ॐ तत्सब्रह्मणे नमः।
ऐतरेयब्राह्मणम् ।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् ।
तत्र प्रथमोऽध्यायः। वागीशायाः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १॥ यस्य निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥२॥ तत्कटाक्षेण तद्रूपं दधबुक्कमहीपतिः ।
आदिशन्माधवाचार्य वेदार्थस्य प्रकाशने ॥३॥
कृपालुर्माधवाचार्यों वेदार्थ वक्तुमुद्यतः ॥ ४ ॥ ननु कोऽयं वेदो नाम के वा तस्य विषयप्रयोजनसंबन्धाधिकारिणः कथं वा तस्य प्रामाण्यम् । न खल्वेतस्मिन्सर्वस्मिन्नसति वेदो व्याख्यानयोग्यो भवति । अत्रोच्यते । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेद यति स वेदः। अलौकिकपदेन प्रत्यक्षानुमाने व्यावय॑ते । अनुभूयमानस्य स्रक्चन्दनवनितादेरिष्टमाप्तिहेतुत्वमौषधादेरनिष्टपरिहारहेतुत्वं च प्रत्यक्षतः सिद्धम् । स्वेनानुभविष्यमाणस्य पुरुषान्तरगतस्य च तथात्वमनुमानगम्यम् । एवं तर्हि भाविजन्मगतमप्यनुमानगम्यमिति चेन्न तद्विशेषस्यानवगमात् । न खलु ज्योतिष्टोमादिरिष्टमाप्तिहेतुः कलञ्जभक्षणवर्जनादिरनिष्टपरिहारहेतुरित्य मुमर्थ वेदव्यतिरेकेणानुमानसहस्रणापि तार्किकशिरोमणिरप्यवगन्तुं शक्रोति । तस्मादलौकिकोपायबोधको वेद इति लक्षणस्य नातिव्याप्तिः । अत एवोक्तम्
“प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते ।
एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता” इति ॥ स एवोपायो वेदस्य विषयस्तद्वोध एव प्रयोजनं तदोधार्थी चाधिकारी तेन सहोपकार्योपकारकभावः संबन्धः । नन्वेवं सति स्त्रीशद्रसहिताः सर्वेऽपि
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१ प्रथमाध्याये वेदाधिकारिणः स्युः । इष्ट मे स्यादनिष्टं मा भूदित्याशिषः सार्वजनीनत्वात् । मैवम् । स्त्रीशूद्रयोः सत्यप्युपायषोधार्थित्वे हेत्वन्तरेण वेदाधिकारस्य प्रतिबद्ध त्वात् । उपनीतस्यैवाध्ययनाधिकारं बुवच्छास्त्रमनुपनीतयोः स्त्रीशूद्रयोर्वेदाध्य यनमनिष्टमाप्तिहेतुरिति बोधयति । कथं तर्हि तयोस्तदुपायावगमः, पुराणादि. भिरिति ब्रूमः । अत एवोक्तम्
“स्त्रीशद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा।
इति भारतमाख्यानं मुनिना कृपया कृतम्” इति ॥ तस्मादुपनीतैरेव त्रैवर्णिकैर्वेदस्य संबन्धः। तत्मामाण्यं तु बोधकत्वात्स्वत एव सिद्धम् । पौरुषेयवाक्यं तु बोधकमपि सद्धान्तिमूलत्वसंभावनया तत्परि हाराय मूलप्रमाणमपेक्ष्यैव प्रमाणम् । न तु वेदो मूलप्रमाणमपेक्षते तस्य नित्य. स्वेन कर्तृदोषशङ्काया अनुदयात् । एतदेव जैमिनिना सूत्रितम्-‘तत्पमाणं बादरायणस्यानपेक्षत्वात्’ इति । ननु वेदोऽपि कालिदासादिवाक्यवत्पौरु षेय एव ब्रह्मकार्यत्वश्रवणात-“ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत” इति हि श्रुतेः। अत एव भगवान्बादरायणः-शास्त्र योनित्वात्’ इति सूत्रेण ब्रह्मणो वेदकारणत्वमवोचत् । मैवम् । श्रुतिस्मृतिभ्यां नित्यत्वावगमात् । ‘वाचा विरूपनित्यया’ इति श्रुतिः। “अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा" इति स्मृतिः । बादरायणोऽपि देवताधिकरणे सूत्रयामास-‘अत एव च नित्यत्वम्’ इति । तहि परस्परविरोध इति चेन नित्यत्वस्य व्यावहारिकत्वात् । सृष्टेरूवं संहारात्पूर्वो व्यवहारकालस्तस्मि
• भुत्पत्तिविनाशादर्शनात् । कलाकाष्ठादयो यथा नित्या एवं वेदोऽपि व्यवहारे कालिदासवाक्यवत्पुरुषविरचितत्वाभावानित्यः। आदिसृष्टौ तु कलाकाष्ठा दिवद्वेदोत्पत्तिराम्नायते । अतो विषयभेदान परस्परविरोधः । ब्रह्मणो निर्दो पत्वेन वेदस्य कर्तृदोषासंभवात्स्वतःसिद्धं प्रामाण्यं तदवस्थम् । तस्माल्लक्षणप्र माणसद्भावाविषयप्रयोजनसंबन्धाधिकारिसद्भावात्मामाण्यस्य सुस्थितत्वादेदो व्याख्यातव्य एव । ननु वेदार्थावबोधे विध्यभावाद्वोधसाधनं व्याख्यानं व्यर्थमिति चेन्न । अध्ययन विधेर्बोधपर्यवसायित्वात् । एतच्च भट्टगुरुमतानुसा. रिभिर्बहुधा अपश्चितम् ।
आनायते च-“यदधीतमविज्ञातं निगदेनैव शब्धते ।
. अनमाविव शुष्कैथो न तज्ज्वलति कहिचित् ॥ स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।१ प्रथमः खण्डः] ऐतरेयबामणम् ।
• योऽर्थज्ञ इत्सकलं भद्रमनुते नाकमेति ज्ञानविधूतपाप्मा ॥
ब्राह्मणेन निष्कारणो धर्मः षडको वेदोऽध्येयो ज्ञेयश्च” इति ॥ एवं तहिं ज्ञानस्य पृथग्विधानादध्ययनं पाठमात्रमिति चेदस्तु नाम । वर्ण यन्त्येवमेव शांकरदर्शनानुसारिणः । कर्तुविधिव्यतिरेकेणानुष्ठानान्यथानुपपत्या वेदार्थज्ञानस्य प्रापितत्वान्नैतद्विधेयमिति चेतहि तद्विधिबलावेदनमात्रेण स्वतत्रं किंचिदपूर्वमस्तु । श्रूयते हनुष्ठानज्ञानयोः स्वतन्त्रं पृथक्फलम्-‘तरति ब्रह्म हत्यां योऽश्वमेधेन यजते य उ चैनमेवं वेद’ इति । अल्पप्रयाससाध्येन वेदनेन तत्सिद्धौ बहायाससाध्यमनुष्ठानं व्यर्थमिति चेत्र । तरणीयाया ब्रह्महत्याया मानसवाचिककायिकत्वादिभेदेन तारतम्योपपत्तेः । मनसा संकल्पिता वाचाs भ्यनुज्ञाता परहस्तेन कारिता स्वयं कृता पुनः कृता चेत्येवं तारतम्येनाव स्थिता ब्रह्महत्या अनेकविधाः । अतस्तत्तरणमप्यनेकविधम् । यथा स्वर्गो बहुविधस्तद्वत् । अग्निहोत्रं जुहुयात्स्वर्गकामो दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्याधुच्चावचकर्मणामेकविधफलासंभवा स्वर्गो वहुविधोऽभ्युपगन्तव्यः । तथा ब्रह्महत्यादिपापनिवृत्तेरपि बहुविध. त्वाद्वेदनेनापि काचिद्ब्रह्महत्या निवर्तत इति योग्यतानुसारेण कल्प्यताम्। किंच तत्तद्विधिसमीपे य एवं वेदेति वचनानि वेदनफलं ब्रुवते तान्यर्थवाद इति चेत् । अस्तु नाम सहामह एवैतमपराधं तेषां वचनानां विधेयार्थप्रशंसापर त्वात् । तर्हि यत्परो हि शब्दः स शब्दार्थ इति न्यायेन स्वार्थे मामाण्यं नास्तीति चेत् । महातात्पर्यस्य विधेयविषयत्वेऽप्यवान्तरतात्पर्यस्य स्वार्थवि षयत्वानिवारणात् । ग्रावाणः प्लवन्त इत्याधर्थवादस्यापि स्वार्थे प्रामाण्यं प्रस. ज्येतेति चेन । प्रमाणान्तरबाधितत्वात् । द्विःसंवत्सरस्य सस्यं पच्यत इत्याध. र्थवादस्य तु बाधाभावेऽप्यनुवादत्वान स्वार्थे प्रामाण्यम् । वेदनफलवचनानि तु नानुवादकानि नापि बाध्यानि तस्मादर्थवादत्वेऽप्यस्त्वेषां स्वार्थे मामा ज्यमन्यथा मन्त्रार्थवादादिभ्यो देवादीनां विग्रहादिमच न सिध्येत् । अत एवोक्तम्
“विरोधे गुणवादः स्यादनुवादोऽवधारिते ॥
भूतार्थवादस्तद्धानादर्थवादविधा मतः” इति ॥ किंबहुना विद्यत एवावश्यं वेदनमात्रादपूर्वमतो वेदनाय वेदो व्याख्यायते । तस्य च वेदस्य भागद्वयं कल्पसूत्रकारैरुदाहतम्-‘मत्रबामणयोर्वेदनामधे यम्’ इति । तत्र मन्त्रविषया विचाराः संहिताव्याख्याने द्रष्टव्याः। ब्राह्मण लक्षणं तु द्वितीयाध्यायस्य प्रथमपादे विचारितम्
|
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१ प्रथमाध्याये “नास्त्येतद्राह्मणेत्यत्र लक्षणं विद्यतेऽथ वा। नास्तीयन्तो वेदभागा इति क्लुप्तेरभावतः ॥ मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मत्रतः। अन्यत्रालणामला
अन्यद्राह्मणमित्येतद्भवेद्राह्मणलक्षणम्” इति । चातुर्मास्येष्विदमाम्नायते–‘एतद्राह्मणान्येव पञ्च हवींषि’ इति । तत्र ब्राह्मणस्य लक्षणं नास्ति । कुतः। वेदभागानामियत्तानवधारणेन ब्राह्मणभागे. ध्वन्यभागेषु च वाच्यलक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वादिति चेन्न।भागद्वयाङ्गीकारेण मन्त्रव्यतिरिक्तो भागो ब्राह्मणमिति लक्षणस्य निर्दोष त्वात् । ननु ब्रह्मयज्ञप्रकरणे मन्त्रब्राह्मणव्यतिरिक्ता इतिहासादयो भागा आना. यन्ते यहाह्मणानीतिहासान्पुराणानि कल्पानगाथा नाराशंसीरिति । मैवम् । विप्र परिव्राजकन्यायेन ब्राह्मणाधवान्तरभेदानामेवेतिहासादीनां पृथगभिधानात् । देवासुराः संयत्ता आसन्नित्यादय इतिहासाः । इदं वा अग्रे नैव किंचनाss सीन चौरासीदित्यादिकं जगतः प्रागवस्थानमुपक्रम्य सर्गप्रतिपादकं वाक्य जातं पुराणम् । कल्पस्तु, आरुणकेतुकचयनप्रकरणे समानायते-‘इति मन्त्राः कल्पोऽत ऊर्च यदि बलिं हरेत्’ इति । अग्निचयनप्रकरणे यमगाथाभिः परिगाय तीति विहिता मन्त्रविशेषा गाथाः। मनुष्यवृत्तान्तप्रतिपादिका ऋचो नाराशंस्यः। तस्मान्मत्रब्राह्मणव्यतिरिक्तवेदभागाभावान्मन्त्रव्यतिरिक्तं ब्राह्मणमित्येतल्लक्षणं मुस्थितम् । तस्य लक्षणस्याग्नि देवानामवम इत्यादिग्रन्थे विद्यमानत्वादिदं ब्राह्मणम् । तच्चेश्वरानुग्रहादितरायाः पुत्रेण लब्धत्वादैतरेयकमित्युच्यते । मह
Kणां तत्तद्वेदभागलाभः स्मर्यते
“युगान्तेऽन्तहितान्वेदान्सेतिहासान्महर्षयः।
लेभिरे तपसा पूर्वमनुज्ञाता: स्वयंभुवा” इति ॥ प्रकृतस्य तु ब्राह्मणस्यैतरेयकत्वे संप्रदायविद एतामाख्यायिकामाचक्षते । कस्यचित्खलु महर्षेव्यः पन्यो विद्यन्ते तासां मध्ये कस्याश्चिदितरेति नाम धेयम् । तस्या इतरायाः पुत्रो महिदासाख्यः कुमारः । एतच्चाऽऽरण्यकाण्डे समानायते–‘एतद्ध स्म वै तद्विद्वोन्महिदास ऐतरेयः’ इति । तदीयस्य तु पितुर्भार्यान्तरपुत्रेष्वेव स्नेहातिशयो न तु महिदासे । ततः कस्यचिद्यज्ञसभायां तं महिदासमवज्ञायान्यान्पुत्रान्स्वोत्सङ्ग स्थापयामास । तदानीं खिन्नवदनं महिदासमवगत्येतराख्या तन्माता स्वकीयकुलदेवतां भूमिमनुसस्मार । सा च
.
