अथ पञ्चदशोऽध्यायः ।
दीक्षणीयादिकेष्टीनां संस्था वक्तुं कथोच्यते–
॥ यज्ञो वै देवेभ्योऽन्नाधमुदकामत् ॥ यज्ञस्त्वन्नाद्यभूतः सन् देवेभ्योऽगात् पराङ्मुखः । आचं भक्ष्यं प्रधानत्वादन्नस्यात्र पृथग् ग्रहः ।।
॥ ते देवा अब्रुवन् ॥
कर्थ, । यज्ञो वै नोऽन्नाद्यमुदक्रमीदन्विमं यज्ञमन्नमन्विच्छामेति ॥
ना अस्मत् उदक्रमीत् उत्क्रान्तवान् । इमं यज्ञम् अनु लक्षीकृत्यान्त्रमनु संततमिच्छाम । प्राप्तकाले लोट् ॥
॥ तेऽब्रुवन् कथमन्विच्छामेति । ब्राह्मणेन च छन्दोभिश्चेत्यब्रुवन् । ते ब्राह्मणं छन्दोभिरदीक्षयन् ॥ ब्राह्मणोऽधिकारी’ । क्षत्रियवैश्यावपि दीक्षितौ ब्राह्मणावेव । “स ह दीक्षमाण एव ब्राह्मणतामभ्युपैति’ इति वक्ष्यते । छन्दोभिर्गायच्या. दिभिस्तद्युक्तमन्त्रैश्च । अदीक्षयन् दीक्षितमकुर्वन् ।।
॥ तस्यान्तं यज्ञमतन्वत ।।
१. ‘ब्राह्मणोऽविकारी’ घ. पाठ
अन्विच्छाम अन्वेषणं करवाम’ इति सायणः,
ऐ. बा. ३४-५.
सवृत्तिके ऐतरेयबामणे
[प्रथमः
यज्ञं दीक्षणीयेष्टिम् । आन्तम् आ अन्नम् । आसमाप्ति अतन्वत.: अकुर्वन् ।।
|| अपि पत्नीः समयाजयन् । तस्माडाप्येतर्हि दीक्षणीयायामिष्टावान्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति ।
इदानींतना॥
।
एवञ्च,
॥ तमनु न्यायमन्त्रवायन् ।। लटो लङ् ! तं न्याय प्रकारमनुयन्तिा ।। ॥ ते प्रायणीयमतन्वत । तं प्रायणीयेन नेदीयोऽन्वागच्छन् ।
नेदीयः प्रत्यासन्नतरम् ॥
॥ ते कर्मभिः समत्वरन्त ॥ सुपो भिम् । व्यापारेषु त्वरामकुर्वन् ।
॥ तच्छंवन्तमकुर्वन् ॥ तत् प्रायणीयाख्यं कर्म ॥
॥ तस्माद्धाप्येतर्हि प्रायणीयं शंखन्तमेव भवति । तमनु न्यायमन्ववायन् ।
प
Sa
- पिलीसंयाजान्ता दीक्षणीया सन्तिष्ठते ’ इति आप० श्री. सू. १०-४-७. + ‘अन्ववायन् अवगतवन्तः, अनुष्ठितवन्तः’ इति सायण. * “शंम्वन्तेयम्’ इति आ० श्री. सू० ४-३-२. ‘शंम्वन्ता संस्थाप्या वा’, ‘पत्नीस्तु न संयाजयेत् इति आप० औ० सू० १०-२१.१३, १४.
खण्ड:]
पञ्चदशोऽध्यायः
HENARDAN
ANNA
.
.
