अथ तृतीयोऽध्यायः ।
प्रायणीया तदङ्गं च देवतादिकमीरितम् ॥
तथैवोदयनीया च तद्विशेषाश्च वर्णिताः ॥१॥ अथ सोमप्रवहणाङ्गमन्त्रादयो वक्तव्याः। तत्राऽऽदौ सोमक्रयणस्य दिशं विधत्ते
प्राच्यां वै दिशि देवाः सोमं राजान
मक्रीणंस्तस्मात्प्राच्यां दिशि क्रीयते, इति ।
• प्राचीनवंशात्पूर्वस्यां दिशि देवैः पुरा सोमस्य क्रीतत्वात्विग्भिरपि तथा सोमः क्रेतव्य इत्यर्थः।
प्रसङ्गात्सोमविक्रयिणः प्रत्यवायं दर्शयति
तं त्रयोदशान्मासादक्रीणंस्तस्मात्रयोदशी मासो नानुविद्यते न वै सोमविक्रय्य
नविद्यते पापो हि सोमविक्रयी, इति । पुरा संवत्सरस्य त्रयोदश मासाः सन्ति नेदानीम् । देवास्त्रयोदशस्य मास. स्याभिमानिनः पुरुषात्तं सोमं क्रीतवन्तः । यस्मात्तदभिमानी पुरुषः सोमवि. कयी तस्माल्लोके तदीयस्त्रयोदशमासो नानुविद्यते शुभकर्मानुकलो नास्ति । मेषादिसंक्रान्त्यादिरहितत्वान्मलमास इत्यभिप्रेत्य तस्मिन्मासे शिष्टाः शुभक माणि वर्जयन्ति । अत एवेदानीमपि सोमविक्रयी शिष्टाचारस्यानुकूलो नैव विद्यते । सोमविक्रयिणः पापरूपत्वे श्रुत्यन्तरमसिद्धियोतनार्थो हिशब्दः । अत एवं श्रुत्यन्तरे तद्विषयो मन्त्र एवं व्याख्यायते-‘अस्मे ज्योतिः सोमविक्रयि.
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३ तृतीयाध्याये
णि तम इत्याह । ज्योतिरेव यजमाने दधाति । तमः सोमविक्रयिणमर्पयति’ इति । तमाशब्दः पापवाची। ___ क्रयादूर्व प्राचीनवंशं प्रति नीयमाने सोमे पठितव्यानामृचामष्टसंख्यामादौ प्रशंसति
तस्य क्रीतस्य मनुष्यानभ्युपावर्तमानस्य दिशो वीर्याणीन्द्रियाणि व्युदसीदस्तान्येकयर्चाऽवा रुरुत्सन्त तानि नाशक्नुवंस्तानि दाभ्यां तानि तिसृभिस्तानि चतसृभिस्तानि पञ्चभिस्तानि षभिस्तानि सप्तभिनवावावरुन्धत तान्यष्टा भिखारुन्धताष्टाभिराश्नुवत यदृष्टाभिरवारुन्ध
ताष्टाभिराश्नुवत तदष्टानामष्टत्वम् , इति । फ्रीतः सोमो यदा मनुष्यान्यजमानादीनभिलक्ष्याऽऽगच्छति तदानीं तस्य सोमस्य दिगादीनि व्युदसीदन्विशेषेणोत्सन्नान्यभवन् । दिक्शब्देनाधिष्ठानमु पलक्ष्यते । सोमं नेतुं यदधिष्ठानं यच्च वीर्य सोमनिष्ठं बलप्रदानसामर्थ्य यच्चे न्द्रियचक्षुरादिपाटवहेतुत्वं तत्सर्व विनष्टम् । तदानीं ते यजमाना ये मनुष्या स्तानि दिगादीन्येकय ऽवरोद्धं स्वाधीनं कर्तुमैच्छन् । ततस्तान्यवरोर्बु नाश क्नुवन् । एवं द्वित्वादिसप्तपर्यन्तया मनसंख्यया नैवावरोधं कृतवन्तः । अष्ट संख्यया त्ववरोधं कृतवन्तः । अष्टसंख्यया त्ववरोधं कृत्वा तानि दिगादीनि प्राप्तवन्तः । अष्टसंख्यया तस्मादवरुध्यन्त । एभिर्नश्यन्तेऽनुवत एभिरिति वा व्युत्पत्त्याऽष्टशब्दो निष्पन्नः।
एतद्वेदनं प्रशंसति
अश्नुते यद्यत्कामयते य एवं वेद, इति । तत्काभ्यमक्षुत इति योज्यम् । इदानीमष्टसंख्यां विधत्ते
तस्मादेतेषु कर्मस्वष्टावष्टावनूच्यन्त इन्द्रि
याणां वीर्याणामवरुद्धयै ॥ १२॥ इति । इदानी प्रस्तुतं सोमप्रवहणाख्यं यत्कर्म तत्र करिष्यमाणं कर्मान्तरं तथावि
द्वितीयः खण्डः] ऐतरेयबामणम् ।
प्रत्येकमशावष्टावचो होताऽनुब्रूयात् । तथाऽष्टसंख्ययेन्द्रियाणि वीर्याणि वरुद्धानि भवन्ति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये तृतीयाध्याये प्रथमः खण्डः ॥१॥ (१२)
मगता संख्यां विधाय तन्मत्रान्विधातुमादौ प्रैषमन्त्रं विधत्ते
सोमाय क्रीताय प्रोद्यमाणायानुबूरहीत्याहाध्वर्युः इति । यः सोमः क्रीतः स क्रयदेशात्माचीनवंशं प्रति प्रोद्यते नीयते तदर्थमनुकूला चो हे होतरनुक्रमेण हि । तमेवं भैषमत्रमध्वर्युः पठेत् ।
अथ होतुः प्रथमामृचं विधत्ते - भद्रादभि श्रेयः प्रेहीत्यन्वाह, शत । सेयमृक्तैत्तिरीयशाखायामेवमानाता-‘भद्रादभि श्रेयः प्रेहि बृहस्पतिः । एता ते अस्तु । अथेमवस्य वर आ पृथिव्या आरे शत्रून्कृणुहि सर्ववीर।’ ते । तस्यायमर्थः । हे सोम भद्रान्मङ्गलादलोकरूपात्तस्मात्क्रयदेशाच्छ्रेयः ठं स्वर्गलोकस्थानीयं प्राचीनवंशदेशमभिलक्ष्य प्रेहि प्रकर्षण गच्छ । तथा
छतस्ते बृहस्पतिः पुर एता पुरतो गन्ताऽस्तु । अथ गमनादूर्ध्व पृथिव्याः पन्धिन्या समन्ताद्वरे श्रेष्ठे देवयजन ईमवस्येदं तवावस्थानयोग्यं स्थानं श्चिनु । सर्वेभ्यो वीरः शूरस्त्वं शत्रून्पापरूपान्यज्ञविद्वेषिण आरे कृणुहि दूरे रु निराकुर्वित्यर्थः।
तस्याचि प्रथमपादं व्याचष्टे
अयं वाव लोको भद्रस्तस्मादसावेव लोकः
श्रेयान्स्वर्गमेव तल्लोकं यजमानं गमयति, इति । तत्तेन प्रथमपादपाठेन । स्पष्टमन्यत् । द्वितीयपादमनूध व्याचष्टे
बृहस्पतिः पुर एता ते अस्विति ब्रह्म वै बृहस्पतिर्ब झैवास्मा एतत्पुरोगवमकर्ण वै ब्रह्मण्वद्रिष्यति, इति । बृहस्पतेब्रह्मत्वं ब्राह्मणजातिमत्त्वं ‘ब्रह्म वै देवानां बृहस्पतिः’ इत्यादिश्रुत्य र मसिद्धम् । एतदेतेन द्वितीयपादपाठेनास्मै यजमानार्थ ब्रह्मैव ब्राह्मणमेव
.
.
