०४

अथ चतुर्थोऽध्यायः ।

1861

Memorial Collection Dr.Amritansusekhar Bagcal

सोमप्रवाहिका अग्निमन्थनीया ऋचस्तथा ।

आतिथ्यास्तद्विशेषाश्च तृतीयाध्याय ईरिताः ।। भय भवादयो वक्तव्यास्तदर्थमादावाख्यायिकामाह

यज्ञो वै देवेभ्य उदकामन वोऽहमन्नं भविष्या मीति नेति देवा अब्रुवनन्त्रमेव नो भविष्यसीति तं देवा विमेथिरे सहैम्यो विहतो न प्रबभूव ते होचुर्दैवा न वै न इत्थं विहृतोऽलं भविष्यति

हन्तेमं यज्ञं संभरामेति तथेति तं संजभ्रुः, इति । यज्ञशब्देनात्र प्रवर्यो विवक्षितः । तदभिमानी देवः केनापि निमित्तेनापर कोऽन्येभ्यो देवेभ्य उत्क्रान्तवान् । हे देवा युष्माकमहमन्नं न भविष्यामीत्येव त्क्रिमणकाले प्रोक्तवान् । ततो देवास्तदुत्क्रमणं नेति प्रतिषिध्य सर्वथा त्वम माकमन्नं भवेति पार्थितवन्तः । प्रवर्याख्ये कर्मणि यद्धविस्तदेवानामन्नं तद भमानी च पुरुषो देवैः मार्थितं तदन्नत्वं नागी चकार । तमनङ्गीकुर्वाणं प्रवर्य रूपं देवा विमेथिरे ताडनभर्सनादिभिर्हिसितवन्तः । स च प्रवग्र्यो देवैविशे ण बाधित एभ्यो देवेभ्यो न प्रबभूव प्रभूतो नाभूत, अन्नत्वेनावस्थातुं न शक्त त्ययः । ततो देवाः परस्परमेवं विचारितवन्तः । एवं विहतो विशेषेण बाधित: वियों नोऽस्माकमनं नैव भविष्यतीवि संपूर्णमन्नं न भविष्यति तमिमं भव

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [४ चतुर्थाध्याये ग्याख्यं यज्ञं संभरामोचितैः साधनैः सम्यक्पोषयामेति । संपूर्तिहेतुदर्श निमित्तजन्यहर्षद्योतनार्थो हन्तशब्दः । तथेति परस्परमजीकृत्य तं प्रवर्य संजन साधनसंपादनेन सम्यक्पोषितवन्तः ।

अथ हविरादीनां साधनानां संपादनं विधत्ते

तं संभृत्योचुरश्विनाविमं भिषज्यतमित्य श्विनौ वै देवानां भिषजावश्विनाव

ध्व! तस्मादध्व! धर्म संभरतः, इति । देवाः प्रवर्यकर्मोपयुक्तं महावीरादिसंभार संभृत्य स्वकीयावश्विनौ प्रत्येव मूचुः-हेऽश्विनाविमं प्रवर्यपुरुषदेहमस्माभिर्हिसितं युवां भिषज्यतमौषधेरे तस्य समाधानं कुरुतमिति । देवानां मध्ये भिषजावेवाश्विनौ तस्मात्तत्मार्थन युक्तम् । किंच । देवानां यज्ञकर्मण्यश्विनावध्व! । अत एवान्यत्र कस्यचिन्म: वस्य ब्राह्मणे पठ्यते-‘अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्य आस्ताम्’ इति । अतोऽपि कारणादश्विनोर्यज्ञसमाधानकारणं युक्तम् । तस्मा कारणादवए । उभाभ्यामश्विभ्यां यज्ञशरीरं चिकित्सितं तस्मादिदानीम प्यध्व’ धर्म संभरतः प्रवर्दीसाधनं संपादेयाताम् । तदेततैत्तिरीया देवा सत्रमासतेत्यस्मिन्ननुवाके प्रवर्गाविषयमुपाख्यानं प्रपञ्चयन्ति । तस्मिनाख्याने यज्ञस्य प्रवर्यरूपं शिरो धनुषः कोट्या छिन्नमित्युक्त्वा पश्चादेतदानायते ‘तेनाथ शीर्णा यझेन यजमानानाशिषोऽवारुन्धत । न सुवर्ग लोकमभ्यजयन् । ते देवा अश्विनावब्रुवन् । भिषजौ वै स्थः । इदं यज्ञस्य शिरः प्रतिधत्तमिति। तावधूतां वरं वृणावहै । ग्रह एव नावत्रापि गृह्यतामिति । ताभ्यामेतमाश्विनमः। गृहन् । तावेतद्यज्ञस्य शिरः प्रत्यवत्तांम् । यत्पवय॑स्तेन स शीर्णा यझेन यज माना अवाऽऽशिषोऽरुन्धत । अभि सुवर्ग लोकमजयन् । यत्प्रवर्दी प्रवृणक्ति। यस्यैव तच्छिरः प्रतिदधाति’ इति । .. प्रवर्ग्यसाधनानि संपादितवतोस्तयोरनुज्ञापनमन्त्रं प्रैषमन्त्रं च विधत्ते–

तं संभृत्याऽऽहतब्रह्मन्प्रवर्येण प्रचरि

ष्यामो होतरभिष्टुहीति, ॥ १८॥ इति । .. तं प्रवर्यकर्मोपयुक्तं साधनसमूह संभृत्य संपाद्य चतुर्णामध्वर्गुणां मध्येऽध्व प्रतिप्रस्थाता चेत्येतावुभावव! ब्रह्माणं होतारं च प्रत्येवं भूयाताम् । हे अभ न्वयमूत्विज सर्वे प्रवाख्येन(ण) कर्मणा प्रचरिष्यामोऽनासा सोस

द्वितीयः खण्डः] ऐतरेयब्रामणम् ।

मापनमनः।हे होतस्त्वमभिष्टहि प्रवर्यस्तुतिरूपाः सर्वा ऋचः पठ । ऽयं प्रैषमन्त्रः। इतिशब्दो मत्रद्वयसमाप्त्यर्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्यस्य चतुर्थाध्याये प्रथमः खण्डः ॥ १॥ (१८)

होतुरभिष्टवार्थास्त्रक्षु प्रथमामृचं विधत्ते

ब्रह्मजज्ञानं प्रथम पुरस्तादिति प्रतिपद्यते ब्रह्म .

वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यति , इति । प्रतिपद्यतेऽनेन मत्रेण होताऽभिष्टवं प्रारभत इत्यर्थः । अस्मिन्मने ब्रह्मश ब्देन देवानां मध्ये ब्राह्मणजातिरूपो बृहस्पतिरुच्यते । तस्मादनेन मत्रेणो क्रमे सति ब्रह्मणैव ब्राह्मणजात्यैवैनं प्रवर्य तदा भिषज्यति चिकित्सते ।

द्वितीयामृचं विधत्ते

इयं पित्रे राष्ट्रयेत्यग्र इति वाग्वै ।

राष्ट्री वाचमेवास्मिंस्तद्दधाति, इति । अस्मिन्मने तृतीयान्तो राष्ट्रीशब्दो वाचं व्रते । तत्तेन मत्रपाठेनास्मिन्मवर्ये चमेव संपादयति । तृतीयामृचं विधत्ते

महान्मही अस्तभाय द्विजात इति ब्राह्मणस्पत्या ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यति, इति । अस्य मत्रस्य चतुर्थपादे बृहस्पतिर्देवतेति श्रूयमाणत्वावृहस्पतेश्च ब्राह्मण मित्वादियमृग्ब्राह्मणस्पत्या। चतुर्थीमचं विधत्ते

अभियं देवं सवितारमोण्योरिति सावित्री

प्राणो वै सविता प्राणमेवास्मिस्तद्दधाति, इति । सवितारमिति श्रुतत्वादियमुक्सावित्री। पठनीयेति शेषः । प्राणस्य देहेन्द्रि रकत्वात्सवितृत्वम् । तत्तेन मत्रेणास्मिन्मवर्ये प्राणमेव संपादयति । ता श्चितस्त्र ऋचः शाखान्तरगता आश्वलायनेन पठिता द्रष्टव्याः। पञ्चमीमचं विधत्ते

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [४ चतुर्याध्याये. संसीदस्व महाँ असीत्येवैनं समसादयन्, इति ।। अनेन मवेणैनं प्रवाख्यं महावीरं खरशब्दाभिधेये संतापनस्थाने सम सादयन्स्थापयेयुरित्यर्थः। षष्ठीमचं विधत्ते

अनन्ति यं प्रथयन्तो न विप्रा इत्यज्यमाना

याभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् , इति । अस्मिन्मत्रेऽञ्जन्तीति पदस्य श्रुतत्वादाज्येनाज्यमानाय महावीराख्यार पात्राय येयमृगभिरूपा भवति ।।

सप्तमीमारभ्य द्वादशपर्यन्ताः षडचो विधत्ते

पतझमक्तमसुरस्य मायया यो नः सनुत्यो अभिदासदग्ने भवा नो अग्ने सुमना उपेताविति

हे हे अभिरूपे यद्यज्ञेभिरूपं तत्समृद्धम् , इति । पतङ्गमिति संहितायामानातयोर्द्वयोः प्रतीके । यो नः सनुत्य इति द्वयोः प्रतीके । भवा नो अग्न इति द्वयोः । एतासां सर्वासामभिष्ट्रयमानार्थप्रतिपादक त्वादभिरूपत्वम् । तच्चात्रैतास्त्रक्षु बुद्धिमता योजनीयम् । त्रयोदशीमारभ्य सप्तदशीपर्यन्ताः पञ्चों विधत्ते

कृणुष्व पाजः प्रसितिं न पृथ्वीमिति

पञ्च राक्षोन्यो रक्षसामपहयै, इति । अष्टादशीमारभ्यैकविंश्यन्ताश्चतस्र ऋचो विधत्ते

परि वा गिर्वणो गिरोऽधि द्वयोरदधा उक्थ्यं

वचः शुक्रं ते अन्यद्यजतं ते अन्यदपश्यं गोपा संसीदस्ख०-ऋ० सं० म० १ सू० ३६ ऋ० ९। अञ्जन्ति यं०-ऋ० सं. म० ५ सू० ४३१०७। पतङ्गमक्तम०-०सं०म० १० सू० १७७ ऋ० १५ नः सनुत्यो०–ऋ०सं० म० ६ सू० ५ ऋ० ४ । भवा नो अ०-० सं० म० ३ . १८ऋ० १। कृणुष्व पाजः०-ऋ० सं० म० ४ सू० ४ ऋ० ११ परित्वा नि०-* सं० म० १ सू० १० ऋ० १२। अधि द्वयोर०-ऋ० सं० म० १ सू० ८३ ऋ०. शुक्रं ते अ०-ऋ० सं० म० ६ ० ५८ ऋ० १। अपश्यं गोपा०-ऋ० म० १, १० सू० १६४, १७७ ऋ० ३१, ३।

यः खण्डः] ऐतरेयब्राह्मणम् ।

मनिपद्यमानमिति चतस्र एकपातिन्यः, इति । कस्य मत्रस्य पातः प्रतीकमेकपातः सोऽयं यास्वक्षु ता एकपातिन्यः । त्वा गिर्वण इति यत्प्रतीकं तत्संहितायां क्रमेणाऽऽम्नातानां चतसृणां प्रती याशङ्कथेत चतस्र इति ब्राह्मणेऽभिधानात्, एवमधि द्वयोः शुक्रं तेऽपश्यं मिति त्रिषु प्रतीकेषु शङ्कोदियात् , तद्यावृत्त्यर्थमेकपातिन्य इत्युच्यते ।

स्या ऋचः प्रतीकान्येतानि मिलित्वा चतस्र इति तात्पर्यार्थः । ख्यान्तरभ्रमव्युदासायोक्तमत्रगतां संख्यां प्रशंसति

