०२

ऐतरेयब्राह्मणम् । अथ द्वितीयोऽध्यायः ।

प्रथमे दीक्षणीयेष्टिस्तत्स्तुतिस्तत्र संस्कृतिः ।

याज्यानुवाक्ये संयाज्याः सत्योक्तिश्चेति वर्णिताः ॥१॥ अथ प्रायणीयादिकं विधातुं द्वितीयोऽध्याय आरभ्यते । तत्राऽऽदौ माय. णीयशब्दार्थ वदति

वर्ग वा एतेन लोकमुपप्रयन्ति यत्मायणी

यस्तत्मायणीयस्य प्रायणीयत्वम् , इति । प्रायणीयाख्यो यः कर्मविशेषोऽस्त्येतेन यजमानाः स्वर्ग लोक सामीप्येन मामुवन्ति । तस्मात्प्रयन्त्यनेनेति व्युत्पत्त्या तत्मायणीयनाम संपन्नम् ।

अथ विधास्यमानौ प्रायणीयोदयनीयाख्यौ कर्मविशेषौ स्तस्तौ सह प्रशं सति

प्राणो वै प्रायणीय उदान उदयनीयः समानो होता भवति समानौ हि प्राणोदानी

प्राणानां कृप्त्यै प्राणानां प्रतिप्रज्ञात्य, इति । प्राणवायोः मायणीयकर्मणश्च प्रशब्दसाम्यादभेदः । उदानवायोरुदयनीय कर्मणश्वोच्छब्दसाम्यादभेदः । किंच प्रायणीयोदयनीययोः कर्मणोर्याज्यानु वाक्यादिप्रयोगार्थमेक एव होता भवति । प्राणोदानवायू चैकदेहवर्ति वादेकेन होत्राऽनुष्ठेयाभ्यां कर्मभ्यां समानावतो वायुविशेषयोश्चाभेदः । तच कर्मद्वयानुष्ठानं प्राणवायूनां कृप्त्यै स्वस्वव्यापारसामर्थ्याय भवति । तथा माणवायूनां प्रत्येकमयं प्राणोऽयमुदान इत्यादिविशेषस्य प्रज्ञानाय भवति । तस्मात्कर्मद्वयं प्रशस्तमित्यर्थः ।

अथ देवताविशेषविधानायाऽऽख्यायिकामुपक्रमते

यज्ञो वै देवेभ्य उपक्रामत्ते देवा न किंचनाश क्नुवन्तु न प्राजानंस्तेऽब्रुवन्नदितिं त्वयेम यज्ञं प्रजानामेति सा तथेत्यब्रवीत्सा वै वो वरं वृणा इति वृणीष्वेति सैतमेव वरमवृणीत

१ ख. णीयं ना।

३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ २ द्वितीयाध्याये

मत्मायणा यज्ञाः सन्तु मदुदयना इति तथेति तस्मादादित्यश्चरुः प्रायणीयो भवत्या

दित्य उदयनीयो वरवृतो ह्यस्याः , इति । योऽयं यज्ञः सोमयागाभिमानी पुरुषः सोऽयं केनापि निमित्तेनापरता सन्देवसकाशादुत्क्रम्य गतवान् । यज्ञपुरुषे गते सति ते देवाः किमपि यहाई कर्तुं शक्तिरहितास्तदभिज्ञानरहिताश्चाभवन् । ततस्ते सर्वे समागत्यादिति प्रार्थितवन्तो हेऽदिते त्वत्प्रसादेन वयमिमं यज्ञं कर्तुं ज्ञातुं च शक्ता भूया. स्मेति । ततोऽदितिरङ्गीकृत्य ज्ञापयितुमुक्ता चरुरूपेणैतं वरमवृणीत ये सोमया गास्ते सर्वे मत्मायणा मदुपक्रमा मदुदयना मदवसानाश्च सन्त्विति तस्य वरस्य देवैरङ्गीकृतत्वात्मायणीयःप्रारम्भकालीनेष्टिगतश्चरुरदितिदेवताकः कर्तव्य उद यनीयः समाप्तिकालीनोऽपि चरुरदितिदेवताका कर्तव्यः। यस्मादस्या अदिते स्तादृशश्वर्वरेण प्रार्थितस्तस्मात्तथाऽनुष्ठानं युक्तम् । तमिममर्थ तैत्तिरीयाश्चाऽऽ. मनन्ति–‘देवा वै देवयजनमध्यवसाय दिशो न प्राजानंस्तेऽन्योन्यमुंपाधावं स्त्वया प्रजानाम त्वयेति तेऽदित्या समध्रियन्त त्वया प्रजानामेति साऽब्रवी द्वरं वृणै मत्मायणा एव वो यज्ञा मदुदयना आसनिति तस्मादादित्यः पाय णीयो यज्ञानामादित्य उदयनीयः’ इति ।

अदितेर्वरान्तरं दर्शयति अथो एतं वरमवृणीत मयैव प्राची दिशं प्रजानाथा मिना दक्षिणां सोमेन प्रतीची सवित्रोदीचीमिति, इति ।

अथो अपि चेत्यर्थः । मयेत्यादिना वरः प्रपञ्च्यते । हे देवा यूयमिदं देवय जनं समीचीनमित्येवं बहुधा विचारयन्तस्तदर्थ बहुषु देशेषु पर्यटन्तो दिग्भ्रम प्राप्य प्राच्यादिदिशं न ज्ञातवन्तोऽतो भवतां दिग्विशेषज्ञापनायाहममिः सोमः सविता चेत्येते चत्वारश्चतुषु देशेष्ववस्थिताः । तथा सति यत्राहमस्मि सा माची दिगित्येवं मयैव प्राची दिशं बुध्यध्वम् । एवमग्न्यादिभिर्दक्षिणादय स्तिस्रो दिशो बोदव्याः । इत्येष द्वितीयो वरः । एते देवा अनेन चरुणा तत्र यष्टुं योग्या इति तात्पर्यार्थः। तत्र प्रथमं यागं विधत्ते

पथ्यां यजति, इति । .

१ ज, ‘मुपधा।

.