१ क. ‘द्वानाह म ।
१ प्रथमः खण्डः] ऐतरेयब्राह्मणम् । भभिर्देवता दिव्यमूर्तिधरा सती यज्ञसभायां समागत्य महिदासाय दिव्यं सिंहासनं दत्त्वा तत्रैनमुपवेश्य सर्वेष्वपि कुमारेषु पाण्डित्याधिक्यमवगमय्यैत हाह्मणप्रतिभासनरूपं वरं ददौ । तदनुग्रहात्तस्य महिदासस्य मनसाऽग्नि देवानामवम इत्यादिकं स्तृणुते स्तृणुत इत्यन्तं चत्वारिंशदध्यायोपेतं ब्राह्मणं प्रादुरभूत् । तत ऊर्ध्वमथ महाव्रतमित्यादिकमाचार्या आचार्या इत्यन्तमारण्य कव्रतरूपं च ब्राह्मणमाविरभूदिति । तस्यैतरेयस्य प्रादुर्भुते चत्वारिंशदध्यायो. पेतब्राह्मणे चतुःसंस्थो ज्योतिष्टोमः प्रथम विधीयते । ततो गवामयनं तत आदित्यानामयनं ततोऽङ्गिरसामयनं ततो द्वादशाहस्ततोऽन्यत्सर्व प्रासङ्गिक मिति द्रष्टव्यम् । गोष्टोमायुष्टोमादिषु सोमयागेषु ज्योतिष्टोमस्य प्राथम्यमुक्तम् ‘एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः’ इति श्रुतेः। तस्य ज्योतिष्टोमस्य सप्तसंस्थोपेतस्याग्निष्टोम उक्थ्यः पोडश्यतिरात्रश्चेत्येताश्चतस्रः संस्था अत्रानुक्र मेण वक्ष्यन्ते । तस्मिन्नपि चतुष्टयेऽग्निष्टोमः प्रकृतिः कृत्स्नस्यानुष्ठेयस्य तस्मिन्न निष्टोमे प्रत्यक्षश्रुत्यैवोपदिष्टत्वात् । प्रकर्षण क्रियते साकल्येनानुष्ठेयमुपदिश्यते यस्यां सा प्रकृतिरिति हि तच्छन्दव्युत्पत्तिः। उक्थ्यादयस्तु विकृतयः। विशेष स्यैव तत्र प्रत्यक्षोपदेशेन संपादितत्वात् । अवशिष्टं तु सर्वमनुष्ठेयं प्रकृतिवद्विकृतिः कर्तव्येति न्यायेनैव संपाद्यते। अत एवोपजीव्यत्वादग्निष्टोम एवाऽऽदौ वक्तव्यः। यद्यपि तस्याग्निष्टोमस्योपक्रमेऽवश्यमृत्विग्वरणं वक्तव्यं सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयात्विजो वृणीत इत्यापस्तम्बेनाभिधानात्तथाऽप्यूग्वेदस्य होतृ कर्तव्यप्रतिपादकत्वात्विग्वरणस्य तु हौत्रत्वाभावात्तदुपेक्ष्य दीक्षणीयेष्टिरादौ विधीयते । ऋग्वेदस्य हौत्रत्वं समाख्याबलात्तृतीयाध्यायस्य तृतीयपादे विचा रितम्
“वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः ।
अनियत्या नियत्या वा नियति निरूपणात् ।। हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः।
निर्वाधं चान्यवत्तच्च तेनात्र विनियोजकम्” ॥ याज्यापुरोनुवाक्यापाठादयो धर्मा ऋग्वेदे प्रोक्ताः। दोहननिर्वापादयो यजुर्वेदे । आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे । तत्रास्यैवैते धर्मा इति नियाम कस्य दुनिरूपत्वाद्येन केनाप्यत्विना यः कोऽपि धर्म इच्छया संगच्छत इति चेन्मैवम् । हौत्रमाध्वर्यवमौद्गात्रमिति समाख्यानेन नियतिर्बोध्यते। न च समा. ख्यानस्य बाधकं किंचित्पश्यामः । तस्मादबोधकत्वबाधितत्वयोरपामाण्यकार णयोरभावाच्छ्रतिलिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते ।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् – [१ प्रथमाध्याये नन्विष्टेरप्यध्वर्युकर्तृकत्वाद्यजुर्वेदे कर्तव्यता न त्वत्रेति चेत्सत्यं तथाऽपीष्टिगत योर्याज्यानुवाक्ययोहौत्रत्वेनात्र वक्तव्यत्वादिष्टेरनुक्तौ याज्यानुवाक्ये कुत्रत्ये इति विशेषसंबन्धस्य ज्ञातुमशक्यत्वात्तदवबोधाय प्रथममिष्टिविधातव्याऽतस्तां विधातुं तदेवतारूपमनि विष्णुं चाऽऽदौ प्रशंसति–
ॐ अनि देवानामवमो विष्णुः परम
स्तदन्तरेण सर्वा अन्या देवताः, इति । योऽयमग्निरस्ति सोऽयं देवतामध्येऽवमः प्रथमो द्रष्टव्यः । यस्तु विष्णुः सोऽयं परम उत्तमः वैशब्द उक्तार्थे मत्रप्रसिद्धिद्योतनार्थः । ‘अग्निर्मुखं प्रथमो देवतानां संगतानामुत्तमो विष्णुरासीत्’ इति हि मन्त्र आन्नायते। यद्वा वैशब्द उपपत्तिमसिद्ध्यर्थः । उपपत्तिश्चैवं योजनीया । यद्यपि देवशब्दः साधारणत्वा सर्वदेवतावाची तथाऽप्यत्र प्रकरणबलादमिष्टोमाङ्गेषु शस्त्रेषु प्रतीयमानाः प्रधा नदेवता विवक्ष्यन्ते । शस्त्राणि च द्वादश । तेष्वाज्यशस्त्रं प्रथमं तस्मिंश्च भूरग्नि ज्योतिरित्यनिरानातः। आनिमारुतं शस्त्रमन्तिमं तस्मिन्विष्णोर्नुकमिति विष्णु रानातः । एवमग्निष्टोमसंस्थायां शस्त्रपाठापेक्षमः प्राथम्यं विष्णोरुत्तमत्वं च । यदा सर्वासु संस्थामूक्तन्यायेनाः प्राथम्यं विष्णोरुत्तमत्वमन्तिमसंस्थायाम सोर्यामाख्यायां त्रयस्त्रिंशत्स्तोत्रशस्त्रोपेतायामन्तिमं स्तोत्रं शस्त्रं च वैष्णवमिति तदपेक्षया द्रष्टव्यम् । यद्वा मथमायां दीक्षणीयेष्टावनिरिज्यते । अन्तिमायामु दवसानीयेष्टेः स्थाने वैष्णवी पूर्णाहुतिर्वाजसनेयिभिरानाता । सर्वथाऽपि स्तोतव्यान्यष्टव्यांश्च देवानपेक्ष्यामेः प्राथम्यं विष्णोरुत्तमत्वं च युक्तम् । तद. न्तरेण तयोः प्रथमोत्तमयोरमाविष्ण्वोर्मध्ये तत्तच्छत्रपतिपाद्या अन्या इन्द्रवा स्वादयः सर्वाः प्रधानदेवता वर्तन्ते । तस्मात्सर्वदेवतानामुभयतो रक्षकवदव स्थितावमाविष्णू प्रशस्तावित्यर्थः ।
सौमिकेषु यष्टव्यासु स्तोतव्यामु च सर्वासु देवतास्वमाविष्णू प्रशस्य तद्दे वताकामिष्टिं विधत्ते
आमावैष्णवं पुरोळाशं निर्वपन्ति
दीक्षणीयमेकादशकपालम्, इति । अग्निश्च विष्णुश्चामाविष्णू तावुभौ परस्परव्यासक्तो यस्य पुरोडाशस्यैका देवता सोऽयमानावैष्णवो यथोक्तदेवतां प्रति हविष्टटेन प्रदेयद्रव्यरूपः पकः पिष्टपिण्डः पुरोडाश इत्युच्यते । डकारस्यात्र लकार एतच्छाखाध्ययनसंपदा येन मापितः । शकटावस्थापितत्रीहिसंघानिष्कृष्य मुष्टिचतुष्टयपरिमितानां
१ प्रथमः खण्डः] ऐतरेयत्राह्मणम् । जीडीणां शूर्प प्रक्षेपो निर्वापस्तत्पूर्वको यागोत्र निर्वापेणोपलक्ष्यते । आगावै. ष्णवं पुरोडाशमिति सामानाधिकरण्येनावगतस्य द्रव्यदेवतासंबन्धस्य यागम न्तरेणानुपपनत्वात् । सति तु यागे संबन्ध उपपद्यते ।
“उद्दिश्य देवतां द्रव्यत्यागो यागोऽभिधीयते” इति यागलक्षणस्य पूर्वाचार्यैरुक्तत्वात् । निर्वपन्तीत्ययंशब्दो न वर्तमा नार्थः किंतु विध्यर्थः। स च लकारो लिङथे लेडिति सूत्रेण विध्यर्थो द्रष्टव्यः। एवं च सति शाखान्तरेण संवादो भवति । तथा च तैत्तिरीया विस्पष्टं विधि मामनन्ति-‘आमावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः’ इति । तत्रै कायोगापेक्षमेकवचनम् । अत्र तु बहुप्रयोगगतं सत्रगतं वा यजमान. बहुत्वमपेक्ष्य निर्वपन्तीति बहुवचनम् । यद्वा छान्दसो वचनव्यत्ययः । सोम यागे प्रवृत्तस्य यजमानस्य संस्कारो दीक्षणं तस्य च संस्कारस्य हेतुः कर्मवि शेषो दीक्षणीयाशब्दवाच्यः । तस्य च कर्मविशेषस्य वाचकेन शब्देन तत्कर्म साधनमुपलक्ष्यते । ततो दीक्षणीयाख्यकर्मसाधनं पुरोडाशमिति सामानाधि करण्यमुपपन्नम् । एकादशसु कपालेषु संस्कृतः पुरोडाश एकादशकपालः । तेषु हि पुरोडाशः श्रप्यते ।
अत्र प्रथमोत्तमयोरग्नाविष्ण्वोः पुरोडाशदेवतात्वे फलितं दर्शयति सर्वाभ्य एवैनं तद्देवताभ्योऽनन्तरायं निर्वपन्ति, इति । तत्तेनाऽऽग्नावैष्णवत्वेन तयोरमाविष्ण्वोर्मध्यवर्तिनीनां सौमिकीनां सर्वासां देवतानामुपलक्षितत्वादनन्तरायं निरवशेष काचिदपि देवताऽवशिष्टा यथा न भवति तथैनं पुरोडाशं यजमाना निर्वपन्त्येव । अनेन निर्वापेण सर्वा देवता स्तृप्यन्तीत्यर्थः । यथा वैयाकरणाः प्रत्याहारेष्वाधन्तयोर्वर्णयोर्ग्रहणेन मध्यपा तिनां सर्वेषां वर्णानां ग्रहणमिच्छन्ति । न्यायस्तदीय एवं व्यवहियते-‘तन्म ध्यपतितस्तद्रहणेन गृह्यते’ इति । यथा वा लोके भुञ्जानानामेकपकावुपविष्टा नामाधन्तयो मणयोः परितोषेण मध्यवर्तिनः सर्वे परितुष्टा इति निश्चित तथेदं द्रष्टव्यम् ।
नवनाविष्ण्योरेव निर्वापसंबन्धः श्रूयते न तु मध्यवर्तिदेवतानां तत्कथं तासां तृप्तिरित्याशङ्कय तत्सिद्ध्यर्थं तयोरेव सर्वदेवतान्तर्भावं दर्शयति
अग्निर्वै सर्वा देवता विष्णुः सर्वा देवताः, इति । . अग्नेः सर्वदेवतारूपत्वे श्रुत्यन्तरमसिद्धियोतनाओं वैशब्दः । तथा च तैत्ति. रीयाः पौरोडाशिके काण्डे समामनन्ति-‘ते देवा अमौ तनः संन्यदधत
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ प्रथमाध्याये तस्मादाहुरग्निः सर्वा देवताः’ इति । सौमिकेऽपि काण्डे श्रूयते-‘देवासुराः संयत्ता आसंस्ते देवा बिभ्यतोऽग्निं प्राविशंस्तस्मादाहुरग्निः सर्वा देवता।’ इति । विष्ल व्याप्तावित्यस्माद्धातोरुत्पनो विष्णुशब्दः । व्याप्तिश्च सर्वजगदु पादानकारणत्वेन सर्वात्मकत्वादुपपद्यते । अत एव स्मरन्ति-‘भूतानि विष्णु र्भुवनानि विष्णुः’ इति ।
सर्वदेवतात्मकत्वेनामांविष्णू प्रशस्य प्रकारान्तरेण पुनः प्रशंसति एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च तद्यदानावै ष्णवं पुरोळाशं निर्वपन्यत एव तद्देवानृध्नुवन्ति, इति ।
अग्निश्च विष्णुश्चेत्यनयोर्देवतयोर्यच्छरीरद्वयमस्ति, एते उभे तन्वौ यज्ञस्यान्त्ये सोमयागस्याऽऽदावन्ते च वर्तमाने आया चान्त्या चेति विवक्षायामेकशेषे णान्त्ये इति भवति । यथा माता च पिता चेत्यत्र पितरावित्येकशेषस्तद्वत् । आघन्ततित्वं चाग्नि देवानामवम इत्यत्रैवोपपादितम् । तत्तथा सत्यायन्तव तित्वे सति ताशदेवताकं पुरोडाशं निर्वपन्तीति यदस्ति तत्तेन यथोक्तनिर्वा पेणान्ततो यागस्याऽऽदावन्ते च देवान्सर्वानध्नुवन्त्येव परिचरन्त्येव । वमेतं सार्थवादं दीक्षणीयेष्टिविधि तैत्तिरीया अपि विस्पष्टमामनन्ति-‘आमावैष्ण वमेकादशकपालं निर्वपेद्दीक्षिष्यमाणोऽग्निः सर्वा देवता विष्णुर्यज्ञो देवताश्चैव यज्ञं चाऽऽरभतेऽग्निरवमो देवानां विष्णुः परमो यदानावैष्णवमेकादशकपालं निर्वपति देवता एवोभयतः परिगृह्य यजमानोऽवरुन्धे’ इति । - इदानीं यथोक्तविधौ ब्रह्मवादिचोद्यमुद्भावयति
तदाहुर्यदेकादशकपालः पुरोळाशो हावनावि
ष्णू कैनयोस्तत्र कृप्तिः का विभक्तिरिति, इति । तत्र तत्र कपालसंख्यायां ब्रह्मवादिन आहुश्चोदयन्ति । एकादशसु कपालेषु संस्कृतः पुरोडाश एकमेव द्रव्यं तस्य भोक्तारौ द्वौ देवौ । एनयोर्द्वयोः समप्र धानत्वेन विषमांशस्यायुक्तत्वात्तत्र द्रव्ये का क्लप्तिविभागकल्पनानिमित्तं किं स्यात्का विभक्तिनिमित्तविशेषाभावे नैमित्तिको विभागविशेषः कथं घटेत । इतिशब्दश्वोधसमाप्त्यर्थः।
ब्रह्मवादिष्वेव मध्येऽभिज्ञानां चोद्यपरिहारमुद्भावयति
अष्टाकपाल आनेयोऽष्टाक्षरा वै गायत्री गायत्र . . मग्नेश्छन्दस्त्रिकपालो वैष्णवस्त्रिहीदं विष्णुर्व्य- ..