"
• त आतिथ्यमतन्वत । तमातिथ्येन नेदीयोऽन्वागच्छन्। ते कर्मभिः समत्वरन्त । तदिळान्तमकुर्वन् । तस्माद्धाप्येता तिथ्यमिळान्तमेव भवति । तमनु न्यायमन्ववायन् ।
त उपसदोऽतन्वत । तमुपसद्भिर्नेदीयोऽन्वागच्छन् । ते कर्मभिः समत्वरन्त । ते तिस्रः सामिधेनीरनूच्य तिस्रो देवता अयजन् । तस्माद्धाप्येतर्युपसत्सु तिन एव सामिधेनीरनूच्य तिम्रो देवता यजन्ति ॥
उपसद्यायेति तिनः सामिधेन्य इमामपि । अग्निः सोमो विष्णुरिति देवतास्तिस्त्र एव च ॥
॥ तमनु न्यायमन्ववायन् ।
त उपवसथमतन्वत ॥ नानोपवसथं तत् स्यात् प्राग्यधागदिनार्दितम् ।।
॥ तमुपवसथ्येऽहन्याप्नुवन् ॥ तं यज्ञमुपरसथ्येऽहनि । स्वार्थे यः । सदोहविर्धानानीषोमीयप्रणयन वसतीवरीपरिहारैः प्राप्तवन्तः ॥
॥ तमाप्त्वान्तं यज्ञमतन्वत
FOR
- ‘अथातिथ्येलान्ता’ इति आ. श्री० पू० ४-५-१. ‘डान्ता सतिष्ठते’ इति आप० श्री. सू. १०-३१-१५, उपसद्याय मीहळुष इति तिन्न एकैकां निरनवान ताः सामिधेन्यः’, ‘तासामुत्तमेन प्रणदेनानि सोमं विष्णुमित्याबाह्य, इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः’ इति आ० श्री. सू० ४-८-५, ६, ११. * उपवसथशब्देन सोमयागसमीपवासितत्वात् पूर्वरिमन्नहन्यनुष्योऽभीषोमीयपशुर्विवक्षितः’ इति सायणः,सवृत्ति के ऐतरेयब्राह्मणे
पिथमः
एवञ्च,
॥ अपि पत्नीः समयाजयन् । तस्माद्धाप्येतर्युपवसथ
आन्तमेव यज्ञं तन्वतेऽपि पत्नीः संयाजयन्ति ॥ तमनु न्यायमित्यत्र नास्ति । ॥ तस्मादेतेषु पूर्वेषु कर्मसु शनैस्तरां शनैस्तरामिवानुब्रूयात् ।
‘अनूत्सारमिव हि ते तमायन् ॥ बने जिघृक्षुः शकुनि यथा छद्मगतिर्भवेत् । एवं शनैस्तु गच्छन्तः सुरा यज्ञं प्रपेदिरे ॥
(उत्)स छमगतौ भावे पश्यनोर्दी एव च ॥ ॥ तस्मादुपवसथे यावत्या वाचा कामयीत तावत्यानुब्रूयात् ।
आप्तो हि स तर्हि भवतीति ॥ तहि तदानीम् । एत ईद , कामयेत । वमिति शेषः । सूयते हि * इदंप्रभृति कर्मणां शनैस्तराम्’ इत्यादि ।
॥ तमाप्त्वाब्रुवन् ॥ कथं,
॥तिष्ठव नोऽन्नाधायेति ॥ *प्रकाशने तङ् श्लाघहुङ्स्थति स्यात् सम्प्रदानता ++ + + + + + + नोऽन्नाधायेति तेऽब्रुवन् ।।
- उत्तरोत्तरभावी सार उत्सारस्तमनुसृत्यानुसत्यति तस्यार्थः । दक्षिणीयः सारभूता प्रायणीयेष्टिः । तदपेक्षया सोमयागस्य समीपवर्तित्वात् । एवमातिथ्यादिषु द्रष्टव्यम्’ इति सायणा, + मा० श्री. सू. ४-१-२३, * पा० ५० १-३-२३. पा. सू० १.४.३४.
खण्ड:
पञ्चदशोऽध्यायः।
04
AL
cene
PERT
॥स नेत्यब्रवीत् । कथं वस्तिष्ठेयेति तानीक्षतैव ॥
लल्या न।
स नेत्युक्ताथ थुष्मभ्यं तिष्ठेयाहं कथं न्विति ॥ ॥ तमब्रुवन् ब्राह्मणेन च नश्छन्दोभिश्च सयुम् भूत्वान्नाधाय
तिष्ठस्वेति । तथेति ॥ यज्ञोऽब्रवीदिति शेषः ॥ ॥ तस्माद्धाप्येतर्हि यज्ञः सयुग भूत्वा देवेभ्यो हव्यं वहति
ब्राह्मणेन च च्छन्दोभिश्च ॥ ब्राह्मणेन ऋत्विना । छन्दोभिर्गायत्र्यादिभिर्देविकादेविभूतैः ॥
anguaSITE PROPE
प्रथमः खण्डः।
ब्राह्मणेनविजेत्युक्त तत्र कांश्चित्तु निन्दति– ॥ त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीण वान्तम् ॥
*जग्धमास्ये तु विक्षिप्तं गीर्ण स्याजठरं गतम् । उदरस्थं छर्दितेन निष्क्रान्तं वान्तमुच्यते ॥ जग्धगीर्णवान्तशब्दा इह लुप्तोपमा मताः । जग्गीर्णवान्तनिभा त्रियन्ते कुत्सितविजः ।।
जग्धं भक्षितावशिष्टं भोजनपाने स्थितम्’ इति सायणः,
सत्तिके ऐतरेयवाक्षणे
[द्वितीयः
द्वितीयः
विविच्याह
न
rabse
.
.
.