१ प्रथमः खण्डः] ऐतरेयब्राह्मणम् ।

पथ्येति देवताया नामधेयम् । यद्यपि शाखान्तरे-‘पथ्या स्वस्ति यजति प्राचीमेव तया दिशं प्रजानाति’ इति पथ्या स्वस्तिरित्येतावनामधेयमाम्नातं तथाऽपि भीमशब्दवन्नामैकदेशेनात्र व्यवहारः । ननु पूर्वत्र मयैव प्राची दिशं प्रजानाथेत्यदितेर्वाक्यमानातमिह तु पथ्यां यजतीत्युक्तौ पूर्वापरविरोध इति चेन्नायं दोषः। अदितिदेवताया एव पथ्याख्यं मूर्त्यन्तरमिति वक्तुं शक्यत्वात् ।

उक्तं विधिमनूध प्रशंसति

यत्पथ्यां यजति तस्मादास पुर उदेति पश्चाऽ

स्तमेति पथ्यां ह्येषोऽनुसंचरति , इति । यद्यस्मात्कारणात्पूर्वस्यां दिश्यवस्थितां पथ्यां देवतां यजति तस्मात्कार णादसावादित्यः पुरः पूर्वस्यां दिश्युदेति पश्चात्पश्चिमायां दिश्यस्तमति । हि यस्मात्कारणादेष आदित्यः पथ्याख्यां देवतामनुसृत्य संचरति तस्मात्पूर्वापर योरुदयास्तमयावुपपन्नौ । न च पूर्वदिशः पथ्यासंबन्धेऽपि पश्चिमदिशः स नास्तीति वाच्यम् । उदयनीयायां पश्चिमदिशि पथ्याया यक्ष्यमाणत्वात् ।

योर्दिशोस्तत्संबन्धे सति आदित्यस्य तदनुसंचारो युक्तः ।

दक्षिणदिग्वर्तिनोऽग्नेर्यागं विधत्ते

अग्निं यजति, इति । तं विधिमनूध प्रशंसति

यदग्निं यजति तस्मादक्षिणतोऽय ओषधयः

पच्यमाना आयन्त्यग्नेिय्यो योषधयः, इति । यस्मादत्र देवानां दिग्विशेषज्ञापनाय दक्षिणस्यां दिश्यवस्थितमग्निं यजति तस्मात्कारणाद्विन्ध्यपर्वतस्य दक्षिणभागे त्रीह्याद्योषधयोऽग्रेपच्यमाना आयन्ति तत्तत्वामिगृहेष्वागच्छन्ति । विन्ध्यस्योत्तरभागे यवगोधूमचणकादिधान्यमाचु यम् । तानि च धान्यानि माघफाल्गुनयोः पच्यन्त इति पश्चाद्भावीनि । दक्षि दिग्भागे तु यवादिनाचुर्याभावात् । प्राचुर्याणि च ब्रीह्यादीनीति कार्तिकमा गेशीर्षयोः पच्यमानत्वादग्रे पाकोऽभिहितः। हि यस्मात्कारणादोषधय आग्नेय्य आसां पाकस्याग्न्यधीनत्वात् । यथौदनरूपेण बाह्यपाकोऽग्न्यधीन एवं बीज रूपेण सस्यपाकोऽपि तदन्तर्वर्त्यग्न्यधीन इति द्रष्टव्यम् । तस्मादनिसंबन्धियां दक्षिणस्यां दिश्यग्रे पाको युक्तः।

पश्चिमदिश्यवस्थितस्य सोमस्य यागं विधत्ते

सोमं यजति, इति।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२ द्वितीयाध्याये तं विधिमनूध प्रशंसति

यत्सोमं यजति तस्मात्प्रतीच्योऽप्यापो

बढ्यः स्यन्दन्ते सौम्या ह्यापः, इति । . यस्मादापः सोमसंबन्धिन्यः सोमस्यामृतकिरणत्वात्तस्माद्य आपः मती. च्योऽपि प्रत्याख्योऽपि सत्यः स्यन्दन्ते । पश्चिमसमुद्रसमीपे प्रवहन्तीनां नदीनां पश्चिमाभिमुखत्वदर्शनात् । सोमस्यात्र पश्चिमदिश्यवस्थितत्वेन तदीयानामपा सन्मुखत्वं युक्तम् ।

उत्तरदिश्यवस्थितस्य सवितुर्यागं विधत्ते- .

सवितारं यजति, इति । तं विधिमनूय प्रशंसति

यत्सवितारं यजति तस्मादुत्तरतः पश्चादयं भूयिष्ठं पवमानः पवते सवितृप्रसूतो ह्येष एतत्पवते, इति । सविता प्रेरको देवः सोऽत्र यस्मादुत्तरस्यां दिश्यवतिष्ठते तस्मात्तेन सवित्रा प्रेरितो वायुरुत्तरपश्चिमयोरन्तरालवर्तिन्यां वायव्यां दिशि भूयिष्ठं पवतेऽत्य धिकं संचरति ।

ऊर्ध्वदिग्वतिन्या अदितेोगं विधत्ते

उत्तमामदिति यजति, इति। उत्तमां मूर्धावस्थितामित्यर्थः। अत एव तैत्तिरीया आमनन्ति–‘पथ्यां स्वस्तिमयजन्माचीमेव तया दिशं प्रजानन्नाग्निना दक्षिणां सोमेन प्रतीची सवि त्रोदीचीमदित्यो म्’ इति ।

उक्तं विधिमनूध प्रशंसति

यदुत्तमामदितिं यजति तस्मादसा

विमां दृष्ट्याऽभ्युनत्त्यभिजिवति, इति । यस्मादूर्ध्वदिग्वर्तिनां तस्मादूर्ध्वदिग्वतिनां द्यौरिमामधोवर्तिनी स्वकीयया वृष्टयाऽभ्युनत्ति सर्वतः क्लेदयति । पुनरपि धर्मकाले भिजिघ्रति भूमिगतं रस माभिमुख्येनाऽऽदत्ते । अत्र पथ्यादीनां चतसृणां देवतानामाज्येन यागः । अदितेस्तु चरुणेति द्रष्टव्यम् । तदाहाऽऽपस्तम्ब:-‘चतुर आज्यभागान्मति

१ ख. “तमामूर्ध्वाव।

२ द्वितीयः खण्डः] ऐतरेयब्राह्मणम् । । दिशं यजति पथ्या स्वस्ति पुरस्तादग्निं दक्षिणतः सोमं पश्चात्सवितारमुत्तरतो मध्येऽदिति हविषा’ इति ।

यथोक्तदेवतागतां संख्यां प्रशंसति

पञ्च देवता यजति पाक्तो यज्ञः सर्वा

दिशः कल्पन्ते कल्पते यज्ञोऽपि, इति । पथ्यावदित्यन्ताः पञ्च देवता यज्ञस्य पञ्चसंख्यायोगात्पाङ्गत्वं बहुधा वक्ष्य तेऽतो यज्ञे देवताविषया पञ्चसंख्या युक्ता। दिशोऽपि प्राच्याद्या ऊर्ध्वान्ताः पञ्चसंख्याकाः । अतो देवतागतपञ्चसंख्यया गताः सर्वा दिशः कल्पन्ते समर्था भवन्ति । पूर्वमविज्ञाताः सत्यो ज्ञाता भवन्तीत्यर्थः। यज्ञोऽप्यनया कल्पते खप्रयोजनसमर्थो भवति । । वेदनं प्रशंसति

तस्यै जनतायै कल्पते यत्रैवं विद्वान्होता भवति ॥७॥ इति ।

यत्र यस्यां जनतायां याज्ञिकजनसमूहे होता प्रायणीयदेवतानां वेदिता भवति तस्यां जनतायामयं होता स्वप्रयोजनसमर्थो भवति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय. .