ता एकविंशतिर्भवन्ति, इति । को संख्यां प्रशंसति

एकविंशोऽयं पुरुषो दश हस्या अङ्ग लयो दश पाद्या आत्मैकविंशस्तमिम

मात्मानमेकविंशं संस्कुरुते ॥१९॥ इति । अयं पुरुषो मनुष्यदेहो जीवनोपेत एकविंशतिसंख्यानामवयवानां समूह वादेकविंश इत्युच्यते । दश हस्त्या इत्यादिना तदेव स्पष्टी क्रियते । मशब्देन मध्यदेहो जीवात्मा वाऽभिधीयते । संख्यासामान्यात्तैर्मरा नमेव संस्करोति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्यस्य चतुर्थाध्याये द्वितीयः खण्डः ॥२॥ (१९)

अथैकसूक्तगताः काश्विदृचो विधत्ते

स्रक्वे द्रप्सस्य धमतः समस्वरनिति नव पावमा न्यो नव वै प्राणाः प्राणानेवास्मिंस्तद्दधाति, इति । अस्मिन्स्रके द्रप्सस्येति सूक्ते पवमानदेवताका ऋचो नवसंख्याका अतः यासाम्यात्तत्पाठेनास्मिन्प्रवाभिमानिनि पुरुषे नवच्छिद्रवर्तिनः प्राणान पियति ।

स्रक्के द्रप्स०-१० सं० म० ९ सू० ७३ ऋ० १।

१ क. ख. झ. म. च्यन्ते । ए।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [४ चतुर्थाध्य अर्थकामवं विधत्ते

अयं वेनश्चोदयत्पृश्रिगर्भा इति, इति । एतन्मत्रगतस्य वेनशब्दस्य नाभिपरत्वमभिप्रेत्य प्रशंसति

वेनोऽस्माद्दा ऊर्ध्वा अन्ये प्राणा वेनन्यवाञ्चोऽ न्ये तस्मादेनः प्राणो वा अयं सनाभेरिति तस्मा

नाभिस्तनाभेर्नाभित्वं प्राणमेवामिस्तद्दधाति, इति। शरीरमध्येऽवस्थितं नाभि हस्तेनाभिनीय प्रदर्शयनयं वै वेन इत्युच्या तस्य नाभेनत्वं कथमिति चेदुच्यते । अस्मानाभेरूळ अन्ये प्राणाश्चक्षु दयः केचित्पाणविशेषा वेनन्ति चरन्ति । तथा नाभेरवाञ्चोऽपानवायवाद केचिद्वेनन्ति चरन्ति । तस्मादेनन्त्यस्मादवधिभूतानाभेरिति व्युत्पत्या वेग ब्दवाच्यो नाभिः । नाभिशब्दवाच्यत्वं कथमिति चेत्तदुच्यते । अयं ना प्राणाधारत्वेन स्वयं प्राणरूपः सनितरानूर्ववर्तिनोऽधोवर्तिनश्च प्राणानुदि प्रत्येकं नाभेन भैषीरित्येवं वदभिव मर्यादारूपत्वेनावस्थितस्तस्मादयं देहमा वर्ती नाभिर्भवति । नैव भीतिं कुर्वित्यभिप्रेत्य मर्यादात्वेनावस्थानमेव नाभेर भिशब्दप्रवृत्तिनिमित्तम् । तस्मादयं वेन इतिमत्रपाठेन प्राणमेवास्मिन्पर स्थापयति ।

अथैकत्र समानातमृग्यमन्यत्र समानातामेकासचं विधाय सहक सति

पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं वि. ततं दिवस्पदे वियत्पवित्रं धिषणा अतन्वतेति पूतवन्तः प्राणास्त इमेऽवाञ्चो रेतस्यो मूत्र्यः

पुरीष्या इत्येतानेवास्मिस्तहधाति॥२०॥ इति । अत्र वियत्पवित्रमित्येषा शाखान्तरगता सूत्रकारेण पठिता । त्रिष्वप्ये मत्रेषु शुद्धिवाचिनः पवित्रशब्दस्य विद्यमानत्वादेते पूतवन्तः । यज्ञपुरु माणस्थानीयाः पूर्वमुदाहृता मन्त्रविशेषा यज्ञपुरुषस्य नाभेरूद्वभाविप्राणर नीयाः पवित्रं ते विततमित्याधास्त्रयो मत्रा ये सन्ति त इमे नाभेरवाचो

अयं वेन०-ऋ० सं० म० १० सू० १२३ १०१। पवित्रं ते वि० सं० म०९ सू० ८३ ऋ० १ । तपोष्पवित्रं०-१० सं० म०९ सू ८३१०’

वर्षः खण्डः] ऐतरेयबामणम् ।

णस्थानीयास्तेषु रेतसे हित एकः प्राणो मूत्राय हितोऽपरः प्राणस्तयो ोलकद्वारस्यैकत्वेऽपि स्वरूपेणेन्द्रियभेदात्पृथनिर्देशन द्वारान्तरसंचारी य हितस्तृतीयः प्राण इत्युक्तानेतानेव त्रीन्माणान्मत्रत्रयपाठेनास्मिन्म स्थापयति ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय. ब्रामणभाष्यस्य चतुर्थाध्याये तृतीयः खण्डः ॥३॥ (२०)

अथ सूक्तविशेषा विधातव्याः। तत्रैकोनविंशत्यूचं सूक्तं विधत्ते

गणानां त्वा गणपतिं हवामह इति ब्राह्मणस्पत्यं . ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद्भिषज्यति, इति । स्मिन्सूक्ते प्रथमाया ऋचस्तृतीयपादे ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत इति आणत्वादिदं सूक्तं ब्रह्मणस्पतिदेवताकम् । ब्रह्म वा इत्यादिकं पूर्ववधा.

वात्मकं सूक्तान्तरं विधत्ते

प्रथश्च यस्य सप्रथश्च नामेति धर्म

तन्वः सतनुमेवैनं तत्सरूपं करोति, इति । स्मिन्सूक्ते पठिताः प्रथश्चेत्यादयस्तित्र ऋचो धर्मतन्वः प्रवर्यस्य शरीर यास्तन्मत्रपाठनैनं प्रवर्य सतनुं शरीरोपेतं करोति । सतनुमित्यस्यैव यानं सरूपमिति । यद्वा तस्मिन्शरीरे शोभनरूपसहितं प्रवर्यं करोति । स्मिन्सूक्ते प्रथमाद्वितीययोर्कचोर्यों चतुर्थौ पादौ तावनूय प्रशंसति रथंतरमाजभारा वसिष्ठः । भरद्वाजो बृहदाचके

अमेरिति बृहद्रथंतरवन्तमेवैनं तत्करोति, इति । मद्वयवाचिरथंतरशब्दबृहच्छन्दयोरत्र श्रूयमाणत्वात्तत्पाठेन प्रवर्य साम सं करोति । वान्तरं सूक्तात्मकं विधत्ते

अपश्यं वा मनसा चेकितानमिति प्रजा गानां त्वा ग.-ऋ०सं०म० २ सू० २३ ऋ० १ प्रथश्च य०-०सं० म० १० १८१ ० १ । अपश्यं त्वा० ऋ०सं० म० १० सू० १८४ ऋ० १॥

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [४ चतुर्था वान्प्राजापत्यः प्रजामेवास्मिंस्तद्दधाति, इति । एतत्सूक्तगतानां तिसृणामृचां पृथग्विनियोगमावलायन आह त्वेत्येतस्याऽऽद्यया यजमानमीक्षते द्वितीयया पत्नी तृतीययाऽऽत्मान अस्य च सूक्तस्य ऋषिः प्रजावानित्येतनामकः स च प्रजापतेः पुत्रस्तर ठेन प्रजा संपादयति ।

सूक्तान्तरे नवसंख्या ऋचो विधत्ते

का राधद्धोत्राऽऽश्विना वामिति नव विच्छ न्दसस्तदेतद्यज्ञस्यान्तस्त्यं विक्षुद्रमिव वा

अन्तस्त्यमणीय इव च स्थवीय इव च

तस्मादेता विच्छन्दसो भवन्ति, इति । का रापदित्यस्मिन्सूक्ते विद्यमाना ऋचो नवसंख्याकास्ताश्च । च्छन्दसा युक्ताः। तच्च विविधत्वमनुक्रमणिकायामुक्तम्-‘आधा गायत्री ककुप्तृतीयाचतुथ्यौँ काविराग्नष्टरूप्यौ पश्चमी तनुशिरा षष्ठयक्षा शरबृहती कृतिविरातिस्रो गायत्र्यः’ इति । यद्यप्येतद्वादश सूक्तं । नवैव!ऽत्रापेक्षिता इति नवेत्युक्तम् । तदेतत्सूक्तं प्रवर्याख्यस्य यज्ञस्या मुदरगतावयवस्वरूपम् । लोकेऽप्यन्तस्त्यं शरीरमध्यस्थावयवजातम् । द्रमिव वै विविधत्वेन तारतम्येन स्वल्पमेव भवति । तद्यथा । किंचिन ड्यादिकमणीय इव च, अत्यन्तं सूक्ष्ममेव भवति । अन्यच्च मांसनाड स्थवीय इव च, अत्यन्तं स्थूलमेव भवति । यस्मादुदरगतमवयवजा तस्मात्तत्स्थानीया एता ऋचो विच्छन्दसो भवन्ति । उत्तमलोकमाप्तिहेतुत्वेन ता ऋचः प्रशंसति

एताभिहाँश्विनोः कक्षीवान्प्रियं धामो

पागच्छत्स परमं लोकमजयत्, इति । कक्षीवानित्येतनामकः कश्चिदृषिः। स च का राधदित्येताभिर्क कृत्वाऽश्विनोर्यत्मियं धाम स्थानं तत्मामोत् । ततस्ताभ्यामनुगृहीतस्ततो लोकं जितवान् ।

एतद्वेदनं प्रशंसति

का राधद्धोत्रा०-ऋ० सं० म० १ सू० १२० ऋ० १ ।

। चतुर्थः खण्डः] ऐतरेयबामणम् ।

उपाश्विनोः प्रियं धाम गच्छति

जयति परमं लोकं य एवं वेद, इति । पञ्चर्च सूक्तान्तरं विधत्ते ___ आभात्यग्निरुषसामनीकमिति सूक्तम्, इति । अभिष्टवार्थ पठेदिति सर्वत्र द्रष्टव्यम् । प्रथमाया ऋचश्चतुर्थपादं पठित्वा तन्मुखेन सूक्तं प्रशंसति

पीपिवांसमश्विना धर्ममच्छेत्यभिरूपं

यद्यज्ञेऽभिरूपं तत्समृद्धम्, इति । हेऽश्विनौ पीपिवांसमभिप्रवृद्ध धर्ममच्छ प्रवर्यमभिलक्ष्येत्येवमस्मिन्पादेऽ. गम्यते । एतत्सूक्तं प्रवर्यस्यानुरूपम् ।

सूक्तगतं छन्दः प्रशंसति तदु त्रैष्टुभं वीर्य वै त्रिष्टुब्बीर्यमेवास्मिस्तहधाति, इति । तदु तच्च सूक्तम् । अष्टर्च सूक्तान्तरं विधत्ते

ग्रावाणेव तदिदर्थ जरेथे इति सूक्तमक्षी इव कर्णाविव नासेवेत्यङ्गसमाख्याऽय

मेवास्मिंस्तदिन्द्रियाणि दधाति , इति । तस्य सूक्तस्य पञ्चम्यामूचि द्वितीयपाद एवमानातः-‘अक्षी इव चक्षुषा तमर्वाक्’ इति । षष्ठयामृच्युत्तरार्धमेवमानातम्-‘नासेव नस्तन्वो रक्षितारा गोविव सुश्रता भूतमस्मे [म० २ सू० ३९ ऋ०६] इति । एवं च सत्य समाख्याऽयमेवाक्षिकर्णनासादिरूपाण्यङ्गानि पुनः पुनः कथयन्नेव तस्मिन्धर्म न्द्रियाणि स्थापयति । . सूक्तगतं छन्द प्रशंसति तदु त्रैष्टुभं वीर्य वै त्रिष्टुब्बीर्यमेवामिस्तद्दधाति, इति । पञ्चविंशत्यूचं सूक्तान्तरं विधत्ते