नग्धं तदेतदेव’। किं तत्,
॥ यदाशंसमानमात्विज्यं कारयत उत वा मे दद्यादुत
वा मा वृणीतेति ॥
आशंसमानं प्रार्थयमानम् । प्रार्थनावेषमाह-दक्षिणां मे दद्यात् , पश्यत्स्वन्येषु मां वृणीतेति । कारयते “पिचश्च’ इति तङ् ॥
॥ तद्ध तत् पराङव यथा जग्धम् ॥ तत् तत्र । तदाविज्यम् । पराङ्कारः पराङ्, अशुभ।।।
॥ न हैव तद् यजमानं भुनक्ति । * भुजोऽनवने’ । हितं रक्षति ॥
॥ अथ हैतदेव गीर्णम् ॥ किं तत्, ॥ यद् बिभ्यदाविज्यं कारयत उत वा मा न बाधेतोत
वा मे न यज्ञवेशसं कुर्यादिति ॥ वेशसः भ्रषः॥
ARMA
१. तदेतदेव । यदाशंसमानम् ’ घ. इ. पाठः.
पा० सू० १.३.७४.
‘निकृष्टम्’ इति सायण:
- पा० सू० १-३-६६.
म
खण्डा ]
पश्चदशाऽध्यायः
PM
AR
AMERA
।
H
E
TTranam
HTTA
.
.
५
. ॥ तह तत् पराडेव यथा गीर्णम् । न हैव तद् यजमानं
भुनक्ति । ॥ अथ हैतदेव वान्तं यदभिशस्यमानमाविज्यं कारयते ॥
अभिशंसनमसतो दोषस्याध्यारोपः ॥
॥ यथा ह वा इदं वान्तान्मनुष्या बीभत्सन्त एवं
तस्माद् देवाः ॥ तस्मादत्विजो वान्तादिव । *“जुगुप्साविराम-’ इत्यपादानत्वम् । बीभत्सन्ते अरुच्या वर्जयन्ति ।
॥ तद्य तत् पराङेव यथा वान्तम् । न हैव तद् यजमानं
भुनक्ति । स एतेषां त्रयाणामाशां नेयात् ।।
एविच्छामपि नो गच्छेत् दण्डापूपिकथा कृतिम् ॥ ॥ तं ययेतेषां त्रयाणामेकंचिदकाममभ्याभवेत् तस्यास्ति
वामदेव्यस्य स्तोत्रे प्रायश्चितिः ।। तमकामं त्रयाणामेकं कर्ट अभि उपरि (आ)भवेत् पत्तेत् । वामदेव्यस्य स्तोत्रे कियानस्तुचे गीयमाने प्रायश्चित्तः समाधानमस्ति । बामदेवेन दृष्टं साम वामदेव्यम् । वामदेवाड्यड्डयौ’ ।।
अथ वामदेव्यं सौति
॥ इदं वा इदं वामदेव्यम् ॥
।
COM
प्रयास
SH
Horner
सू० वा० १-४-२४.
सं. ३-६-२४.१,
पा० सू०
- पा० ४-१-९.
१२०
सकृतिके ऐतरेयाक्षणे
[द्वितीयः
वामदेव्यमिदं सर्वगात्मवित् स ऋषिः खलु । एवं ब्रह्मविदा दृष्टं वामदेव्यं हि पूजितम् ।।
॥ यजमानलोकोऽमृतलोकः स्वर्गों लोकः ॥ यजमानामृतसुरस्थानत्वेन तृवस्तुतिः ॥
॥ तत् त्रिभिरक्षरैन्यूँनम् ॥ तत् बन्न चे । “ अभीषुण’ इति तृतीयमुग्वाच्यमक्षरैत्रिभिन्यूनम् । त्रियः सप्तकाः पादनिवृत् । * अभीषु पादनिवृत्’ इति सर्वानुक्रमणी ॥ ॥ तस्य स्तोत्र उपसृप्य त्रेधात्मानं विगृह्णीयात् पुरुष इति ॥
वि नियमेन गृह्णीयात् । अन्तर्णीतण्यर्थः, ग्राहयेत् । स्तावयेत् पुरुषाक्षराणि प्रतिपदम् । यथा अभीषणः सखीनां पु, अविता जरितॄणां रू, शतं भवास्यूतिभिः ष इति ॥
॥ स एतेषु लोकेष्वात्मानं दधाति । अस्मिन्यजमान
लोकेऽस्मिन्नमृतलोकेऽस्मिन् स्वर्गे लोके ॥ त्रिलोकरूपे तृचे आत्मानं स्थापयनि ।।
१
TTE
स
॥ स सर्वो दुरिष्टिमत्येति ॥ दुरिष्टिं दुष्टविग्गाननिमित्त दोषम् । अत्येत्यतिक्रामति ॥
- ऋक्सं. ३-६-२४-३. + तथाच सर्वांनुक्रमणी परि० ४.४. * म. ४ सू. ३१. ‘दुरिष्टि दोषोपेतं यज्ञम् ’ इति सायणः.