ब्राह्मणभाष्यस्य द्वितीयाध्याये प्रथमः खण्डः ॥१॥ (७)

प्रायणीयेष्टिं विधाय तत्र प्रयाजानां काम्यप्रकारविशेषं विधत्ते

यस्तेजो ब्रह्मवर्चसमिच्छेत्प्रयाजाहुतिभिः प्राङ्स

इयात्तेजो वै ब्रह्मवर्चसं प्राची दिक्, इति । समिधो यजति तनूनपातं यजतीत्यादिना विहिताः पञ्च प्रयाजाहुतयस्तासां प्रकृतावनुष्ठानप्रकार आपस्तम्बेन दर्शितः-‘पश्च प्रयाजान्माचो यजति प्रति दिशं वा समिधः पुरस्तात्तनूनपातं दक्षिणत इडां पश्चाहरुत्तरतः स्वाहाकार मध्ये’ इति । स प्रकारोऽत्र चोदकमाप्तस्तमपोध शरीरकान्तिश्रुताध्ययनसंपत्ति च कामयमानस्य प्रकारान्तरं विधीयते । यः पुमांस्तेजो ब्रह्मवर्चसमिच्छेत्स पुमा न्मयाजाहुतिभिः माडियात् । मागपवर्गास्ता आचरेदित्यर्थः । आदित्योदयेन माच्यास्तेजत्वं (स्त्वं) तदाभिमुख्येन गायत्रीजपानुष्ठानाबमवर्चसत्वं च ।

वेदनं प्रशंसति तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्प्राडेति, इति ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ २ द्वितीयाध्याये अबाधकामस्य दक्षिणापवर्गत्वं विधत्ते

योऽन्नाद्यमिच्छेत्प्रयाजाहुतिभिर्दक्षिणा स

इयादवादो वा एषोऽनपतिर्यग्निः , इति । दक्षिणस्यां दिश्यवस्थितो योऽग्निः सोऽग्निरनादः। भक्षितस्यान्नस्योदरा मिना जीर्यमाणत्वात्सस्येष्ववस्थाय ब्रीडादिपाकहेतुत्वात्स्थाल्यादिष्ववस्था. यौदनपाकहेतुत्वादन्नपतित्वम् । अतोऽनकामस्य दक्षिणापवर्गत्वं युक्तम् ।

घेदन प्रशंसति

अन्नादोऽनपतिर्भवत्यश्नुते प्रजयाऽ

वाद्यं य एवं विद्वान्दक्षिणैति , इति । पशुकामस्य प्रत्यगपवर्गत्वं विधत्ते

यः पशूनिच्छेत्प्रयाजाहुतिभिः प्रत्यङ्स

इयात्पशवो वा एते यदापः , इति । प्रत्यग्दिश्यवस्थितस्य सोमस्य संबन्धिन्य आप इति पूर्वमुक्तं तासां चापा पानद्वारेण तृणोत्पादनद्वारेण वा पशूपकारित्वात्पशुत्वमतः पशुकामस्य तथा विधप्रत्यगपवर्गत्वं युक्तम् ।

वेदनं प्रशंसति

पशुमान्भवति य एवं विद्वान्प्रत्यङ्छेति , इति । अहीनांद्युत्तरऋतुषु सोमपानं कामयमानस्योत्तरापवर्गत्वं विधत्ते

यः सोमपीथमिच्छेत्प्रयाजाहुतिभिरुदङ्

स इयादुत्तरा ह वै सोमो राजा , इति । यः सोमवल्लीरूपो राजमानत्वेन राजा तस्योत्तरस्यां दिशि प्रभूतत्वातद्रूप त्वमतः सोमपानद्वाराऽस्योत्तरापवर्गत्वं युक्तम् ।

वेदन प्रशंसति

प्र सोमपीथमानोति य एवं विद्वानुदळेति, इति । स्वर्गकामस्याऽऽहवनीये प्रयाजहोमविधिमर्थवादेनोनयति

स्वग्यैवोर्वा दिक्सर्वासु दिक्षु राध्नोति, इति।।

1ज. नादुत्त।

द्वितीयः खण्डः] . ऐतरेयबामणम् । येयमूर्धा दिक्स्वर्गाय हितैव तस्मात्स्वर्गकाम ऊ/ दिशं भावयमाहवनी प्रध्ये प्रयाजान्यजेतेत्यर्थः । यथा स्वर्ग प्रामोति तथा सर्वासु दिभु स समू श्व भवत्यतः समृद्धिकामो मध्ये यजेतेत्यवगन्तव्यम् ।

वेदनं प्रशंसति

सम्यञ्चो वा इमे लोकाः सम्यञ्चोऽस्मा इमे

लोकाः श्रियै दीवति य एवं वेद , इति । इमे भूरादयस्त्रयो लोकास्ते सम्यञ्चः खोचितभोगपदा अतो य एवमाहवनी मध्ये होमं वेदास्मै यजमानाय भूरादय इमे लोकाः सम्यञ्चः स्वस्वोचितमो

दाः सन्तः श्रियै धनधान्यादिसंपदे दीधति प्रकाशन्ते ।। इत्थं काम्यान्प्रयाजहोमप्रकाराविधाय पूर्वोक्तमायणीयदेवताः क्रमेण स्तोतुं रामदेवतां प्रशंसति

पथ्यां यजति यत्पथ्यां यजति

पथ्याभिधां देवतां यजतीति पूर्वोक्तविधिरत्र स्मारितः प्रयाजविधिभियं अहितत्वात् । स्तोतव्यस्य स्मारणमपेक्षितम् । स्मारितस्य स्तुतावन्वेतुं पुनरनु बादः । पथ्यायागेन यज्ञमुखे सोमयागप्रारम्भे वाचमेव मत्ररूपां संभरति संपादयति । यतो यज्ञानुष्ठानरूपाय मार्गाय हिता पथ्या मन्त्ररूपा वाक्ताह श्यतः पथ्यायाग एव वाक्संपादनम् ।

अग्न्यादिकाश्चतस्रो देवताः प्रशंसति

प्राणापानावग्नीषोमो प्रसवाय

सविताप्रतिष्ठित्या अदितिः, इति। मुखनासिकाभ्यो बहिः संचरनुच्छासरूपो वायुः माणः । स होण्यं शरीरे जनयति । ततोऽग्नेः प्राणरूपत्वं प्रतिनिकृत्य मुखनासिकाभ्यामन्तः संचरन्वा पुरपानः । स च शरीरे शैत्यं जनयतीति निश्वासस्य सोमरूपत्वम् । सविता देवः प्रसवाय यज्ञकर्मणि प्रेरणायोपयुज्यते । अदितिभूमिः प्रतिष्ठित्यै स्थिरा