ईळे द्यावापृथिवी पूर्वचित्तय इति सूक्तम्, इति । आमात्यग्नि-ऋ० सं० म० ५.१० ७६ ऋ०१ । ग्रावाणेव त०-ऋ०सं० ० २ सू० ३९ ऋ० १। ईळे द्यावापृ० ऋ० सं० म० १ सू० ११२ ऋ० १॥

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[४ चतुर्थाः प्रथमाया ऋचो द्वितीयपादमुदाहृत्य तद्वारा सूक्तं प्रशंसति

अमिं धर्म सुरुचं यामनिष्टय इत्यभि

रूपं यद्यज्ञेऽभिरूपं तत्समृद्धम् , इति । अग्निमित्यादिके द्वितीयपादे सुरुचं धर्ममिति शोभनदीप्तियुक्तः प्र पठितस्तस्मादिदं सूक्तमनुरूपम् । तत्सूक्तगतं छन्दः प्रशंसति

तदु जागतं जागता वै पशवः

पशूनेवास्मिंस्तद्दधाति, इति । पुरा कदाचित्सोममाहर्तुं धुलोके गता जगती तमाहर्तुमशक्ता सती न्दीक्षां चाऽऽहतवती तस्मात्पशवो जागताः । एतच कद्रूश्चेत्यनुवाके तैत्ति समानातम्-‘सा पशुभिश्च दीक्षया चाऽऽगच्छत्तस्माज्जगती छन्दसां पः तमा’ इति । अतस्तदीयपाठेन पशून्संपादयति ।

मूक्तगतास्वृक्षु सर्वासु विद्यमानमर्थमुपजीव्य सूक्तं प्रशंसति

याभिरममावतं याभिरमुमावतमित्येतावतो हात्राश्विनौ कामान्ददृशतुस्तानेवास्मिंस्त

दधाति तैरवैनं तत्समर्धयति, इति । अस्य सूक्तस्य प्रथमायामूचि द्वितीयामेवमानातम्-‘याभिर्भरे व शाय जिन्वथस्ताभिरू षु अतिभिरश्विनाऽऽगतम्’ इति । तस्यायमर्थः । श्विनौ युवामंशाय तन्नाम्नः पुरुषस्योपकाराय भरे युद्ध कारं विजयं याभिरूतिभिः पालनैरंशनामकं तं पुरुषं जिन्वयः पीणयथस्ताभिरू षु ता भिरेवोतिभिः पालनैरागतमिह कर्मणि समागच्छतमिति । द्वितीयस्यामृचि । यार्धमेवमानातम्-‘याभिधियोऽवथः कर्मनिष्टये ताभिरूषु ऊतिभिरश्विन गतम्’ इति । तस्यायमर्थः । हेऽश्विनाविष्टयेऽभीष्टसिद्ध्यर्थ कर्मण्यनुष्ठीर लौकिके वैदिके वा सर्वस्मिन्कर्मणि याभिरूतिभिधियः प्राणिनां बुद्धी रक्षथस्ताभिरेवोतिभिरागच्छतमिति । एवं सर्वास्वप्यश्वर्थोऽनुसंधेयः। सर्व सामान्यवाचिना सर्वनामशब्देन परामृश्य श्रुतिभिरित्येकेन वा संगृह्णाति याभिरूतिभिरमुमीदृशमावतं युवां रक्षितवन्ताविति । सर्वेषामृग संग्राहिका वीप्सामभिप्रेत्य याभिरमुमावतमिति द्विः पठ्यते । तास्वा या। चतुर्थः खण्डः] ऐतरेयब्राह्मणम् ।

९१ माः श्रूयन्ते तावन्तः कामा इह कर्मण्यश्विनौ ददृशतुः कटाक्षेणानुगृहीत

तसक्तपाठेन तानेव सर्वान्कामानस्मिन्प्रवर्ये यजमाने का संपादयति |च कामाः समृद्धाः संपद्यन्ते । अन्यां कांचिडचं विधत्ते

अरूरुचदुषसः पृश्निरग्रिय इति रुचित

वती रुचमेवास्मिंस्तद्दधाति , इति । अस्यामृच्यरूरुचदिति श्रुतत्वाद्रुचितमभीष्टं कान्तिर्वाऽस्यामस्तीत्यसौ रूचि बती सा पठनीया। तस्याः पूर्वोक्तसूक्ते स्थानविशेष आश्वलायनेन दर्शितः प्रागृत्तमाया अरूरुचदुषसः पृश्निरग्रिय इत्यावपेतोत्तरेणार्धर्चेन पत्नीमीक्षेत’

ति । तन्मत्रपाठेन यजमाने कान्ति संपादयति ।

सूक्तस्यान्तिमय ऽभिष्ट पूर्वभागस्य समापनं विधत्ते

द्युभिरक्तुभिः परिपातमस्मानि

त्युत्तमया परिदधाति , इति । तस्या ऋचोऽवशिष्टं पादत्रयमनूध कृत्स्नं मत्रतात्पर्य दर्शयति

अरिष्टेभिरश्विना सौभगेभिः । तत्रो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत

द्यौरित्यतैरेवैनं तत्कामैः समर्धयति , इति । तस्या ऋचोऽयमर्थः । हेऽश्विनौ युभिर्दीप्तिभिर्युलोकोचितभोगैर्वाऽक्त भरञ्जनसाधनद्रव्यैराज्यतैलादिभिररिष्टेभिर्हिसापरिहारैः सौभगेभिः सर्वभो संपत्तिलक्षणैः सौभाग्यैश्चास्मान्पातं रक्षतम् । तत्तथा सत्यनन्तरं नोऽस्मा. मत्रावरुणादितिसमुद्रपृथिवीधुदेवताः सर्वा अपि मामहन्तामतिशयेन पूजय त्वति । तन्मत्रपाठेनैनं यजमानमेतैरेवे कामैर्युभिरक्तुभिरित्यादिशब्दोक्तैः

लैः समृद्धं करोति। अभिष्टवस्य पूर्वभागमुपसंहरति

इति नु पूर्व पटलम् ॥ २१ ॥ इति । ब्रह्मजज्ञानमित्यारभ्य पृथिवी उत द्यौरित्यन्तेनोक्तप्रकारेणाभिष्टवस्य पूर्को गोवर्णितः। अत्र भागद्वयकल्पनमेकैकस्मिन्भागे प्रथमोत्तमयोचोरावृत्त्यर्थम् । जलरुच०-३० सं० म० ९ सू० ८३ ० ३ । धुभिरक्तु०-१० सं० ° १ सू० ११३ ऋ० २५ ।

९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्–[४ चतुर्था

अत एवोक्तम्

“आद्यान्त्यात्रित्वसिद्ध्यर्थ पटलद्वितयं कृतम् ।

अन्यथाऽभिष्टवस्यैक्यात्रित्वं तत्रैव वै भवेत्” इति ।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ ४॥ (२१)

पटलान्तरं प्रतिजानीते

अथोत्तरम् , इति । पटलमुच्यत इति शेषः । पटलशब्दः समूहवाची। समूहः पटलं न भिधानकारैरुक्तत्वात् । उत्तरभागस्थो मत्रसमूहः कथ्यत इत्यर्थः।

तत्रैकविंशतिसंख्याका ऋचस्तत्तत्पतीकग्रहणेन विधत्ते

उपह्वये सुदुषां धेनुमेतां हिं कृण्वती वसुपत्नी वसूनामभि त्वा देव सवितः समीवत्सं न मातृ भिः संवत्स इव मातृभिर्यस्ते स्तनः शशयो यो मयोभूर्गौरमीमेदनुवत्सं मिषन्तं नमसेदुप सीदत संजानाना उपसीदन्नभिवादशभिर्विव खतो दुहन्ति सप्तैकां समिद्धो अग्निरश्विना समिद्धो अनिषणा रतिर्दिवस्तदु प्रयक्षतम

उपह्वये सु०-ऋ० सं० म० १ ० १६४ ऋ० २६ । हिं कृण्वती ऋ० सं० म० १ सू० १६४ ऋ० २७ । अभि त्वा दे०-३० सं० म० २४ ऋ० ३ । समीवत्सं०-ऋ० सं० म० ९ सू० १०४ ऋ० २ । इव०-ऋ० सं० म० ९ सू० १०५ ऋ० २ । यस्ते स्तनः०-ऋ० संर १ सू० १६४ ऋ० ४९ । गौरमी मेद०-ऋ० सं० म० १ सू० १६४ २८ । नमसेदु०-ऋ० सं० म० ९ सू० ११ ऋ० ६ । संजानाना० सं० म० १ सू० ७२ ऋ० ५। आदशभिः०-ऋ० सं० म० ८ सू० ७

। दुहन्ति स०-ऋ० सं० म० ८ सू० ७२ ऋ० ७ । तदु प्रय०-ऋ म० १ सू० ६२ ऋ० ६ । आत्मन्व०-ऋ० सं० म० ९ सू० ७४ ऋ

पञ्चमः खण्डः] ऐतरेयब्राह्मणम् ।

मस्य कर्माऽऽत्मन्वनभो दुद्यते वृतं पय उत्तिष्ठ ब्रह्मणस्पतेऽधुक्षत्पिप्युषीमिषमुपद्रव पयसा गोधुगोषमा सुते सिञ्चत श्रियमानूनमश्वि नोक्रषिः समुत्ये महतीरप इयेकविंशतिर भिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् , इति । विहितास्नु, उपह्वय इति प्रथमा । हिं कृण्वतीति द्वितीया । अभि त्वेति तीया । समीवत्समिति चतुर्थी । संवत्स इवेति पञ्चमी । यस्ते स्तन इति थी। गौरमीमेदिति सप्तमी । नमसेदित्यष्टमी । संजानाना इति नवमी ।

दशभिरिति दशमी । दुहन्ति सप्तैकामित्येकादशी । समिद्धो अग्निरश्चिनेति दिशी । समिद्धो अग्निषणा रतिर्दिव इति त्रयोदशी । एतदुभयं शाखान्तर तमाश्वलायनेन पठितम् । तदु प्रयक्षतमिति चतुर्दशी । आत्मन्वन्निति पञ्च शी । उत्तिष्ठेति षोडशी । तस्या विनियोगमावलायन आह-उत्तिष्ठ ब्रह्म स्पत इत्येतामुक्त्वाऽवतिष्ठत इति । अधुक्षदिति सप्तदशी । तद्विनियोगमाह पायामधुक्षदिति । उपद्रवेत्यष्टादशी । तद्विनियोगं चाऽऽह-आहियमाण पद्रवेति । सेयं शाखान्तरगतत्वादाश्वलायनेन पठिता । आसुत इत्येकोन.

शी। आनूनमिति विंशी। अनयोर्व्यत्ययेन प्रयोगमाह-आसिच्यमान आनू मश्विनोक्रषिरिति गव्य आ सुते सिञ्चत श्रियमित्याज इति । समुत्य इत्येक शी । तद्विनियोगं चाऽऽह-आसिक्तयोः समुत्य इति सेयमृचामेकविंशति मदुहो धेनोर्दोहनस्यानुरूपा । तास्वृक्षु दोहनोचितानां दृश्यमानत्वात् ।

अथ षण्णामृचा प्रतीकानि क्रमेणाऽऽदाय तद्विनियोगं दर्शयति

उदुष्य देवः सविता हिरण्ययेत्यत्तिष्ठति प्रेतु ब्रह्मणस्पतिरित्यनुप्रैति गन्धर्व इत्या पदमस्य

उत्तिष्ठ ब्र०-ऋ० सं० म० १ स० ४० ऋ० ११ अधुक्षत्पि०-ऋ० सं०म० सू० ७२ ऋ० १६ । आसुते सि०-ऋ० सं० म० ८ सू० ७२ ऋ० १३ । “नम०-३० सं० म० ८ स० ९ ऋ० ७ । समुत्ये महती०-ऋ० सं०म० सू० ७ ऋ० २२ । उदुष्य देवः०-ऋ० सं० म० ७ सू० ३८ ० १ ।

अक्षण-ऋ० सं० म० १ ० ४० ऋ० ३ गन्धर्व इ० ऋ० सं० म०

• सू० ८३ ऋ०४।

.

