपात इति श्रवणात् । तन्मण्डलं अध्नस्याऽऽदित्यस्य विष्टपं स्थानभूतं तर मण्डलं प्रजापतेरप्यायतनं स्थानम् । आदित्यमण्डले प्रजापत्युपासनस्यामा नात् । तदेव मण्डलं स्वाराज्यं पारतन्त्र्याभावात् ।

१ चतुर्थः खण्डः]

ऐतरेयब्राह्मणम् ।

उपसंहरति

ऋध्नोत्येतमेवैताभिरेकविंशत्यैकविंशत्या ॥३०॥ इति । इत्यैतरेयब्राह्मणे प्रथमपञ्चिकायां पञ्चमोऽध्यायः॥५॥ एकविंशतिसंख्याभिरेताभिर्ऋम्भिरेतं यजमानं समृद्ध करोत्येव । अभ्या रोऽध्यायसमाप्त्यर्थः।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

प्रामणभाष्ये पञ्चमाध्याये चतुर्थः खण्डः ॥ ४ ॥(३०) इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबक्कणसा म्राज्यधुरंधरसायणाचार्यकृतौ प्रथमपञ्चिकायां

पञ्चमोऽध्यायः॥५॥

4

.

-4

इत्यैतरेयब्राह्मणे प्रथमपञ्चिका समाप्ता ॥ १॥

(पश्चिकाङ्काः-१ । अध्यायात्राः-५ । खण्डाङ्काः ३० ।)