स्थानायोपयुज्यते ।

पुनरपि प्रकारान्तरेण प्रथमां देवतां स्तौति

पथ्यामेव यजति यत्पथ्यामेव यजति वाचैव तद्यज्ञं पन्थामपि नयति, इति ।

४०

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२द्वितीयाध्याये - अत्रैवकारः पूर्वोक्तस्तुतिविशेषस्तस्यायमर्थः । देवतान्तरं परित्यज्य प्रथमतः पथ्यामेव यजति । ईदृशं यजनं यदस्ति तत्तेन यजनेन मत्ररूपया वाचैव च क्रियमाणं यज्ञं वैकल्यपरिहारेण समीचीनमनुष्ठानमार्ग प्रापयति देवतान्तरस्य प्रथमयागे तु नैतत्संभवतीति ।

द्वितीयायां देवतां प्रशंसति

चक्षुषी एवाग्नीषोमौ प्रसवाय सवि

__ता प्रतिष्ठित्या अदितिः, इति । ___ अग्नीषोमयोस्तेजस्वित्वादिग्विशेषज्ञानहेतुत्वाच्चक्षुरिन्द्रियरूपत्वम् । चतुर्थप

श्चमदेवतयोस्तु पूर्वोक्तस्तुतिरेव समीचीनेत्यभिप्रेत्य पुनस्तत्पाठः । अग्नीषोमयोश्चक्षुःस्वरूपत्वे कोऽतिशय इत्याशङ्कयाऽऽह

चक्षुषा वै देवा यज्ञं प्राजानंश्चक्षुषा वा एतत्प्र ज्ञायते यदप्रज्ञेयं तस्मादपि मुग्धश्चरित्वा यदै

वानुष्ठया चक्षुषा प्रजानात्यथ प्रजानाति, इति । देवाः पुरा यज्ञपुरुष उत्क्रान्ते सत्यन्विष्य चक्षुषैव प्रज्ञातवन्तः। लोकेऽपि यद्वस्तु सहसा प्रज्ञातुमशक्यं तदेतच्चक्षुपैव प्रज्ञायते । तस्मादित्यादिना तदेवो. दाहियते । यस्मादुर्जेयमपि चक्षुषा ज्ञातुं शक्यं तस्मादेव कारणाल्लोके मुग्धो दिमोहं प्राप्तः पुरुषो वनेषु बहुधा चरित्वा यदैव यस्मिन्नेव कालेऽनुष्ठया केनापि प्रयत्नविशेषेण पर्वतारोहणादिरूपेण सूर्योदयादिरूपं दिग्विशेषलिङ्गं चक्षुषा प्रजानाति । अथ तदानीमेव ग्रामादिमार्ग प्रजानाति । तस्माचक्षुःस्वरूपाभ्या मग्नीषोमाभ्यां दिग्विशेषज्ञानं युक्तम् । अथादितेः प्रतिष्ठाहेतुत्वं प्रपञ्चयति

यदै तद्देवा यज्ञं प्राजाननस्या वाव तत्पाजान वस्यां समभरत्रस्य वै यज्ञस्तायतेऽस्यै क्रिय तेऽस्यै संधियत इयं यदितिस्तदुत्तमामदिति यजति यदुत्तमामदितिं यजति यज्ञस्य प्रज्ञायै

स्वर्गस्य लोकस्यानुख्यात्यै ॥ ८ ॥ इति । पूर्वत्र चक्षुषा वै देवा यज्ञं प्राजाननिति यदुक्तं तत्प्रज्ञानं यदै यस्मि नेव काले संपमं तत्तस्मिन्कालेऽस्यां वाव प्राजानन्भूमावेव यज्ञपुरुषं प्रज्ञा

… Trim

३ तृतीयः खण्डः] ऐतरेयब्राह्मणम् ।

४१ सवन्तः। ततोऽस्यां भूमौ समभरन्यज्ञसाधनानि संपादितवन्तः । अस्यै वा अस्यामेव भूमौ यज्ञस्तायते विस्तीर्यते । न केवलं यज्ञस्यैव भूमिराधारः किंतु लौकिकं कृष्यादिकमप्यस्यां क्रियते तत्साधनमप्यस्यां संपाद्यते । न च भूमे: प्राशस्त्ये सत्यदितेः किमायातमिति वाच्यम् । हि यस्मादियं भूमिरदितिः । ततस्माददितिमुत्तमा चरमदेवता यजति । ईदृशं यजनं यदस्ति तक्रियमाणस्य यज्ञस्यादितिद्वारा देवेषु प्रज्ञानाय संपद्यते । तच्च देवप्रज्ञानं यजमानस्य स्वर्ग लोकावगमाय भवति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

ब्राह्मणभाष्यस्य द्वितीयाध्याये द्वितीयः खण्डः॥२॥(८)

। मायणीयेष्टौ काम्यान्प्रयाजप्रकाराविधाय देवताश्च प्रशस्य तासां देवतानां

संबन्धिन्यौ याज्यानुवाक्ये क्रमेणाभिसंधातुं प्रस्तौति

देवविशः कल्पयितव्या इत्याहुस्ताः कल्प माना अनु मनुष्यविशः कल्पन्त इति सर्वा

विशः कल्पन्ते कल्पते यज्ञोऽपि, इति । विश इत्ययं शब्दः प्रजामात्रवाची वैश्यजातिविशेषवाची वा । सन्ति हि देवेष्वपि जातिविशेषाः । अग्निवृहस्पतिश्च देवेषु ब्राह्मणौ । ‘अग्ने महाँ असि ब्राह्मणभारत । ब्रह्म वै देवानां बृहस्पतिः’ इति श्रुतेः । क्षत्रियादिजातयस्तु सृष्टिप्रकरणे वाजसनेयिभिः स्पष्टमेवाऽऽन्नाता:-‘तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवताक्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान:’ इति। स विशमसृजत यान्येतानि देवजातानि गंणश आख्यायते(न्ते) वसवो रुद्रा आदित्या विश्वे देवा मरुतः’ इति । ‘तमथ शौद्रं वर्णमसृजत पूषणम्’ इति । एवमादित्यो वै दैवं क्षत्रमित्यादिकमुदाहार्यम् । एवं सति देवेषु विशो वैश्य जातिरूपाः प्रजा मरुदादयो याः सन्ति ता अस्मिन्यागे कल्पयितव्याः संपादयितव्या इत्येवं ब्रह्मवादिन आहुः । कल्पमानाः संपन्नास्ता देववि शोऽनुसृत्य मनुष्यविशोऽपि तदनुग्रहात्संपद्यन्त इत्येवं दैव्यो मानुष्यश्च सर्वा विशो यजमानस्य संपद्यन्ते । तासु संपन्नासु द्रव्यलाभाद्यज्ञोऽपि कल्पते स्वप्र योजनसमर्थों भवति ।