१ प्रथमः खण्डः] ऐतरेयब्राह्मणम् ।
क्रमत सैनयोस्तत्र क्लप्तिः सा विभक्तिः, इति । अमु कपालेषु संस्कृतः पुरोडाशभागोऽः संबन्धी। स च संबन्धश्छन्दो द्वारा द्रष्टव्यः। गायत्र्याख्यं छन्दोऽनेः संबन्धि तयोरनिगायत्र्योः प्रजापतिमुख. जन्यत्वसाम्यात् । एतच मुखजन्यत्वं तैत्तिरीयाः सप्तमकाण्डे पठन्ति–‘प्रजा पतिरकामयत प्रजायेयेति स मुखतखिवृतं निरमिमीत तमग्निर्देवताऽन्वसृज्यत गायत्रीछन्दः’ इति । तस्याश्च गायत्र्याः पादाक्षरेष्वष्टत्वं संख्या दृश्यते । सोऽयं यथोक्तपुरोडाशभागस्यामेश्च संबन्धः । त्रिषु कपालेषु संस्कृतः पुरो डाशभागो विष्णोः संबन्धी। हि यस्मात्कारणाद्विष्णुरिदं सर्वं जगत्रियंक्रमत त्रिरावृत्तेन स्वकीयपादविक्षेपेण व्याप्तवान् । तथा च मत्र आम्रायते–‘इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ’ [ऋ० सं० म०१ सू० २२ ऋ० १७] इति ‘त्रीणि पदा विचक्रमविष्णुर्गोपा अदाभ्यः’ [ऋ० सं० म० १ सू० २२ ऋ० १८ ] इति च । सा यथोक्ताऽटत्वसंख्या त्रित्वसंख्या चैनयोर्देवतयोस्तत्र पुरोडाशे क्लप्तिविभागकल्पनाहेतुः। तदनुसारेण विभक्तिस्तादृशो विभागोऽ वगन्तव्यः।
इत्यं सार्थवादेन विधिवाक्येन दीक्षणीयेष्टिं विधाय तस्यामेवेष्टौ प्रतिष्ठाका मस्य पुरोडाशमपोध द्रव्यान्तरं विधत्ते
घृते चरुं निर्वपेत योऽप्रतिष्ठितो मन्येत, इति । पुत्रादिमजया गवादिपशुभिश्च रहितत्वमप्रतिष्ठितत्वं तादृशोऽहमिति मन्य. मानो यजमानः प्रतिष्ठार्थ घृतेन तण्डुलैश्चरं निष्पादयेत् ।
अप्रतिष्ठितत्वस्याऽऽत्यन्तिकदोषत्वं दर्शयति
अस्यां वाव स न प्रतितिष्ठति यो न प्रतितिष्ठति, इति । यो यजमानः प्रजापशुरूपया प्रतिष्ठया वर्जितः सोऽस्यां वाव कृत्स्नायामप्ये तस्यां भूमौ न प्रतितिष्ठति श्लाघ्यो न भवति। तस्मादमतिष्ठा परिहर्तव्येत्यर्थः।
घृतचरुणा तत्परिहारं दर्शयति
तयघृतं तस्त्रियै पयो ये तण्डुलास्ते पुंसस्तन्मिथुनं मिथुनेनैवैनं तत्प्रजया
पशुभिः प्रजनयति प्रजात्यै, इति । तत्तत्र घृतपके चरौ यद्धृतमस्ति तत्वियै पयः खियाः शोणितं द्रवत्वसा म्येन पयःशब्द: शोणितमुपलक्षयति । विलीनस्य घृतस्येषद्रक्तत्वसाम्येन
मापाया
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ १ प्रथमाध्याये योषिद्वीयत्वमुपचर्यते । चरौ ये तण्डुलाः सन्ति ते पुंसो रेत इति शेषः। श्वेतत्वं त्वत्र साम्यम् । तघृततण्डुलोभयात्मकं चरुद्रव्यं मिथुनसदृशं तत्तस्मा कारणान्मिथुनरूपेणैव चरुद्रव्येणैवैनं यजमानं पुत्रादिप्रजया गवादिपशुभिश्च प्रजनयति प्रवर्धयति । तस्मादिदं चरुद्रव्यं प्रजासै प्रजननाय प्रतिष्ठारूपाय संपधत इत्यर्थः।
चरोः प्रतिष्ठाहेतुत्ववेदनं प्रशंसति
प्रजायते प्रजया पशुभिर्य एवं वेद, इति । तावेतौ पुरोडाशचरुपक्षावापस्तम्बन दर्शितौ-‘दीक्षणीयायास्तत्रं प्रक्रम यत्यानावैष्णवमेकादशकपालं निर्वपत्यागावैष्णवं वा घृते चरुं पुरोडाशो ब्रह्मवर्चसकामस्य घृते. चरुः प्रजाकामस्य पशुकामस्य वाऽऽदित्यं घृते चरं द्वितीयं प्रजाकामस्य पशुकामस्यैके समामनन्ति’ इति ।
उक्ताया दीक्षणीयेष्टेः कालं विधत्ते
आरब्धयज्ञो वा एष आरब्धदेवतो यो दर्श पूर्णमासाभ्यां यजत आमावास्येन वा हवि षेष्वा पौर्णमासेन वा तस्मिन्नेव हविषि तस्मि
बर्हिषि दीक्षेतैषो एका दीक्षा, इति । यः पुमान्दर्शपूर्णमासाभ्यां यजते तेन सर्वोऽपि यज्ञः प्रारब्धः सर्वस्य तद पेक्षितत्वात् । सोमयागस्य दर्शपूर्णमासविकृतित्वाभावेऽप्यगादीनां दीक्षणीयाँ प्रायणीयादीनामिष्टीनां तद्विकृतित्वादस्ति तदपेक्षा । अग्निहोत्रस्य तदङ्गानां च तनिरपेक्षत्वेऽप्याहवनीयाधमिसापेक्षत्वादग्नीनां च पवमानेष्टिसाध्यत्वादिष्टीनां दर्शपूर्णमासविकृतित्वादस्ति परम्परया तदपेक्षाऽतस्तदनुष्ठानेन सर्वस्यापि यज्ञस्य प्रारम्भः सिध्यति । यद्यपि यज्ञारम्भेणैव तदीयदेवतानां पूजयितुमारम्भ: सिद्ध एव तथाऽपि प्राधान्यख्यापनार्थमारब्धदेवत इति पुनर्देवताभिधानम् । यस्माद्दर्शपूर्णमासयाजिना सर्वोऽपि यज्ञ आरब्धप्रायोऽत एव देवतानां पूजा प्यारब्धमाया तस्मादारब्धस्य सोमयागस्यानुष्ठेयत्वादर्शपूर्णमासानुष्ठानादूर्व दीक्षेत दीक्षणीयेष्टिं कुर्यात् । अमावास्याकाले कर्तव्यं हविरामावास्यं तद्व पौर्णमासं च । हविःशब्दोऽत्र यज्ञमुपलक्षयति । वाशब्दो समुच्चयार्थौ । अमा वास्यादिसंबन्धिना पौर्णमासीसंबन्धिना च यज्ञेनेष्टा दीक्षेत । उक्तार्थ एव
१ क. ‘यं । २ ख. पेक्षत्वा । ३ क. ‘यादी ।
१ प्रथमः खण्डः] - ऐतरेयब्राह्मणम् ।
११ तस्मिन्नित्यादिना प्रपञ्चयते । हविःशब्दवद्वहि शन्दोऽपि यज्ञोपलक्षकः । तस्मि. नामावास्याख्ये इविषि यज्ञे तस्मिन्पौर्णमासाख्ये बर्हिषि यज्ञेऽनुष्ठिते सति पश्चादेव दीक्षेत । तदाहाऽऽश्वलायन:-‘दर्शपूर्णमासाभ्यामिष्ट्रेष्टिपशुचातुर्मा स्यैरय सोमेन’ इति । यजेतेति शेषः । इष्टिराग्रयणेष्टिः । पशुनिरूढपशुबन्धः । आपस्तम्बोऽप्याह-‘अथ दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्ट्वा सोमेन पशुना वा यजते’ इति । एतच्छब्दादुत्तर उकारोऽपिशब्दपर्यायः । एषाऽप्ये का दीक्षा । एवमुक्ते सत्यन्याऽपि काचिदीक्षाऽस्तीति सूचितं भवति । अत एवाऽऽश्वलायन इष्टिपूर्वत्वं सोमपूर्वत्वं चेत्युभौ पक्षावुदाजहार-‘ऊर्व दर्श पूर्णमासाभ्यां यथोपपत्त्येके प्रागपि सोमेनैके’ इति । उपपत्तिद्रव्यादिसंपत्ति स्तामनतिक्रम्येति यथोपपत्ति । दर्शपूर्णमासाभ्यामूर्ध्व द्रव्यादिसंपत्तौ सत्यां सोमेन यजेतेति केषांचिन्मतं ताभ्यां प्रागपि संपत्तौ सोमपानमित्यपरेषां मतम् । तैत्तिरीयाश्चेष्टिपूर्वत्वमभिप्रेत्य वसन्तादिकालविशेषेष्वाधानमाम्नाय पुनः सोम पूर्वत्वमभिप्रेत्य कालनियममन्तरेणाऽऽधानमामनन्ति-‘अथो खलु यदैवैनं यज्ञ उपनमेत् । अथाऽऽदधीत सैवास्यधिः’ इति । आपस्तम्बोऽपीदमेव सोमा धानमभिप्रेत्य वसन्तादिकालविशेषप्रतीक्षां वारयति-‘नर्तृन्सूक्षेत्र नक्षत्रम्’ इति । तस्मात्पक्षद्वयम् ।
चोदकप्राप्तां पञ्चदशसंख्यामपवदितुं संख्यान्तरं विधत्ते
सप्तदश सामिधेनीरनुब्रूयात्, इति । प्र वो वाजा अभियव [ऋ० सं०म० ३ सू० २७ ऋ० १] इत्याचा ७/1/ एकादशसंख्याका ऋचो वह्निसमिन्धनहेतुत्वात्सामिधेन्य इत्युच्यन्ते । तासु त्रिः प्रथमामन्वाह त्रिरुत्तमामिति वचनात्ताः पञ्चदश संपद्यन्ते । प्रकृतावेव विहि. तासु पश्चदशस्वृक्षु चोदकमाप्तासु ये समिध्यमानसमिद्धवत्यौ द्वे ऋचौ तयोर्मध्ये धाय्याभिधेये ऋचौ प्रक्षेप्तव्ये । तथाचाऽऽश्वलायन:-‘दीक्षणीयायां धाय्ये विराजौ’ इति । तत्र पृथुपाजा अमर्त्य इत्येका तं सबाधो यतनुच इति द्वितीया। एतच्च प्रयोगसंग्रहकारेणोदाहृतम्-‘अथ दीक्षणीयायां धायये भवतः शोचि केशस्तमीमहों पृथुपाजास्तं सबाधः’ इति । अग्नये समिध्यमानायानुब्रहीत्ये वमध्वर्युणा प्रेषितो होता सामिधेनीः सप्तदशानुभूयात् ।
तामेता संख्यां प्रशंसति
- सप्तदशो वै प्रजापतिदिश मासाः पञ्च
१ ख. ° धानं समा ।
H
.