९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [४ चतुर्थी

रक्षतीति खरमवेक्षते नाके सुपर्णमुपयत्पतन्त मित्युपविशति तप्तो वां धर्मो न क्षतिः स्वहो

तोमा पिबतमश्विनेति पूर्वाहणे यजति, इति । महावीरमादायोत्तिष्ठत्स्वन्येषु होतोदुष्य देव इत्यनेन मन्त्रेण ताना तेषु गच्छत्सु मन्त्रेणानुगच्छेत् । खरः प्रवृञ्जनस्थानम् । तप्तो वामित्येषा न्तरगतत्वात्सूत्रकारेण पठिता। उभा पिबतमिति स्वशाखागता ·ता भाभ्यां पूर्वाह्ने यजति । तदुभयं याज्यारूपेण पाठेन पठेत् । प्रवर्यस्य द्वयेऽप्यनुष्ठेयत्वात्पूर्वाह्न इति विशेष्यते । विनियोगसहितं मत्रान्तरं विधत्ते

अमे वीहीत्यनुवषट्करोति स्विष्टकृद्धाजनम्, इति । पूर्वोक्तयोर्याज्ययोः पाठान्ते वौषडिति यदुच्चारणं सोऽयं प्रथमो वषट् तत अर्ध्वमग्ने वीहीत्युच्चार्य वौषडिति यत्पठनं सोऽयमनुवषट्कारः। ए होता पठेत् । हेऽने वीहि खाद भक्षयेत्यर्थः । धर्मस्य यजेत्यध्वर्युणा होता पूर्वोक्तं याज्यावयं सवषट्कारं यदा पठति तदानीमध्वर्युरश्विन पातमिति मत्रेण जुहोति । पुनरप्यग्ने वीहीति होत्रा पठिते सत्यध्वर्युः न्द्रावंडिति जुहोति । तदेतत्सर्वमापस्तम्ब आह-‘आश्राव्य प्रत्याश्रावित ष्यति धर्मस्य यजेत्यश्विना धर्म पातमिति वषट्कृते जुहोति । स्वाहेन्द्र त्यनुवषद्कृते’ इति । यदेतदनुवषट्कारे यजनं तदेतत्स्विष्टकृद्भाजनं ि

स्थानीयमित्यर्थः।

यथा पूर्वाह्ने याज्यापाठस्तथाऽपराह्नकालानुष्ठानेऽपि विधत्ते

यदुनियावाहुतं घृतं पयोऽस्य पिब तमश्विनेत्यपराह्ने यजत्यग्ने वीहीत्य

नुवषट्करोति स्विष्टकृद्भाजनम्, इति । यदुनियास्वाहुतमित्येषा शाखान्तरगतत्वादाश्वलायनेन पठिता । पिबतमिति स्वशाखागता । अन्यत्सर्वं पूर्ववत् ।

नाके सुप०-ऋ० सं० म० १० स० १२३ ऋ०६ । उभा पिब० सं० म० १ सू० ४७ ऋ० १५ । अस्य पिबत०-० सं० म०८ १० १४ ।

चमः खण्डः] ऐतरेयब्राह्मणम् ।

९६ अत्र मुख्यस्विष्टकृद्रहितत्वात्तल्लोपमाशङ्कय परिहरति

त्रयाणां ह वै हविषां स्विष्टकृतेन समवद्यन्ति सोमस्य धर्मस्य वाजिनस्येति स यदनुव

षट्करोत्यमेरेव विष्टकृतोऽनन्तरित्यै , इति । सोमो वल्लीरसः । धर्मः प्रवर्यहविः । वाजिनमामिक्षानुनिष्पादि नीरम् । तेषां स्विष्टकुदर्थमवदानं न कुर्युः । न चैतावता तल्लोपः । स होताऽनुवषट् तीति यदस्ति तदेतत्स्विष्टकृन्नामकस्यामेरनन्तरित्यै । अन्तरायो लोपस्त वृत्त्यर्थं भवति ।

अथ ब्रह्मणः शाखान्तरप्रसिद्धेन मन्त्रेण जपं विधत्ते

विश्वा आशा दक्षिणसादिति ब्रह्मा जपति, इति । इयमृगाश्वलायनेन पठिता। प्रासङ्गिकं ब्रह्मजपं विधाय होमादू होत्रा पठनीया ऋचः सप्त विधत्ते

स्वाहाकृतः शुचिर्देवेषु धर्मः समुद्रार्मिमु दियति वेनो द्रप्सः समुद्रमभि. यजिगाति । सखे सखायमभ्याववृत्स्वोर्ध्व ऊ षु ण ऊतय ऊर्यो नः पाद्यंहसस्तं घेमित्था नमविन

इत्यभिरूपा यद्यज्ञेभिरूपं तत्समृद्धम् , इति । स्वाहाकृत इत्येषा प्रथमा । सा च शाखान्तरगतत्वादाश्वलायनेन पठिता। मुद्रार्मिमिति द्वितीया । द्रप्सः समुद्रमिति तृतीया । सखे सखायमिति तुर्थी । ऊर्ध्व ऊ षु ण इति पञ्चमी। ऊों नः पाहीति षष्ठी। तं घेमि

ति सप्तमी । धर्मप्रकाशकत्वादेता अभिरूपाः । होतुरेकयर्चा प्रवर्यहविशेषभक्षणप्रतीक्षां विधत्ते समुद्रादूमि०-० सं० म० १० सू० १२३ ऋ० २। द्रप्सः समुद्रः– ० सं० म० १० सू० १२३ ऋ० ८ । सखे सखा०-१० सं० म० ४ मू० ऋ० ३ । ऊर्ध्व ऊ षु०-०म० १ ० ३६ ऋ० १३ । ऊों नः

-० सं० म० १ सू० ३६ ऋ० १४ । तं घेमित्था०-० सं० म० १

• ३६ ऋ० ७।

. .

. .

१ क, अथ।

.

..——

९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ४ चतुर्थ पावकशोचे तव हि क्षयं परीति भक्षमाकाङ्क्षते, इति समवकं भक्षणं विधत्ते

हुतं हविर्मधु हविरिन्द्रतमेऽनावश्याम ते देव धर्म। मधुमतः पितुमतो वाजवतोऽगिरवतो नमस्ते

अस्तु मा मा हिंसीरिति धर्मस्य भक्षयति, इति । अतिशयेनायमैश्चर्यवानिन्द्रतमस्तादृशेऽनौ प्रवर्याख्यं हविर्हतं त माधुर्योपेतं हे धर्म प्रवर्दी देवरूप देव ते त्वदीयं हविःशेषमश्याम : कीहशस्य ते मधुमतो माधुर्योपेतस्य पितुमतोऽनवतोऽन्नसाधनस्य । गतिमतः स्वर्गप्राप्तिसाधनस्य । अङ्गिरस्वतः, अङ्गिरोभिर्महर्षिभिरनुष्ट भक्षितत्वेन तद्युक्तस्य । ईदृशाय ते तुभ्यं नमोऽस्तु । मां भक्षयन्तं मा रित्यनेन मत्रेण धर्मस्य शेषं भक्षयेत् । अयं मत्रोऽन्येषामपि भक्षयितणां रणोऽत एव तैत्तिरीयैरप्यानातः । अथ होतुर्मत्रद्वयं विधत्ते

श्येनो न योनि सदनं धिया कृतमा यस्मि

न्सप्त वासवा इति संसाद्यमानायान्वाह, इति । श्येनो न योनिमिति पूर्वा । आ यस्मिन्सप्लेत्यपरा। सेयं शाखा त्वादाश्वलायनेन पठिता । यदा प्रवर्दीपात्राणि संसाधन्ते तदा होता मिदमनुब्रूयात् ।

बहुषु दिनेषु पूर्वाह्नापराह्नयोः प्रवाख्यं कर्मानुष्ठीयते तत्रोत्तमदि हकालीने प्रवाख्ये कांचिदृचमधिकां विधत्ते

हविर्हविष्मो महि सम दैव्यमिति

यदहरुत्सादयिष्यन्तो भवन्ति, इति । यदहर्यस्मिन्बहन्युत्सादयिष्यन्तः प्रवर्यमुद्रासयितुमुद्युक्ता भवन्ति हनि इविहविष्म इत्येतामृचमधिकामुपोत्तमरूपामावपेत ।

अथ कयाचिहचाऽभिष्टवस्य समाप्ति विधत्ते

ma

पावकशो०-ऋ० सं० म० ३ सू० २ १०६ । श्येनो न यो० म० ९ सू० ७१ १०६ । हविर्हवि०-३० सं० म० ९ सू० ८३

पञ्चमः खण्डः] ऐतरेयबामणम् ।

सूयवसाद्भगवती हि भूया इत्युत्तमया परिदधाति, इति ।

नियात्माचीनेषु प्रवर्येषु पूर्वोक्तामधिकामप्रक्षिप्यैवानया परिदध्यात । तिमेत तां प्रक्षिप्य पश्चादनया परिदध्यात् । तदाहाऽऽश्वलायन:-‘सूय गाडगवती हि भूया इति परिदध्यादुत्तमे प्रागुत्तमाया हविर्हविष्मो महि म दैव्यमित्यावपेत’ इति ।

अथ पूर्वोक्तस्य प्रवर्यकर्मणः प्रशंसाथ मिथुनव्यापाराकारेण रूपकं यति

तदेतद्देवमिथुनं यद्धर्मः स यो धर्मस्तच्छिश्नं यौ शफौ तौ शफी योपयमनी ते श्रोणि कपाले यत्पयस्ततस्तदिदमनौ देवयोन्यां प्रजनने रेतः सिच्यतेऽग्नि देवयोनिः सोऽ

मेर्दैवयोन्या आहुतिभ्यः संभवति, इति । यद्धर्मः प्रवाख्यं यत्कर्मास्ति तदेतद्देवमिथुनं देवसंबन्धिमिथुनव्यापारः । कथमिति चेदुच्यते । स यो धर्मः प्रवर्यहविराश्रयभूतो महावीराख्यो मृन्मय विशेषो योऽसावस्ति तच्छिन्नं प्रजननेन्द्रियरूपम् । ततस्य महावीरस्य ताभ्यां ग्रहीतुमशक्यत्वात्तद्रहणसमर्थोदुम्बरकाष्ठनिर्मिती शफौ शफनामानौ येते ती प्रजननेन्द्रियस्य पार्श्ववर्तिनी शफाविव संदृश्येते(?) चोदुम्बरकाष्ठाभ्यां फनामकाभ्यां महावीरस्य मध्यमभागे धृतत्वात् । तस्याधस्तादाधारार्थमुदु रिकाष्ठनिर्मितोपयमनीशब्दवाच्या दर्वी या विद्यते सेयं शरीरसंबन्धिनी ते णिकपाले श्रोणिद्वयमध्यगतमस्थिद्वयम् । उपयमन्या एकत्वेऽप्यधस्तान्महा. रस्य कदाचिदक्षिणभागे कदाचिद्वामभागे तद्धारणात्कपालद्वयरूपत्वम् ।