१ क. ज. झ, ञ, रुद्राः । २ क. ज. अ. गणेश ।

४२

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ २ द्वितीयाध्याये एतद्वेदनं प्रशंसति तस्यै जनतायै कल्पते यत्रै विद्वान्होता भवति, इति । पूर्ववद्याख्येयम् । प्रथमं देवतायाः पुरोनुवाक्यां विधत्ते

स्वस्ति नः पथ्यासु धन्वस्वित्यन्वाह, इति । स एष प्रथमपादः कृत्स्नाया ऋचः प्रतीकग्रहणार्थः । __ अस्याचि देवविशां वाचकं मरुच्छब्द दर्शयितुमवशिष्टं पादत्रयं पठति

स्वस्त्यप्सु जने स्वर्वति । स्वस्ति नः पुत्रकथेषु

योनिषु स्वस्ति राये मरुतो दधातनति, इति । इतिशब्दो मन्त्रसमाप्त्यर्थः । मन्त्रस्यायमर्थः । हे मरुतो नोऽस्माकं धन्वसु पथ्यासु मरुदेशरूपेषु मार्गेषु स्वस्ति दधातन जलप्रदानेन क्षेमं कुरुत । किंच सतीष्वप्यप्सु वृजने वजिते जनशून्ये स्वर्वति स्वर्गयुक्ते मार्गे स्वस्ति दधातन । यथा पुत्रकथेषु पुत्रोत्पत्तिकरणेषु योनिषु कलत्रेषु नोऽस्माकं स्वस्ति दधातन तथा राये धनाय स्वस्त्यस्तु ।

अस्यामृचि मरुच्छब्दः कथमेतावता विशां कल्पनमित्याह मरुतो वै देवानां विशस्ता एवैतद्यज्ञमुखेऽचीलपद, इति ।

एतदेतेन मरुच्छब्दोपेतमत्रपाठेन यज्ञमुखे यज्ञभारम्भरूपे कर्मणि ता देवानां विशोऽचीकृपत्कल्पितवान्भवति ।

छन्दोबाहुल्यमभिधाय प्रशंसति

सर्वेश्छन्दोभिर्यजेदित्याहुः सर्वैर्वै छन्दोभिरि ष्ट्वा देवाः स्वर्ग लोकमजयंस्तथैवैतद्यजमानः

सर्वैश्छन्दोभिरिष्वा स्वर्ग लोकं जयति, इति । स्पष्टोऽर्थः। मन्त्रविशेषान्मन्त्रच्छन्दांसि च पञ्चानां देवानां क्रमेणोदाहरति

स्वस्ति नः पथ्यासु धन्वसु स्वस्तिरिद्धि प्रपथे स्वस्ति नः १०-२० सं० म० १० सू० ६३ ऋ० १५ । स्वस्तिरि०-१० सं० म० १० सू० ६३ १० १६ ।

"

१ ख. यमदें।३ तृतीयः खण्डः] ऐतरेयनामणम् । '

श्रेष्ठति पथ्यायाः स्वस्तेत्रिष्टुभावने नय सुपथा राये अस्माना देवानामपि पन्थामगन्मेत्यनेत्रि शुभौ खं सोम प्रचिकितो मनीषा या ते धामा नि दिवि या पृथिव्यामिति सोमस्य त्रिष्टुभावा विश्वदेवं सत्पतिं य इमा विश्वा जातानीति सवि तुर्गायत्र्यौ सुत्रामाणं पृथिवीं द्यामनेहसं म

हीमू षु मातरं सुव्रतानामित्यदितेर्जगत्यौ, इति । स्वस्ति न इत्यनुवाक्या । स्वस्तिरिद्धीति याज्या । अग्ने नयेत्यनुवाक्या। आ देवानामिति याज्या । त्वं सोमेत्यनुवाक्या । या ते धामानीति याज्या। आ विश्वदेवमित्यनुवाक्या। य इमेति याज्या । सुत्रामाणमित्यनुवाक्या । महीमू ष्विति याज्या।

नन्वत्र त्रीण्येव च्छन्दास्युक्तानि न तु सर्वाणीत्याशङ्कयाऽऽह

एतानि वाव सर्वाणि च्छन्दांसि गायत्रं त्रैष्टुभं जागत मन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्ते, इति । मुख्यानि सर्वाणि च्छन्दांसि त्रीण्येव । इतराणि तु मुख्यान्यनुमृत्य वर्तन्ते । मुख्यत्वमेवैतानि हीत्यादिना स्पष्टी क्रियते । हि यस्मात्कारणादेतानि त्रीणि यज्ञे प्रतमामिव क्रियन्तेऽत्यन्तमाचुर्येणैव प्रयुज्यते ततो मुख्यत्वम् ।

एतद्वेदनं प्रशंसति

एतैर्ह वा अस्य च्छन्दोभिर्यजतः सर्वैश्छन्दो

भिरिष्टं भवति य एवं वेद ॥ ९॥ इति । स्पष्टोऽर्थः।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय

बाह्मणभाष्यस्य द्वितीयाध्याये तृतीयः खण्डः ॥३॥ (९) अग्ने नय०-१० सं० म० १ सू० १८८ १० १ । आ देवा०-१० सं० म० १० सू० ३ ० ३ । त्वं सोम ०-० सं० म० १ सू० ९१ ० १ । यात धा०-ऋ० सं० म० १ सू० ९१ ऋ० ४ । आ विश्व०-ऋ० सं० म०५ सू० (३ ऋ० ७ । य इमा०-ऋ० सं० म० १ सू० ८३ ऋ०९ । सुत्रामाणं० ३० सं० म० १० सू० ६३ ऋ० १० ।

४४

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२ द्वितीयाध्याये पञ्चानां देवतानां क्रमेण याज्यानुवाक्ये उदाहते अथ संयाज्ये वक्तव्ये तत्राऽऽदौ तावदुदाहृता याज्यानुवाक्याः प्रशंसति

ता वा एताः प्रवत्यो नेतृमत्यः पथिमत्यः स्वस्तिमय एतस्य हविषो याज्यानुवाक्या एताभिर्वा इष्वा देवाः स्वर्ग लोकमजयंस्तथैवैत