खण्ड:
पञ्चदशाऽध्यायः
.. ॥ अपि यदि समृद्धा इव ऋत्विजः स्युरितिहस्माहाथ
हैतज्जपेदेवेति ॥ यत्त्विजः समृद्धाः स्युस्तदापि स्यादयं जपः ।
पुरुषेणान्वित इति ब्रह्मवाचाह कश्चन ॥
HTRA
द्वितीयः खण्डः।
For
च
।
PRPRETE
ढ
छन्दस्ययुक्तयज्ञस्य कथामाह प्ररोचयन् ॥ छन्दांसि वै देवेभ्यो हव्यमूढा श्रान्तानि जधनार्धे यज्ञस्य तिष्ठन्ति यथाश्वो वाश्वतरो वोहिवांस्तिष्ठेदेवम् ॥
जद्दोहिवानिति वहेः क्वावम् सम्प्रसारणम् ।
ढपष्टुत्वढलोपेषु विस्खेकाजाद्धसामिटि ॥ अघोदेशे जधनदेशे।
अश्वायां गर्दभाज्जातं वदन्त्यश्वतरं नराः । त्रिंशद्भरधृतौ दक्षं वत्सोक्षष्टरजश्वतः ॥ ॥ तेभ्य एतं मैत्रावरुणं पशुपुरोळाशमनु देविकाहवींषि
निर्वपेत् ॥
पा० सू० ४-२-६७
पा.
- ‘ऐतरेयो मुनिराह स’ इति सायणः, सू० ५.३.९१.
CERe
port
સવૃત્તિ તોયગ્રાહ્યો
तृतीयः
अवभृथादूर्ध्वमुदयनीयेऽव्यन्ते । अनुबन्ध्याख्यपशोः पशुपुरो:: काशस्यानन्तरं धातानुमतीराकासिनीवालीकुह्वाख्यदेवतापश्चकस्य हवींषि . निर्वपेत् ॥
विविच्याह
॥धाने पुरोळाशं द्वादशकपालम् ॥ निपेदित्येव ॥
॥ यो धाता स वषट्कारः ॥ सर्वच्छन्दोन्वयी ॥
॥ अनुमत्यै चरुम् ॥ निपेत् ।।
॥ यानुमतिः सा गायत्री ॥ प्रातस्सवनमार॥
॥राकायै चरुम् ॥ निपेत् ॥
॥ या राका सा त्रिष्टुप् ॥ सवनत्रयभा॥
॥सिनीवाल्यै चरुम् ॥ निपेत् ॥
।
।
- ‘यद्यनूबन्ध्ये पशुपुरोळाशमनु देविकाहवींषि निर्वपेयुर्धातानुमती राका सिनीवाली कुहूः’ इति आ० श्री. सू. ६-१४-१५, देविकावीषि निर्वपति । धात्रे पुरोडाशं द्वादशकपालमिति पञ्च’ इति आप० श्री. सू० १३-२४-१, २.
खण्ड:
पञ्चदशोऽध्यायः ।
॥ या सिनीवाली सा जगती ॥ तृतीयसवनभाक् ॥
निपेत् ॥
॥ या कुहूः सानुष्टुप ॥ सवनत्रयमुखभाक् ॥
श्रुतिप्रसिद्धधात्रादिवषडायैक्थयुच्यते ॥ एतानि वाव सर्वाणि च्छन्दांसि मायचं त्रैष्टुभं
जागतमानुष्टुभम् ॥
छन्दसः प्रत्ययविधाने नपुंसके स्वार्थे उपसंख्यानम्’ इत्यण् ।।
ननु,
छन्दश्च हि यज्ञे कस्य (१) कथं सर्वत्वमुच्यते–
॥ अन्वन्यानि ॥ कर्मप्रवचनीयोऽनुहीनों इत्येव तद्यथा ।
शब्दविद्याकारिणोऽन्ये बनु पाणिनिमञ्जसा ॥ कथम्,
॥ एतानि हि यज्ञे प्रतमामिव क्रियन्ते ॥ प्रक्रियन्तेतमाम् ।।
-
- गायनी वा अनुमतिख्रिष्टुम् राका जगती सिनीवाल्यनुष्टुप् कुहूधाता वषट्कारः’
इति तै० सं० ३-४-९. । पा० सू० बा० ४-२.५५, . पा. मू० १.४.८६.
FREE
सवृत्तिके ऐतरेय ब्राह्मणे
तृतीया
॥ एतैर्हवा अस्य च्छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं ..
भवति ॥ अस्य अनेन ॥
॥ य एवं वेद ॥ तेनापि ॥ धुनः स्तौति ॥ तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति ॥
‘उक्तार्थम् ।। कथं,
॥ छन्दांसि वै तत् ॥ तत् सर्वम् ॥
.. ॥ सुधायां ह वा एनं छन्दांसि दधति ॥ स्वर्ग एनं स्थापयन्ति ॥
॥ अननुध्यायिनं लोक जयति य एवं वेद ॥ सः।
वेदिता मनसा ध्यातुमशक्यं पदमाप्नुयात् ॥ .