..
१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ १ प्रथमाध्याये
तवो हेमन्तशिशिरयोः समानेन तावा
संवत्सरः संवत्सरः प्रजापतिः, इति । सप्तदश चावयवा यस्य प्रजापतेः सोऽयं सप्तदशस्तस्मिन्नर्थे वैशब्दोक्तम सिद्धिादशेत्यादिना स्पष्टी क्रियते । चैत्राथा मासा द्वादश प्रसिद्धाः। यद्यपि षड्डा ऋतव इति श्रुत्यन्तराल्लोकप्रसिद्देश्व वसन्ताद्याः षट्संख्याकास्तथापि शीतत्वसाम्येन हेमन्तशिशिरावेकीकृत्य पञ्चसंख्योच्यते । द्वादशभिर्मासैस्तन्मे लनात्मकपश्चर्तुभिश्च यावान्कालो भवति तावान्कालः संवत्सर इत्युच्यते । स च संवत्सरस्तत्तहतूचितवर्षादिनिष्पादनेन प्रजानां पालकत्वात्मजापतिस्तदी यत्वेनं सप्तदशसंख्या प्रशस्तेत्यर्थः । सप्तदशसंख्यावेदनं प्रशंसति
प्रजापत्यायतनाभिरेवाऽऽभी राम्रोति
य एवं वेद ॥१॥ इति। . संवत्सरात्मकः प्रजापतिरायतनमाश्रयो यासां सामिधेनीनां ताः प्रजाप त्यायतनास्तदीयसंख्योपेतत्वात्तदायतनत्वं ताशीभिराभिः सामिधेनीभिर्वे दिता राधोति समृद्धो भवति । सति वेदने तदनुष्ठानमहत्तेः फलमाप्तिसमृद्धि
रुपपद्यते । अत्र मीमांसोदाहियते । पश्चमाध्यायस्य चतुर्थपादे द्वयं चिन्तितम्–
“दर्शादीष्टवा सोमयागः क्रमोऽयं नियतो न वा।
उक्तेरायो न सोमस्याऽऽधानानन्तरताश्रुतेः” । दर्शपूर्णमासाविष्टा सोमेन यजेतेति क्त्वाप्रत्ययेनावगम्यमानः क्रमो नियत इति चेन्मैवम् । सोमेन यक्ष्यमाणोऽमीनादधीतेत्याधानानन्तरताया अपि श्रव णात् । तस्मादिष्टिसोमयोः पौर्वापर्य न नियतम् ।
“विप्रस्य सोमपूर्वत्वं नियतं वा न वाऽग्रिमः।
उत्कर्षतो मैवमनीषोमीयस्यैव तच्छुतेः”॥ इष्टिपूर्वत्वं सोमपूर्वत्वं च विकल्पितमिति यदुक्तं तत्र प्रामणस्य सोमपू वत्वं नियतम् । कुतः, उत्कर्षश्रवणात् । ‘आमेयो वै ब्राह्मणो देवतया सोमे नेष्ट्वाऽग्रीषोमीयो भवति यदेवादः पौर्णमासं हविस्तत्तवनुनिर्वपेचहि स उभ यदेवतो भवति’ इति । अस्यायमर्थः । प्रजापतेर्मुखादनिर्वाह्मणश्चेत्युभावु त्पनौ । ततो ब्राह्मणस्याग्निरेक एव देवतेत्याग्नेय एव ब्राह्मणो न तु सौम्यः सोमस्य तद्देवतात्वाभावात् । यदा स ब्राह्मणः सोमेन यजेत तदा सोमोऽ. प्यस्य देवतेत्यग्नीषोमीयो भवति । तस्याग्नीषोमीयस्य ब्रामणस्यानुरूप पौर्ण१ प्रथमः खण्डः] ऐतरेयब्रामणम् । प्रासमनीषोमीयपुरोडाशरूपं हविः सोमादूर्ध्वमनुनिर्वपेत् । तदा स ब्राह्मणो देव नाट्यसंबन्धी भवतीति । यद्यप्यत्र कर्मान्तरं किंचिद्विधीयत इति कश्चिन्मन्यते तथापि पौर्णमासं हविरिति विस्पष्टप्रत्यभिज्ञानान कर्मान्तरं किंतु दर्शपूर्ण मासयोः सोमादूर्ध्वमुत्कर्षः । तस्माद्विमस्य सोमपूर्वत्वमेव नियतमिति प्राप्ते प्रमः । नात्र दर्शशब्दः पूर्णमासशब्दो वा कश्चिद्यागवाची श्रूयते । पौर्णमास मित्येतत्तद्धितान्तं हविविशेषणत्वेनोपन्यस्यते । तच्च हविरग्नीषोमीयपुरोडाश रूपमिति देवताद्वयेन संस्तवादवगम्यते । तस्मादेकस्यैव हविष उत्कर्षों न तु कृत्स्नयोर्दर्शपूर्णमासयोः । तथा सति ब्राह्मणस्यैकस्मिन्नेवाग्रीषोमीयपुरोडाशे सोमपूर्ववनियम इतरत्र क्षत्रियवैश्ययोरिवास्यापीष्टिपूर्वत्वसोमपूर्वत्वे विक
येते । तृतीयाध्यायस्य षष्ठे पादे चिन्तितम्
“सामिधेनीः सप्तदश प्रकृतौ विकृतावुत । पूर्ववत्मकृतौ पाञ्चदश्येनैतद्विकल्प्यते ॥ विकृतौ साप्तदश्यं स्यात्मकृतौ प्रक्रियाबलात् ।
पाश्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तता” ॥ अनारभ्य श्रूयते सप्तदश सामिधेनीरनुब्रूयादिति । प्रवो वाजा इत्याया अग्निसमिन्धनार्था ऋचः सामिधेन्यस्तासां साप्तदश्यं पूर्वापायेन प्रकृतिगतं यदि प्रकृतौ पश्चदश सामिधेनीरन्वाहेति विधिः स्याहि पाश्चदश्यसाप्तदश्ये विकल्पेयातामिति प्राप्ते ब्रूमः । विकृतावेव सासदश्यं निविशते प्रकृतौ पाश्चद श्यावरुद्धायां सामिधेनीनां संख्याकाङ्क्षाया अभावात् । न च पाञ्चदश्यसा सदश्ययोः समानबलत्वादवरोधाभाव इति शङ्कनीयं पाश्चदश्ये प्रकरणानुग्रह स्याधिकत्वात् । तस्मान्मित्रविन्दाध्वरकल्पादिविकृतौ साप्तदश्यमवतिष्ठते । न चात्र पूर्वन्यायोऽस्ति साप्तदश्यस्य चोदकमाप्त्यभावेन पुनर्विधानदोषाभावात् ।
“साप्तदश्यं तु वैश्यस्य विकृतौ प्रकृतावुत ।
पूर्ववच्च न संकोचो नित्यनैमित्तिकोक्तितः ॥ गोदोहनेन प्रणयेत्कामीत्यन्यदुदाहरत् ।
भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः” ॥ सप्तदशानुब्रूयाद्वैश्यस्यति स्थितं वैश्यनिमित्तकं सासदश्यं पूर्वन्यायेन विकृ. तिगतमिति चेन्मैवम् । नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाच दश्यस्य वैश्यव्यतिरिक्तविषयतया संकोचनीयत्वात् । नित्यं सामान्यरूपतया सावकाशत्वेन दुर्बलं नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलं तस्माद्वैश्यनिमित्त साप्तदश्यं प्रकृताववतिष्ठते । अत्र भाष्यकारोऽन्यदुदाज
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१ प्रथमाध्याये हार-चमसेनापः प्रणयेगोदोहनेन पशुकामस्येति । तत्र प्रकृतेश्चमसेनावरुद्ध. स्वादोदोहनं विकृताविति पूर्वः पक्षः । कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्मकृतावेव गोदोहनमिति राद्धान्तः । दशमाध्यायस्याष्टमपादे चिन्तितम्
“सामिधेनीसासदश्यं वैमृधादावपूर्वगी।
संहतिर्वोपकारस्य क्लुप्त्याऽऽद्योऽस्त्वाज्यभागवत् ।। सामिधेनी(न्य)श्चोदकाप्ताः साप्तदश्यं तु वैमधे ।
पुनर्वाक्येन संहार्यमनारभ्योक्तिचोदितम्” ॥ अनारभ्य किंचिदानायते-सप्तदश सामिधेनीरनुब्रूयादिति । तथा वैम धेऽध्वरकल्पायां पशौ चातुर्मास्येषु मित्रविन्दायामाग्रयणेष्ट्यादौ च पुनः साप्तदश्यं विहितम् । यद्यप्यनारभ्याधीतानां प्रकृतिगामित्वं न्याय्यं तथाऽपि श्रुतेन पाश्चदश्येनावरुद्धत्वाद्विकृतिष्वेव निविशते । तथा सति वैमृधादिषु विकृतिष्वनारभ्यवादप्राप्ताः सप्तदश सामिधेन्यः प्राकरणिकेन विधिना पुन विधीयमाना गृहमेधीयाज्यभागवत्कृप्तोपकारत्वेनेतिकर्तव्यताकाङ्क्षां पूरय न्त्यश्वोदकं लोपयन्त्यो वैधादरपूर्वकर्मतां गमयन्ति । साप्तदश्यं त्वनारभ्य वादप्राप्तमनूद्यत इति प्राप्ते ब्रूमः । वैमृधादिषु सामिधेन्य आज्यभागवन्न विधी यन्ते किंतु चोदकप्राप्ता अनूद्य साप्तदश्यं विधीयते । तच साप्तदश्यं वैमृधादि प्रकरणेष्वानातैर्विधिभिः कासुचिदेव विकृतिषु प्राप्तमनारभ्यवादेन तु सर्वासु विकृतिषु तत्रानारभ्यवादो विलम्बते प्रथमं विधेयस्य साप्तदश्यस्य सामिधे नीसंबन्धमवबोध्य । तत्संबन्धान्यथानुपपत्या ऋतुप्रवेशं परिकल्प्य प्रकृती पाश्चदश्यपराहतत्वेन विकृतिषु सर्वासु निवेशः क्रियत इति विलम्बः । माकर णिकैविधिभिः सामिधेनीसंबन्ध एव बोधनीयः । विकृतौ तद्विशेषे च प्रवेशो न कल्पनीयः प्रत्यक्षप्रकरणपाठेनैव तत्सिद्धेः। तत्र साप्तदश्यस्य वैधादि विकृतिविशेषसंबन्धे सहसा प्रतिपन्ने सति तद्विरोधात्सर्वप्रकृतिसंबन्धो न कल्पयितुं शक्यः । अनारभ्यवादस्तु चोदकमाप्तस्य पाञ्चदश्यस्य बाधकः । सर्वथाऽपि चतुर्धाकरणवदुपसंहारो न वाज्यभागवदपूर्व कर्म ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयबाल
णभाष्यस्य प्रथमाध्याये प्रथमः खण्डः ॥१॥
र द्वितीयः खण्डः] ऐतरेयबामणम् ।
दीक्षणीयेष्टिं निरूप्य तत्पर्शसार्थमिष्टिशब्दनिर्वचनं दर्शयति
यज्ञो वै देवेभ्य उदकामत्तमिष्टिभिः प्रैषमैच्छन्यदि ष्टिभिः प्रैषमैच्छंस्तदिष्टीनामिष्टित्वं तमन्वविन्दन,इति । ज्योतिष्टोमाभिमानी यज्ञपुरुषः केनापि निमित्तेनापरक्तो देवेभ्योऽपक्रान्त शान् । तं यज्ञं देवा दीक्षणीयामायणीयादिभिरिष्टिभिः भेषमन्वेष्टुमैच्छन् । इच्छन्ति यज्ञमाभिरितीष्टिशब्दव्युत्पत्तिः । यजतिधातोरिष्टिशब्दः सर्वत्र पंसिद्धः । अत्र विच्छतिधाबोरिति विशेषः । अन्विष्य तं यज्ञमनुक्रमेण लब्धवन्तः।
तल्लाभवेदनं प्रशंसति
अनुवित्तयज्ञो राम्रोति य एवं वेद, इति । वेदिता तदनुष्ठानेन लब्धयज्ञः फलेन समृद्धो भवति । पुनरपि दीक्षणी पादीष्टिप्रशंसार्थ तास्विष्टिषु विद्यमानानामाहुतीनां वाचकं शब्दं निर्वक्ति
आहूतयो वै नामैता यदाहुतय एताभिर्वे देवा
न्यजमानो ह्वयति तदाहुतीनामाहूतित्वम्, इति । आहुतय इत्युकारेण हस्वेनाऽऽहूतय इत्येवं दीर्पण युक्तं द्रष्टव्यम् । हय. त्याभिरिति तव्युत्पत्तिः । जुहोतिधातोरुत्पन्नः शब्दः पूर्व प्रसिद्धः । अयं तु वयतिधातोरुत्पन्न इति विशेषः।
इष्टीराहुतीश्च मिलित्वा प्रकारान्तरेण प्रशंसति