•
१क. ख. ज. स. म. तदेतेन ।
५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ३ तृतीयाध्यादै पुरोगवं पुरोगन्तारमकः करोति । ब्रह्मण्वद्राह्मणसहायोपेतं कर्म न वै रिया सर्वथा नाशं न पामोति ।
तृतीयपादमनूध व्याचष्टे
अथेमवस्य वर आ पृथिव्या इति देवयजनं वै वरं पृथिव्यै देवयजन एवैनं तदवसाययत्यारे शत्रून्कृणुहि सर्ववीर इति द्विषन्तमेवास्मै तत्पा
प्मानं भ्रातृव्यमपबाधतेऽधरं पादयति, इति । देवयजनाख्यस्य यागदेशस्य पृथिवीसंबन्धिश्रेष्ठस्थानत्वात्तत्रैवैनं सोमं तक्ते तृतीयपादपाठेनास्मै यजमानाय द्वेषं कुर्वन्तं पापरूपं शत्रुमपबाधते । अधरं पाद यतीति । निकृष्टं पदं मापयतीत्यर्थः ।
होत्राऽनुवक्तव्या द्वितीयाद्यास्तिस्र ऋचो विधत्ते
सोम यास्ते मयोभुव इति तृचं सौम्यं गाय त्रमन्वाह सोमे राजनि प्रोद्यमाणे स्वयैवैनं
तद्देवतया खेन च्छन्दसा समर्धयति, इति । तिसृणामृचा संघातस्तृचः स च सोमदेवताको गायत्रीछन्दस्कश्च सोमान यनकाले तं तृचमनुब्रूयात् । तत्तेनानुवचनेन स्वात्मरूपया देवतया स्वकीयच्छ न्दसा चैनं सोमं समृद्धं करोति । अत्र नीयमानद्रव्यविशेषः सोमो मत्रदेव ताऽध्यसावेव तस्मात्स्वात्मरूपत्वं गायत्री धुलोकात्सोममानीतवतीति तैत्ति रीयाः कश्चेत्यनुवाके समामनन्ति । तस्माच्छन्दसः स्वकीयत्वम् ।
पञ्चमीमृचं विधत्ते
सर्वे नन्दन्ति यशसाऽऽगतेनेत्यन्वाह, इति । सा च संहितायामेवमानाता-‘सर्वे नन्दन्ति यशसाऽऽगतेन सभासाहे सख्या सखायः । किल्बिषस्पृत्पितुषणिāषामरं हितो भवति वाजिनाए [ऋ० सं० म० १० सू० ७२ ऋ० १०] इति । तस्या ऋचोऽयमर्थः। स
सोम यास्ते-ऋ. सं. म. १ सू. ९१ ऋ. ९ । सर्वे नन्द-ऋ. सं.’ १० सू. ७२ ऋ. १०। ।
१ क. ख. ज. स. म. गवः पु। २ ख. ‘त्वात्तत्तत्रै । ३ ख. सोममवस्थापयति । चतु पादमन्द्य ब्याचष्टे-आरे शत्रून्० अधरं पादयति । त।
द्वतीयः खण्डः] ऐतरेयबामणम् ।
५५ यो यजमानप्रभृतयः सख्या सोमरूपेण नन्दन्ति तुष्यन्ति । कीरशेन या । यशसा यशोहेतुना । आगतेन समीपं प्राप्तेन । सभासाहेन विद्व मॉ विद्याप्रसङ्गेन सहतेऽभिभवति सभासहस्तादृशेन । स तादृशः सोम
सखैषामूत्विग्यजमानानां किल्बिषस्पृत्किल्बिषात्पापात्स्पृणोति पालयति विषस्पृत् । पितुशब्दोऽनवाची । तस्य सनिर्दानं येन सोमेन लभ्यते सोऽयं पणिः । सोमस्य पापनिवारकत्वमनप्रदानेन । सर्वशास्त्रप्रसिद्धियोतनार्थो ब्दः । तथाऽयं सोमो वाजिनशब्दाभिधेयेन्द्रियाय वीर्याय वारं हितोऽ. सन्तहितो भवतीति । तस्या ऋचः प्रथमं पादं व्याचष्टे । यशो वै सोमो राजा सर्वो ह वा एतेन क्रीयमाणेन
नन्दति यश्च यज्ञे लप्स्यमानो भवति यश्च न, इति । यशःकारणात्सोमस्य यशस्त्वम् । यः पुमात्विग्भूत्वा यज्ञे धनं लप्स्यते ‘द्रष्टुमागतो न तु धनार्थी सर्वोऽप्यसौ सोमक्रयणं दृष्ट्वा तुष्यति ।
द्वितीयपादमनूय व्याचष्टे -
सभासाहेन सख्या सखाय इत्येष वै ब्राह्म ___णानां सभासाहः सखा यत्सोमो राजा, इति ।
योऽयं राजमानः सोमः सोऽयं ब्राह्मणसभामभिभवति । सर्वे ब्राह्मणाः
धीना भवन्तीत्यर्थः। तृतीयपादे प्रथमं पदमनूध व्याचष्टे
किल्बिषस्पृदित्येष उ एव किल्बिषस्पृत्, इति । योऽयं सोमोऽस्ति एष उ एव किल्बिषापालयति सर्वकामहेतोः सोमया
पापक्षयायानुष्ठातुं शक्यत्वात् । यज्ञानुष्ठाने च प्रवृत्तानामृत्विग्यजमानानां कः किल्विषप्रसङ्ग इत्याश Tऽऽह
वै भवति यः श्रेष्ठतामश्नुते स किल्बिषं भवति, इति । यः पुमान्प्रौढे यज्ञे प्रवृत्तो भवति तत्रापि यः श्रेष्ठतां प्रयोगपाटवाभिमान त मामोति स तादृशः पुरुषः कर्मसमाप्तिव्यग्रतया पण्डितंमन्यत्वेन वाग्वै. यं कुर्वन्किल्विषं भवति पापं पामोति ।
IN
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३ तृतीयाध्या तमेतं पापप्रसङ्ग विस्पष्टयति
तस्मादाहुर्माऽनुवोचो मा प्रचारीः
किल्बिषं नु मा यातयनिति, इति । यस्माइविजां किल्विषं संभाव्यते तस्माद्यजमाना एवमाह होतस्त्वं मार घोचोऽन्यचित्तः सन्पुरोनुवाक्यां मा पठ । हेऽध्वर्यो मा प्रचारीयंग्रत प्रचारमन्यथाऽनुष्ठानं मा कार्षीः। नु क्षिमं कुर्वन्तो भवन्तः किल्विषं मा या यन्मा प्रामुवन्तः । इतिशब्दो यजमानानामुक्तिसमाप्तौ । इत्यं संभाविताति ल्बिषात्सोमः पालयति ।
तृतीयपादे द्वितीयपदमनूध व्याचष्टे
पितुषणिरित्यन्नं वै पितु दक्षिणा वै पितु तामे
नेन सनोत्यनसनिमेवैनं तत्करोति , इति । अन्नवाची पितुशब्दो लब्धव्यवसाम्यादक्षिणामप्युपलक्षयति । तांदा णामेतेन सोमेन निमित्तभूतेन सनोति ऋत्विग्भ्यो ददाति । सत्तेन पितुशन पाठेनैनं सोममन्नं (त्र)सनिमन्नदाननिमित्तभूतमेव करोति ।
चतुर्थ पादमनूद्य तत्र वाजिनशब्दं व्याचष्टे अरं हितो भवति वाजिनायेतीन्द्रियं वै वीर्य वाजिनम्, इति
वेदनं प्रशंसति जाजरसं हास्मै वाजिनं नापच्छिद्यते य एवं वेद, इति । जरोसमाप्तिपर्यन्तं वेदितुरिन्द्रियवीर्ययोरपच्छेदो न भवति । षष्ठीमृचं विधत्ते
आगन्देव इत्यन्वाह , इति । स च मत्रः संहितायामानात:-‘आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु : सविता मुभजामिषम् । स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमर समिन्वतु’ [ऋ० सं० म० ४ सू० ५३ ऋ० ७] इति । तस्यायमर्थः । सो देव आगनिह कर्मण्यागच्छतु । आगत्य च ऋतुभिः सह क्षयं निवासस्था वर्धतु वृद्धि प्रापयतु । नोऽस्माकं सविता प्रेरकः स देवः सुप्रजां शोभनापल मिषमनं च दधातु संपादयतु । स देवो नोऽस्मान्क्षपाभिरात्रिभिरहोमि जिन्वतु प्रीणयतु । तथा प्रजोपेतं धनमस्मे समिन्वत्वस्मासु सम्यक्मापयत्विति
आगन्देव०-ऋ० सं० म० ४ सू० ९३ ऋ० ७ ।
द्वितीयः खण्डः] ऐतरेयबामणम् । अस्या ऋचः प्रथमपादे पूर्वभागं व्याचष्टे
आगतो हि स तर्हि भवति , इति । तहि तस्मिन्क्रयोत्तरकाले स सोम आगतो भवतीति प्रसिद्धम् । उत्तरभागमदूध व्याचष्टे
ऋतुभिर्वर्धतु क्षयमित्य॒तवो वै सोमस्य राज्ञो राजधातरो यथा मनुष्यस्य
तैरेवैनं तत्सहाऽऽगमयति , इति । यथा लोके कस्यचिन्मनुष्यस्य भ्रातरोऽपि मनुष्यजातीयास्तथा राजजाती स्य सोमस्य भ्रातरोऽपि राजजातीयाः । तत्तेन मत्रभागपाठेन तैर्ऋतुभिर्धा भिः सहनं सोममस्मिन्कर्मण्यागमयति ।
द्वितीयपादमनूध व्याचष्टे
दधातु नः सविता सुप्रजामि
षमित्याशिषमाशास्ते, इति । आशासनीयोपेक्षणीयः प्रजादिपदार्थ आशीस्तामनेन पादपाठेनाऽऽशास्ते । तृतीयपादमनूध व्याचष्टे
स नः क्षपाभिरहभिश्च जिन्वखित्यहानि वा अहानि रात्रयः क्षपा अहोरात्रैवास्मा एतामाशिषमाशास्ते प्रजावन्तं रयिमस्मे
समिन्वखित्याशिषमेवाऽऽशास्ते, इति । लोकमसिद्धान्यहान्येवात्र मत्रोक्तान्यहानि । अहोभिरिति वक्तव्ये वर्ण कारेणाहभिरित्युक्तत्वात । शब्दान्तरभ्रमं व्युदसितुमिदं व्याख्यानम् । एव व्याख्यातव्यः पदविशेषो नास्ति कित्वाशी प्रार्थनरूपं तात्पर्यमेवेत्य मित्यैवकारः प्रयुक्तः। सप्तमीमृचं विधत्ते
या ते धामानि हविषा यजन्तीत्यन्वाह, इति । सेयपॅक्संहितायामाम्नाता-‘या ते धामानि हविषा यजन्ति ता ते विश्वा रभूरस्तु यहम् । गयस्फानः प्रतरणः सुवीरोऽवीरहा प्रचरा सोम दुर्यान्’
५८
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३ तृतीयाध्याये [१-९१-४] इति । हे सोम ते तव धामानि यान्युत्तरवेद्यादिस्थानानि या माना हविषा यजन्ति ते तव ता विश्वा तानि सर्वाणि स्थानानि व्याप्योति शेषः । ततो भवान्यज्ञं परिभूरस्तु परितः प्राप्तवान्भवतु । किंच। त्वं गयस्फानी गयानामस्मदीयानां गवां वर्धयिता प्रतरणः प्रतारायता सर्वापवुत्तारणहेत. मुवीरः शोभनपुत्रपौत्रादिनदो भवेति शेषः । हे सोमावीरहाऽस्मदीयानां वीर पुरुषाणां हननमकुर्वाणो दुर्यानस्मदीयगृहान्मति प्रचर प्रकर्षण गच्छ ।