॥ तबैक आहुर्धातारमेव सर्वासा पुरस्तात् पुरस्तादाज्येन परियजेत् तदासु सर्वासु मिथुनं दधातीति ॥
page 588.
खण्ड:
पञ्चदशोऽध्यायः ।
६२५
धातारमाज्येन यजेत् प्रत्येकं त्वग्रतश्चतुः । प्रत्येकमभिसंश्लेषा(द्) धातुश्च मिथुनं भवेत् ॥ इति केचिद्वदन्त्यन्ये नैवमित्येवमूचिरे-~
THAPAROO
॥ तदु वा आहुः ॥ (उवा आहुः ॥१) तत् तत्र ।।
॥ जामि वा एतद् यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यां
समानेऽहन यजतीति ॥ (जामि) अश्रद्धा आलस्यम् । अहन् अहनि । समानी तुझ्या । *“केवलमामक-’ इति की ।
धिातादधातुधाताप्रयुगळे चतुरीरिते ।
अश्रद्धा स्यादतो धाता चतुय प्राक् सकृद्भवेत् ।।
सदृष्टान्तमाह–
॥ यदि ह वा अपि बढ्य इव जायाः पतिर्वाव तासां मिथुनं तद् यदासां धातारं पुरस्ताद् यजति तदासु सर्वासु मिथुनं दधाति ॥
पुरुषो बहुभार्योऽपि करोत्यासु हि मैथुनम् । तद्वद्धातानुमत्यादिचतुष्के मैथुनं चरेत् ॥
- पा० सू०४-१-३०, । तै० सं० ३-३-११.सवृत्तिके ऐतरेयब्राह्मणे
।
चतुर्थः
प्रागेकधातृपक्षं तु सूत्रकारोऽप्यसूत्रयत् । तद्धातानुमती राका सिनीवाली कुहूरिति ।।
॥ इति नु देविकानाम् ॥ देवीनां देविकाख्यानामेवं कर्म समीरितम् ।
तृतीयः खण्डः।
॥ अथ देवीनाम् ॥ अिनुबन्ध्यायाः पशुपुरोळाशमनु हवींषि निर्वपेदिति शेषः ।
देव्यो नाम देवताः स्युः सूर्यश्च द्यौरुषा अपि ।
गौश्चैव पृथिवी चैव हवींण्यासां तु निपेत् ।। विविच्याह
॥ सूर्याय पुरोळाशमेककपालम् ॥ निपेत् ॥
देविकाभिः समा देवीरुक्त्वा छन्दस्त्वमुच्यते ॥ यः सूर्यः स धाता । स उ एव वषट्कारः ॥
C
आ. श्री स. ६.१४-१५. - देवीनां चेत सर्यो पौरुषा गौः प्रथिवी’ इति आ० धौ० सू० ६-१४-१७. + ‘स यः स धातासौ स आदित्यः’ इति शत. प्रा०९-५-१-३७,
खण्ड:
पञ्चदशोऽध्यायः ।
.. ऐक्यं चासां श्रुतौ सम्यक् प्रसिद्धमिनि गृह्यताम् ।।
॥दिवे चरुम् ॥ निर्वपेत् ।।
॥ या चौंः सानुमतिः । सो एवं गायत्री ॥ सा उ सो । ‘ओत्’ इति प्रयत्वम् ।।
॥ उषसे चरुम् ॥ निपेत् ॥
॥ योषाः सा राका सो एव त्रिष्टुप् ।
गवे चरुम् ॥ निपेत् ॥
॥ या गौः सा सिनीवाली । सो एव जगती ।
पृथिव्यै चरुम् ॥ निपेत् ॥
॥ या पृथिवी सा कुहः सो एवानुष्टुप् । एतानि वाव सर्वाणि च्छन्दांसि गायत्रं त्रैष्टुभं जागतमानुष्टुभमन्वन्यान्येतानि हि यज्ञे प्रतमामिव क्रियन्ते । एतैर्ह वा अस्य च्छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति य एवं वेद । तद्वै यदिदमाहुः सुधायां ह वै वाजी सुहितो दधातीति। छन्दांसि वै तत् सुधायां ह वा
- तथाच शत० वा…-‘ता वा एता देव्यो दिशो होताउछन्दोसि वै दिशश्छन्दांसि देव्योऽय कः प्रजापतिस्तथदू देव्यश्व कश्च तस्माद् देविकाः’ इति ९-५.१.३९, पा. सू. १-१-१५०
१२८
सवृत्तिके ऐतरेयब्राह्मणे
चतुर्थः एनं छन्दांसि दधत्यननुध्यायिनं लोकं जयति य एवं वेद । तटैक आहुः सूर्यमेव सर्वासां पुरस्तात् पुरस्तादाज्येन परि यजेत् तदासु सर्वासु मिथुनं दधातीति तदु वा आहुर्जामि वा एतद्यज्ञे क्रियते यत्र समानीभ्यामृग्भ्यां समानेऽहन् यजतीति यदि ह वा अपि बढ्य इव जायाः पतिर्वाव तासां मिथुन तघदासां सूर्य पुरस्ताद्यजति तदासु सर्वासु मिथुनं दधाति ॥
उक्तानि ॥
॥ता या इमास्ता अमूः॥ देविका अम् । इमाः देव्यः ॥
॥ या अमूस्ता इमाः॥ व्यत्यस्तोक्तिरादरात् ॥
ततच,
॥ अन्यतराभिर्वाव तं काममाप्नोति य एतासूभयीषु ॥
देवीनां देविकानां च विकल्पः स्यात् फलैक्यतः ॥ ॥ ता उभयीर्गतश्रियः प्रजातिकामस्य संनिर्वपेत् ॥
त्रयो वै गतश्रियः शुश्रुवान् ग्रामणी राजन्यः’ इति यजुर्वेद गतश्रियः श्रुताः।
pages 623, 624, 625.