ऊतयः खलु वै ता नाम याभिर्देवा यजमानस्य हव मायन्ति ये वै पन्थानो याः स्रुतयस्ता वा ऊतयस्त उ एवैतत्स्वर्गयाणा यजमानस्य भवन्ति, इति । हूयन्ते देवा अस्मिनिति हवोऽत्र सोमयागो याभिरिष्टिभिस्तत्र ताभिरा. हुतिभिश्च निमित्तभूताभिर्देवा यजमानस्य यज्ञमागच्छन्ति ता इष्टय आहूत यश्चोतय इत्येतनाम प्रतिपद्यन्ते । खलुशब्दो वैशब्दश्च प्रसिद्ध्यर्थः । अवन्ति रक्षन्तीत्यवतेर्धातोरूतिशब्दः प्रसिद्धः । आयन्त्यागच्छन्ति याभिरित्याङ् पूर्वस्यायतिधातोर्वा वर्णविकारेणोतिशब्दः । यद्वा तस्मादेव धातोः स्वर्गमाप कत्वाभिप्रायेण शब्दो व्युत्पाद्यते । ये केचित्पन्थान इष्टिरूपाः स्वर्गस्य प्रौढ मार्गाः सन्ति याश्च श्रुतयस्तन्मार्गावयवरूपा आहुतयः सन्ति ता द्विविधा
१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ प्रथमाध्याये ऊतय इत्युच्यन्ते । त उ एवैतत्त एवैते द्विविधा अपि मार्गा यजमानस्य स्वर्ग: याणाः स्वर्गमापका भवन्ति ।
पुनरपीष्टिप्रशंसायं तदभूतयोज्यिानुवाक्ययोर्वक्तरि प्रयुज्यमानं होतशब्द निर्वक्तुं ब्रह्मवादिनां प्रश्नमवतारयति
तदाहुर्यदन्यो जुहोत्यथ योऽनु चाऽऽह यजति
च कस्मात्तं होतेत्याचक्षत इति, इति । तत्ताखिष्टिषु किंचिच्चोधमाहुः । यद्यस्मात्कारणादोतुरन्योऽध्वर्युर्जुहोति तस्मात्तत्कारणाचद्धातुनिष्पन्नो होतृशब्दस्तस्याध्वर्योर्युक्तः। याज्ञिकास्तु तमध्वयु होतेति नाऽऽचक्षते । अथ यः पुमाननु चाऽऽह पुरोनुवाक्यां चानुब्रूते यजति च याज्यां च पठति तं पुमांसमनुवक्तेति यष्टेति चानभिधाय कस्मात्कारणाद्धो तेत्याचक्षते । इतिशब्दः प्रश्नसमाप्त्यर्थः ।
अभिज्ञानामभिप्रेतं प्रश्नस्योत्तरं दर्शयति
यहाव स तत्र यथाभाजनं देवता अमुमावहामुमाव हेत्यावाहयति तदेव होतु)तृत्वं होता भवति, इति । यद्वाव यस्मादेव कारणाधाज्यानुवाक्ययोर्वक्ता स पुमांस्तत्र यागे यथाभा जनं यथास्थानं सर्वा देवता आवाहयति अमुमनिमावह, अमुं सोममावहेति तदेव तस्मादेव कारणाद्याज्ञिकप्रसिद्धस्य होतुस्तन्नाम संपन्नम् । अत्र ण्यन्तस्य वहधातो छान्दस्या प्रक्रियया होतृशब्दनिष्पत्तिर्न तु जुहोतिधातोस्तस्माद्धो. मकर्तृत्वाभावेऽप्यावाहयितृत्वसद्भावाद्धोतृत्वमुपपन्नमित्ययं याज्यानुवाक्ययोर्व तापि होता भवत्येव ।
होतृत्ववेदनं प्रशंसति
होतेत्येनमाचक्षते य एवं वेद ॥२॥ इति । याज्ञिका एनं वेदितारं होतारं मुख्यो होतेति कथयन्ति । हौत्रे कर्मणि कुशलो भवतीत्यर्थः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय.
ब्राह्मणभाष्यस्य प्रथमाध्याये द्वितीयः खण्डः ॥२॥
इत्यमिष्टयाहु(ह)त्यूतिहोतृशन्दानां निर्वचनेन दीक्षणीयेष्टिं प्रशस्य तयेष्या दीक्षितस्य संस्कारविशेषान्विधातुं प्रस्तौति
पुनर्वा एतमृविजो गर्भ कुर्वन्ति यं दीक्षयन्ति, इति ।
३ तृतीयः खण्डः] ऐतरेयनामणम् ।
यं यजमान दीक्षणीयेच्या दीक्षितं कुर्वन्ति तं यजमानं पुरा मातापितरो कंचित्कालं गर्भ कृतवन्तौ पुनरप्येनमिदानीमृत्विजो याकाले गर्भ कुर्वन्ति गर्भवदसौ संस्कारैः पालनीय इत्यर्थः।
एक संस्कारं विधत्ते
अगिरभिषिञ्चन्ति, इति । अप्सु लपयन्तीत्यर्थः । एतदेवाभिप्रेत्य तैत्तिरीया यजमानस्य वपनापूर्व सानमामनन्ति-‘अगिरसः सुवर्ग लोकं यन्तोऽप्सु दीक्षातपसी मावेशयन् । अप्सु नाति साक्षादेव दीक्षातपसी अवरुन्धे’ इति । यजमानस्य स्नानकर्तृ वेऽपि ऋत्विजा नापयितृत्वमभिमेत्याभिषिञ्चन्तीत्युक्तम् ।
उक्तानामपां प्रशंसामाह
रेतो वा आपः सरेतसमेवैनं तत्कृत्वा दीक्षयन्ति, इति । कार्यकारणयोरभेदादपां रेतस्त्वं वैराजदेहगताद्रेतस आप उत्पन्नाः। तथा चाऽऽरण्यके सृष्टिमकरणे समानास्यते-‘शिश्नाद्रेतो रेतस आपः’ इति । यद्वा मनुष्यादिशरीरगतं रेतोमूत्रादिकमा कार्यम् । तच्च गर्भोपनिषद्यान्नातम्– ‘अस्मिन्पश्चात्मके शरीरे यत्कठिनं सा पृथिवी यद्रवं तदापः’ इति । ततेना. भिषेचनेनैनं यजमानं सरेतसं पुत्रोत्पादनसमर्थ कृत्वा संस्कुर्वन्ति ।
संस्कारान्तरं विधत्ते
नवनीतेनाभ्यञ्जन्ति, इति । सर्वस्मिमपि शरीरेऽनुलेपयन्तीत्यर्थः । नवनीतस्य गर्भस्थानीययजमानयोग्यतां दर्शयति
आज्यं वै देवानां सुरभि घृतं मनुष्याणामायुतं पितॄणां नवनीतं गर्भाणां तद्यन्नवनीतेनाभ्य
अन्ति स्वेनैवैनं तद्भागधेयेन समर्धयन्ति, इति । ___ आज्यघृतयोर्भेदः पूर्वाचार्यैरुदाहत:-“सपिविलीनमाज्यं स्यादनीभूतं घृतं विदुः” इति । ईषद्विलीनमायुतं सुरभि योग्य नियमित्यर्थः।घृतायुतनवनीतेष्व प्येतत्पदमनुवर्तते । ननु तैत्तिरीया घृतस्य देवप्रियत्वमामनन्ति-‘घृतं देवानां मस्तु पितृणां निष्पकं मनुष्याणाम्’ इति । ईषद्विलीनं मस्तु निःशेषेण विलीनं निष्पकम् । नायं दोष उभयत्र नवनीतप्रशंसारूपार्थवादत्वेन घृताज्ययोयत्य.
१४. श्रीमत्सायणाचार्यविरचितमा यसमेतम् - [ १ प्रथमाध्याये येन पाठेऽपि विरोधाभावात् । तथा सति नवनीतस्य गर्भयोग्यत्वे सति यदि नवनीतेनाभ्यङ्गं कुर्युस्तदानीमेनं यजमानं स्वोचितेनैव भागेन समृदं कुर्वन्ति ।
नेत्रयोरञ्जनेन संस्कारं विधत्ते
___आञ्जन्त्येनम्, इति । अक्ष्णोदृष्टिप्रसादहेतुत्वेनाञ्जनं प्रशंसति
तेजो वा एतदक्ष्योर्यदाञ्जनं सतेजस
मेवैनं तत्कृत्वा दीक्षयन्ति, इति । आञ्जनस्याक्षितेजस्त्वं लोके प्रसिद्धम् । तत्मकारविशेषः शाखान्तरे दक्षिणं पूर्वमात इत्यादिना विहितः। संस्कारान्तरं विधत्ते
एकविंशत्या दर्भपिङ्ग्लैः पावयन्ति, इति । दर्भपिङ्गलशब्देन कुशसंघा उच्यन्ते । तैरेकविंशतिसंख्याकैर्यजमान मार्ज यित्वा शुद्धं कुर्युः।
यद्यच्यसावभिषेकेणैव शुद्धस्तथाऽप्यतिशयेन शुद्धिरित्येवमभिप्रायं दर्शयति
शुद्धमेवैनं तत्पूतं दीक्षयन्ति, इति । पूर्वमपि शुद्धमेव सन्तमेनं यजमानं पुनरपि तत्तेन कुशसंघमार्जनेन पूर्त कृत्वा संस्कुर्वन्ति । यद्यपि शाखान्तरे-‘द्वाभ्यां पावयति अहोरात्राभ्यामेवैनं पावयति त्रिभिः पावयति’ इत्यादिना संख्यान्तरविषया बहवः पक्षा उपन्यस्ता स्तथाऽप्येते सर्व एकविंशतावन्तर्भावादवयुत्यानुवादरूपाः प्रशंसाः । अत एव तत्रान्तिमे पर्याय एकविंशत्या पावयतीत्युपसंहारः कृतः ।
उक्तैः संस्कारैः संकृतस्य दीक्षितस्य प्राचीनवंशाख्यशालाप्रवेशं विधत्ते
दीक्षितविमितं प्रपादयन्ति , इति । दीक्षितस्य प्रवेशार्थ विशेषेण निर्मितः प्राचीनवंशो दीक्षितविमितस्तं प्रवेश येयुः।
पूर्वत्र दीक्षितस्य गर्भत्वाभिधानादौचित्येन प्राचीनवंशं योनित्वेन प्रशंसति
योनिर्वा एषा दीक्षितस्य यद्दीक्षितवि मितं योनिमेवैनं तत्स्वां प्रपादयन्ति, इति ।
१ ज. ति त्रि।
–
।
..
३ तृतीयः खण्डः ] …..ऐतरेयमावणम् ।५- १९
प्राचीनवंशस्य योनित्वोपचाराततेन माधीनमंशप्रवेशेन स्वकीययोनिप्र बेशः संपाद्यते । सोऽयं प्रवेशः शाखान्तरे विस्पष्टमानायते-‘बहिः पावयि त्वाऽन्तः प्रपादयति मनुष्यलोक एवैनं पावयित्वा पूतं देवलोक प्रणयति’ इति । आपस्तम्बोऽप्याह-‘आवो देवास ईमह इति पूर्वया द्वारा माग्वंश भविश्य’ इति ।
तस्य दीक्षितस्य कंचिनियमं विधत्ते
तस्माद्धवाद्योनेरास्ते च चरति च, इति । अत्र तिस्रः पञ्चम्यः सप्तम्यर्थे द्रष्टव्याः । तस्मिन्दीक्षितार्थ निर्मितदेवयज नाख्ये स्थिरस्थाने स दीक्षित उपवेशनं संचरणं च कुर्यात् ।
विहितमर्थ प्रशंसति
तस्माद्धृवाद्योनेर्भा धीयन्ते च प्र च जायन्ते , इति। यस्माद्गर्भस्थानीयस्य दीक्षितस्य स्थिरे देवयजनस्थाने योनिरूप उपवे. शनं संचरणं च तस्माल्लोकेऽपि स्थिरे योनिमध्ये नवसंख्याकान्मासान्गर्भा धार्यन्ते तस्मादेव स्थिरायोनिमध्यावुत्पद्यन्ते ।
तस्य दीक्षितस्य देवयजनाबहिनिर्गमनं निषेधति
तस्मादीक्षितं नान्यत्र दीक्षितविमितादादियोऽभ्युदि यादाऽभ्यस्तमियादाऽपि वाऽभ्याश्रावयेयः, इति । यस्माद्दीक्षितस्योपवेशनसंचरणयोर्देवयजनमेव स्थानं तस्मात्कारणाहीक्षि तविमितादेवयजनदेशादन्यत्र बहिर्देशे दीक्षितमभिलक्ष्याऽऽदित्यो नोदिया. भास्तमियाच । किंचत्विजो यं बहिरवास्थितं दीक्षितमभिलक्ष्याऽऽश्रावणादिकं न कुर्युः । यद्यपि ध्रुवायोनेरास्ते चरतिविधानादेवायमर्थः सिद्धस्तथाऽपि मलमूत्रविसर्गाद्यावश्यककार्यार्थ कदाचिदहिनिर्गमनमभ्युपगम्य तत्र विशेषा भिधानमेतत् । कालान्तरे कथंचिद्गमनेऽप्युदयास्तमयाश्रवणादिकालेषु सर्वथा न निर्गच्छेदित्यर्थः । तदेतदृष्टान्तपुरःसरं शाखान्तरे. अपश्चितम्-‘गर्भो वा एष यदीक्षितो योनिर्दीक्षितविमितं यदीक्षितो दीक्षितविमितात्प्रवसेद्यथा योनेर्गर्भः स्कन्दति ताहगेव तम प्रवस्तव्यमात्मनो गोपीथाय’ इति ।
संस्कारान्तरं विधत्ते
वाससा प्रोणुवन्ति, इति । ऋत्विजो यजमानं वस्त्रेणाऽऽच्छादयेयुः ।
- १ ख. ज. क नय। .