वीरगते तस आज्ये प्रक्षेप्तव्यं यत्पयस्तद्रेतास्वरूपम् । तदिदं रेतोरूपमा मिश्र पयोऽनौ देवयोनिरूपे प्रजनन उत्पत्तिस्थाने रेतः सिच्यते रेतोरूपेण क्षेप्यते । अग्नेर्देवयोनित्वमसिद्ध्यर्थो वैशब्दः। अनेः कर्मण्यनुष्ठाय(?) देवरूपेण यमानत्वात्सा प्रसिद्धिष्टव्या । सैव प्रसिद्धिः सोऽमेरित्यादिना स्पष्टी ज्यते । स यजमानो देवयोनिरूपादग्नेरनुष्ठिताभ्य आहुतिभ्यश्च देवतारूप: भवत्युत्पद्यते ।

उक्तार्थवेदनं तद्वदनपूर्वकमनुष्ठानं च प्रशंसति

सूयवसा०-१० सं० म० १ सू० १६४ ० ४० ।

९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५ चतुर्थ

ऋङ्मयो यजुर्मयः साममयो वेदमयो ब्रह्ममयोऽ मृतमयः संभूय देवता अप्येति य एवं वेद

यश्चैवं विद्वानेतेन यज्ञक्रतुना यजते ॥२२॥ इति । वेदशब्देनाथर्ववेदः सर्ववेदसमष्टियुक्तिर्वोच्यते । ब्रह्मशब्देन हिरण्य अमृतशब्देन परमात्मा । ता एकैकदेवताः सर्वाः संभूयैकीकृत्य सर्मा प्यति पानोति । वेदनमात्रेण शनैस्तत्माप्तिर्वेदनपूर्वकानुष्ठानेन तु । विशेषो द्रष्टव्यः।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय. ब्राह्मणभाष्ये चतुर्थाध्यायस्य पञ्चमः खण्डः ॥५॥ (२२)

प्रवर्याख्यं कर्म परिसमाप्योपसदाख्यं कर्म वक्तुमाख्यायिकामाह

देवासुरा वा एषु लोकेषु समयतन्त ते वा असुरा इमानेव लोकान्पुरोऽकुर्वत यथौजी यांसो बलीयांस एवं ते वा अयस्मयीमेवेमा मकुर्वत रजतामन्तरिक्षं हरिणीं दिवं ते तथे माल्लोकान्पुरोऽकुर्वत ते देवा अब्रुवन्पुरो वा इमेऽसुरा इमाल्लोकानकत पुर इमाल्लो कान्प्रतिकरखामहा इति तथेति ते सद ए वास्याः प्रत्यकुर्वताऽऽग्नीध्रमन्तरिक्षादविर्धाने

दिवस्ते तथेमालोकान्पुरः प्रत्यकुर्वत, इति । देवाश्चासुराश्च लोकत्रयविषये समयतन्त परस्परं युद्धं कृतवन्तः । त मसुरा इमानेव भूरादीस्त्रील्लोकान्पुरोऽकुर्वत प्राकारपरिवेष्टितानि न कृतवन्तः । यथा लोके महान्तो राजानोऽभ्यधिकेनौजसा शरीरशक्त्या अभ्यधिकेन सैन्यरूपेण बलेन च संपन्नाः प्रौढानि दुर्गाणि कुर्वन्ति, कृतवन्तः । तत्रेमां भूमिमयस्मयीं लोहमाकारयुक्तामकुर्वत । अन्तरिक्ष र रजतप्राकारवेष्टितां पुरीमकुर्वत । धुलोकं हरिणीं हिरण्मयी सुवर्णपाकार पुरीमकुर्वत । तथेत्युक्तनगरनिर्माणकृतस्योपसंहारः। तमिममर्थ सर्व तैत्ति

९९

षष्ठः खण्डः] ऐतरेपबामणम् ।

याऽऽमनन्ति-‘तेषामसुराणां तिस्रःपुर आसत्रयस्मय्यवमाऽथ रजताऽथ जी’ इति । ततस्ते देवा विचारयन्तः परस्परमिदमब्रुवन् । असुरा इमे भूरा निमाल्लोकान्पुरो वै स्वकीयनगराण्येव कृतवन्तः। अतो वयमपीमान्भूरादील्लो परोऽस्मदीयनगराणि प्रतिकरवामहै, असुराणां प्रतिकूलानि संपादयाम ये विचार परस्परमणीकृत्य त्रिषु लोकेष्वसुराः कचिद्देशविशेषे यथा स्वकी नि नगराणि कृतवन्तस्तथा देवा अस्याः पृथिव्याः सकाशात्सद एव प्रत्य त। सौमिकवेद्यां प्राचीनवंशात्पूर्वभाविसदोनामकमण्डपमेवासुरमतिकूलम वैत । अन्तरिक्षलोकादानीध्रनामकं धिष्ण्यमकुर्वत । धुलोकाद्धविर्धाननामके शकटे अकुर्वत । ते तथेत्यादिरुक्तार्थोपसंहारः । असुरनिर्मितपुरत्रयप्रतिकूल दआनीध्रहविर्धानरूपत्रयं कृतवन्तः । असुरैर्लोकत्रये प्रौढासु तिसृषु दुर्गरू मु पुरीषु निर्मितासु देवाश्च स्वरक्षार्थ सदःप्रभृतीनि त्रीणि दुर्गाणि कृत्वा जयं पाता। तं विजयप्रकारं दर्शयति

ते देवा अब्रुवन्नुपसद उपायामोपसदा वै महापुरं जयन्तीति तथेति ते यामेव प्रथ मामुपसदमुपायंस्तयैवैनानस्माल्लोकादनुदन्त यां द्वितीयां तयाऽन्तरिक्षायां तृतीयां तया

दिवस्तांस्तथेभ्यो लोकेभ्योऽनुदन्त, इति । विजयार्थिनस्ते देवाः परस्परमिदमब्रुवन् । उपसदाख्यान्होपानुपायामानु. ष्ठाम । लोकेषूपसदा वै परकीयदुर्गसमीपावस्थानेन दुर्गावरोधरूपेणैव मह । सेनया दुर्गवेष्टनेन सर्वे राजानो महती दुर्गरूपां पुरं जयन्ति । अतो वयम पसदनहेतुभूतान्होमान्करवामेति विचार्य तित्र उपसदो हुत्वा लोकत्रयनि ताभ्यो दुर्गरूपाभ्यः पुरीभ्योऽसुरानिःसारितवन्तः। तत्र या ते अग्ने याशया तरित्यनेन मत्रेण साध्योपसत्पथमदिनेऽनुष्ठितत्वात्पथमा । या ते अगेरजा या तनूरित्यनेन मत्रेण साध्या द्वितीयदिनेऽनुष्यत्वाद्वितीया। या ते अग्ने राशयेति मत्रेण साध्या ततीयदिनेऽनष्यत्वात्ततीया । युद्धेन ताः पुरीजेतु. शक्का देवा उपसद्धोमैजितवन्तः। तथा च शाखान्तरे श्रूयते-‘ते देवा जेतुं शिक्नुव पसदैवाजिगीषन्’ इति।लोकत्रयाभिसारिताश्चासुरा यदा वसन्ता उदवाशरणं मातास्तदा तदानीमेककस्मिन्दिने द्विदिरनुष्ठेयाभिःषमिस्ता सुरान्वसन्तातुदेवताभ्यो निम्सारितवन्तः।

१०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [४ चतुर

तमिममर्थ दर्शयति

ते वा एभ्यो लोकेभ्यो नुत्ता असुरा ऋतू नश्रयन्त ते देवा अब्रुवन्नुपसद एवोपाया मेति तथेति त इमास्तिस्रः सतीरुपसदो दिईिरेकैकामुपायंस्ताः षट्समपद्यन्त षड्वा

ऋतवस्तान्वा ऋतुभ्योऽनुदन्त , इति । ततो मासाशरणं प्राप्यावस्थितानामसुराणां पदिनेष्वनुष्ठिताभिर भिादशोपसद्भिनि:सरणं कृतं तदिदं दर्शयति

ते वा ऋतुभ्यो नुत्ता असुरा मासानश्र यन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमाः षट्सतीरुपसदो दिदिरेकै कामुपायंस्ता द्वादश समपद्यन्त दादश

वै मासास्तान्वै मासेभ्योऽनुदन्त , इति । मनत्रयेण दिनत्रयेऽनुष्ठेयास्तिस्रः पुनरप्यावृत्त्याऽन्यस्मिन्दिनत्रयेऽनु षड्भवन्ति । एकैकस्मिन्दिने द्विरनुष्ठिता द्वादश संपद्यन्ते । । ।

अनेनैव न्यायेन द्वादशसु दिनेष्वनुष्ठिताभिश्चतुर्विशतिभिरुपसद्भिरर्थ वताभ्यो निःसारितवन्त इत्येतद्दर्शयति

ते वै मासेभ्यो नुत्ता असुरा अर्धमासानश्रयन्त ते देवा अब्रुवन्नुपसद एवोपायामेति तथेति त इमा द्वादश सतीरुपसदो दिदिरेकैकामुपा यंस्ताश्चतुर्विशतिः समपद्यन्त चतुर्विंशतिर्वा

अर्धमासास्तान्वा अर्धमासेभ्योऽनुदन्त, इति । ततोऽहोरात्रदेवो शरणं गतानामसुराणां कालविशेषद्वयानुष्ठानेन निः दर्शयति

ते वा अर्धमासेभ्यो नुत्ता असुरा अहोरात्रे अश्रयन्त ते देवा अब्रुवन्नुपसदावेवोपायामेति

+घष्ठः खण्डः] ऐतरेयब्राह्मणम् ।

तथेति ते यामेव पूर्वाह्न उपसदमुपायंस्तयै वैनानहोऽनुदन्त यामपराह्ने तया रात्रेस्तां

स्तथोभाभ्यामहोरात्राभ्यामन्तरायन , इति । अन्तरायनन्तरितान्कृतवन्तो निःसारितवन्त इत्यर्थः। एकैकस्मिन्दिन एकैकस्या उपसदो द्विरनुष्ठानाय कालद्वयविशेषं विधत्ते

तस्मात्सुपूर्वाह्न एव पूर्वयोपसदा प्रचरि तव्यं स्वपराह्नेऽपरया तावन्तमेव तद्दि

षते लोकं परिशिनष्टि ॥ २३ ॥ इति । यस्मात्पूर्वाह्नापराह्नौ कालविशेषावहोरात्राभ्यां शत्रूणां निःसारणे हेतू मात्तस्मिन्नेव कालद्वयेऽनुष्ठातव्यम् । एवं सति यावानहोरात्रयोः संधिकाल वन्तमेव द्विषते द्वेषिणे लोकं स्थानविशेष परिशिनष्टि। इतरस्मारकालानि: रितत्वेन संध्याकाल एवासुराणां परिशिष्यते । अत्रैकैकस्मिन्दिने द्विद्विरनु । उपसदो ज्योतिष्टोमे त्रिषु दिनेष्वनुष्ठेयाः । अग्निचयने षट्सु दिनेषु । हीनसत्रयोदशदिनेषु । तथाच तैत्तिरीयैरानातम्-‘तिस्र एव साहस्योप हो द्वादशाहीनस्य यज्ञस्य सवीर्याय त्वा’ इति । तथा ‘षडुपसदोऽग्नेश्चित्यस्य न्ति’ इति श्रुत्यन्तरं द्रष्टव्यम् । आश्वलायनस्त्वेवमाह-‘एकाहानां तिस्रः स्वाऽहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणाम्’ इति । गवामय

ख्ये संवत्सर इत्यर्थः। अथ मीमांसा । पञ्चमाध्यायस्य तृतीयपादे चिन्तितम्

“आवृत्तिरुपसत्स्वेषा संघस्यैकैकशोऽथवा । विरध्यायं पठेत्यादाविव स्यात्समुदायगा ॥ प्रथमा मध्यमाऽन्त्येति प्राकृतक्रमसिद्धये ।