तै० सं० २-५-४,
पञ्चदशोऽध्यायः ।
।
.. साङ्गोपाङ्गचतुर्वेदयुक्तो विप्रस्तु शुश्रुवान् ।
वृत्तवान् कोटिसारश्च ग्रामणीवैश्यजातिका ॥
नृपोऽभिषिक्तो निर्लोभो राजन्य इति ते त्रयः ।। सं सह । उभयौर्देविका देवीश्च । प्रजातिः प्रतिष्ठा सन्ततिश्च ॥
॥ न त्वेषिष्यमाणस्य ॥ उभयोः संनिपेदित्येव ।
एपिण्यमाणः संतोषरहितो धनवानपि । इलट् । शतुश्शानच मुक् । स्य इद । गुणः । (एवं स निन्दति ?) ।
॥ यदेना एषिष्यमाणस्य संनिर्वपेदीश्वरो हास्य वित्ते
देवा अरन्तोर्यद्वा अयमात्मनेऽलममस्तेति ॥
एना उभयोः । सं सह । जसस्सु , ईश्वराः। विचे धने । अरन्तो: रतिमकर्तुम् । ईश्वरे तोसुन्-’।
लोभाभिभूतचिचाय सत्ये चासत्यवादिने ।
सन्तोषगुणहीनाय देवा दधुर्धनं नहि ॥ अत्रेतिहासमाह– ॥ता ह शुचिवृक्षो गौपालायनो वृद्धद्युम्नस्याभिप्रतारिणस्यो
भयीर्यज्ञे सं निरुवाप ॥
- पा. सू०३-४.१३.
६३०
सवृत्तिकै ऐतरेयबामणे
[चतुर्थः
.
1
गोपालनान्नो युवापत्यं फक् । (उ?) शुचिलो नाम ऋषिः । वृद्धद्युम्नस्य राज्ञः *आभिमतारिणस्य अभिप्रतारी सः । णिनिः । स्वार्थेऽणि . +‘इनण्यनपत्ये’ । युद्धेषु सर्वसेना(वि)भवयुक्तस्य। ता उभयीः संसह नि: सम्यग् उवाप ।
वपेलिण्णल् द्वित्ववृद्धिरभ्यासस्य प्रसारणम् । सह निर्वापं कृतवान् ॥
॥ तस्य ह रथगृत्सं गाहमानं दृष्ट्वोवाचेत्थम् ॥ रथगृत्सं नाम कुमारं ज्ञानदृष्ट्या दृष्ट्वा उक्तवानित्थं शुचिवृक्षः ॥
कथम्,
C
.
.