।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१ प्रथमाध्याये गर्भस्थानीय दीक्षित प्रत्यौचित्येन वखस्योल्वत्वं दर्शयति
उल्वं वा एतद्दीक्षितस्य यहास
उल्बेनैवैनं तत्पोर्तुवन्ति , इति । उपशब्देन गर्भस्याभ्यन्तरं चर्म सर्ववेष्टनमुच्यते । अयमर्यः शाखान्तरे स्पष्टीकृत:-‘गर्भो वा एष यदीक्षित उल्लं वासः मोर्णते तस्मादर्भाः पाहता जायन्ते’ इति ।
पाससो बहिर्वेष्टनान्तरं विधत्ते
___ कृष्णाजिनमुत्तर भवति, इति । पहिर्वेष्टनत्वसाम्येन कृष्णाजिनस्य जरायुरूपत्वं दर्शयति
उत्तरं वा उल्बाजरायु जरायुणैवैनं तत्पोर्तुवन्ति, इति । संस्कारान्तरं विधत्ते
मुष्टी कुरुते , इति । यजमानो हस्तयोर्मुष्टिं कुर्यात् । तत्पकार आपस्तम्बन स्पष्टमभिहित: ‘अथान्गुलीय॑श्चति । स्वाहा यह मनसेति द्वे इभ्यः स्वाहा दिव इति द्वे स्वाहा पृथिव्या इति दे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा यह वातादारभ इति मुष्टी करोति’ इति ।
गर्भसाम्येन यज्ञस्य सर्वदेवतानां च धारणेन प्रशंसति
मुष्टी वै कृत्वा गर्भोऽन्तः शेते मुष्टी कृत्वा कुमारो जायते तद्यन्मुष्टी कुरुते यज्ञं चैव
तत्सर्वाश्च देवता मुष्टयोः कुरुते , इति । . गर्भस्य मुष्टीद्वये शास्त्रमसिद्ध्यर्थो वैशब्दः । जायमानस्य मुष्टिद्वयं लोके प्रसिदम् । मुष्टिमध्ये यमधारणं शाखान्तरेऽप्यानातम्-‘मुष्टी करोति वावं यच्छति यास्य धृत्यै’ इति ।
प्रकारान्तरेण मुष्टिवर्य प्रशंसति
तदाहुर्न पूर्वदीक्षिणः संसवोऽस्ति परिगृहीतो वा एतस्य यज्ञः परिगृहीता देवता नैतस्याऽऽ तिरस्यपरदीक्षिण एव यथा तथेति, इति ।
तृतीयः खण्डः] ऐतरेयनामणम् ।. . ., २१ सरात्र मुट्योः करणे ब्रह्मवादिनः कंचिद्गुणमाहुः। द्वयोर्वहूनां वा. यज नानां संभूय सोमाभिषवः संसवः । स च महान्दोषस्तस्मिन्नेव देशे सिमेव काले मत्सरग्रस्तैर्यजमानैः प्रवर्तितत्वात् । नया वा पर्वतेन वा यवधानरहितयोः समीपवर्तिनोः परस्परमवध्वनिसवनयोग्ययोर्देशयोः स्पर्ध नाभ्यां यजमानाभ्यां प्रवर्तितौ यौ सोमयागौ तयोरयं संसवाख्यो दोषः। था च सूत्रकार आह-‘संसवोऽनन्तहितेषु नद्या वा पर्वतेन वा इति । सोऽयं शेषः पर्वदीक्षिणो नास्ति । एकस्मिमेव दिवसे द्वयोर्यजमानयोर्मध्ये यः पूर्व क्षिणीयेष्टिं करोति स पूर्वदीक्षी । एतस्य मुष्टयोर्मध्ये यसः परिगृहीतः सर्वाथ वताः परिगृहीताः । तदानीमितरसंबन्धिनो यज्ञस्यामवृत्तत्वेन तत्र गच्छाम त्येवं यास्य देवतानों वाऽऽलोचनाभावात् । पश्चादीक्षणीयेष्टिं कुर्वाणस्याप दीक्षितस्य यशो देवताश्च सुलभा न भवन्ति पूर्वमन्येन यजमानेनावरुद्धत्वात् । स्मादपरदीक्षिण आतियो विनाशो यथाऽस्ति तथा पूर्वदीक्षिण आतिनै स्ति । ‘संवेशाय त्वोपवेशाय त्वा’ इत्यादिमत्रेण येयं संसवमायश्चित्ताहुतिः पेयमपरदीक्षिणैव कर्तव्या न पूर्वदीक्षिणेत्यर्थः । इतिशब्दो ब्रह्मवादिवचनसमा
त्यर्थः।
यदेतत्कृष्णाजिनवेष्टनं विहितं तस्यावभृथगमनात्मागेवोन्मोचन विधत्ते
उन्मुच्य कृष्णाजिनमवभृथमभ्यवेति तस्मा
न्मुक्ता गर्भा जरायोर्जायन्ते, इति ।। योनिस्थानीयादेवयजनदेशाभिर्गत्यावभृथगमनं गर्भरूपस्य दीक्षितस्य जन्म स्थानीयं जन्म च लोके जरायुरूपवेष्टने छिन्ने सति पश्चात्संपद्यते । तस्माद प्रापि जरायुस्थानीयं कृष्णाजिनमुन्मुच्य जन्मस्थानीयमवभृथदेशगमनं कुर्यात् ।
कृष्णाजिनवद्वाससोऽपि प्रसक्तमुन्मोचनं वारयति
सहैव वाससाऽभ्यवैति तस्मात्सहवा
ल्बेन कुमारो जायते ॥३॥ इति । उल्वाख्यस्याभ्यन्तरवेष्टनस्य जन्मकालेऽप्यनिवृत्तिदर्शनादुल्वस्थानीयवस्त्र स्यावभृयगमनकालेऽप्यनुवृत्तिर्द्रष्टव्या । अथ मीमांसा । पश्चमाध्यायस्य तृती यपादे चिन्तितम्
“इष्टिदण्डादिभिर्दीक्षा किंवेष्टयैवोक्तितोऽग्रिमः ।
युक्ता संस्कार इष्टचैव दण्डादिव्यञ्जकत्वतः” ॥ १ख. ‘निश्रवणयो । २ ख. ‘नो चाऽऽलों । ३ ज. तिर्यो वि । ॥2609
THE QAMAKRISHNA MISSIa. INSTITUTE OF ULTUR
LIBRARY
२२ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्- [१ प्रथमाध्याये
ज्योतिष्टोमे श्रूयते-‘आगावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाणः’ इति। अन्यदपि भुवम्-‘दण्डेन दीक्षयति कृष्णाजिनेन दीक्षयति’ इति । अत्रेष्टिवहः ण्डादीनामपि साधनत्वविधानात्सर्वैरियं दीक्षेति चेन्मैवम् । इष्टेः क्रियारू. पत्वात्संस्कारहेतुत्वं युक्तं दण्डादयस्तु द्रव्यरूपा न पुरुषं संस्कर्तुं प्रभवन्ति । न चैवं दण्डादिवैयर्थ्य दीक्षितोऽयमित्यभिव्यक्तिरूपस्य दृष्टप्रयोजनस्य सद्भा. वाचस्मादिष्पैव दीक्षा सिध्यति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय
ब्राह्मणभाष्यस्य प्रथमाध्याये तृतीयः खण्डः ॥३॥
विवक्षितस्य हौत्रस्योपोद्धातत्वेन दीक्षणीयेष्टिं विधाय तां च बहुधा प्रशस्य प्रसङ्गाद्दीक्षितसंस्कारा विहिताः। अथ विवक्षितं हौत्रं विधत्ते
अस्वमग्ने सप्रथा असि सोम यास्ते मयो
भुव इत्याज्यभागयोः पुरोनुवाक्ये अनु
ब्रूयाद्यः पूर्वमनीजानः स्यात्तस्मै, इति । यो यजमान इतः पूर्व सोमयागं न कृतवानिदानी क्रियमाण एव प्रथम प्रयोगस्तस्मै यजमानाय तदर्थ दीक्षणीयेष्टौ प्रथमस्याऽऽज्यभागस्य त्वमर इति पुरोनुवाक्या । द्वितीयस्य सोम यास्त इति पुरोनुवाक्या । तदुभयम ध्वर्युणा प्रेषितो होताऽनुब्रूयात् ।
उक्तस्य प्रथममन्त्रस्य प्रथमप्रयोगानुकूल्यं दर्शयति खया यज्ञं वितन्वत इति यज्ञमेवास्मा एतद्वितनोति, इति ।
तस्मिन्मने त्वयेत्यादिस्तृतीयः पादस्तस्यायमर्थः । हेऽने क्रियमाणमस्म घमिममृत्विजस्त्वया त्वत्प्रसादेन वितन्वते विस्तारयन्तीति । एतदेतेन मत्रवचनेनास्मै यजमानाय यई वितनोत्येव पूर्वमविस्तारितमपि यज्ञामिदानी विस्तारयन्त्येव ।
___ * अत्र ब्राह्मणे ऋक्संहितामन्त्राणां प्रतीकानि विद्यन्ते तेषां मण्डलायङ्कनिर्देशः प्रति क्रियते तेन मन्त्रनिष्कासने सौलभ्यं स्यात् ।
त्वमग्ने०-ऋ० सं० मण्ड० ६ सू० १४ ऋ० ४ । सोम यास्ते सं० म० १ ० ९१ ऋ०९।चतुर्थः खण्डः] ‘ऐतरेयब्राह्मणम् ।
२१ अधिकारिविशेषेण प्रकारान्तरं विधत्ते
अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वा वय मिति यः पूर्वमीजानः स्यात्तस्मै, इति । यो यजमानः पूर्व सोमयागं कृतवांस्तस्मै यजमानार्थ पुनः सोमयागप्रयोगे मणीयेष्टावनिः प्रत्नेनेति प्रथमस्याऽऽज्यभागस्य पुरोनुवाक्या । सोम ििभरिति द्वितीयस्य ।
तत्र प्रथममत्रस्य पुनः प्रयोगानुकूल्यं दर्शयति
प्रत्नमिति पूर्व कर्माभिवदति, इति । तस्मिन्मत्रे यत्पत्नमिति पदं तेन पदेन पूर्वमनुष्ठितं सोमयागाख्यं कर्माभि यते । “पुराणप्रतनमत्नपुरातनचिरंतनाः” इति प्रत्नशब्दस्याभिधानकारैः रातनपर्यायत्वाभिधानात् ।
ईजानादीजानभेदेन व्यवस्थितं यन्मत्रचतुष्टयमुक्तं सोऽयं पूर्वः पक्ष इत्य भप्रेत्य दूषयति
तत्तनाऽऽहत्यम्, इति । तत्र दीक्षणीयेष्टिगतयोराज्यभागयोस्त्वमग्न इत्यादिकमनुबयादिति यन्मत. स्ति तन्मतं नाऽऽदरणीयम् ।
किं तादरणीयमित्याशङ्कयाऽऽह
अमित्राणि जङ्घन त्वं सोमासि
सत्पतिरिति वाघ्नावेव कुर्यात् , इति । खत्रं शत्रु हन्तीति वृत्रहा । वृत्रघ्नः संबन्धिनौ मन्त्री वाघ्नौ । वृत्राणि जङ् ग्नदिति तल्लिङ्गात्तत्संबन्धित्वम् । अग्नित्राणीति प्रथमस्याऽऽज्यभागस्य पुरो
वाक्या त्वं सोमासीति द्वितीयस्य । एतयोर्मत्रयोरानुकूल्यं दर्शयति
त्रं वा एष हन्ति यं यज्ञ उपन
मति तस्मादानावेव कर्तव्यो, इति । __ अग्निः प्रत्नेन०-ऋ० सं० म० ८ ० ४४ ऋ० १२ । सोम गीर्भिष्ट्रा० ३० सं० म० १ सू० ९१ ऋ० ११। अग्निर्वृ०-ऋ० सं० म० ६ सू०१६ ३० ३४ । त्वं सोमा ०-ऋ० सं० म० १ सू० ९१ ऋ० ५।
१ क. “दे न्य।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [ १ प्रथमाध्याये यं यजमानं यज्ञ उपनमति सोमयागे प्रेरयति एष यजमानो पूर्व पापका शत्रु हन्त्येव तस्मात्कारणात्रहत्यासंबन्धिनाव मत्रो कर्तव्यो। यथा मथम मत्रे आणि जघनदिति लिङ्गमस्ति तथा द्वितीयेऽपि त्वं राजोत वृनदति लिज विद्यते । तस्मादुभयोरपि तत्संबन्धित्वं पूर्वोक्तयोस्तु पक्षयोर्वितन्वते मन मित्यानुकूल्यलिङ्गं प्रथमयोरेव मत्रयोदश्यते न तूत्तरयोस्वस्मात्तबाऽऽदरणीय. मिति दूषयित्वोभयलिसद्भावादयं पक्षः स्वीकृतः। ___ आज्यभागरूपेऽङ्गकर्मणि पुरोनुवाक्यायुग्मं विधाय प्रधानकर्मणि हवि
याज्यानुवाक्ये विधत्ते
अग्निर्मुखं प्रथमो देवतानामनिश्च विष्णो तप उत्तमं मह इत्यामावैष्णवस्य हविषो याज्यानुवाक्ये भवतः, इति ।
प्रथमनिर्दिष्टत्वादग्निर्मुखमित्येषा पुरोनुवाक्या पश्चाभिर्दिष्टत्वादमिति याज्या । यद्यप्यर्थानुसारेणानुवाक्यायाज्ये भवत इति विधातव्यं तथाऽप्यल्पा चतरमिति व्याकरणसूत्रानुसारेण याज्याशब्दस्य पूर्वनिपातो द्रष्टव्यः ।
तयोर्कचोः कर्मानुकूल्यं दर्शयति
आमावैष्णव्यौ रूपसमृद्धे एतदै यज्ञस्य समृद्ध
यद्पसमृद्धं यत्कर्म क्रियमाणमृगभिवदति, इति । अनिश्च विष्णुश्च ययोचोः प्रतिपाये देवते भवतस्ते उभे ऋचावागावै. ष्णव्यौ । ते च कर्मानुकूल्येन रूपेण समृद्धे । न च रूपसमृदं (दायर्य शङ्कनीयम् । कर्मणो यदहं रूपसमृद्धं भवत्येतदेव यज्ञस्याङ्गेषु समृद्धं संपूर्ण न तु तस्मिन्किचिदपि वैकल्यमस्ति । केयं रूपसमृद्धिरिति चेत् । पठ्यमानेयमृगनुष्ठी यमानं कर्माभिवदति साकल्येन ब्रवीतीति यदस्ति, एषैव रूपसमृद्धिः।
मत्रप्रतिपाद्यदेवताप्रशंसाद्वारेण पुनरपि मत्री प्रशंसति
अग्निश्च ह वै विष्णुश्च देवानां दीक्षापालो तो दीक्षाया ईशाते तद्यदानावैष्णवं हविर्भवति यो दीक्षाया ईशाते तो प्रीती दीक्षां प्रयच्छतां
यो दीक्षयितारौ तौ दीक्षयेतामिति, इति । योऽयमग्निः सर्वेषां देवानां प्रथमो यश्च विष्णुः सर्वेषामुत्तमस्तावुभौ देवानां
१ क. ज.