अत्र प्रथमपादस्य स्पष्टार्थत्वबुद्धया व्याख्यानमुपेक्ष्य द्वितीयपादमपि स्पष्ट भिप्रायेणैव पठति
ता ते विश्वा परिभूरस्तु यज्ञम्, इति । तृतीयपादमनूध व्याचष्टे
गयस्फानः प्रतरणः सुवीर इति गवां नः
स्फावयिता प्रतारयितैधीत्येव तदाह, इति । स्फावयिता वर्धयिता।
चतुर्थपादमनूध व्याचष्टे
अवीरहा प्रचरा सोम दुर्यानिति गृहा वै दुर्या बिभ्यति वै सोमाद्राज्ञ आयतो यजमानस्य गृहाः स यदेतामन्वाह शान्त्यैवैनं तच्छमयति
सोऽस्य शान्तो न प्रजां न पशून्हिनस्ति, इति । आयत आगच्छतः सोमाद्राज्ञो यजमानस्य गृहा गृहवर्तिनो वीरपुरुषा केनापि परिचर्यावैकल्येन राजा कोपं करिष्यतीति मत्वा तस्मात्सर्वे बिा तदानीं स होता यद्येतामवीरहेतिपदयुक्तामृचमन्वाह तत्तेनानुवचनेन शान्त्य शान्तिहेतुभूतया सुवीरपदोक्त्यैवैनं राजानं शमयति शान्तं करोति । स । राजा शान्तः सनस्य यजमानस्य पुत्रादिकां प्रजां गवादिपशृंश्च न हिनस्ति।
अष्टमीमृचं विधत्ते
इमां धियं शिक्षमाणस्य देवेति
वारुण्या परिदधाति , इति । इयमविरुणदेवताका तया परिदधाति । अनुवचनं समापयेदित्यर्थः । सेय मुक्संहितायामेवमानाता-“इमां धियं शिक्षमाणस्य देव ऋतुं दक्षं वरू
द्वितीयः खण्डः] ऐतरेयबामणम् । शिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम” [ ऋ०
८-४२-३ ] इति । तस्यायमर्थः । हे वरुण देवेमां धियं यज्ञानुष्ठान षयां बुद्धि शिक्षमाणस्याभ्यस्यतो यजमानस्य ऋतुं यज्ञविषयं वीर्य दक्ष शिलं याविषयप्रज्ञानं संशिशाधि सम्यगुपदिश। यया वायूपया नावा विश्वा रिता सर्वाणि पापान्यंतितरेम । तादृशी सुतर्माणं मुठतरणहेतुं वायूपा नावम
रुहेमाऽऽधिक्येनाऽऽरोहणं कुर्म इति । वारुण्या समापने कारणमाह
वरुणदेवत्यो वा एष तावद्यावदुपनहो यावत्परिश्रितानि प्रपद्यते स्वयैवैनं तद्दे
वतया स्वेन च्छन्दसा समर्धयति, इति । यावत्कालं सोम उपनद्धो वस्त्रादिना बद्धः स्याद्यावच्च परिश्रितानि प्राची वंशादिस्थानानि प्रतिपद्यते तावदेष सोमो वरुणदेवताको बन्धनस्य वरुण
शाधीनत्वादावरणस्यापि वरुणाधीनत्वात् । तत्तथा सति वारुण्या परिद सानो होता स्वयैव सोमसंबन्धिन्यैव देवतया स्वेन संबन्धिना छन्दसा तमेनं गोमं समृद्धं करोति । अस्या ऋचत्रिष्टुप्छन्दः । सा च त्रिष्टुप्सोममाहर्तु लोके गत्वा दक्षिणा(णां) तपश्चाऽऽहृतवती । तथा च शाखान्तरे श्रूयते सा दक्षिणाभिश्च तपसा चाऽऽगच्छत् ’ इति । तस्मादिदं छन्दः सोमस्य वकीयम् ।
प्रथमपाद शिक्षमाणस्येति पदं व्याचष्टे शिक्षमाणस्य देवेति शिक्षते वा एष यो यजते, इति । पुनः पुनरभ्यासः शिक्षा यजनशीलस्य सोऽस्ति । द्वितीयपादमनूध व्याचष्टे
क्रतुं दक्षं वरुण संशिशाधीति वीर्य
प्रज्ञानं वरुण संशिशाधीत्येव तदाह, इति । द्वितीयार्धमनूध व्याचष्टे
ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेमेति यज्ञो वै सुतर्मा नौः कृष्णाजिनं वै सुतर्मा नौर्वाग्वै सुतर्मा नौर्वाचमेव तदा
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ ३ तृतीयांध्याये रुह्य तया स्वर्ग लोकमभि संतरति, इति । यत्र यज्ञस्य वा कृष्णाजिनस्य वा प्रस्तावस्तत्र तत्परत्वेन सुतर्मशन व्याख्येयः । इह तु मत्ररूपा वाग्विवक्षिता । तत्तेन मत्रपाठेन वायूपामेव नाव मारुह्य तया नावा स्वर्गमभिलक्ष्य सम्यक्स्वर्ग तरति ।
उक्ताः सर्वा ऋचः प्रशंसति
ता एता अष्टावन्वाह रूपसमृदाः, इति । विवक्षितार्थप्रतिपादकेन रूपेण समृदाः। तामेव समृद्धिं विशदयति
एतदै यज्ञस्य समृद्धं यद्रूपसमृद्ध
यत्कर्म क्रियमाणमृगभिवदति, इति । पूर्ववद्याख्येयम् । आद्यन्तयोचोराकृत्ति विधत्ते
तासां त्रिः प्रथमामन्वाह त्रिरुतमाम् , इति । आवृत्तिसहितानामृचा संख्यां प्रशंसति
ता द्वादश संपद्यन्ते द्वादश वै मासाः
संवत्सरः संवत्सरः प्रजापतिः, इति । वेदनं प्रशंसति
प्रजापत्यायतनाभिरेवाऽऽभी
रानोति य एवं वेद, इति । आवृत्ति प्रशंसति
त्रिः प्रथमां त्रिरुत्तमामन्याह यज्ञस्यैव तद्वर्सी
नह्यति स्थेग्ने बलायाविषेसाय ॥ १३ ॥ इति । तत्तेनाऽऽवर्तनेन बसौं रज्ज्वा उभयोरन्तयोः स्थितौ मण्याकारौ ग्रन्थी तर दत्रापि नह्यति बधाति । तब बन्धनं स्थेने स्थैर्याय भवति । तस्यैवान्वय व्यतिरेकाभ्यां व्याख्यानं मावल्यमविप्रेसनं च ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय
“बामणभाष्ये तृतीयाध्याये द्वितीयः खण्डः ॥२॥ (१३)-
तृतीयः खण्डः ] ऐतरेयबामणम् ।। सोमप्रवहणीचो विधाय सोमस्य शकटादवरोहणं विधत्ते
अन्यतरोऽनड्वान्युक्तः स्यादन्यतरो
विमुक्तोऽथ राजानमुपावहरेयुः, इति । क्रयदेशे सोमं शकटे प्रक्षिप्य प्राचीनवंशसमीपे समानीय शकटबद्धयोरन मध्ये कंचिदनइवाहं विमुच्येतरमनवमुच्य राजानं शकटादधस्तात्विज वहरेयुः । युक्तः शकटे बद्धो विमुक्तः शकटाद्वियोजितः । उभयोरनहोविमोचने दोषमुपन्यस्यति
यदुभयोर्विमुक्तयोरुपावहरयुः
पितृदेवयं राजानं कुर्युः, इति । रामः सोमस्य पितृभिः स्वीकृतत्वादयं सोमो देवयोग्यो न भवेत् । उभयोरनडुहोः शकटयोगेऽपि दोषमाह
ययुक्तयोरयोगक्षेमः प्रजा विन्दे
त्ताः प्रजाः परिप्लवेरन्, इति । अमाप्तस्य धनादेः संपादनं योगः । प्राप्तस्य रक्षणं क्षेमः । योगसहितः क्षेमो रोगक्षेमस्तदभावः प्रजाः पुत्रादिका विन्देल्लभेत्प्रामुयात् ।
योऽनड्वान्विमुक्तस्तच्छालासदां प्रजानां रूपं यो युक्तस्तच क्रियाणां ते ये युक्तेऽन्ये विमुक्तेऽन्य
उपावहरन्त्युभावेव ते क्षेमयोगी कल्पयन्ति, इति । । योऽनड्वान्विमुक्तस्तदेतच्छालासदां गृहावस्थितानां प्रजानां पुत्रादीनां रूपं पोऽनइवानधस्ताच्छकटे युक्तस्तच क्रियाणां लौकिकानां वैदिकानां च रूपम् । पता चक्रमस्यास्तीति चक्रि शकटं तेन चक्रिणा यान्तीति शकटमारुह्य गच्छन्त्य: पजाश्चक्रियास्तासां रूपम् । एवं सति ते ये यजमानानां मध्ये ये केचि
बुद्धिमन्तो यजमाना अन्ये युक्त एकस्मिन्ननडुहि शकटबद्धेऽन्ये विमुक्त इतर सिन्ननहाहि शकटाद्वियोजिते सति सोममुपावहरन्ति ते बुद्धिमन्त उभावेव क्षेमं पागं च संपादयन्ति। तमिममर्थ तैत्तिरीयाश्चाऽऽमनन्ति-‘यदुभौ विमुच्याऽऽ तिथ्यं गृह्णीयायझं विच्छिन्द्यानुभावविमुच्य यथाऽनागतायाऽऽतिथ्यं क्रियते बागेव तद्विमुक्तोऽन्योऽनवान्भवत्यविमुक्तोऽन्योऽथाऽऽतिथ्यं गृहाति यज्ञस्य
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३ तृतीयाध्याय संतत्यै” इति । नन्वेकत्र सोमावरोहणकाल उच्यत इतरत्राऽऽतिथ्यष्टिकाला न समानविषयत्वमिति चेन । उभयोरेककालीनत्वात् ।
अथाऽऽख्यायिकामुखेन सोमोपावहरणस्यैशानी दिशं विधत्ते
देवासुरा वा एषु लोकेषु समयतन्त त एतस्यां प्राच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्ते दक्षिणस्यां दिश्ययतन्त तांस्ततोऽसुरा अज यंस्ते प्रतीच्या दिश्ययतन्त तांस्ततोऽसुरा अजयंस्त उदीच्यां दिश्ययतन्त तांस्ततोऽसुरा अजयंस्त उदीच्यां प्राच्यां दिश्ययतन्त ते ततो न पराजयन्त सैषा दिगपराजिता तस्मादेतस्यां