॥ अहमस्य राजन्यस्य देविकाश्च देवीश्वोभवीर्यज्ञे
सममादयं यदस्येत्थं स्थगृत्सो गाहत इति ॥ यत् यः । सं सह अमादयम् ।
कृतवानस्मि मत्तास्ता मदेय॑न्ताल्लो मिपोऽम् । - तस्मादयं मातृकुक्षौ स्थगृत्सस्तु वर्धते ॥ शुचिवृक्षोक्तपिथमिति पदं स्पष्टयति-~ ॥ चतुःषष्टिं कवचिनः शश्वद्धास्य ते पुत्रनप्तार आसुः ॥ सोरम् । चतुरधिका षष्टिः । अस्य रथगृत्सस्य । शवदिति प्रसिद्धम् । ते ये प्रथिताः ।
य
- ‘अभितः शत्रून् प्रकर्षण तरति निराकरोतीत्यभिप्रतारी कश्चिदाजा तस्य पुत्र आभिप्रतारिणः पूर्वोक्तो वृद्धद्युम्नः’ इति सायणः. पा. सु. ६-४-१६४. * ‘सममादयं समुचित्य मादितवानस्मि समुन्धयानुष्ठानेन तत्तदेवता हर्षितवानसि, तत्प्रसादाद रथगृत्सो राजपुत्रः क्रीडाथै जले पाहते’ इति सायणः
खण्ड:
पञ्चदशोऽध्यायः ।
पुत्रनप्वगृहे त्वश्वामद्धे पौत्रापि (?) गृह्यते ।
*कीळनौ पुत्रैर्न तृभिर्मोदमानौ यथा खलु ॥ आसुः बभूवुः॥
अनूपन्ध्यापुरोळाशगान्वायत्या इतीरिताः । अग्निष्टोमान्त इत्युक्तो ज्योतिष्टोमा सपुच्छकः ।।
चतुर्थः खण्डः ।
PHP
अथोक्थ्यसंस्थामाख्यातुमितिहासं ब्रवीति
॥ अमिष्टोमं वै देवा अश्रयन्त ॥ अमिष्टोममिति यज्ञायज्ञीयसामनाम ॥
॥ उक्थान्यसुराः ॥ अश्रयन्तेत्येव । उक्थानि नाम साकमश्वसौभरनार्मेधानि सामानि ॥
॥ ते समावीर्या एवासन्न व्यावर्तन्त ॥ उक्तार्थम् ॥
॥ तान् भरद्वाज ऋषीणामपश्यत् ॥ उक्थाश्रितांस्तानसुरान् भरद्वाजो ददर्श ह । ऋषीणां मध्ये ॥
१. संस्था व्याख्यातुम् ’ क. पाठा.
सं० ८-१-२८-१. - Page 356.
T
Lama
सवृत्तिके ऐतरेयब्राह्मणे
कथम् ,
॥ इमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन
पश्यतीति ।। एषां देवानां मध्ये न कश्चिदपीति ज्ञात्वा ।
॥ सोऽग्निमुदयत् ॥ उत् उच्चैः अह्वयदाहूतवानग्निम् ॥
॥
कथम् ।
॥ “एयूषु ब्रवाणि ते अम इत्थेतरा गिर इति ॥ अनेनापर्चेन ॥ व्याचष्टे
॥ असुर्या ह वा इतरा गिरः॥ ‘असुरस्य स्वम्’ इति यत् । आ इहि आगच्छ । उ पुनः । सु साधु अवाणि ते । हे अग्ने इत्था सत्यम् । इतरा: अन्याः गिरः वाचा वतेन्त इति शेषः । इति ह्यर्थः ॥
॥ सोऽग्निरुपोत्तिष्ठन्नब्रवीत् ॥ आहूतः सोऽग्निः । उप किश्चित् ॥ कथं,
॥ किंस्विदेव मह्यं कृशो दीर्घः पलितो वक्ष्यतीति ।।
- ऋक्सं०४-५-१४-१..पा. सू० ४.४.११३. * ‘स्था इत्थमनेन प्रकारे श्रुत्सन्तरादिति शेषः। इतरा देववाक्मार्थव्यतिरिका गिरोऽसुरवाचः’, ‘तत्समी प्रत्यागन्तुम् ’ इति सायणः,
१२
।
खण्डः]
पञ्चदशोऽध्यायः। . मह्यं ममार्थाय । विदित्यज्ञाने । कृशस्तपसा क्लिष्टतनुः दीर्घः प्रकृत्यै बोधैर्भूतः पलितः जरान्वितः ॥
उपपादयति
॥ भरद्वाजो ह वै कृशो दीर्घः पलित आस ॥ बभूव ॥
॥ सोऽब्रवीत् ॥ लब्धाभिमुख्यः स ऋषिरनिं प्रत्यब्रवीदिदम् ।। ॥ इमे वा असुरा उक्थेषु श्रितास्तान् वो न कश्चन
पश्यतीति ।। वो युष्माकं मध्ये ॥
अथ,
. ॥ तानग्निरश्वो भूत्वाभ्यत्पद्रवत् ॥ तानसुरान् । अभि प्रति अति सुष्टु ॥ ॥ यदमिरश्वो भूत्वाम्यत्यद्रवत् तत् साकमश्वं सामाभवत् ॥
सामविदां प्रसिद्धम् " एषु’ इत्युत्पन्नम् ।।
॥ तत् साकमश्वस्य साकमश्वत्वम् ।
तदाहुः साकमश्वेनोक्थानि प्रणयेदप्रणीतानि वाव तान्युक्थानि यान्यन्यत्र साकमश्वादिति ॥
त्यद्रवत्।।
604
।
- ऋक्सं• ४.५-२४.१.