यागढ़।
२५
। पञ्चमः खण्डः]
ऐतरेयब्राह्मणम् । ध्ये दीक्षाख्यस्य च व्रतस्य पालयितारौ तावुभौ दीक्षाया ईशाते खामिनी वितस्तस्मात्तयोर्दीक्षापालकत्वं युक्तम् । तथा सति यद्यमाविष्णुदेवताकं हवि. क्षिणीयेष्टौ भवति तदानीं यौ दीक्षायाः स्वामिनी देवौ तौ प्रीतौ यजमा
य दीक्षां प्रयच्छताम् । उक्तस्यैव व्याख्यानं यो दीक्षयितारावित्यादिकम् । तिशब्दोऽभिप्रायपरामर्शार्थः । अनेनाभिप्रायेणाऽऽमावैष्णवं हविः क्रियते । स्मान्मत्रप्रतिपाचावमाविष्णू प्रशस्तावित्यर्थः।
मन्त्रगतं छन्दः प्रशंसति
य ॥४॥ इति । । त्रिष्टुप्छन्दस इन्द्रियसाधनत्वेनेन्द्रियरूपत्वं श्रुत्यन्तरे श्रुतम् -‘इन्द्रियं वै त्रिष्टु’ इति । अतो मत्रगतं छन्दो यजमानस्य सेन्द्रियत्वाय भवति । अथ मीमांसा । द्वादशाध्यायस्य चतुर्थपादे चिन्तितम्
“पुरोनुवाक्यया याज्या विकल्प्या वा समुचिता ।
पुरेवाऽऽद्यः समाख्यानाद्वचनाच समुच्चयः” । देवताप्रकाशनकार्यस्यैकत्वाद्युग्मयोर्यथा विकल्पस्तथैवैकयुग्मगतयोरिति चेन्मैवम् । पुरोनुवाक्येति समाख्याया उत्तरकालीनयाज्यामन्तरेणानुपपत्तेः। किंच पुरोनुवाक्यामनूच्य याज्यया जुहोतीति प्रत्यक्षवचनेन देवतोपलक्षणहविः प्रकाशनकार्यभेदोक्तिपुरःसरं साहित्यं विधीयते तस्मात्समुच्चयः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय
ब्राह्मणभाष्ये प्रथमाध्यायस्य चतुर्थः खण्डः ॥४॥
प्रधानस्य हविषो याज्यानुवाक्ये विधाय स्विष्टकद्रूपस्य यागस्य फलवि. शेषाय च्छन्दोविशेषयुक्ते याज्यानुवाक्ये विधातुकामः प्रथमं द्वै ऋचौ विधत्ते
गायत्र्यो स्विष्टकृतः संयाज्ये कुर्वीत
तेजस्कामो ब्रह्मवर्चसकामः, इति । स हव्यवाळमर्त्य [ ऋ० सं० म० ३ सू० ११ ऋ० २] इत्येका गायत्री। अग्निहॊता पुरोहित [ऋ० सं० म० ३ सू० ११ ऋ० १] इत्यपरा गायत्री। ते उभे स्विष्टकृयागस्य संयाज्ये कुर्यात् । कीदृशोऽधिकारी। तेजः शरीरकान्तिः। ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः। तदुभयकामोऽत्राधिकारी। संयाज्याशब्दार्थ माश्वलायन आह-‘खिष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात्’ इति स्विष्टकृत्संबन्धिन्यौ याज्यानुवाक्ये इत्यर्थः।
२६ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्- [१ प्रथमाध्याये
गायत्र्या उक्तफलसाधनत्वमुपपादयति
तेजो वै ब्रह्मवर्चसं गायत्री, इति । तत्सवितुर्वरेण्य[ऋ० सं० म० ३ सू० ६२ ऋ० १०]मित्यस्यामृचि यद्गायत्री छन्दस्तस्य तेजोब्रह्मवर्चससाधनत्वेन तद्रूपत्वं लोके प्रसिद्धम् । स्नानधौतवस्त्रदः भतिलकधारणपुरस्सरं गायत्री जपतो ब्राह्मणस्य देहे काचिदाकारशोभा दृश्य तदिदं तेजः । स च जपिता वेदमधीते तदर्थं च शृणोति तदिदं ब्रह्मवर्चसम् ।
वेदनपुरःसरमनुष्ठातुः फलं दर्शयति तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गायत्र्यौ कुरुते, इति ।
यद्यपि विधिवाक्येऽनुष्ठानमात्रात्फलमुक्तं तथाऽपि वेदनपूर्वकानुष्ठाने सस्मि मेव फले कश्चिदतिशयो द्रष्टव्यः ।
फलान्तराय च्छन्दोन्तरं विधत्ते
उष्णिहा वाऽऽयुष्कामः कुर्वीत, इति । अग्ने वाजस्य गोमत [ऋ० सं०म० १ सू० ७९ ऋ० ४] इत्येकोष्णिक् । स इधानो वसुष्कवि ऋ० सं० म० १ सू० ७९ ऋ०५]रित्यपरा। ते उभे शतसंवत्सरपर्यन्तायुष्कामः कुर्वीत ।।
गायत्र्या अप्यक्षरचतुष्टयेनोष्णिक्छन्दसोऽधिकत्वादायुर्वृद्धिहेतुत्वं युक्तमि त्यभिप्रेत्योष्णिगायुषोरभेदमाह
____ आयुर्वा उष्णिक्, इति । पूर्ववद्वेदनं प्रशंसति
सर्वमायुरेति य एवं विद्वानुष्णिहौ कुरुते, इति । फलान्तराय च्छन्दोन्तरं विधत्ते
__ अनुष्टुभौ स्वर्गकामः कुर्वीत, इति । त्वमग्ने वसू[ ऋ० सं० म० १ सू० ४५ ऋ० १ ]निति द्वे अनुष्टुभौ । अनुष्टुभोः स्वर्गहेतुत्वमुपपादयति
हयोर्वा अनुष्टुभोश्चतुःषष्टिरक्षराणि त्रय इम ऊर्ध्वा एकविंशा लोका एकविंश त्यैकविंशत्यैवेमाल्लोकात्रोहति स्वर्ग एव लोके चतुःषष्टितमेन प्रतितिष्ठति, इति ।
२७
.
.. …. …
.
। पञ्चमः खण्डः] ऐतरेयबामणम् ।
अत्यन्तरे द्वात्रिंशदक्षराऽनुष्टुबित्यभिधानाहूयोरनुष्टुभोमिलित्वा चतुःषष्टिसं ज्याकान्यक्षराणि संपद्यन्ते । इमे पृथिव्यन्तरिक्षस्वर्गरूपा एकैकस्मादूर्ध्वत्वेन तिमानाः प्रत्येकमेकविंशत्यवयवसमूहरूपा लोकास्त्रयो विद्यन्ते । तेष्वकै
कमेकैकाक्षरगतयैकविंशतिसंख्यया यजमान आरोहति । अन्तिमेन चतु: हितमेनाक्षरेण तृतीये स्वर्ग एव लोके यजमानः प्रतितिष्ठति स्थिरोऽवतिष्ठते।
वेदनं प्रशंसति
प्रतितिष्ठति य एवं विद्वाननुष्टुभी कुरुते, इति । फलान्तराय च्छन्दोन्तरं विधत्ते
बृहत्यौ श्रीकामो यशस्कामः कुर्वीत, इति । श्रीर्धनधान्यादिसंपत्तिः । यशः सत्कुलदानादिजन्या कीर्तिः । एना वो अग्नि[ ऋ० सं० म० ७ सू० १६ ऋ० १]मिति द्वे बृहत्यौ । श्रीयशसोः कारणत्वेन बृहत्यास्तदुभयरूपत्वं दर्शयति
श्री यशश्छन्दसां बृहती, इति । गायत्र्यादीनां छन्दसा मध्ये या बृहती सैव श्रीरूपा यशोरूपा च । सर्वेषां छन्दसां पशुसंपादनमात्सर्ये सति बृहत्या विजयमाप्तायाः पशुरूपत्वाच्छीरूपत्व म् । तथा च तैत्तिरीया आमनन्ति-छन्दांसि पशुष्वाजिमयुस्तान्बृहत्युदजय तस्मादाईताः पशव उच्यन्त इति । इतरच्छन्दोभिराश्रितत्वादपि श्रीरू पत्वं त एवाऽऽमनन्ति-‘यानि च च्छन्दाश्स्यत्यरिच्यन्त। यानि च नोदभ बन् । तानि निर्वीर्याणि हीनान्यमन्यन्त । साऽब्रवीबृहतीम् । मामेव भूत्वा मामुपसश्रयत’ इति । मध्यं ह्येषामङ्गानामात्मा मध्यं छन्दसां बृहतीति मध्यत्वेन पशंसनाधशोरूपत्वमपि द्रष्टव्यम् ।
वेदनं प्रशंसति श्रियमेव यश आत्मन्धत्ते य एवं विद्वान्बृहत्यौ कुरुते, इति ।
एवकारः श्रीयशसोः समुच्चयार्थः । अहीनसत्रांद्युत्तरयज्ञमाप्तिकामस्य च्छन्दोन्तरं विधत्ते
पङ्क्ती यज्ञकामः कुर्वीत, इति । अग्निं तं मन्य [ ऋ० सं० म० ५ सू०६ ऋ० १] इति द्वे पती।
. १ क. ज. ‘त्रादुत्त ।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१ प्रथमाध्याये यज्ञस्य पशिसंबन्धित्वं दर्शयति
पातो वै यज्ञः, इति । वैशब्दो वक्ष्यमाणबहुविधपातत्वप्रसिद्धिपदर्शनार्थः । वेदनं प्रशंसति उपैनं यज्ञो नमति य एवं विद्वान्पङ्क्ती कुरुते, इति । वीर्यप्राप्त्यर्थ छन्दोन्तरं विधत्ते
त्रिष्टुभौ वीर्यकामः कुर्वीत, इति । द्वे विरूपे चरत [ ऋ० सं० म० १ सू० ९५ ऋ० १ ] इति द्वे त्रिष्टुभौ । त्रिष्टुप्छन्दसो वीर्यसाधनत्वेन तद्रूपत्वं दर्शयति
ओजो वा इन्द्रियं वीर्य त्रिष्टुप्, इति । वीर्य शरीरबलम् । तच्चौजस इन्द्रियस्य चोपलक्षणम् । ओजो बलहेतुरष्टमो धातुः । इन्द्रियं चक्षुरादिपाटवम् ।
वेदनं प्रशंसति
ओजस्वीन्द्रियवान्वीर्यवान्भवति
य एवं विद्यास्त्रिष्टुभौ कुरुते, इति । गवादिपशुमाप्तये छन्दोन्तरं विधत्ते
जगत्यो पशुकामः कुर्वीत, इति । जनस्य गोपा [ ऋ० सं० म० ५ ० ११ ऋ० १] इति द्वे जगत्यौ । पशूनां जगतीछन्दःसाध्यत्वेन तत्संबन्धं दर्शयति
जागता वै पशवः, इति । वेदनं प्रशंसति
पशुमान्भवति य एवं विद्वाञ्जगत्यौ कुरुते, इति । अतुं योग्यमनं कामयमानस्य च्छन्दोन्तरं विधते
विराजावत्राद्यकामः कुर्वीत, इति । प्रेद्धो अम [ ऋ० सं० म० ७ सू० १ ० ३] इमो अम [ ऋ० सं० म०७ सू० १ ऋ० १८] इति द्वे विराजौ।
अभस्य विराजनहेतुत्वेन विरारूपत्वमाह
द, इति । १ ख. ‘ग्यमद्यम।
–
.. *-
.’-
१ षष्ठः खण्डः]
ऐतरेयब्राह्मणम्। तदेव स्पष्टयति
तस्माद्यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठं
लोके विराजति तद्विराजो विराइवम्, इति । यस्मादनस्य विराजनहेतुत्वं तस्मात्कारणादिह लोके यस्यैव पुरुषस्याचं प्रभतं भवति स एव जनमध्येऽत्यन्तं शोभते तस्माद्विराजत्यनेनेति व्युत्पत्त्या विरादशब्दो निष्पन्नः।
वेदनं प्रशंसति वि स्वेषु राजति श्रेष्ठः स्वानां भवति य एवं वेद ॥५॥ इति।
यः पुमान्विराजो महिमानं वेत्ति स पुमान्स्वकीयेषु ज्ञातिषु मध्ये विशेषण राजति लौकिकसामर्थेन शोभते । तथा स्वीयानां ज्ञातीनां मध्ये वृत्तविद्या विनयादिभिः श्रेष्ठो भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेय
ब्राह्मणभाष्ये प्रथमाध्याये पञ्चमः खण्डः ॥५॥
.