द्यजमान एताभिरिष्वा स्वर्ग लोकं जयति, इति । स्वस्ति नः पथ्यास्वित्याद्या महीमू षु मातरमित्यन्ता दशों याः पूर्वमुदा. हृतास्ता एवैताः प्रशब्दनेतृशब्दपथिशब्दस्वस्तिशब्दवत्यः । तत्र प्रशब्दः स्वस्तिरिद्धि प्रपथे त्वं सोम प्रचिकित इत्यत्र श्रूयते । नेतृशब्दोऽग्ने नयेत्यत्र श्रूयते । नयतिधातोः कर्तुस्तत्रावगमात् । पथिशब्दोऽग्ने नय सुपथा, आ देवा. नामपि पन्थामित्यत्र श्रूयते । स्वस्तिशब्दः स्वस्ति नः पथ्यासु स्वस्तिरिद्धी त्यत्र श्रूयते । तथा सति च्छत्रिन्यायेन सर्वा अप्येता ऋचः प्रादिभिः शब्द युक्ता इति वक्तुं शक्याः । एवं सत्युत्कर्षद्योतकैरेतैः शब्दैर्युक्ता एता ऋचः मायणीयेष्टिगतस्य हविषो याज्यानुवाक्याः प्रशस्ता भवन्ति । एताभिर्वा इत्या. देरों विस्पष्टः।

प्रथमायाचि चतुर्थ पादमादाय तत्रत्यस्य मरुच्छब्दस्यान्वयव्यतिरेकाभ्यां तात्पर्य दर्शयति

तासु पदमस्ति स्वस्ति राये मरुतो दधातनेति मरुतो ह वै देवविशोऽन्तरिक्षभाजनास्तेभ्यो ह यो निवेद्यः स्वर्ग लोकमेतीश्वरा हैनं नि वा रोडोनि वा मथितोः स यदाह स्वस्ति राये मरुतो दधातनेति तं मरुद्रयो देवविड्झ्यो यज मानं निवेदयति न ह वा एनं मरुतो देवविशः

स्वर्ग लोकं यन्तं निरुन्धते न विमानते, इति । तासु पूर्वोक्तास्वृक्षु पदं पादस्तस्मिन्पादे प्रोक्ता मरुतो देवानां वैश्या अन्त रिक्षे निवसन्ति । एनं यजमानं नि वा रोद्धोः स्वर्गमनं निरोर्बु वा वि वा

१ ख. सु धन्वसु स्व।

} चतुर्थः खण्डः]

ऐतरेयब्राह्मणम् ।

१५ शितोविशेषेण मथितुमालोडयितुं विनाशयितुं वा ते मरुत ईश्वराः समर्थाः मोऽयं व्यतिरेकः । बाघस्यात्रोपन्यस्तत्वात् । स यदाहेत्यादिरन्वयः। उक्त माघसमाधानस्य तत्रोपन्यासात् । यदि होता स्वस्ति राय इत्यादिपादं पठे दानी मरुद्भ्यो यजमानं निवेदयति । ततो मरुतः स्वर्ग लोकं गच्छन्तं यज मानं नैव निरुन्धते नापि विमभते नापि विनाशयन्ति ।

वेदनं प्रशंसति स्वस्ति हैनमत्यर्जन्ति स्वर्ग लोकमभि य एवं वेद, इति । स्वर्गमभिलक्ष्य जिगमिषुमेनं वेदितारं स्वस्ति क्षेमो यथा भवति तथा रुतोऽतिशयेन प्रापयन्ति ।

इत्थमुक्ताः प्रधानहविषो याज्यानुवाक्याः प्रशस्य संयाज्ये विधत्ते

विराजावेतस्य हविषः स्विष्टकृतः

संयाज्ये स्यातां ये त्रयस्त्रिंशदक्षरे, इति । विरादछन्दस्कानां बहूनां विद्यमानत्वात्रयस्त्रिंशदक्षरशब्देन ते ऋचौ विशे येते।

तयोर्कचोः प्रथमपादाबुदाहरति

सेदग्निरमीत्यस्त्वन्यान्सेदग्गियों

वनुष्यतो निपातीत्येते, इति । विराजो प्रशंसति विराड्भ्यां वा इष्वा देवाः स्वर्ग लोकमजयंस्तथैवै तयजमानो विराड्भ्यामिष्ट्वा स्वर्ग लोकं जयति, इति । तथैवैतदिति दान्तिकप्रतिज्ञा यजमान इत्यादिकं तद्विवरणम् । ऋचोरवस्थितामक्षरसंख्या प्रशंसति

ते त्रयस्त्रिंशदक्षरे भवतस्त्रयस्त्रिंशदै देवा अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्याः प्रजा

पतिश्च वषट्कारश्च तत्प्रथमे यज्ञमुखे देवता सेदग्नि ऋ० सं० म० ७ सू० १ ऋ० १४ । सेदग्निर्यो० ऋ० सं० म० ७ १० १ ऋ० १५॥

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[२ द्वितीयाध्याये अक्षरभाजः करोत्यक्षरेणाक्षरेणैव तद्देवतां प्रीणाति

देवपात्रेणैव तदेवतास्तर्पयति ॥ १० ॥ इति । वषट्कारो देवताविशेषः । तत्तथा सति देवतानामक्षराणां च संख्यासाम्ये सति । यामुखं यज्ञोपक्रमः । स च सुत्यादिने मातरनुवाकादिना भविष्यति । तदपेक्षया मायणीयेष्टिः प्रथमं यज्ञमुखम् । तस्मिन्यज्ञमुखे वस्वादिकाः सर्वदे वतासंख्यासाम्यादक्षरभाजः करोति । तत्तेन देवतानामक्षरमापणेनैकैका देव. तामेकैकेनाक्षरेण तोषयति । देवानां पात्रं फलमेकैकमक्षरं तेनैव पात्रेण तत्तः दानी देवतास्तर्पयति मीणातीत्यस्यैव विवरणमेतत् ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय. ब्रामणभाष्यस्य द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥(१०)

संयाज्ये विधाय प्रयाजानूयाजविषये किंचिद्विशेषविधानं पूर्वपक्षत्वेन शाखान्तरीयमतमुपन्यस्यते

प्रयाजवदननुयाजं कर्तव्यं प्रायणीय मित्याहु नमिव वा एतदीखितमिव

यत्मायणीयस्यानुयाजा इति , इति । प्रायणीयेष्टेर्दर्शपूर्णमासविकृतित्वाचोदकेन प्रयाजा अनूयाजाश्च प्राप्ताः समिधो अग्न आज्यस्येत्याचा मनसाध्या ये प्रयाजा देवं बहिरित्याचा मत्र साध्यास्त्रयोऽनूयाजाः प्रायणीयाख्यं कर्म प्रयाजोपेतमनूयाजवजितं कर्तव्य मिति शाखान्तरीया आहुः । तत्रैषा युक्तिः प्रायणीयस्यानूयाजा इति यदस्ति तदेतद्धीनमिव वै तस्यैव व्याख्यानमीलितमिवेति विलम्बितमित्यर्थः । अनूया. जेष्विज्यमानेषु कर्मणि विलम्बो भवेत्तस्मान्न यष्टव्या अनुयाजाः। इतिशब्द पूर्वसमाप्त्यर्थः । यथा मायणीये कर्मण्यनूयाजा वय॑न्ते तथैवोदयनीये कर्मणि प्रयाजा वर्जनीया इति पूर्वाभिप्रायः । तमेतं तैत्तिरीया विस्पष्टमामनन्ति ‘प्रयाजवदननूयाज प्रायणीयं कार्यमनूयाजवदमयाजमुदयनीयम्’ इति ।