एकैकस्या द्विरभ्यासे पदसंख्याऽपि प्रसिध्यति” ॥ अग्नौ श्रूयते-पडुपसद इति। तत्र चोदकमाप्तानां तिसृणामुपसदा पूर्वन्याये ऽऽवृत्त्या पदसंख्या संपादनीया । सा चाऽऽवृत्तिर्दण्डकलितवत्समुदायस्य कायथा दण्डेन भूप्रदेशं संमिमानः पुरुष आमूलाग्रं कृत्स्नं दण्डं पुनः पुनः पात पदण्डस्य प्रत्यवयवं पृथगावृत्तिं करोति यथा वा त्रिवारं रुद्राध्यायं जप त्यत्र कत्ल एवाध्याय आवर्यते न त्वध्यायैकदेशः। एकैकोऽनुवाकः पृथ

पठ्यते । तथा तिसृणामुपसदां समुदाय आवर्तनीय इति चेन्मैवम् ।

१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [१ चतुप माकृतक्रमवापसमात् । प्रकृतौ हि दीक्षानन्तरभाविनि दिने होतव्या पसत् । तत ऊर्ध्वदिने द्वितीया । ततोऽप्यूर्ध्वदिने तृतीया । ता एताः नुष्ठाय पुनरुपरितनदिनेऽनुष्ठीयमानायां प्रथमात्वमपैति चतुर्थीत्वमार तस्मात्माकृतक्रमसिद्धये प्रथमां दिनद्वयेऽभ्यस्य ततो द्वितीयां द्विरम त्येवं स्वस्थानविवृद्ध्या तासामावृत्तिः कार्यान चाध्यायदृष्टान्तो र अनुवाकसमुदायस्यैवाध्यायत्वादध्यायस्यैव चाऽऽवृत्तिविधानात् ।। समुदायस्योपसत्त्वमस्ति । तस्मात्मत्येकमुपसदावर्तनीया ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थमकाश ऐतरेयः

ब्राह्मणभाष्ये चतुर्थाध्याये षष्ठः खण्डः ॥६॥ (२३)

अयोपसदः प्रशंसति

जितयो वै नामैता यदुपसदोऽसपत्नां वा

एताभिर्देवा विजितिं व्यजयन्त, इति । उपसदो याः सन्त्येता जितयो वै नाम । जयहेतुत्वाजितय इत्ये प्रतिपद्यन्ते । जयहेतुत्वमेवासपत्नामित्यादिना स्पष्टी क्रियते । देवा । रुपसद्भिरसपत्नां वैरिरहितामेव विजितिं विशिष्टं जयं व्यजयन्त । पासवन्तः।

वेदन प्रशंसति

असपत्नां विजितिं विजयते य एवं वेद, इति । सामान्याकारेण वेदनं प्रशस्य पुनः पूर्वोक्तार्थवादानुक्रमेण विशेष प्रशंसति

यां देवा एषु लोकेषु यामृतुषु या मासेषु याम र्धमासेषु यामहोरात्रयोविजितिं व्यजयन्त

तां विजितिं विजयते य एवं वेद , इति । अथ तानूनपत्रस्य नाम निर्वकुमाख्यायिकामाह ते देवा अविभयुरस्माकं विप्रेमाणमन्विमसुरा आर विष्यन्तीति ते व्युत्क्रम्यामन्त्रयन्तानिर्वसुभिरुदकार

दिन्द्री रुद्रेवरुण आदित्यैर्वृहस्पतिर्विश्वेदेवः, इरि


सप्तमः खण्डः] ऐतरेपणामणम् ।

र सह युद्धार्थमुद्यता देवाः स्वसेनाया मध्ये परस्सरमेकैकस्य सेनानी

ज्येषश्चमभ्युपगच्छन्तः परस्परविरोधिनो भूत्वाऽपमृत्याविभयुर्मनसि ति प्राप्ताः । केनाभिप्रायेणेति तदुच्यते । अस्माकं विप्रेमाणमनु परस्परमे. हित्यमनवीक्ष्यासुरा इदमस्मदीयं राज्यमाभविष्यन्ति सर्वतः प्राप्स्यन्तीति। स्तेि देवा व्युत्क्रम्य परस्परविभागेन तस्मादेशादपमृत्य स्वसंबन्धिभिर्मत्रिभिः मयन्त पर्यालोचनं कृतवन्तः । ततस्तत्रानिर्देवो वसुभिरष्टमविभिः हितः पृथगुदक्रामत् । एवमिन्द्रो रुद्रैः सह वरुण आदित्यैः सह बृहस्पति वैर्देवैः सह पृथगुदकामत् । अत्र चतुर्विधैव विभाग उक्तः । शाखान्तरे तु जधा। तथा चाऽऽन्नायते–‘देवासुराः संयत्ता आसंस्ते देवा मियो विपिया संस्तेऽन्योन्यस्मै ज्यैष्ठयायाऽऽतिष्ठमानाः पञ्चधा व्यकामन् । अनिमुभिः मो रुटैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्वृहस्पतिविधैर्देवैः’ इति । एवं परस्परं विभज्यावस्थितानां देवसमूहानां पर्यालोचनपूर्वक कृत्य यति

ते तथा व्युत्क्रम्यामन्त्रयन्त तेऽब्रुवन्हन्त या एव न इमाः प्रियतमास्तन्वस्ता अस्य वरुणस्य राज्ञो गृहे संनिदधामहै ताभिरेव नः स न संगच्छातै यो न एतदतिकामाद्य आलुलोभयिषादिति तथे ति ते वरुणस्य राज्ञो गृहे तनूः संन्यदधत, इति । स्वकार्यहानिनिमित्तदुःखपरिहारोपायदर्शननिमित्तहर्षयोतनार्थो हन्तशब्दः। स्माकमत्यन्तं प्रिया याः पुत्रकलत्रादिरूपास्तन्वः सन्ति ताः सर्वा अस्य णस्य राज्ञो गृहे संनिदधामहै बन्दीरूपेण स्थापयामः। तथा सति नोऽ कि मध्ये यः कोऽप्येतदतिकामादुल्लङ्घयेत् , उल्लङ्घ्य चाऽऽलुलोभयि

खपुत्रकलत्रादीनेव लोभयितुमिच्छेत् , गुप्तमनुष्यमुखेनाऽऽनेतुमिच्छेनोऽ किं मध्ये स तादृशः पुरुषस्ताभिरेव न संगच्छातै पुत्रकलत्रादिभिर्न संग ताम् । इत्येतं समयं सर्वेऽप्यङ्गीकृत्य वरुणगृहे स्वपुत्रादिशरीराणि स्थापि. न्तः । परस्पराविरोधे सति वयमेवासुराणामिदं लोकत्रयं साधयाम विचार्येमं समयं कृतवन्तः। सोऽयं शाखान्तरे स्पष्टमानायते-‘तेs. पन्तासुरभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मो या

१ ख. ज. स. स्तेभ्योऽन्य।

“१०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [४ चतुथ न इमाः प्रियास्तनुवस्ताः समवद्यामहै ताभ्यः स निक्रच्छायो नः । न्योन्यस्मै द्रुह्यात्’ इति ।

इदानीं निवर्चनं दर्शयति

ते यहरुणस्य राज्ञो गृहे तनूः संन्यदधत तत्तानूनपत्रमभवत्त

त्तानूनप्तस्य तानूनप्त्रत्वम्, इति । ‘यस्माद्वरुणगृहे पुत्रादितनूरवस्थाप्य परस्परसख्यायाऽऽज्यस्पर्शनं ३ कृतवन्त इति शेषः । तस्मादिदमाज्यस्पर्शनाख्यं तानूनपत्रं कर्माभवत् । कर्माऽऽपस्तम्बन विस्पष्टमभिहितम् -‘आतिथ्याया धौवात्नुचि चा तानूनप्त्रं समवद्यति । चतुरवत्तं पश्चावत्तं वा पतये त्वा गृहामीत्येतैः । मनाधृष्टमसीति यजमानसप्तदशा ऋत्विजस्तानूनप्त्रं समवमृशन्त्यनु मे दी यजमान इति । तनूनां पुत्रादिशरीराणां नत्रं न तपतमतिशयितं ि कृत्य क्रियमाणत्वादस्य कर्मणस्तानूनप्त्रं नाम संपन्नम् ।

प्रसङ्गाल्लोकव्यवहारे कंचिद्धर्म दर्शयति

तस्मादाहुन सतानूनन्त्रिणे द्रोग्धव्यमिति, इति । यस्माद्देवाः परस्परद्रोहपरिहाराय शपथं कृतवन्तस्तस्माद्ब्रह्मवादि माहुः। सतानूनप्त्रिणे सह शपथकारिणे न द्रोग्धव्यम् । इतिशब्दस्त माप्त्यर्थः । देवसंबन्धिशपथविशेषवाचिना तानूनप्त्रशब्देन शपथमा क्ष्यते । बहुभिः सह क्रियमाणं तानूनत्रं यस्यास्ति सोऽयं सतानून

मासङ्गिक परिसमाप्य प्रकृतमनुसरति

तस्मादिदमसुरा नान्वाभवन्ति ॥ २४ ॥ इति । . तस्मादु तस्मादेव कारणाद्देवानां परस्परसख्यरूपादमुरा इदं नान्वाभवन्ति नैव समन्तात्मामुवन्ति । यद्यप्येतत्तानूनप्त्री(त्रिकर्मोपस मनुष्ठेयं तथाऽप्युपसत्प्रयुक्तविजयप्रसङ्गेन बुद्धिस्थत्वादत्राभिहितम् ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

ब्राह्मणभाष्ये चतुर्थाध्याये सप्तमः खण्डः ॥७॥ (२४)

.

. .. १ ज. क्षामीति।

अष्टमः खण्डः ] एतरेयब्राह्मणम् ।

१०५ अथाऽऽतिथ्य(ध्या)कर्षण्यास्तीर्णस्यैव बहिष उपसत्स्वनुत्ति विधत्ते शिरो वा एतद्यज्ञस्य यदातिथ्यं ग्रीवा उपसदः

समानबर्हिषी भवतः समानं हि शिरोग्रीवम्, इति । अथाऽऽतिथ्य(थ्या)कर्मणो यज्ञशिरोरूपत्वादुपसदां च ग्रीवारूपत्वात्तयोरव

लोके विच्छेदादर्शनादत्राप्यविच्छेदायाऽऽतिथ्योपसत्कर्मणी समान कमी ऐकबहिषा युक्ते कर्तव्ये । आतिथ्याकर्मण्यास्तीर्ण बहिर्नानौ प्रहृतम् । शान्तत्वेन तत्र कर्मसमापनात् । तचाऽऽपस्तम्बेनोक्तम्-‘इडान्ता संतिष्ठते

यति धौवमाज्यम्’ इति । शाखान्तरे च बहिषोऽनुवृत्तिरानाता-‘यदा. ध्यायां हिस्तदुपसदा तदग्नीषोमीयस्य’ इति। अथोपसत्सु द्रव्यदेवताविधानार्थं प्रस्तौति

इषु वा एतां देवाः समस्कुर्वत यदुपसदस्तस्या

अग्निरनीकमासीत्सोमः शल्यो विष्णुस्ते जनं वरुणः पर्णानि तामाज्यधन्वानो

व्यसृजस्तया पुरो भिन्दन्त आयन्, इति । यदुपसदो या उपसद्देवता अग्न्यादिकाः सन्ति, एतामग्न्यादिरूपामिषु वै णमेव देवाः समस्कुर्वत संस्कृतवन्तः, अग्न्यादीन्वाणावयवरूपेण संयोजि. न्ति इत्यर्थः । योऽयमग्निः सोऽयं तस्या इषोरनीकं मुखमासीत् । पत्रयुक्ता णमूलादूर्ध्ववर्ती भागो मुखं तस्योपरि वर्तमानो लोहविशेषः शल्यं तस्य हस्य तीक्ष्णमग्रं तेजनम् । पर्णानि बाणमूले स्थापितानि पक्षिणां पत्राणि त्यादिरूपेणामिसोमविष्णुवरुणा योजिताः। वरुणोऽत्र प्रशंसार्थमेवोपादी । न तु देवतात्वेन तदीययोर्याज्यानुवाक्ययोरनभिधास्यमानत्वात् । अत । शाखान्तरे वरुणं परित्यज्याग्न्यादय आम्नायन्ते–‘त इषु समस्कुर्वताग्नि