दिशि यतेत वा यातयेद्देश्वरो हानृणाकर्ताः, इति । समयतन्त सङ्घाममकुर्वन् । प्राच्यादिषु चतसृषु दिक्षु देवानां पराजय आसीत् । ऐशान्यां दिशि नास्ति पराजयः। तस्मात्तस्यां दिशि सोमोपावहर गाय यतेत प्रयत्नं कुर्याद्वा यातयेत्प्रयत्नं कारयेद्वा । एवमेव वैकल्यराहिलं कर्तुं प्रभुर्भवति । अथवा सोमस्य राज्ञो विजयित्वेनोत्तरत्र प्रशंसां कर्तुं देवाः सुरा वा इत्यादिना लौकिकस्य राज्ञ ऐशान्यां दिशि स्वकीयभृत्यप्रेरणं प्रति पादितम् ।
इदानीं सोमस्य जयहेतुत्वं दर्शयति
ते देवा अब्रुवन्नराजतया वै नो जयन्ति राजानं करवामहा इति तथेति ते सोमं राजानमकु र्वस्ते सोमेन राज्ञा सर्वा दिशोऽजयन्नेष वै सोमराजा यो यजते प्राचि तिष्ठयादधति तेन प्राची दिशं जयति तं दक्षिणा परिवहन्ति तेन दक्षिणां दिशं जयति तं प्रत्यञ्चमावर्तयन्ति तेन प्रतीची दिशं जयति तमुदीचस्तिष्ठत उपावह रन्ति तेनोदीची दिशं जयति सोमेन राज्ञा इति ।
चर्तुथः खण्डः]
ऐतरेयब्रामणम् ।
ते देवाः परस्परमेवमब्रुवन् , अस्माकं राजाभावात्माच्यादिदिक्षु पराजय सीदसुराणां जय आसीत् । ततो राजानं संपादयाम इति विचार्य सोममेव जानं कृत्वा प्राच्यादिदिक्षु जयं प्राप्ताः । एवं सति यो यजमानः सोमयागं रोति, एष एव सोमराजा । सोमो राजा यस्येति बहुव्रीहिः। अतः सोमा यस्वामिनः प्रचारादयं यजमानः सर्वत्र जयति । तत्कथमिति चेत्तदुच्यते । मवाहनार्थे शकटे प्राचि तिष्ठति प्रामुखेऽवस्थिते सत्यत्विजस्तत्र सोममाद ति प्रक्षिपन्ति तेन सोमसंबन्धिशकटस्य प्रामुखत्वेन यजमानः प्राच्यां दिशि यं प्रामोति । शकटस्थितं सोमं दक्षिणा परिवहन्ति शकटं दक्षिणाभिमुखत्वेन पोहत्य वहन्ति तेन दक्षिणस्यां दिशि जयः। ततः शकटं प्रत्यख्मुखमावर्त. न्ति तेन प्रतीच्यां दिशि जयः। तमुदीचस्तिष्ठत उदङ्मुखत्वेनावस्थिताच्छ टात्तं सोममुपावहरन्ति तेनोद खत्वेनोदीच्यां दिशि जयः । एवं सोमराज सादायजमानः सर्वा दिशो जयति । अत्रार्थवादेन विधय उन्नेयाः। प्राङ्मुखे कटे सोममादध्युः । ततो दक्षिणाभिमुखत्वेन परिवहेयुः । ततः प्रत्यबुखत्वे [ऽऽवर्तयेयुः । तत उदअमुखाच्छकटात्सोममुपावहरेयुरिति । एतत्सर्वमभिने
ऽऽहाऽऽपस्तम्ब:-‘संजग्राह प्रत्यवस्तनुवस्यत इति पाश्चोऽभिवाय दक्षि मावर्तत इत्यग्रेण प्राग्वंशं मागीषमुदगी वा शकटमवस्थाप्य’ इति ।
वेदनं प्रशंसति
सर्वा दिशो जयति य एवं वेद ॥ १४ ॥ इति । अत्र शब्दादेव श्रुतस्यापि सर्वा दिशो जयतीति वाक्यस्य द्विरावृत्तिः
तिव्या।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थमकाश ऐतरेय ब्राह्मणभाष्ये तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ (१४)
सोमोपावहरणं विधायाऽऽतिथ्येष्टिरूपं कर्म विधत्ते
हविरातिथ्यं निरुप्यते सोमे राजन्यागते, इति । । प्राचीनवंशसमीपं सोमे राजनि समागते सति तस्यातिथिरूपत्वात्तदीयमा तथ्याख्यकर्मसंबन्धि हविनिर्वपेत । यद्यप्यस्य हविषोऽतिथिदेवता न भवति विष्णुदेवताया वक्ष्यमाणत्वात्तथाऽपि सोमस्यातिथिरूपस्योपचाराय क्रियमाण.
वादातिथ्यमिति कर्मनाम युक्तम् ।
–
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३ तृतीयाध्याये एतमेवाभिमायं विस्पष्टयति
सोमो वै राजा यजमानस्य गृहानाग च्छति तस्मा एतद्धविरातिथ्यं निरु
प्यते तदातिथ्यस्याऽऽतिथ्यत्वम्, इति । तिथिविशेषमनपेक्ष्य भोजनार्थ कस्यचिगृहं प्रत्यकस्माधः समागत सोऽतिथिः । सोमोऽपि तथाविधत्वादतिथिरित्युच्यते। तत्संबन्धित्वादातिर मिति नामधेयम् ।
इविविशेषं विधत्ते
नवकपालो भवति नव वै प्राणाः प्रा
णानां क्लप्त्यै प्राणानां प्रतिप्रज्ञात्य, इति । नवसु कपालेषु संस्कृतः पुरोडाशो नवकपालः । पुरुषस्य शिरोगतेषु सप्ता च्छिद्रेषु वर्तमानाः सप्त माणा अधोभागावस्थितयोर्वर्तमानौ द्वौ । एवं नवसं ख्याकाःमाणाः। तथा चान्यत्र श्रूयते-‘सप्त वै शीर्षण्या प्राणा द्वाववाची इति । एवं सति कपालगता नवसंख्या प्राणानां क्लप्त्यै स्वव्यापारसामर्थ्यार भवति । सामर्थ्य च माणोऽयमीदृश इति सर्वैः प्राणाः प्रज्ञाता भवन्ति ।
द्रव्यं विधाय देवतां विधत्ते
वैष्णवो भवति विष्णुवै यज्ञः स्वयैवैनं तहे- ।
वतया स्वेन च्छन्दसा समर्धयति, इति । विष्णुर्देवता यस्य पुरोडाशस्य सोऽयं वैष्णवः । विष्णोळपित्वात्सर्वया स्वरूपत्वम् । तथा सत्यातिथ्येष्टेरपि यात्वाद्विष्णुः स्वकीया देवता भवति । तया देवतयैनं समृद्धं करोति । यधप्यत्र मत्राविहितत्वात्तच्छन्दो न प्रकृत तथाऽपि यज्ञस्य विहितत्वाधाज्यानुवाक्ययोरवश्यंभावेन च्छन्दोऽर्थसिद्धम् । तेन स्वकीयेन च्छन्दसा यज्ञं समृद्धं करोति । ते च याज्यानुवाक्ये, आश्वला यनेन दर्शिते-‘इदं विष्णुर्विचक्रमे [१-२२-१७ ] तदस्य प्रियमभि पायो अश्याम्’ [१-१५४-५ ] इति । तयोश्च गायत्री त्रिष्टुप्चेति च्छन्दोद्वयम् तेन च्छन्दोद्वयेनास्य यज्ञस्य समृद्धिः। ___ अत्र शाखान्तरोक्ताननेरातिथ्यमसि विष्णवे त्वेत्यादिकांश्च निर्वापमन्त्रा न्हृदि निधाय तत्पशंसारूपमर्थवादं दर्शयति
दुर्थः खण्डः] ऐतरेयनामणम् ।
सर्वाणि वाव च्छन्दांसि च पृष्ठानि च सोमं राजानं क्रीतमन्यायन्ति यावन्तः खलु वै राजानमनु यन्ति तेभ्यः सर्वेभ्य आतिथ्यं क्रियते, इति । गायत्री त्रिष्टुबित्यादीनि सर्वच्छन्दांसि बृहद्रथंतरवैरूपादिसामसाध्यानि तोत्राणि । तदुभयाभिमानिनो देवा अनुचराः सन्तो राजानमनु यजमान प्रत्यागच्छन्ति । अतो राज्ञा सहाऽऽगतेभ्यः सर्वेभ्यः सहाऽऽतिथ्यं कर्त । तथा सत्यग्नेरातिथ्यमसीत्यादिमत्रैः सर्वेषामनुचराणां गायत्र्यादीनां भवतीत्यर्थः। तथा च तैत्तिरीया आमनन्ति–‘यावद्भिवै राजाऽनुचरैराग ति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दांसि खलु वै सोमस्य राज्ञोऽनु. ण्यग्नेरातिथ्यमसि विष्णवे त्वेत्याह गायत्र्या एवैतेन करोति सोमस्याऽऽ यमसि विष्णवे त्वेत्साह त्रिष्टुभ एवैतेन करोति’ इत्यादि । अत्राऽऽतिथ्ये. ध्येऽग्निमन्थनमापस्तम्ब आह-चतुर्होत्रातिथ्यमासाद्य संभारयजूंषि चष्टे । यजमानं वाचयतीत्येके । पशुवनिर्मथ्यः सामिधेन्यश्च’ इति । आश्व नोऽप्याह-‘आतिथ्येलान्ता तस्यामग्निमन्थनम्’ इति । दिदमग्निमन्थनं विधत्ते
अनि मन्थन्ति सोमे राजन्यागते तद्यथैवादी मनुष्यराज आगतेऽन्यस्मिन्वाऽर्हत्युक्षाणं वा वेहतं वा क्षदन्त एवमेवास्मा एतत्क्षदन्तं यदग्निं
मन्थन्त्यनिर्हि देवानां पशुः ॥ १५॥ इति । लोके यथैवादोऽतिथिसत्करणं तथैव सोमस्यापि तत्सत्करणं द्रष्टव्यम् । तो दृष्टान्तदान्तिको मनुष्यराज इत्यादिना स्पष्टी क्रियते । महति मनुष्य. तो वाऽन्यस्मिंश्चिविद्यावृत्तादिसंपन्नत्वेनाईति पूज्ये महति ब्राह्मणेऽब्रामणे गृहं प्रत्यागते सत्यतिथिसत्कारार्थ शास्त्रकुशलाः शिष्टाः कचिवुक्षाणं वृषभ वेहतं गर्भघातिनी वृद्धां गांवा क्षदन्ते हिंसन्ति । अयं सत्कारः स्मृतिषु दो युगान्तरधर्मो द्रष्टव्यः । एवमेवात्रापि, अनि मन्थन्तीति यदस्ति, एत | सोमायातिथिसत्कारार्थ क्षदन्तेऽनेर्देवपशुत्वात् । यथाऽनड्वान्हव्यं वहति
ऽग्निरपि हव्यं वहति तस्मादनेः पशुसाम्यम् ।
१ ख. स. °णे वा।
श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्-[३ तृतीयाध्या
अत्र मीमांसा । सप्तमाध्याये तृतीयपादे चिन्तितम्
“वैष्णवे त्रिकपाले वैष्णवानवकपालतः ।
धर्मातिदेशः स्यानो वा विद्यतेऽत्राग्निहोत्रवत् ।। श्रुत्या वैष्णवशब्दोऽयं देवताया विधायकः ।
स गौणवृत्तिमाश्रित्य धर्मानातिदिशत्यतः॥ आतिथ्यष्टौ वैष्णवो नवकपालो विहितः । तत्र श्रुतौ वैष्णवशब्दो राजा यगते वैष्णवे त्रिकपाले प्रयुज्यमानोऽग्निहोत्रशब्दवनवकपालधर्मानतिदिशती पूर्वः पक्षः। विष्णुर्देवता यस्येति विग्रहे विहिततद्धितप्रत्ययो देवतामभिधत्ते तु धर्मान् । तस्मानातिदिशति ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय
ब्राह्मणभाष्ये तृतीयाध्याये चतुर्थः खण्डः ॥४॥ (१५)
अनिमन्थनं विधाय तत्रत्या ऋचो विधातुं प्रैषमत्रं विधत्ते ___ अग्नये मथ्यमानायानबूहीत्याहाध्वर्युः, इति । तत्र प्रथमामृचं विधत्ते __ अभि खा देव सवितरिति सावित्रीमन्वाह, इति । सविता देवता गायच्या ऋचः सा सावित्री। अत्र च, अभि त्वा दे सवितरिति सविता मत्रदेवत्वेन श्रूयते तस्मादियमुक्सावित्री।
अत्र प्रैषानुवचनमवयोवैयधिकरण्यरूपं चोद्यमुद्भावयति
तदाहुर्यदग्नये मथ्यमानायानुवाचाऽऽ
हाथ कस्मात्सावित्रीमन्वाहेति, इति । तत्चत्र ब्रह्मवादिनचोद्यमाहुः यद्यस्मात्कारणादध्वर्युरग्नये मथ्यमानायेत प्रयेऽनुकूलया वाचा प्रैषमत्रमाह तत्तस्मात्कारणादाग्नेयी होत्राऽनुवक्तव्या। परित्यज्याथानन्तरं कस्मात्कारणाद्धोता सावित्रीमृचमनुब्रूते । इतिशब्दश्वो समाप्त्यर्थः।
तस्य चोधस्योसरमाह
सविता वै प्रसवानामीशे सवितृप्रसूता एवैनं तन्मन्थन्ति तस्मात्सावित्रीमन्वाह, इति ।
अभि त्वा०-१० सं० म० १ सू० २४ ऋ० ३ ।
पञ्चमः खण्डः ] . ऐतरेयबामणम् । योऽयं सविता देवः स एव प्रसवानां कर्मस्वनुशानामीशे स्वामी भवति । या सति तत्तेन मत्रपाठन सवित्राऽनुज्ञाता एवं सन्त एनममिं मन्यन्ति । स्मात्कारणात्सावित्रीमचमनुब्रूयात् ।
द्वितीयामृचं विधत्ते
मही द्यौः पृथिवी च न इति
द्यावापृथिवीयामन्वाह, इति । धौश्च पृथिवी च देवते यस्या ऋचः सेयं द्यावापृथिवीया। अत्रापि पूर्ववच्चोद्यपरिहारौ दर्शयति
तदाहुर्यदनये मथ्यमानायानुवाचाऽऽहाथ कस्मा
द्यावापृथिवीयामन्वाहेति द्यावापृथिवीभ्यां वा एतं जातं देवाः पर्यगृहस्ताभ्यामेवाद्यापि परिगृहीतस्तस्माद्यावापृथिवीयामन्वाह, इति । पुरा कदाचिदेवा उत्पन्नमग्निं द्यावापृथिवीभ्यां परिगृहीतवन्तः। अद्यापि भ्यामेव परिगृहीतो दृश्यते । पावकोऽग्निभूम्या परिगृहीतः प्रकाशकसूर्यरू ऽनिर्दिवा परिगृहीतः। तस्मादग्निपरिग्रहाय द्यावापृथिवीदेवताकाया ऋचोऽ.
चनं युक्तम् । तृतीयाद्यास्तिस्र ऋचो विधत्ते
खामग्ने पुष्करादधीति तृचमाग्नेयं गाय त्रमन्वाहामौ मथ्यमाने स्वयैवैनं तद्देव
तया स्वेन च्छन्दसा समर्धयति, इति । अस्य तृचस्याग्निदेवताकत्वेन वैयधिकरण्यचोद्यानुदयात्स्वयैवेत्यादिना सैव क्रियते । गायत्रीछन्दोऽग्नेः स्वकीयमुभयोः प्रजापतिमुखजन्यत्वात् । प्रथमायामूचि द्वितीयपादमनूध प्रशंसति
अथर्वा निरमन्थतेति रूपसमृद्धमेतद्वै यज्ञस्य समृद्ध यद्रूपसमृद्ध यत्कर्म क्रियमाणमृगभिवदति, इति । मही यौः-ऋ० सं० म० १ सू० २२ ऋ० १३ । त्वामने पु०-१० ‘म० ६ सू० १६ ऋ० १३ ।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३ तृतीयाध्याये, ‘अख्यि ऋषिनिःशेषेण मन्थनं कृतवानित्युच्यते । तदेतद्वचनमामिमन्न नस्याऽऽनुकूल्येन रूपेण समृद्धम् ।।
इत्यमुक्तास्वग्निमन्थनास्थक्षु पञ्चस्वनूक्तासु षष्ठमभृतीनायुचामनुवचनाता नैमित्तिकाः काश्विदृचो विधत्ते
स यदि न जायेत यदि चिरं जायेत
राक्षोऽन्यो गायत्र्योऽनूच्याः, इति । . पञ्चानामुचामनुवचने सति तस्मिन्काले यदि सोऽग्निर्नोत्पद्येत तत उत्पत्ति लिज धूमादिरूपं यदि न दृश्येत दृश्यमानेऽपि वा लिङ्गे यदि सहसा नोत्प. चते किंतु विलम्बेन तदानीं सहसा तदुत्पत्यर्थ रक्षोहननलिङ्गोपेता गायत्री न्दस्का ऋचोऽनुयात् ।
प्रतीकग्रहणेन ता ऋचो दर्शयति
अग्ने हंसिन्यत्रिणमित्येताः, इति । अग्ने हंसीत्यादिके सूक्ते नव! विद्यन्ते । एता रक्षोहननलिकाः । तासामनुवचने प्रयोजनमाह
रक्षसामपहत्यै, इति । का प्रसङ्गो रक्षसामित्याशङ्कयाऽऽह
रक्षांसि वा एनं तालभन्ते यहि
न जायते यर्हि चिरं जायते, इति । यस्मिन्काले मध्यमानस्य वह्नः सर्वथाऽनुत्पत्तिविलम्बो वा भवेत्तदानीमेन वहिं रक्षास्येवाऽऽलभन्ते संस्पृशन्ति प्रतिबध्नन्तीत्यर्थः। ततो रक्षोहननार ता ऋचः पठनीयाः।
नैमित्तिका ऋचो विधाय प्रकृतामेव षष्ठीमचं विधत्ते
स यकस्यामेवानूक्तायां जायेत यदि इयोरथोत ब्रुवन्तु जन्तव इति जाता
य जातवतीमभिरूपामनुब्रूयाव , इति । अग्ने हं०-ऋ० सं० म० १० सू० ११९ ऋ० १। उत ब्रुव०-३० स. म० १ सू० ७४ ऋ० ३।
.
..
पञ्चमः खण्डः] ऐतरेयबामणम् ।
१९ सोधीनामचा मध्ये यकस्यामेव पठितायां स वहिर्जायेत यदि वा द्वयोः टितयोरुत्पद्येत । एवं तृतीयादीनामुपलक्षणम् । अथेदानीमुत्पत्तिक्षण एव, ह अवन्त्वित्येतामनुभूयात् । सा च जातायाभिरूपा जातस्यामेरनुकूला। देवाऽऽनुकल्यं जातवतीमितिशब्देन स्पष्टी क्रियते । जातं जन्मवाचिपदं तद समस्तीति जातवती तस्या ऋचो द्वितीयः पाद एवं पठ्यते-‘उदमित्रहाऽ नि’ इति । तस्मिन्नजनीति जन्मवाचकं पदमस्ति ।
अस्या ऋचोऽभिरूपत्वं प्रशंसति
यद्यज्ञेऽभिरूपं तत्समृद्धम् , इति । सप्तमीमृचं विधत्ते
आ यं हस्ते न खादिनमिति, इति । अनुब्रूयादिति शेषः। सा च संहितायां पठिता-‘आ यं हस्ते न खादिनं शशुं जातं न बिभ्रति । विशामग्निं स्वध्वरम्’ इति । तस्या अयमर्थः। यशब्दः सिद्धवाची । नशब्द उपमार्थः । यं मन्थनेन प्रसिद्धमग्निं हस्ते न हस्त इव इत्विज आविभ्रति समन्ताद्धारयन्ति । तत्तहत्विजां हस्ताभ्यां मन्थनं हस्तधा. गसदृशं शिशुं जातं नेत्यनेन दृष्टान्तोऽभिधीयते । जातं शिशुमिव । यथा
द्यः समुत्पन्नं शिशुं हस्ताभ्यां धारयन्ति तद्वत् । कीदृशमग्निं विशां स्वध्वरम् , गोभनोऽध्वरो यागो यस्याग्नेः सोऽयं स्वध्वरः। विशां प्रजानामृत्विग्यज निरूपाणामध्वरनिष्पादकम् । पुनरपि कीदृशम् । खादिनं हविरादीनां
क्षकमिति ।
अस्यामृचि प्रथमपादे हस्तशब्देन विवक्षितमर्थ दर्शयति
हस्ताभ्यां धेनं मन्थन्ति, इति । हि यस्मादेनमनिं हस्ताभ्यां मन्थन्ति तस्माद्धस्ते धारणमुपपद्यते । द्वितीयपादे पूर्वभागमनूध तात्पर्य दर्शयति
शिशुं जातमिति शिशुखि वा
एष प्रथमजातो यदग्निः, इति । योऽमिर्मन्यनेन प्रथममुत्पन्न एष शिशुना सदृश इत्येतस्य भागस्य तात्पर्यम्। द्वितीयपादस्योत्तरभागं तृतीयपादं चानुवदति
न बिभ्रति विशामामि स्वध्वरमिति, इति । आ यं हस्ते०-१० सं० म० ६ सू० १६ १० ४० ।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३ तृतीयाध्यारे अत्र नेति पदं व्याचष्टे
यदै देवानां नेति तदेषामोशमिति, इति । देवानां संबन्धिनि मत्रे कचित्कचिनेति पदं यदेवास्ति तदेषां देवपतिए दकानां मत्राणां नेति पदमोमित्येतस्मिन्नर्थे वर्तते । लोके प्रतिषिद्धवाची ने शब्दो वेदेऽङ्गीकारवाची । न ओमित्यस्य पदस्यार्थे वर्तते । तथा सति लोव वैपरीत्यस्य दृष्टत्वादुपमार्थोऽपि वक्तुं शक्यते । तदेतदुभयं निरुक्तकारेण क्तम्-‘नेति प्रतिषेधार्थीयो भाषायाम्’ इति । ‘उपरिष्टादुपचार उपमार्थीय इति च। अयं च नेति शब्दः शिशुं जातं नेत्युपमेयादुपरिष्टात्प्रयुज्यते । तस्मा दुपमार्थी । देवानामित्यत्र देवप्रतिपादकानां मत्राणां संबन्धीति व्याख्यातम् यद्वा दकारवकारयोविपर्यासेन वेदानां संबन्धीति व्याख्येयम् ।
अष्टमीमचं विधत्ते
प्र देवं देववीतये भरता वसुवित्तम