80
सवृत्तिके ऐतरेयब्राह्मणे ऽब्रवीदिन्द्रः कश्चाहं चेमानितोऽसुरानोत्स्यावहा इति। अहं ; यब्रवीद्विष्णुः । तस्मादैन्द्रावैष्णवमच्छावाकस्तृतीयसवने । सति ॥
संवा कर्मणा’ इति ॥
॥ इन्द्रश्च हि तान् विष्णुश्च ततोऽनुदेताम् ॥
॥ द्वन्द्वमिन्द्रेण देवताः शस्यन्ते ॥ देवता इन्द्रसहिताः शस्यन्ते तिस्त्र एषु हि । वरुणो वाक्पतिर्विष्णुर्द्वन्दं सहितमुच्यते ॥
॥ इन्हें वै मिथुनम् ॥ मिथुनं मैथुनं द्वौ हि कुरुतः स्त्री पुमानिति ।।
॥ तस्माद् द्वन्द्वान्मिथुनं प्रजायते ॥ मिथुनं जायते द्वन्द्वादुहिता स्त्री सुतः पुमान् ।। ॥ प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ॥
P
।
.
Y
शस्त्रत्रयं होत्रकाणामुक्याख्यं त्वेवमीरितम् । अथ पोतुश्च नेष्टुश्च प्रसङ्गात् किञ्चिदुच्यते
॥ अथ हैते पोत्रीयाश्च नेष्ट्रीयाश्च चत्वार
__ ऋतुयाजाः षळूचः॥
।
- ऋक्सं० ५-३-१३-१, ‘सं वामष्टान्द्रावैष्णवम्’ इति सर्वानुक्रमणी मः सू. ६९.
५.७.
धमा
।
.
4
. भवन्तीति शेषः।
पोतुर्नेष्टुश्चेदमित्थं होत्राभ्यश्छस्तु टाब्जासि । ऋतुयाजद्वादशके द्वौ द्वितीयाष्टमौ तु यौ ।
पोतुस्तौ नेष्टुरेतौ हि तृतीयो नवमश्च यः॥ ते ‘होता यक्षन्मरुता पोत्राद्’ ‘देवं द्रविणोदाम्’ इति च । ‘प्रावो नेष्वाद् ‘देवं द्रविणोदाम्’ इति च ।
द्वयोः प्रस्थितयाज्याः षद् तिस्त्रस्तिस्र ऋचस्त्विति । ‘मरुतो यस्य हि क्षये ’ ’ अर्वाडेहि सोमकामं वाहुः’ ’ आ वो वहन्तु’ इति पोतुः । ॥ अग्ने पत्नीरिहावह ’ ’ तवायं सोमः ॥अमेव
ना सुहवा’ इति नेटुः ॥
ततः किं,
॥ सा विराड् दशिनी ॥ दशत्वयुक्ता दशिनी विराड् ब्रीह्यादिडीबिनेः (?) ॥
- पा० सू० ५.१.१३५. - ऋक्सं० १.६-११-१. ऋक्सं० १-७-१९.४. 8 ऋक्सं० १-६.९.६. ऋक्सं० १-२.५-४. ऋक्सं० ३-२-१८-१. | ऋक्सं. २.७.१५-३. * तथाच आ० श्री. सू०-‘मरुतो यस्य हि क्षयेऽने पनीरिहावह ……………इति प्रातस्सवनिक्यः प्रस्थितयाज्या: ’ ’ अर्वाडेहि सोमकामं वास्तवायं सोमस्वमेधर्वाङ् ………………..इति माध्यंदिन्यः’ ‘आवो वहन्तु सप्तयो रघुष्पदोऽमेव न: सुहवा आहिगन्तन…………………..इति तातीयसवनिक्यः’ इति ५.५.१८, १९.
मस्तो यस्य हि क्षये इति पोता यजति अग्ने पत्नीरिहावहति नेष्टा’ ‘अर्वाडेहि सोमकामं वाहुरिति पोता तवायं सोमस्त्वमादिति नेष्टा ’ ‘आ वो वहन्तु सप्तयो रघुष्पद इति पोता यजति अमेव नः सुहवा आहि गन्तनेति नेष्टा मजति’ इति गो. बा० २-२-२०, २१, २२,सवृत्तिके ऐतरेयब्रामणे ॥ तद् विराजि यज्ञं दशिन्यां प्रतिष्ठापयन्ति
प्रतिष्ठापयन्ति ॥ पोत्रा नेष्वा च सम्बद्धैश्चतुर्भिः षड्भिरेव च । दशत्वसंख्यायोगेन विराज्येवं महाध्वरम् ।।
सर्वे प्रतिष्ठापयन्ति मन्त्रा अप्य॒त्विजोऽपि वा ।। “द्विरुक्तिरुक्तार्था ।
षष्ठः खण्डः ।
इति षड्गुरुशिष्यविरचितायां महिदासैतरेयनामणवृत्ती
सुखप्रदायां पञ्चदशोऽध्यायः ॥
तृतीयपञ्चिका समाप्ता।
प्रथमा संयुटा समाप्तः ॥
॥ शुभं भूयात् ॥
१. ‘इति ब्राह्मणवृत्तौ पञ्चदशोऽध्यायः’ घ, पाठः,
page 44.