कि सोमं शल्यं विष्णुं तेजनम्’ इति । तामेतामिघु देवा आज्यधन्वानः तो विसृष्टवन्तः । तया विसृष्टयेष्वा तेषामसुराणां पुरो भिन्दन्तो विदार त आयनागच्छन् । इदानीं द्रव्यदेवता विधत्ते

क. ख. ज. ‘मणोऽस । झ. म. मणोः स । २ क. ज. स. एकैक’ ख… एकैव । ३ क. ज. झ. भ. पोरनु ।

MISSION INSTITAN

१४

RISHIAVISA

LIBRARY

१०६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [ ४ चतुर्था

तस्मादेता आज्यहविषो भवन्ति, इति । यस्मादग्न्यादयो बाणरूपा आज्यं च धनुःस्वरूपं तस्मादाज्यहविष्व अग्न्यादिदेवता उपसत्सु भवेयुः।

उपसदाभूतं व्रतोपायनं विधत्ते

चतुरोऽग्रे स्तनान्त्रतमुपैत्युपसत्सु चतुः

संधि_षुरनीकं शल्यस्तेजनं पर्णानि, इति । उपसत्स्वनुष्ठीयमानासु, अग्रे प्रथमदिने सायंकाले चतुरः स्तनान्त्रत व्रतशब्देनात्र पयःपानमुच्यते । गोश्चतुर्पु स्तनेषु यावत्पयस्तावत्पूर्वोक्तस्य चतुःसंघित्वादनीकाद्यवयवचतुष्टयोपेतत्वात्स्तनानां चतुःसंख्या युक्ता ___ अनेनैव प्रकारेण द्वितीयोपसदिने प्रातःसायंकालयोस्तृतीयदिनस्य काले चैकैकन्यूनाः स्तनसंख्या विधत्ते

त्रीन्स्तनान्त्रतमुपैत्युपसत्सु त्रिषंधि_पुर नीकं शल्यस्तेजनं दो स्तनौ व्रतमुपैत्यु पसत्सु द्विषंधिषुः शल्यश्च ह्येव तेजनं

चै स्तनं व्रतमुपैत्युपसत्स्वेका ह्येवेषुरि

त्याख्यायत एकया वीर्य क्रियते, इति । एतासां स्तनसंख्यानामुक्ताः कालविशेषा आपस्तम्बेनोदाहृताः सायं दुह्यात्रीन्मातौं सायमेकमुत्तमः’ इति ।

यथोक्तं संख्याविशेषं प्रशंसति

परोवरीयांसो वा इमे लोका अर्वा गंहीयांसः परस्तादर्वाचीरुपसद उपै

त्येषामेव लोकानामभिजित्य, इति । इमे पृथिव्यन्तरिक्षधुसप्तलोकाः परोवरीयांसः परस्तादुर्बभागे निव त्यन्तं विस्तृताः । अर्वागधोभागेऽहीयांसोऽतिशयेनाणुवत्संकुचिताः लोकादणुर्युलोकस्तस्मादप्यणुरन्तरिक्षलोकस्तस्मादप्यणुर्भूलोकः । ए पसदोऽपि परस्तादू लोकस्थानीयात्मथमदिनादारभ्य तत्तदिनान

१ ख. ‘न्तरादिषु ।

१०७

य भवति ।

अष्टमः खण्डः] ऐतरेयब्राह्मणम् । नसंख्याह्रासेना चीरुपैत्यनुतिष्ठतीति यदस्ति तदेषामेव लोकानामभिज अथ पूर्वाहापराह्नयोर्व्यवस्थिताः सामिधेनीविधत्ते

उपसद्याय मीकुष इमां मे अग्ने समिधमि मामुपसदं वनेरिति तिस्रस्तिस्रः सामिधेन्यो रूपसमृद्धा एतदै यज्ञस्य समृद्ध यद्रूप

समृद्धं यत्कर्म क्रियमाणमृगभिवदति, इति । उपसद्यायेत्याचा आनातास्तित्र ऋचः पूर्वाह्ने सामिधेन्य इमां मे अग्न यादिका आनातास्तिस्र ऋचोऽपराह्ने सामिधेन्यः । मत्रान्तरशङ्काव्युदासेन शब्दार्थः कृत्स्नार्थपाठः । उपसद्यायोपसदं वनेरित्युपशब्दयोगेन रूप मृद्धिः । याज्यानुवाक्या विधत्ते

जनिवतीर्याज्यानुवाक्याः कुर्यात्, इति । हन्तिधात्वर्थयुक्ता जनिवती। तथाविधा ऋच उदाहरति

अग्निर्वत्राणि जङ्घनद्य उग्र इव शर्यहा वं सोमासि सत्पतिर्गयस्फानो अमीवहेदं विष्णु- .

विचक्रमे त्रीणि पदा विचक्रम इत्येताः, इति । अग्निव॒त्राणीति पुरोनुवाक्या । य उग्र इवेति याज्या । त्वं सोमेति पुरोनु क्या । गयस्फान इति याज्या । इदं विष्णुरिति पुरोनुवाक्या । त्रीणि ति याज्या । एताश्चाग्न्यादिदेवानां क्रमेण द्रष्टव्याः। याः पूर्वाह्न पुरोनुवाक्या उक्तास्तासामपराह्ने याज्यात्वं तथा तत्रत्यानां ज्यानामपराह्ने पुरोनुवाक्यात्वं च विधत्ते

विपर्यस्ताभिरपराह्ने यजति, इति । उपसद्या०-७-१५-१। इमां मे अ०-२-६-१।अग्निवृत्रा०-६-१६ पर उन इ०-६-१६-३९ । त्वं सोमा०-१-९१-५ । गयस्फानो० ११-१२ । इदं विष्णु०-१-२२.१७ । त्रीणि पदा०-१-२२-१८ ।

१०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[ ४ चतुथ

यथोक्तयाज्यानुवाक्यायुक्ता उपसदः प्रशंसति

नन्तो वा एताभिर्देवाः पुरो

· भिन्दन्त आयन्यदुपसदः, इति । या उक्तमत्रोपेता उपसदः सन्ति, एताभिर्देवा असुराणां तिरु वितरयन्तोऽसुरांश्च हिंसन्त आगताः ।

उदाहतासु याज्यानुवाक्यासु सर्वासु यदेकविधं छन्दो दृश्यते न : क्षणं तदन्वयव्यतिरेकाभ्यां विशदयति

सच्छन्दसः कर्तव्या न विच्छन्दसः, इति । समानं छन्दो यासां ताः सच्छन्दसः । विलक्षणं छन्दो या विच्छन्दसः।

वैलक्षण्ये बाधमाह

यदिच्छन्दसः कुर्याद्रीवासु तगण्डं

दध्यादीश्वरो ग्लायो जनितोः, इति । विलक्षणच्छन्दसामनुष्ठाने ग्रीवास्थानीयासूपसत्सु गण्डमालाख्या नीयं दोषं दध्यादुत्पादयेत् । तथा सति होता यजमानस्य ग्लानिवि . नितोरुत्पादयितुमीश्वरः समर्थो भवेत् ।।

अस्वपक्षे बाधमुक्त्वा स्वपक्षमुपसंहरति

तस्मात्सच्छन्दस एव कर्तव्या न विच्छन्दसः, इति उपसदामाज्यहविष्कत्वं प्रशंसति

तदु ह स्माऽऽहोपाविर्जानश्रुतेय उपसदां किल वै तद्वाह्मणे यस्मादप्यश्लीलस्य श्रोत्रि यस्य मुखं व्येव ज्ञायते तृप्तमिव रेभतीवे त्याज्यहविषो झुपसदो ग्रीवासु मुखमध्या

हितं तस्माद्ध स्म तदाह ॥ २५ ॥ इति । तदुह तस्मिन्नेवोक्तार्थे कश्चिद्वत्तान्त उच्यत इति शेषः । उपानि कश्चिदृषिः स तु जानश्रुतेयः, जनश्रुतायाः स्त्रिया अपत्यं स पुमा किल वै, उपसभामकानां कर्मणामेव विधायक ब्रामणे तद्वाक्यमा

L

अष्टमः खण्डः]

ऐतरेयब्राह्मणम् । मादेति तदच्यते। यस्मात्कारणादश्लीलस्यापि कुरूपस्य श्रोत्रियस्य वेदशा विदो मुखं तृप्तमिव दैन्यहीनतया तृप्तियुक्तमेव रेभतीव वेदशास्त्रपाठोपेत

मनिव व्येव ज्ञायते विशेषेणावश्यं प्रतीयते । इत्येतदृषेर्वचनं तस्य वच याभिप्राय उच्यते । ग्रीवास्थानीया उपसद आज्यहविष्का अत एव शोभ नाः । लोकेऽपि शोभमानासु ग्रीवासु, अध्याहितमाश्रितं मुखं श्रोत्रियसंब धतप्त्याद्युपेतं दृश्यते । तस्मात्कारणाच्छोभनग्रीवाहितमुखसाम्यमाज्यहवि

त्वमित्यभिप्रेत्य स ऋषिस्तद्वाक्यमाह । अथ मीमांसा । चतुर्थाध्यायस्य द्वितीयपादे चिन्तितम्

“यदातिथ्यावहिरेतदुपसत्स्वतिदेशनम् ।

साधारण्यविधिर्वाऽऽद्यस्तदीयस्योपसंहृतेः ॥ बर्हिःश्रुत्यैकताभानानातिदेशस्य लक्षणा ।

आतिथ्ययोपसद्भिश्च बहिरेतत्प्रयुज्यते” । ज्योतिष्टोमे श्रूयते—यदातिथ्यायां बर्हिस्तदुपसदा तदग्नीपोमीयस्य चेति । हीतं सोमं शकटेऽवस्थाप्य प्राचीनवंशं प्रत्यानयनेऽभिमुखो यामिष्टिं निर्वपति यमातिथ्या। तत ऊर्च त्रिषु दिनेष्वनुष्ठीयमाना उपसदः। औपवसथ्ये दिनेऽ. ष्ठेयः सोऽनीषोमीयः। तत्राऽऽतिथ्येष्टौ विहितं यहस्तद्यदि तस्या इष्टेराच्छि गोपसत्सु विधीयेत तदानीमातिथ्याविधानमनर्थक स्यात् । यदि तत्रोपयुक्तमि रित्र विधीयते विनियुक्तविनियोगरूपो विरोधः स्यात् । तस्मादातिथ्याबहिषो धर्मा आश्ववालवादयस्ते धर्मा उपसत्सूपसंहियन्त इत्यतिदेशपरं वाक्यमिति प्से ब्रूमः । बहिःशब्दस्य धर्मातिदेशपरत्वे लक्षणा प्रसज्येत । श्रुत्या तु बहिष मातिथ्योपसदग्नीषोमीयेष्वेकत्वं प्रतिभात्यतः साधारण्यमत्र विधेयम् । आति न्याथै यहिरुपादीयते तन केवलमातिथ्यार्थ किंतूपसदर्थमग्नीषोमीयार्थ चोपा यमिति विधिवाक्यस्यार्थः। तस्मादातिथ्योपसदग्नीषोमीयास्त्रयोऽप्यस्य बर्हिषः योजकाः । द्वादशाध्यायस्य प्रथमपादे चिन्तितम्

“आतिथ्यादिगते बहिष्युक्षणादि पृथइन वा।

आद्योऽतत्रप्रसङ्गत्वान्न प्रसङ्गानिवारणात्” । । यदातिथ्यायां बर्हिस्तदुपसदां तदग्नीषोमीयस्येति श्रुतं तत्र बहिस्त्रयाणां धारणमिति चतुर्थे निरूपितम् । तस्मिन्साधारणे बर्हिषि प्रोक्षणादिसंस्काराः