मिति प्रह्रियमाणायाभिरूपा, इति । अनुवक्तव्येति शेषः । आहवनीये प्रक्षिप्यमाणोऽयं मथितोऽग्निः पहियमा णस्तस्येयमृगनुरूपा । कथमिति चेत्तदुच्यते । देववीतये देवानां कामायामि लाषाय वसुवित्तममतिशयेन हविर्लक्षणधनाभिज्ञ देवं मथितमग्निं हे ऋत्विज प्रभरत, आहवनीये प्रहरत प्रक्षिपत । तस्मात्माह्रियमाणानुरूपत्वम् । अन्न जातायानुःहीत्यध्वर्युणा प्रेषितो होता पूर्वोक्तामुत ब्रुवन्तु जन्तव इत्येतामनुः श्रूयात् । तथा पहियमाणायानुवरहीत्येवं प्रेषितः प्र देवमित्यादिकामृचं वया त् । एवमुत्तरा अपि च । तदेतत्सर्व तैत्तिरीयाः संगृह्याऽऽमनन्ति-‘अग्नये मथ्यमानायानुब्रूहीत्याह । सावित्रीमृचमन्वाह सवितृप्रसूता एवैनं मन्थन्ति । जातायानुब्रूहि पहियमाणायानुब्रूहीत्याह काण्डे काण्ड एवैनं क्रियमाणे सम र्धयति । गायत्री सर्वाऽन्वाह’ इति ।
प्रदेवमित्यस्या ऋचः पहियमाणाभिरूपत्वे यज्ञाङ्गसमृद्धिरूपं प्रयोजन दर्शयति
यद्यज्ञेऽभिरूपं तत्समृद्धम् , इति । प्र देवं दे०-२० सं०म० ६ सू० १६ १० ४१ ।
१ क, ख. ज. स. णायामि ।पञ्चमः खण्डः] ऐतरेयबामणम् ।
अस्या ऋचस्तृतीयपादमनुवदति
आ योनौ निषीदविति, इति । अयं मथितोऽग्निरागत्य स्वे योनौ स्वकीयस्थान आहवनीयाख्ये नितरा विशत्विति पादस्यार्थः। तस्मिन्पादे योनिपदं व्याचष्टे
एष ह वा अस्य स्वो योनियंदग्निरग्नेः, इति । आहवनीयाख्यो योऽग्निरस्ति, एष वा अस्य मथितस्याः स्वकीय स्थानम्। नवमीमृचं विधत्ते -
आजातं जातवेदसीति, इति । अनुब्रूयादिति शेषः। सा चैवं संहितायामानाता-‘आजातं जातवेदसि यं शिशीतातिथिम् । स्योन आ गृहपतिम्’ इति । अस्यायमर्थः। कीदृशमाह नीयस्य प्रीतिहेतुमतिथिम् । इदानीमागतत्वादतिथिरूपम् । स्योने सुखकर
हवनीय आ गृहपतिमागत्य गृहस्वामित्वेन वर्तमानम् । तस्याचि प्रथमपादे पदद्वयं व्याचष्टे
जात
जात इतरो जातवेदा इतरः , इति । इतर इदानीं मथितोऽग्निः सद्यःसमुत्पन्नत्वाजात इत्युच्यते । इतरः पूर्व द्धिाहवनीयोऽग्निरिदानी जातमिममग्निं वेत्तीति जातवेदा इत्युच्यते ।
द्वितीयपादमनूद्य व्याचष्टे
प्रियं शिशीतातिथिमित्येष ह वा
अस्य प्रियोऽतिथिर्यदग्निरनेः , इति । योऽग्निर्मन्थनेनोत्पन्न एष एवास्य पूर्वसिद्धस्याऽऽहवनीयस्याग्नेः प्रियश्चा विश्व ।
तृतीयपादमनूय व्याचष्टे स्योन आ गृहपतिमिति शान्त्यामेवैनं तद्दधाति, इति । स्योने सुखरूपे पूर्वाग्नौ स्थापनं यदस्ति तत्तेन स्थापनेन नूतनमेवमनि त्यामेव स्थापयति । पूर्वाग्नेः सुखनिवासहेतुत्वाच्छान्तित्वम् । आ स्वे यो०-१० सं० म०६ सू० १६ ऋ० ४१ । आजातं जा०-० । म०६ सू. १६ ऋ. ४२ ।
५२
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[३ तृतीयाध्या दशमीपचं विधत्ते
आमिनाऽग्निः समिध्यते कविहपतिर्युवा।
हव्यवाहास्य इत्यभिरूपा, · इति । अनूच्येति शेषः । अस्या अयमर्थः। अग्निनाऽऽधारभूतेनाऽऽहवनीयेना गृहीत इदानी प्रहृतोऽग्निः सम्यग्दीप्यते । कीदृशोऽग्निः। कविर्विद्वानाकृता शोऽत एव गृहपतिर्यजमानस्य गृहस्य पालकः । युवा नूतनः । देवेभ्यो हर वहतीति हव्यवाद, होमसाधनभूतः । जुहूरेवाऽऽस्यं मुखं यस्यासौ जुहास्यः सेयमृक्महियमाणाग्निगुणकीर्तनात्तस्याग्नेरनुरूपा।
तदेतदानुरूप्यं प्रशंसति
यद्यज्ञेऽभिरूपं तत्समृद्धम् , इति । एकादशीमृचं विधत्ते
त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सतेति , इति । अनुयादिति शेषः । हे नूतनाग्ने त्वं सिद्धेनाऽऽहवनीयेनामिना समि ध्यस इति तृतीयपादगतेन पदेन योज्यम् । उभयोरग्न्योर्विधमानत्वात्सम्या नुष्ठाननिर्वाहकत्वाद्वा सच्छन्दवाच्यत्वम् । ‘अग्ने महाँ असि ब्राह्मणभारत इति श्रुतेाह्मणजात्यभिमानित्वाद्विमत्वम् ।
तदेतदुभयं विशदयति
विप्र इतरो विप्र इतरः सन्नितरः सन्नितरः , इति । तृतीयपादमनूध व्याचष्टे
सखा सख्या समिध्यस इत्येष ह वा
अस्य स्वः सखा यदग्निरग्नेः, इति । योऽग्निराहवनीयाख्य एष एवास्याग्नेथितस्य स्वकीयः सखा । दादशीमृचं विधत्ते–
तं मर्जयन्त सुक्रतुं पुरोयावानमा जिषु। स्वेषु क्षयेषु वाजिनमिति, इति ।
अग्निनाऽग्निः०-ऋ० सं० म० १ सू० १२ ऋ० ६ । त्वं ह्यने०-१०स. म. ८ सू० ४३ ऋ० १४ । तं मर्जयन्त-ऋ० सं०म० ८ सू० ८५१०६
पञ्चमः खण्डः] ऐतरेयबामणम् ।
अनजयादिति शेषः। हे ऋत्विजस्तं नूतनमनिं मर्जयन्त शोषयन्त । दशं शोभनस्य ऋतोनिर्वाहकम् । आजिषु सामेषु पुरोयावानं पुरो तारम् । स्वेषु क्षयेषु स्वकीयेषु गृहेष्वाहवनीयादिषु वाजिनमभवन्त
छन्तं वा। क्षयशब्देनात्राऽऽहवनीयाग्निरूपगृहविवक्षा दर्शयति
एष ह वा अस्य स्वः क्षयो यदग्निरनेः, इति । त्रयोदशीमचं विधत्ते यजेन यज्ञमयजन्त देवा इत्युत्तमया परिदधाति, इति । उत्तमया चानया परिदधाति, अनुवचनं समापयेत् । यदाहाऽऽश्वलायन: जेन यज्ञमयजन्त देवा इति परिदध्यात्सर्वत्रोत्तमा परिधानीयेति विद्यात्’ इति ।
उदाहृतमृचः पादं व्याचष्टे
यज्ञेन वै तद्देवा यज्ञमयजन्त यदग्निना:
निमयजन्त ते स्वर्ग लोकमायन् , इति । अग्निना प्रह्रियमाणेन नूतनेन पूर्वसिद्धमाहवनीयाग्निमयजन्त पूजितवन्त ते यदस्ति तेन कारणेन यज्ञेन वै देवा यज्ञमयजन्तेत्युच्यते । उभौ यत्र दौ स्वकारणभूतमग्निद्वयमुपलक्षयतः । देवशब्देनेदानी देवत्वेन वर्तमाना: सिद्धा ऋत्विजो विवक्षिताः। ते च पूर्वमनुष्ठितेन यागेन स्वर्गलोकं प्राप्ताः।
अवशिष्टं पादत्रयं पठति
तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्व
साध्याः सन्ति देवा इति , इति । इदानीं देवत्वेन वर्तमानैः पूर्वसिद्धैर्ऋत्विग्यजमानैर्यानि ज्योतिष्टोमादीनि ण्यनुष्ठितानि [तानि] सर्वाणि प्रथमानि धर्माण्यादिसृष्टिकालीनानि सुकृत धनान्यासन् । ते ह ते चानुष्ठातारो महिमानो महत्त्वोपेता नाकं सचन्त सुखमकं दुःखं तदहितो भोगो नाकस्तं संप्राप्तवन्तः। यत्र यस्मिल्लोके पूर्वे ध्याः पूर्वसृष्टिगता यज्ञादिसाधका इदानीं यज्ञादिभिः साध्यत्वेन वर्तमाना : सन्ति वर्तन्ते तं नाकं सचन्तेति पूर्वत्रान्वयः।
यज्ञेन यज्ञ० ऋ० सं० म० १० सू० ९० ऋ० १६:।
७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ ३ तृतीयाध्यारे
चतुर्थपादस्य तात्पर्य दर्शयति
छन्दांसि वै साध्या देवास्तेऽग्रेग्मिनाऽ
निमयजन्त ते स्वर्ग लोकमायन्, इति । छन्दांसि वै गायत्र्यादिच्छन्दोभिमानिन एव साध्या इदानीं जनैः पूज देवास्तेऽग्रे च पूर्वसृष्टामिना मथितेनामिनाऽऽहवनीयमनिमयजन्त पूजितवन्तः ते च तेन यागेन स्वर्ग प्राप्ताः ।
न केवलं छन्दोदेवा एव चतुर्थपादे विवक्षिताः किंत्वन्येऽपीत्याह
आदित्याश्चैवेहाऽऽसन्नङ्गिरसश्च तेऽग्रेऽग्निनाऽ मिमयजन्त ते स्वर्ग लोकमायन् , इति । इदानीमादित्यशब्देनाभिधेया देवा अगिरःशब्देनाभिधेया ये चर्षयस द्विविधा अपीहैवाऽऽसन्भूमावेव पूर्वसृष्टौ मनुष्यरूपेणावस्थिताः। तेऽग्र इत्यारि पूर्ववत् । तदेवं चतुर्थपादतात्पर्यद्वयमुक्तम् । यद्वा छन्दांसीत्यादिकमेव चतुर्थमा दतात्पर्यम् । आदित्यादिकमितरपादतात्पर्यमिति द्रष्टव्यम् ।
येयमाहवनीयेऽनौ मथिताग्निप्रक्षेपलक्षणाहुतिस्ता प्रशंसति
सैषा स्वर्गाहुतिर्यदग्न्याहुतिर्यदि ह वा अप्य ब्राह्मणोक्तो यदि दुरुक्तोक्तो यजतेऽथ हैषाऽऽ
हुतिर्गच्छत्येव देवान पाप्मना संसृज्यते, इति । अनिरूपद्रव्याहुतिर्या विद्यते सैषा स्वर्गाय हिता । यदि हेत्यादिना स्वर्ग त्वमेव स्पष्टी क्रीयते । ब्राह्मणं विधायकं वाक्यं तेन प्रेरितो ब्राह्मणोक्तः तद्विपरीतः पण्डितमन्यः स्वबुद्ध्यैव यत्किंचिद्योऽनुतिष्ठति सोऽयमब्राह्मणोक्तः पुरुषेणान्यथाऽवबुद्धं विधिवाक्यं दुरुक्तं तेन प्रेरितो दुरुक्तोक्तः । अथव स्मृतिष्वब्राह्मणत्वेन प्रतिपादितो योऽस्ति सोऽयमब्राह्मणोक्तः। तद्यथा-“अब्राह्मणास्तु षदझोक्ता इति शातातपोऽब्रवीत् ।
आधस्तु राजभृत्यः स्याद्वितीयः ऋयविक्रयी॥.