स्त्रोक्तं पूर्वपक्षं निराचष्टे

तत्तनाऽऽहत्यं प्रयाजवदेवानुयाजवत्कर्तव्यम्, इति । तस्मिन्मायणीये कर्मणि तत्कर्मानुयाजवर्जनरूपं नाऽऽदरणीयम् ।

१ ख. अत्रैषा।

::

111*

Dr. Amritansusekhar Bagchi

Memorial Collection

188 . +

Mr

LIBRAR

६ पञ्चमः खण्डः] ऐतरेयबामणम् ।

वर्जने बाधमुपन्यस्यति

प्राणा वै प्रयाजाः प्रजाऽनुयाजा यत्प्रयाजान न्तरियात्प्राणांस्तयजमानस्यान्तरियाघदनुया

जानन्तरियात्मजां तयजमानस्यान्तरियाव, इति । प्रथमशन्दसामान्यात्प्रथमभावित्वाद्वा प्रयाजा यजमानस्य प्राणरूपाः। वाद्भावित्वादनुयाजाः पुत्रादिरूपाः। यदा मयाजा वय॑न्ते तदा यजमान चिन्धिनां प्राणानामन्तरायो विच्छेदः स्यात् । अनुयाजवर्जने पुत्रादिवि छेदः । अयमेव पूर्वपक्षबाधस्तैत्तिरीयैरानातः-‘तत्तथा न कार्यमात्मा वै याजाः प्रजाऽनूयाजा यत्प्रयाजानन्तरियादात्मानमन्तरियाघदनूयाजानन्त रेयात्मजामन्तरियात्’ इति । यद्यपि प्रायणीये प्रयाजवर्जनमप्रसक्तं तथाऽप्यु. यिनीये तैत्तिरीयोपन्यस्तं प्रयाजवर्जनमभिनेत्यायं बाधोपन्यासः। । इत्थं पूर्वपक्षे बाधमुपन्यस्य चोदकैः प्राप्तस्योभयानुष्ठानस्य प्रतिप्रसवरूपं सद्धान्तं विधत्ते

तस्मात्मयाजवदेवानुयाजवत्कर्तव्यम् , इति । यस्मादन्यतरत्यागे बाधस्तस्मादित्यर्थः । तैत्तिरीया अप्येतदामनन्ति पयाजवदेवानूयाजवत्मायणीयं कार्य प्रयाजवदनूयाजवदुदयनीयम्’ इति । अत्र वित्रैतरेयपाठेऽनुयाज इति इस्व उकारः। तैत्तिरीयपाठे दीर्घ इति विवेकः ।

चोदकमातान्पत्नीसंयाजान्समिष्टयजुश्च निषेधति

पत्नीन संयाजयेत्संस्थितयजुर्न जुहुयाव , इति । ततः किमित्यपेक्षायामाह

तावतैव यज्ञोऽसंस्थितः, इति। तदानीं यज्ञस्य समासत्वादुत्तरकालीनं सोमक्रयादिकं न प्रवर्तेत । एतेषा. ननुष्ठानमात्रेण यज्ञोऽसमाप्तो भवति । तत उत्तरानुष्ठानं निर्वाध प्रवर्तते ।

कंचिद्विशेषं विधत्ते

प्रायणीयस्य निष्कासं निदध्यात्तमुदयनीयेनाभि निर्वपेद्यज्ञस्य संतत्यै यज्ञस्याव्यवच्छेदाय, इति । भाण्डगतो लेपरूपो हविःशेषो निष्कासः। मायणीयकर्मसंबन्धिनं निष्कासं स्माश्चत्पाने स्थापयेत् । ततः सुत्यादिने सोमयागस्यावसान उदयनीयेष्टिग

४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-२ द्वितीयाध्याये तेन हविषा सह तं निष्कासं समभिनिर्वपेत् । एवं सति प्रायणीयशे पस्यानुवर्तनात्सोमयागः संततो भवति न तु तस्य विच्छेदः पामोति तैत्तिरीयाश्चाऽऽमनन्ति-‘प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति सैव सा यज्ञस्य संततिः’ इति ।

प्रकारान्तरमाह

अथो खलु यस्यामेव स्थाल्यां प्राय णीयं निर्वपेत्तस्यामुदयनीयं निर्वपेत्तावतैव

यज्ञः संततोऽव्यवच्छिन्नो भवति , इति । . नात्र निष्कासोऽपेक्षितः किंतु स्थाल्येकत्वमात्रेण यज्ञस्य संततत्वाम्यवच्छे दराहित्यं सिध्यति । सातत्यव्यवच्छेदराहित्ययोरर्थत एकत्वेऽप्यन्वयव्यतिरे करूपत्वेन पृथगुपन्यासः।

अथ प्रायणीयोदयनीयेष्ट्योर्याज्यानुवाक्याव्यत्यासं विधातुं प्रस्तौति अमुष्मिन्वा एतेन लोके राध्नुवन्ति नास्मिन्नित्याहुर्य स्पायणीयमिति प्रायणीयमिति निर्वपन्ति प्रायणीय मिति चरन्ति प्रयन्त्येवास्माल्लोकाद्यजमाना इति, इति । प्रायणीयमिति निर्वपन्ति प्रायणीयमिति चरन्ति ब्रह्मवादिनः कंचिदोष माहुः । प्रायणीयमित्येवं विधिनोपेतं यत्कार्यमस्ति एतेन कर्मणा यजमाना स्वर्गलोक एव समृद्धि प्रामुवन्ति नास्मॅिल्लोके । कथमिति चेत् । प्रायणीयमि त्येतनाम मनसा कृत्वा निर्वपन्ति । चरणकालेऽपि तथैव चरन्ति । चरणमा तिप्रक्षेपः । तस्य च नानोऽयमर्थः । अनेन कर्मणा यजमाना अस्माल्लोकात्मय न्त्येव न त्वस्मिल्लोके कंचित्कालं प्रतितिष्ठन्ति । तस्मात्मायणीयनाम संपन्न मिति । श्रौत इतिशब्दो ब्रह्मवाद्युद्भावितदोषसमाप्त्यर्थः ।

अथ तद्दोषसमाधानं विधत्ते

अविद्ययैव तदाहुय॑तिषजेद्याज्यानुवाक्याः, इति । अज्ञानेनैव ब्रह्मवादिनस्तद्वचनमाहुः। न त्वत्र तदुक्तदोषोऽस्ति । तदोषान दयाय स्वस्ति नः पथ्यास्वित्यारभ्य महीमू षु मातरमित्यन्तानां याज्यानुवा क्यानां व्यतिषङ्गं कुर्यात् ।

तमेव व्यतिष विस्पष्टयति

याः प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य.