काम्ये संयाज्ये नानाविधे विधाय नित्ये संयाज्ये विधातुं विराट्छन्दः प्रशंसति
अथो पञ्चवीर्य वा एतच्छन्दो यदिराइ, इति । अथो काम्यसंयाज्याकथनानन्तरं नित्ये संयाज्ये कथ्यते इति शेषः। विराडाख्यं यच्छन्दोऽस्ति एतच्छन्दः पञ्चविधवीर्योपेतत्वेन प्रसिद्धम् ।
तदेव विस्पष्टयति
यत्रिपदा तेनोष्णिहागायत्र्यौ यदस्या एका दशाक्षराणि पदानि तेन त्रिष्टुब्यत्रयस्त्रिंशद क्षरा तेनानुष्टुम्न वा एकेनाक्षरेण च्छन्दांसि वियन्ति न हाभ्यां यदिरातत्पञ्चमम्, इति । यस्मात्कारणादियं विराट्पादत्रयोपेता तेन कारणेनोष्णियूपा गायत्रीरूपा च भवति तयोरपि पादत्रयोपेतत्वेन समत्वादतस्तयोरुभयोर्य विराज्यस्ति । यस्मात्कारणादस्या विराजः पादा एकादशाक्षरोपेतास्तेन कारणेनेयं त्रिष्टु धूपा भवति तदीयं वीर्य प्राप्नोति । यस्मात्कारणादियं त्रयस्त्रिंशदक्षरोपेता तेन
१ क. ज. क्षरा वि।
श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[१ प्रथमाध्याये, कारणेनानुष्टुब्रूपा तदीयं वीर्य पामोति । यद्यप्यनुष्टुब्द्वात्रिंशदक्षरा तथाऽप्ये केनाक्षरेण न्यूनेनाधिकेन वा छन्दांसि नैव नश्यन्ति । तथा द्वाभ्यामक्षराभ्यां न्यूनाभ्यामधिकाभ्यां वा न नश्यन्ति । “एको हि दोषो गुणसंनिपाते निम जतीन्दोः किरणेष्विवाङ्कः” इति न्यायात् । ननु त्रिंशदक्षरा विराडिति श्रूयते तत्र प्रेद्धो अन इत्यस्याचि एकोनत्रिंशदक्षराणीमो अग्न इत्यस्यामृचि द्वात्रिंशदक्षराण्यतस्तयोर्न विरादत्वमिति चेन्मैवम् । न वा एकेनाक्षरेणेति वाक्येनैव परिहतत्वात् । यस्माद्विरादतस्मादेतदीयं पञ्चमं वीर्यमस्ति ।
एवंविधविराइवेदनं प्रशंसति
सर्वेषां छन्दसां वीर्यमवरुन्धे सर्वेषां छन्दसां वीर्यमश्रुते सर्वेषां छन्दसां सायुज्यं सरूपतां सलोकतामश्रुतेऽनादोऽनपतिर्भवत्यश्रुते प्रज
यानाद्यं य एवं विद्वान्विराजौ कुरुते, इति । गायत्र्युष्णिवित्रष्टुबनुधुब्बिराइरूपाणां सर्वेषां छन्दसां यत्सामर्थ्यमस्ति तदयं वेदिताऽवरुन्धेऽभिमुखी करोति । कृत्वा चाश्नुते पामोति । तथा सर्वच्छन्दोभि मानिदेवानां सायुज्यं सहभावं सरूपतां समानरूपत्वं सलोकतामेकस्थाननि वासं च पामोति । अन्नादोऽन्नभक्षणसमर्थो नीरोगः । अन्नपतिर्बवनस्वामी भवति न केवलं स्वयमेव किंतु स्वकीयया पुत्रादिप्रजया सहान्नाद्यमश्नुते ।
इत्थं छन्दः प्रशस्येदानीं विधत्ते- 112709
तस्मादिराजावेव कर्तव्ये, इति । यस्माद्विराजो युक्तमहिमाऽस्ति तस्मादित्यर्थः । तयोः प्रतीकद्वयं दर्शयति
प्रेद्रो अग्न इमो अग्न इयेते, इति । इत्थं दीक्षणीयेष्टौ स्विष्टकृतः संयाज्ये विधाय दीक्षितस्य सत्यवदनं विधत्ते
ऋतं वाव दीक्षा सत्यं दीक्षा तस्मादी
क्षितेन सत्यमेव वदितव्यम् , इति । मनसा यथा वस्तुचिन्तनमृतशब्दाभिधेयं वाचा यथावस्तुकथनं सत्यशब्दा प्रेद्धो अ०-ऋ० सं० म० ७ सू० १ ऋ० ३। इमो अग्न–ऋ० सं० म० ७ सू० १ ० १८ । .
१ षष्ठः खण्डः]
ऐतरेयबामणम् । भिधेयं तदभयात्मिका दीक्षा तवैकल्ये विनश्यति । यस्मादेवं तस्मादीक्षितेन
सत्यमेव वदितव्यं न तु किंचिदप्यनृतं वदेत् ।
तदशक्याभिधानमित्यभिप्रेत्यानुजिवृक्षया प्रकारान्तरं विधातुं प्रस्तौति अथो खल्लाहुः कोऽर्हति मनुष्यः सर्व सत्यं वदितुं सत्यसंहिता वै देवा अनृतसंहिता मनुष्या इति, इति । प्रकारान्तरपारम्भार्थोऽयमथोशब्दः । ब्रह्मवादिन एवमाहुः खलु मनुष्य को नाम सर्व वाक्यं सत्यं वदितुमर्हति न कश्चिदपि तथा कर्तुं शक्नोति । देवा एव सत्यसंहिताः सत्ये तात्पर्यवन्तः । मनुष्यास्तु प्रायेणानृते तात्पर्ययुक्ताः। इतिशब्दो ब्रह्मवादिवचनसमाप्त्यर्थः।
इदानीं सत्यवदनफलसिद्ध्यर्थ प्रकारान्तरं विधत्ते
विचक्षणवतीं वाचं वदेत्, इति । विचक्षणेत्यक्षरचतुष्टयात्मकोऽयं मत्रस्तद्युक्तं वाक्यं प्रयुञ्जीत । देवदत्त विचक्षण गामानय यज्ञदत्त विचक्षण गां बधानेत्येवं तत्प्रयोगः। यदाहाऽऽप स्तम्बः-‘चनसित विचक्षण इति नामधेयान्तेषु दधाति चनसितेति ब्राह्मणं विचक्षणेति राजन्यवैश्यौ’ इति ।
विचक्षणेति मत्रस्य सत्यवदनपूर्तिहेतुत्वं प्रतिपादयति
चक्षुर्व विचक्षणं वि ह्येनेन पश्यति, इति । चक्षुरिन्द्रियमेव विचक्षणशब्दवाच्यं तदेव स्पष्टी क्रियते । चक्षिदर्शन इत्य स्माद्धातोरयं शब्दो निष्पन्नः। तथा सति विशेषेण वस्तुतत्त्वमेनेनाऽऽचष्टे पश्य तीति विचक्षणं नेत्रम् । तस्माचक्षुर्विचक्षणमिति पर्यायौ । उक्तनिर्वचनमदर्श नार्थ इतिशब्दः।
अस्त्वेवं तयोः पर्यायत्वं कथमेतावता सत्यसंपूर्तिसिद्धिरित्याशङ्कयाऽऽह
एतद्ध वै मनुष्येषु सत्यं निहितं यच्चक्षुः , इति । प्रत्यक्षानुमानादिप्रमाणानां मध्ये प्रत्यक्षपमितिसाधनं यच्चक्षुरिन्द्रियमस्ति एतदेव मनुष्येषु सर्वेषु सत्यं निहितं यथावस्तुज्ञानसाधनत्वेनाभिमतं तस्मा चक्षुष्पर्यायविचक्षणशब्दप्रयोगेण सत्यसंपूर्तिर्भवति ।
अन्वयव्यतिरेकाभ्यां चक्षुषो यथावस्तुदर्शनसाधनत्वं साधयति ___ तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमि
१ क. ज. गः । तदा।
१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्-[ २ द्वितीयाध्याये
__त्याहाथास्य श्रद्दधति या वै स्वयं पश्यति
न बहूनां चनान्येषां श्रद्दधाति, इति । यस्माचक्षुषस्तत्त्वदर्शनहेतुत्वं मनुष्याणामभिप्रेतं तस्माल्लोके सभायामागत्य कांचिद्वार्तामाचक्षाणं पुरुषं प्रति सभ्या एवमाहुरद्रागिति कित्वेवमेवादाक्षीरि त्यर्थः । स च पुरुषो यद्यहमेवाद्राक्षमिति श्रूयात्तदाऽस्य वचनं सत्यमिति सभ्याः सर्वे श्रद्दधति विश्वासं कुर्वन्ति । तदिदमेकमुदाहरणम् । यधु वा इत्ययं निपातसमूह उदाहरणान्तरमदर्शनार्थः । अथवा कश्चित्पुमान्स्वयमेव चक्षुषा स्कन्धमूलाधुपेतं स्थाणुं पश्यति । अन्ये बहवः पुरुषा दूरवर्तिनोऽपश्यन्तः पुरु षोऽयमित्याचक्षते । चनशब्दोऽपिशब्दार्थः । बहूनामप्यन्येषां वचनमयं पुरुषो न श्रद्दधाति किंतु स्वकीयं चाक्षुषं दर्शनमेव श्रद्दधाति । वाजसनेयिनोऽप्याम नन्ति-‘दौ विवदमानावेवाऽऽयातावहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमद मिति तस्मा एव श्रदधीत’ इति। तैत्तिरीयाश्चाऽऽमनन्ति-‘अनृतं वै वाचा वदति । अनृतं मनसा ध्यायति । चक्षुर्वै सत्यम् । अद्रागित्याह । अहमदर्शमिति। तत्सत्यम्’ इति ।
तथाविधचक्षुःपर्यायस्य विचक्षणशब्दस्य सत्यसंपूर्तिहेतुत्वमुपपाद्य पूर्वोक्तं विधिमुपसंहरति
तस्माद्विचक्षणवतीमेव वाचं वदेत्सत्योत्तरा
हैवास्य वागुदिता भवति भवति ॥ ६॥ इति । इत्यैतरेयब्राह्मणे प्रथमपञ्चिकायां प्रथमोऽध्यायः ॥१॥
अस्य विचक्षणशब्दोपेतवचनवादिनो या वागस्ति सा सत्योत्तरा स्वरूपे णानृताऽपि विचक्षणेतिमत्रसामर्थेन सत्यभूयिष्ठैव भवति । अनृतदोषो न स्पृश तीत्यर्थः । भवतिशब्दस्याभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मण
__ भाष्यस्य प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कपसाम्राज्य धुरंधरसायणाचार्यकृतावैतरेयब्राह्मणभाष्ये प्रथम
पश्चिकायां प्रथमोऽध्यायः॥१॥१ प्रथमः खण्डः]