तृतीयो बहुयाज्याख्यश्चतुर्थोऽश्रौतयाजकः ।
• पञ्चमो ग्रामयाजी च षष्ठो ब्रह्मबन्धुः स्मृतः ॥ यद्यपि याजनाध्यापनप्रतिग्रहा ब्राह्मणस्य जीवनहेतुत्वेन विहितत्वादान षिद्धास्तथाऽपि यावता जीवनं निष्पद्यते तावदेव याजनं शाणातीकृतम्
विमः खण्डः] ऐतरेयब्रामणम् । त सत्यपि जीवने धनाधिक्यवाञ्छया याजनशीलः सोऽत्र बहुयाजी विव त। यः पुमा श्रौतकर्मण्यधिकृतोऽनादरेण स्वयं श्रौतं नानुतिष्ठति, अन्या
नानष्ठापयति किंतु स्मार्तकर्मपरः सन्मनुतिष्ठत्यनुष्ठापयति सोऽयमीत जकः । ग्रामे नगरे च योग्यायोग्याश्च यावन्तः सन्ति धनाभिलाषेण बतां सर्वेषां याजको ग्रामनगरयाजी । यः पुमान्मातः सूर्योदयात्माक्संध्या प्रास्ते सायं चास्तमयात्माङ्नोपास्ते सोऽयं ब्रह्मबन्धुः । एते षडब्राह्मणत्वे. स्मृतिषक्ताः । दुष्टान्यपवादरूपाणि वचनानि दुरुक्तानि तैरभिशस्तो दुरु रोक्तः। अब्राह्मणोक्तो वा दुरुक्तोक्तो वा यद्यपि यजेत तथाऽप्येषाऽऽहव ये हुता मथिताऽग्न्याहुतिर्देवान्मामोत्येव । ततो यजमानस्य पापसंसर्गों न पति।
वेदनं प्रशंसति
गच्छत्यस्याऽऽहुतिर्देवानास्याऽऽहुतिः
पाप्मना संसृज्यते य एवं वेद, इति । उक्तार्थवेदिता यद्यपि यत्किंचित्कर्म विकलमनुतिष्ठति तथाऽपि तत्सर्व हलं भवति । न्यूनाधिकसंख्याभ्रमव्युदासाय विहितानामृचां संख्यां दर्शयति
ता एतात्रयोदशान्वाह रूपसमृदाः, इति । राक्षोनीनां नैमित्तिकत्वात्तत्परित्यागेनेतरास्त्रयोदशसंख्याकाः । ताश्च यमानस्य जायमानस्य पहियमाणस्याऽऽहवनीयेन संसृज्यमानस्य च प्रति इनेनानुकूलेनैव रूपेण समृद्धाः। तामेतां समृद्धि प्रशंसति
एतदै यज्ञस्य समृद्धं यद्रूपसमृद्ध
यत्कर्म क्रियमाणमृगभिवदति, इति । आयन्तयोर्कचोरावृत्तिविधिमावृत्तानां संख्यामशंसां वेदनप्रशंसामावृत्ति सां च दर्शयति- .
तासां त्रिः प्रथमामन्वाह विरुतमां ताः सप्तदश संपद्यन्ते सप्तदशो वै प्रजापतिर्दादश मासाः पञ्चर्तवस्तावान्संवत्सरः संवत्सरः प्रजापतिः
__ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३ तृतीयाध्यारे प्रजापत्यायतनाभिरेवाऽऽभी रानोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्वौ
नयति स्थेने बलायाविषेसाय ॥ १६ ॥ इति । पूर्ववद्याख्येयम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये तृतीयाध्याये पञ्चमः खण्डः ॥५॥(१६)
आतिथ्येष्टिमध्ये कर्तव्यमानिमन्थनमुक्त्वा तदिष्टिशेषं विधत्ते
समिधाऽग्नि दुवस्यताऽऽप्यायस्व समेतु त इत्याज्यभागयोः पुरोनुवाक्ये भवत आतिथ्य वत्यौ रूपसमृद्धे एतदै यज्ञस्य समृद्धं यदूप
समृद्धं यत्कर्म क्रियमाणमृगभिवदति, इति । समिधाऽग्निमिति प्रथमाज्यभागस्य पुरोनुवाक्या। आप्यायस्व समेतु त इस द्वितीयस्य प्रथममन्त्रस्य द्वितीयपादे घृतैर्बोधयतातिथिमिति श्रूयमाणत्वादा तिथ्यवत्यौ।
तदेतदाक्षिपति
सैषाऽऽग्नेय्यतिथिमती न सौम्याऽतिथिमत्यस्ति
यत्सौम्यातिथिमती स्याच्छश्वत्सा स्यात्, इति । सौम्या त्वतिथिशब्दोपेता नास्ति । आप्यायस्वेत्यस्यामृच्यतिथिशब्दस्या श्रवणात् । यदि सौम्याऽतिथिशब्दोपेता स्यात्तदानीं शश्वदवश्यं सा सौम्या पुरोनुवाक्या भवेत् । न त्वसावंतिथिमती । तस्मादातिथ्यवत्याविति द्विवचनमः युक्तमित्यर्थः।
आक्षेपं समाधत्ते
एतत्त्वेवैषाऽतिथिमती यदापीनवती, इति । तुशब्द आक्षेपनिवारणार्थः । आपीनमभिवृद्धिस्तद्वाचकस्याऽऽप्यायस्वी शब्दस्य विद्यमानत्वादियं सौम्याऽऽपीनवती । यदापीनवत्त्वमस्ति, एतदेवेत
समिधाऽग्निं०-ऋ० सं० म० ८ सू० ३४ ऋ० १ । आप्यायस्व०-३’ सं० म०१ सू० ९१ ऋ० १६ ।
वष्ठः खण्डः] ऐतरेयब्राह्मणम् । isपीनवलेनैवैषा सौम्याऽतिथिमती संपद्यते । आपीनवत्त्वस्यातिथ्युपलक्ष
पात् ।
तदेवोपलक्षकत्वं विशदयति
यदा वा अतिथिं परिवेविषत्या पीन
इव वै स तर्हि भवति, इति । तमतिथिं गृहस्वामी यदैव परिवेविषति परिवेषणेन पात्रे भोज्यप्रक्षेपणेन जयति तर्हि तस्मिन्मोजनोत्तरकाले सोऽतिथिरापीन इवोदरपूर्त्या वृद्धि । इव भवत्येव । तस्माद्बुद्धिवाचक आप्यायस्वेति शब्दोऽतिथिलक्षकः ।
द्विवचनं पुरोनुवाक्यात्वं च युक्तम् । आज्यभागयोर्याज्यां विधत्ते
तयोर्जुषाणेनैव यजति, इति । प्रकृतावानातौ जुषाणोऽग्निराज्यस्य वेतु । जुषाणः सोम आज्यस्य हविषो वति । तेनैव मत्रेण यजेत । अग्निव॒त्राणीत्यादिके प्रकृतिगते पुरोनुवाक्ये इकमाते अपोद्य यथा समिधाऽनिमित्यादिके विहिते तद्वद्याज्यान्तरप्रसक्तिं यितुं विधिः। प्रधानस्य हविषो याज्यानुवाक्ये विधत्ते
इदं विष्णुर्विचक्रमे तदस्य प्रियमभि
पाथो अश्यामिति वैष्णव्यौ, इति । याज्यानुवाक्ये कुर्यादिति शेषः। तयोविभागं विधत्ते
त्रिपदामनूच्य चतुष्पदया यजति, इति । इदं विष्णुरिति त्रिपदा तां पुरोनुवाक्यारूपेणानुबयात् । तदस्य प्रियमिति
पदा तया यजेत । याज्यारूपेण तां पठेत् । ऋग्द्वयगतां पादसंख्यां प्रशंसति
सप्त पदानि भवन्ति शिरो वा एतद्यज्ञस्य यदातिथ्यं सप्त वै शीर्षन्प्राणाः शीर्षनेव तत्प्राणान्दधाति, इति । इदं विष्णु०-ऋ० सं० म० १ सू० २२ ऋ० १७ । तदस्य प्रि-ऋ. म० १ सू० १९४ ऋ० ५।
७८
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [इ तृतीयाध्या आतिथ्येष्टेयशिरोरूपत्वाच्छिरसि च्छिद्रवर्तिनां प्राणानां सप्तत्वादत्र प संख्यया यज्ञस्य शिरसि सप्त प्राणा: स्थापिता भवन्ति ।
संयाज्ये विधत्ते–
होतारं चित्ररथमध्वरस्य प्र प्रायमनिर्भरतस्य शृण्व इति स्विष्टकृतः संयाज्ये भवत आति थ्यवत्यौ रूपसमृद्धे एतदै यज्ञस्य समृद्धं यदूप
समृद्धं यत्कर्म क्रियमाणमृगभिवदति, इति । होतारमिति पुरोनुवाक्या । प्र प्रायमिति याज्या । प्रथमाया ऋचश्चतुर्थप श्रिया त्वमिमतिथिं जनानामिति श्रूयमाणत्वादातिथ्यवत्त्वम् । द्वितीय अपि चतुर्थपादे धुतानो दैव्यो अतिथिरिति ।
मबद्वयगतं छन्दः प्रशंसति
त्रिष्टुभौ भवतः सेन्द्रियत्वाय, इति । इन्द्रियं वै त्रिष्टुबिति श्रुत्यन्तरात्रिष्टुभ इन्द्रियहेतुत्वम् । अत्रेडाभक्षणादूर्वभाविकर्तव्यमपि चोदकेन प्राप्तं तदेतद्वारयति- .