५ पञ्चमः खण्डः] ऐतरेयब्राह्मणम् ।

याज्याः कुर्याद्या उदयनीयस्य पुरोनुवाक्यास्ताः प्रायणीयस्य याच्याः कुर्यात्तव्यतिषजत्युभयोलो कयोध्या उअयोर्लोकयोः प्रतिष्ठित्या उभयो

लोकयोध्नोत्युभयोर्लोकयोः प्रतितिष्ठति, इति । तत्तेन याः प्रायणीयस्येत्युक्तप्रकारेण व्यतिषङ्गः संपद्यते । स च लोकद्वये भोग्यवस्तुसमृद्ध्यै स्थैर्येणावस्थानाय भवति । तथाऽनुष्ठानेन यजमानो लोक दये समृद्धः प्रतिष्ठितश्च भवति । यथोक्तदोषसमाधाने तैत्तिरीया आमनन्ति ‘याः प्रायणीयस्य याज्यास्ता उदयनीयस्य कुर्यात्माङमुं लोकमारोहेल्ममायुक: स्यायाः प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः करोत्यस्मिन्नेव लोके प्रतितिष्ठति’ इति ।

व्यतिषनवेदनं प्रशंसति

प्रतितिष्ठति य एवं वेद, इति । __ योऽयं प्रथमखण्डे प्रायणीयोदयनीययोरदितिदेवताकश्वरुविहितस्तमिमं प्रशंसति

आदित्यश्वरुः प्रायणीयो भवत्यादित्य उदयनीयो यज्ञस्य धृत्यै यज्ञस्य

बर्सनद्वय यज्ञस्याप्रसंसाय , इति । सोमयागस्याऽऽदौ प्रायणीयेष्टिः । अन्ते चोदनीयेष्टिस्तयोरुभयोरयमदि. तिदेवताकश्वरुः । सोऽयं तस्य यज्ञस्य धारणाय मण्याकारो ग्रन्थिविशेषः । तस्य बन्धनं तत्सिद्धयर्थमुभयत्राऽऽदित्यचरकरणम् । बन्धनस्थानीयेन चरुणा यज्ञस्य धारणं सिध्यति । सति च धारणे यज्ञाझं किंचिदपि त्रस्तं लुप्तं न भवति । ततो यज्ञस्यामांसायोभयतश्चरुः ।

अत्र दृष्टान्तमाह

तद्यथैवाद इति ह स्माऽऽह तेजन्या उभयतोऽ न्तयोरप्रसंसाय बझै नयत्येवमेवैतद्यज्ञस्यो भयतोऽन्तयोरप्रसाय बसौ नद्यति यदादित्य श्वरुः प्रायणीयो भवत्यादित्य उदयनीयः, इति ।

श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३ तृतीयाध्याये अदो वक्ष्यमाणं निदर्शनं यथा भवति तथा दान्तिकमित्येवं कश्चिद्रमा वाद्याह स्म तेजन्या इत्यादिना । तावेव दृष्टान्तदान्तिको स्पष्टी क्रियेते । तेजनी रज्जुस्तस्या उभयोरन्तयोरपत्रेसाय विश्लेषनिवारणाय लौकिका पुरुषो बसौं नाति मण्याकारौ ग्रन्थी बनाति । एवमेव चरुद्वयं यदस्ति तदे. तयज्ञस्योपक्रमोपसंहाररूपयोरुभयोरन्तयोरशैथिल्याय मण्याकारबन्धनस्थानीय भवति ।

येयं प्रायणीये पथ्याख्या प्रथमा देवताऽस्ति, उदयनीये तस्या उत्तमात्व मर्थवादेनोनयति

पथ्ययैवेतः स्वस्त्या प्रयन्ति पथ्यां स्वस्ति मभ्युद्यन्ति स्वस्त्येवेतः प्रयन्ति स्वस्त्यु

धन्ति स्वस्त्युद्यन्ति ॥ ११ ॥ इति । इत्यैतरेयब्राह्मणे प्रथमपञ्चिकायां द्वितीयोऽध्यायः॥२॥

इतःशब्दः षष्ठयर्थे वर्तते । आसामाज्यहविष्कानां देवतानां मध्ये पथ्ययैव स्वस्त्यैतच्छब्दद्वयाभिहितयैव देवतया प्रयन्ति प्रारभन्ते प्रायणीये तां देवतां प्रथमं यजन्तीत्यर्थः । पथ्यां स्वस्तिमभिशब्दद्वयाभिहितां देवतामभिलक्ष्यो. घन्ति समापयन्ति । उदयनीये तां देवतामुत्तमां यजन्तीत्यर्थः । स्वस्त्याख्याया देवताया आघन्तयोर्यागे सति यजमाना इतोऽस्मिन्कर्मणि स्वस्त्येव क्षेम एव व्यथा भवति तथा प्रयन्ति प्रारभन्ते । तथा स्वस्त्युद्यन्ति क्षेमेण समापयन्ति ।

अभ्यासोऽध्यायसमाप्त्यर्थः।

अथ मीमांसा । द्वादशाध्यायस्य द्वितीयपादे चिन्तितम्

“प्रायणीयस्य निष्कासे यो निर्वापोऽर्थकर्म तत् ॥ निष्कासप्रतिपत्तिर्वोदयनीयस्य संस्कृतिः ।। उताऽऽद्यः पूर्ववन्मैवं मुख्यस्य प्रकृतत्वतः॥

मध्योऽस्तु नोपयोक्तव्यसंस्कारस्य गुरुत्वतः ॥ ज्योतिष्टोमे श्रूयते-प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपतीति । अत्र पूर्वन्यायेन निष्कासद्रव्यकमुदयनीयमवसा(समानधर्मकमन्यदर्थकर्म त्याद्यः पक्षः। मुख्यस्यैवोदयनीयस्य प्रकृतत्वाद्भिनप्रकरणान्नातावभृथधमा तिदेशवदुदयनीयस्य धर्मातिदेशस्याप्यसंभवानार्थकर्मत्वम् । यदि तहि निष्का१ प्रथमः खण्डः] ऐतरेयबामणम् । मप्रतिपत्तिरिति मध्यमः पक्षोऽस्तु सोऽपीत्थं न संभवति, उपयुक्तसंस्कारा इपयोक्ष्यमाणसंस्कारस्य गरीयस्त्वात् । तस्मादुदयनीयस्य संस्कारः॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय ब्राह्मणभाष्ये द्वितीयाध्यायस्य पञ्चमः खण्डः ॥५॥ (११). इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कणसाम्रा. ज्यधुरंधरसायणाचार्यकृतौ प्रथमपश्चिकायां

द्वितीयोऽध्यायः ॥२॥