पृथगनुष्ठयाः। कुतः। तन्त्रप्रसङ्गयोरत्रासंभवात् । न तावत्तनमस्ति, दर्श ॥जयवदककालीनत्वाभावात् । नापि प्रसङ्गः, एकस्य तवमध्येऽन्ययोर

११० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ४ चतुर्था पठितत्वादिति प्राप्ते ब्रूमः । बर्हिष एकत्वात्सकृत्प्रोक्षणादिभिः संस्कार मोक्षणायपेक्षा नास्ति । तेच प्रोक्षणादयः प्राथम्यादातिथ्यायां कार्या उपसत्स्वनीषोमीये च प्रसङ्गसिद्धिर्न वारयितुं शक्यते ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

ब्राह्मणभाष्ये चतुर्थाध्यायेऽष्टमः खण्डः ॥ ८॥ (२५)

अथोपसत्सु प्रयाजाननुयाजांश्च निषेधति

देववर्म वा एतद्यत्प्रयाजाश्चानुयाजाश्चाप्रयाजम

ननुयाजं भवतीष्व संशित्या अप्रतिशराय, इति । ये प्रयाजा ये चानुयाजाः सन्ति तदुभयं देवानां वर्म वै कवचस्थान अत एव शाखान्तरे समामनन्ति-‘यत्प्रयाजा अनूयाजा इज्यन्ते वर्म घज्ञाय क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै’ इति । एवं सत्युपर कर्म प्रयाजानुयाजरहितं कर्तव्यं कवचस्यानुपयुक्तत्वात् । परकीयप्रहार हि कवचं संपाद्यते । नात्र परप्रहारः संभवति । पूर्वोक्ताया इपोस्ती सकृत्पयोगादेव मारितेषु शत्रुषु प्रहर्तृणामभावात् । एवं सति यदि संपाद्यते तदानीं स्वकीयाया इपोरतीक्ष्णत्वं शङ्येत स्वस्य च शत्रुभि दिता प्रतिहिंसा शक्ये (ड्क्ये)त तच्चायुक्तम् । तस्मादिष्वै संशित्यै यस्य बाणस्य सम्यक्तीक्ष्णत्वार्थमप्रतिशराय स्वेषु शत्रुकर्तृकमति शङ्कापरिहारार्थ च प्रयाजानुयाजवर्जनं युक्तम् । तथा चाऽऽश्वलायन : ‘स्विष्टकदादि लुप्यते प्रयाजा आज्यभागौ च’ इति । स्विष्टकदादिष्वन दनुयाजलोपो युक्त एव ।

अत्रामीषामविष्णुरूपाणां देवानां बहुत्वेनाऽऽश्रावणार्थमुत्तरस्मा हवनीयस्य दक्षिणदेशं प्रत्यसकृदतिक्रमणं प्राप्तं तद्वारयितुमाह

सकृदतिक्रम्याऽऽश्रावयति यज्ञ

स्याभिकान्त्या अनपक्रमाय, इति । वेद्याहवनीययोर्मध्ये सकृदेवातिक्रम्य दक्षिणदिश्यवस्थितो बहुषु प्रत्येकमाश्रावणं कुर्यात् । एवं सत्युपसद्यज्ञस्य सर्वत आक्रमणं भवति भवति । अन्यथा पुनः पुनरुत्तरस्यां दिशि गमने लब्धावसरः सन्यज्ञो कामेत् । तस्मात्सकृदेवातिक्रमणं युक्तम् । तदाहाऽऽपस्तम्ब:-‘ध्री

१ ख. म् । यदा।

नवमः खण्डः ]

ऐतरेयब्राह्मणम् । नहाति चतुर उपभृति घृतवति शब्दे जुडूपमृतावादाय दक्षिणा सकद

क्रान्त उपांशुयाजवत्मचरति’ इति ।

अथ समत्रकं सोमाप्यायनं विधातुं प्रस्तौति

तदाहुः क्रूरमिव वा एतत्सोमस्य राज्ञोऽ न्ते चरन्ति यदस्य वृतेनान्ते चरन्ति

घृतेन हि वज्रणेन्द्रो वृत्रमहन् , इति । तत्तत्र ब्रह्मवादिन एवमाहुः । सोमस्य राज्ञोऽन्ते समीपे घृतेन द्रव्येण तिनसंज्ञकं कर्म चरन्त्यनुतिष्ठन्तीति यदस्ति तदेतत्सोमस्य राज्ञः समीपे रमिव वै, उग्रमेव कर्म चरन्ति । हि यस्मात्कारणाघृतरूपेण वजेणेन्द्रो त्रं हतवान् , तस्माघृतकर्म करम् । तच्छाखान्तरे विस्पष्टमानातम्-‘घृतं ल वै देवा वजं कृत्वा सोममननन्तिकमिव खलु वा अस्यैतच्चरन्ति यत्तान त्रेण चरन्ति’ इति । तस्य फरकर्मणः परिहाराय विधत्ते

तद्यदंशुरंशुष्टे देव सोमाऽऽप्यायतामिन्द्रायै कधनविद आ तुभ्यमिन्द्रः प्यायतामा खमि न्द्राय प्यायस्वाऽऽप्याययास्मान्सखीन् । सन्या मेधया स्वस्ति ते देव सोम सुत्यामु दृचमशीयेति राजानमाप्याययन्ति यदेवास्य तत्क्रूरमिवान्ते चरन्ति तदेवास्यतेनाऽऽ

प्याययन्यथो एनं वर्धयन्त्येव, इति । । यद्यस्मात्कारणात्सोमस्य राज्ञः समीपे घृतसाधनकं तानूननं कर्म क्रूर तस्मात्कारणात्क्रौर्यपरिहारायांशुरंशुरिति मत्रेण सोमं राजानमाप्याययेयुः। लन प्रोक्षणमाप्यायनम् । एवं सति यत्करमाचरितं तत्सर्वमेतेन प्रोक्षणेनाऽs. आययन्ति शमयन्ति । अपि चैनं सोमं वर्धयन्त्येव । मत्रस्यायमर्थः । हे सोम व, इन्द्रार्थ तत्त्वदीयोऽशुस्त्वदवयव आप्यायतां वर्धताम् । कीदृशायेन्द्राय ।

धनावदे । सोमरूपं यदेकं धनं तत्ति विन्दते वेत्येकधनवित । तस्मा एक वाद । तुभ्यं तदर्थमिन्द्रो वर्धतामिन्द्रार्थं च त्वं वर्धस्व । सखीनस्मान्सन्या पण मधया यज्ञप्रतिपादकग्रन्थधारणाशक्त्या चाऽऽप्यायय वर्धय । हे सोम

११२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [५ पञ्चमा देव ते स्वस्ति क्षेमोऽस्तु । यस्यां क्रियायां सोमः सूयतेऽभिषूयते सा! उदुत्तमा समाप्तिविषयर्यस्यां सुत्यायां सेयमुक्ता मुत्यामुचमशीय विनमन्तरेण समाप्तिपर्यन्तमनुतिष्ठेयमिति । श्रौत इतिशब्दो मनसमाप्त्य

समत्र निहवं विधत्ते

द्यावापृथिव्योर्वा एष गर्भो यत्सोमो राजा तद्य देष्टा राय एटा वामानि प्रेषे भगाय । ऋतमृत वादिभ्यो नमो दिवे नमः पृथिव्या इति प्रस्तरे निह्नह)वते द्यावापृथिवीभ्यामेव तं नमस्कुर्व

न्त्यथो एने वर्धयन्त्येव वर्धयन्त्येव ॥२६॥ इति । इत्यैतरेयब्राह्मणे प्रथमपच्चिकायां चतुर्थोऽध्यायः ॥४ यः सोमो राजा, एष द्यावापृथिव्योरेव गर्भः। यद्यस्मादेवं तत्तस्माद् मस्तर एतनामके दर्भमुष्टौ निह()वते संप्रणयन्ति नमस्कारोपचारं कुर्युरि तदेतद्यावापृथिवीभ्यामित्यादिना स्पष्टी क्रियते । अपि चैने धावाए वर्धयन्त्येव । उत्साहयुक्ते कुर्वन्त्येव । निवप्रकार आपस्तम्बेन दर्शित: निवते दक्षिणे वेद्यन्ते प्रस्तरं निधाय दक्षिणापाणीनुत्तानान्कृत्वा सन एष्टा रायः’ इति । अस्मादभ्युदयमिच्छतीत्येष्टा प्रस्तरः सोमो वा । देही मध्याहर्तव्यम् । हे एष्टः, इषे अन्नार्थ भगाय सौभाग्याथै च रायो प्रदेहि । यद्वा । एष्टेति प्रथमान्तं तदानीं प्रददात्वित्यध्याहारः । किंच वामान्यन्यानपि कामान्प्रददातु ऋतवादिभ्यः सत्यवादिभ्यो देवेभ्य ग्यजमानेभ्यो वा । ऋतं सत्यं वदामीति शेषः । तदेव सत्यवचनं स्पष्ट दिवे धुलोकदेवतायै नमोऽस्तु । पृथिव्यै भूलोकदेवतायै नमोऽस्त्विति इति शब्दो मन्त्रसमाप्त्यर्थः । वर्धयन्त्येवेत्यभ्यासोऽध्यायसमाप्त्यर्थः ।

अत्र मीमांसा

“उपसत्सु निषिद्धेभ्यः शिष्टं सर्व समाचरेत् ।

यावदुक्तमुताऽऽद्योऽस्तु चोदकस्यानिवारणात् ।।

सौवाघारे पुनः श्रुत्या शिष्टस्य परिसंख्यया । . अपूर्वार्थत्वतो वाऽन्त्योऽनुवादः प्रतिषेधगीः” । ज्योतिष्टोमे विहितासूपसत्सु पठ्यते-‘अप्रयाजास्ता अननुयाजा’ निषिद्धान्प्रयाजानुयाजान्वर्जयित्वाऽवशिष्टं चोदकमाप्तमङ्गजातं सर्वमा

प्रथमः खण्डः] ऐतरेयबामणम् ।

नाति प्राप्त धूमः । प्रकृती विहित एव स्रौवाधारः पुनरिह विधीयते । स च

प्राप्तमन्यत्सर्वमङ्गजातं परिसंचष्टे । अन्यथा पुनर्विधानवैयात । ननु विधान प्रतिप्रसवार्थमत एव श्रुतिरत्र सौवाघारमभावशङ्कानिराकरणपूर्वक दधाति-‘नान्यामाहुतिं पुरस्ताजुहुयायदन्यामाहुतिं पुरस्ताज्जुहुयादन्य खं कुर्यात्नुवेणाऽऽघारमाधारयति’ इति । अयमर्थःसौवाधारः सर्वत्र यास्य

तथा सति यदि कश्चिन्मन्द उपसत्प्रयोगादौ सौवाधारमहुत्वा तस्य स्थाने चिदन्यामाहुतिं जुहुयात्तदा मुखव्यत्यासेन प्रत्यवायं प्रामुयात् । तस्मात्त्री पार आदी कर्तव्य इति नैतधुक्तम् । चोदकमाप्तस्याऽऽघारस्याकस्मादभाव शाया अयुक्तत्वात् । तस्मात्परिसंख्यार्थ एव पुनर्विधिः । आहुत्यन्तरनिन्दा तच्छेषभूतोऽर्थवादः । यदि परिसंख्या साऽपि त्रिदोषेत्युच्येत तर्हि गृहमे यवदपूर्व कर्मास्तु । प्रयाजादिनिषेधो नित्यानुवादः । सर्वथा यावदुक्तमत्रा प्रयम् ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

ब्राह्मणभाष्ये चतुर्थाध्याये नवमः खण्डः ॥ ९॥ (२६) इति श्रीमद्राजाधिराजपरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्राज्यधुरं . घरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये प्रथमपञ्चिकायां

चतुर्थोऽध्यायः ॥४॥