इळान्तं भवतीळान्तेन वा एतेन देवा असध्नुव
न्यदातिथ्यं तस्मादिळान्तमेव कर्तव्यम् , इति । पुरोडाशसंबन्धि यदेतदिडाभागमक्षणं तदन्तमेवाऽऽतिथ्येष्टिरूपं कर्म भवेत तावतैव समृद्धिसिद्धेः। द्विविधमिडाभक्षणम् । अनुयाजयागात्पूर्वमुत्तरका लीनं च।
तयोः पूर्वकालीनमत्रान्तत्वेन दर्शयितुमनुयाजानिषेधति
प्रयाजानेवात्र यजन्ति नानुयाजान्, इति । अनुयाजानां यजने दोषं प्रकटयति
प्राणा वै प्रयाजानुयाजास्ते य इमे शीर्षन्प्राणास्ते प्रयाजा येऽवाचस्तेऽनुयाजाः स योधानुयाजान्य जेद्यथेमान्प्राणानालुप्य शीर्ष धित्सेत्तादृक्तव, इति । होतारं चि०-ऋ० सं० म० १ सू० १ ऋ० ५। प्र प्रायम-ऋ० स० म० ७ सू० ८ ऋ० ४।
पष्ठः खण्डः ]
ऐतरेयब्रामणम् । प्रशब्दसाम्यात्मयाजानां प्राणत्वं तदनुवर्तित्वसाम्यादनुयाजानामपि माण ।। तथा सति ते य इमे शीर्षन्माणाः शिरस्यवस्थिताः श्वासादिकारिण:
ये केचित्सन्ति ते प्रयाजरूपाः प्रकृष्टसाम्यादुत्तमावर्तित्वेन प्राणानां प्रत्वम् । प्रयाजानां च प्रथमानुष्ठानत्वेन प्रकृष्टत्वम् । ये त्ववाश्चो नाभेरध द्वर्तमाना अपानवाय्वादयस्तेऽनुयाजरूपा निकृष्टत्वसाम्यादपानवारवादीनां
वर्तित्वेन निकृष्टत्वम् । अनुयाजानां पश्चाद्भावित्वेन निकृष्टत्वम् । सति यः पुमानत्राऽऽतिथ्येष्टावनुयाजान्यजेल्लोके कश्चिद्यथेमानवाग्देशवर्ति पानवाय्वादीनालुप्य च्छित्वा शीर्ष पित्सेत्, शिरसि स्थापयितुमिच्छेत् , क्तव, तथैव स पुमांस्तत्कर्तुमिच्छेत् । अघोदेशवर्तिप्राणस्थानीयानुयाजानां शिरस्थानीयातिथ्यकर्मण्यनुष्ठानमयुक्तं तथा पुत्रादिमजास्थानीयानामनुया.
शिरस्थानीयेऽनुष्ठानमयुक्तमित्यपि द्रष्टव्यम् । दोषान्तरमाह
अतिरिक्तं तत्समु वा इमे प्राणा
विद्रे ये चेमे ये चेमे, इति । ये चेमे शिरसि योग्याः प्राणा येऽप्यमी नीचदेशस्थिताः प्राणास्ते सर्वे विद्रे संभयैकत्र शिरस्यवतिष्ठेरन् । तचातिरिक्तं योग्यस्थानीयादधिकं शिरो मातिथ्यं कर्म चक्षुरादीनामेव प्राणानां योग्यस्थानं न त्वधोदेशवर्तिनामपा दीनां तत्रावकाशोऽस्तीत्यर्थः। नन्वनुयाजानामनुष्ठानाभावे कर्माणसाकल्यलक्षणः फलविशेषो न प्राप्येते शिङ्कयाऽऽह
तद्यदेवात्र प्रयाजान्यजन्ति नानुयाजांस्तत्र सकाम
उपाप्तो योऽनुयाजेषु योऽनुयाजेषु ॥ १७ ॥ इति । इत्येतरेयब्राह्मणे प्रथमपञ्चिकायां तृतीयोऽध्यायः ॥३॥ तत्तस्मिन्नातिथ्यकर्मणि यदि प्रयाजानेव यजन्ति न त्वनुयाजांस्तदानीमनु जेषु यः कामः फलविशेषः स सर्वोऽपि तत्र कर्मणि प्राप्तो भवति । यथा के कंचिदान्दोलिकादिभार वहत्सु बहुषु मध्ये कस्यचिदशक्तौ सत्यामव था एव वहन्ति तद्वदित्यर्थः । द्विरभ्यासोऽध्यायसमाप्त्यर्थः॥ अत्र मीमांसा.। दशमाध्यायस्य सप्तमपादे चिन्तितम्- .
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [४ चतुर्याध्या “प्रायणीयातिथ्ययोः किं विकल्पः शंबिडान्तयोः। नियमो का विकल्पः स्याभिषेधपरिसंख्यया ॥ शंरिवडान्तत्ववाक्याच नियमो विधिमात्रतः।
नित्यानुवादो नञ्चाक्यं दोषबाहुल्यमन्यथा” | ज्योतिष्टोमे श्रूयते-‘शंखन्ता प्रायणीया संतिष्ठते न पत्नीः संयाजयनि इडान्ताऽऽतिथ्या संतिष्ठते नानुयाजान्यजति’ इति। प्रकृतौ यदा होता तच्छ रिति जपति तदानीमध्वर्युः परिधीननौ प्रक्षिपति। तदाह कल्पसूत्रकारः-५ च्यमाने शंयुवाक आहवनीये परिधीन्महरति’ इति । ततो हविःशेषेषु भक्षि पत्नीः संयाजयन्तीति क्रमः । पत्नीसंयाजानामुपरि फलीकरणप्रायश्चित्तही कपालोद्वासनैरिष्टिः समाप्यते । एवं स्थिते विकृतिरूपायाः प्रायणीयेष्टेः शंय .. कान्तत्वम् , आतिथ्येष्टोरिडाभक्षणान्तत्वं च विकल्पितं स्यात् । कुतः, निषे [विधिवाक्याभ्यां प्रकारद्वयमतीतेः। तथा हि। शंम्वन्तत्वेडान्तत्वविधि वोपरितनपत्नीसंयाजानुयाजनिषेधे पुननिषेधवचनं परिसंख्यार्थम् । पत्नी याजानुयाजव्यतिरिक्ते नास्ति निषेध इति परिसंख्या । तेन प्रकृतिवद्ययात्र कपालोद्वासनान्तत्वमनयोरिष्ट्योः प्रतीयते विधिवाक्येन शंबिडान्तत्व
· ब्रीहियववद्विकल्प इति प्राप्ते ब्रूमः । विधिमात्रस्यात्र प्रवृत्तेः। शय्वन्तत्वमित ‘न्तत्वं च तयोः प्रतिनियतम् । पत्नीसंयाजायभावस्त्वर्थसिद्धः। ततो नया युक्तमुपरितनं प्रतिषेधवाक्यं नित्यानुवादोऽन्यथा बहवो दोषाः प्रसज्येरन विकल्पे तावदष्टौ दोषाः प्रसिद्धाः परिसंख्यायां च त्रयो दोषाः । विधि रिसंख्याभ्यां वाक्यभेदोऽपरो दोषः । ततः शंबिडान्तत्वं नियतम् । तत्रैव न्यचिन्तितम्
“तत्रैव शंखिडे पूर्वे परे वा स्वेच्छयाऽथवा। परे एवाथवा पूर्वे एवाऽऽद्यो द्विविधश्रुतेः॥ निषेधस्यार्थवत्त्वाय परे एवानुवादगीः ।
पूर्वैकवाक्यतां याति पूर्वे एवाविरोधतः” । प्रायणीयातिथ्येयानिर्णीते शरिबडे पुनः संदिद्यते । प्रकृतौ द्विविधे शंखि पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टाच विहिते । ते चात्र चोदकपाते। तत्र द्विति धश्रुतेरर्थे चोदकेनातिदिष्टे सति विशेषनियामकाभावादिच्छया स्वीका इत्येक पक्षः। यदि प्रायणीया पूर्वसंवन्ताऽऽतिथ्या च पूर्वेदान्ता स्यातदा नीमन्तत्वविधिनैव ताभ्यां शंबिडाभ्यामूर्ध्व प्राप्तानां पत्नीसंयाजानामनुया जानां च वारितत्वान्न निषेधो व्यर्थः स्यात । परयोःशबिडयोरन्तत्वे ।प्रथमः खण्डः] ऐतरेयब्राह्मणम् । भयां शंबिडाभ्यां पूर्वप्राप्तानां तेषामनिवारणात्तनिवारणाय सार्थको निषे. तस्मात्परे एव शंटिबडे ग्राह्ये । इति द्वितीयः पक्षः । निषेधोऽयं नित्यानु द इत्युक्तम् । स च पूर्वयोः शंखिडयोरन्तत्वेऽप्येकवाक्यतामापद्यानुवादक नोपपद्यते । असंजातविरोधिन्यौ हि पूर्वे शंखिडे । तस्मात्ते एव ग्राह्ये इति द्वान्तः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय..
ब्राह्मणभाष्यस्य तृतीयाध्याये षष्ठः खण्डः ॥६॥ (१७) इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्राज्यधुरं
धरसायणाचार्यकृतौ प्रथमपश्चिकायां तृतीयोऽध्यायः॥३॥
M