१४

अथ चतुर्दशोऽध्यायः ।

अथ त्रयोदशाध्यायैर्यस्य रूपं प्रवर्णितम् । संस्तोतुमग्निष्टोमं तमितिहासं ब्रवीति ह

॥ देवा वा असुरैयुद्धमुपप्रायन विजयाय ॥ सह कर्तुमिति शेषः । वै पुरा॥

॥ तानग्निर्नान्वकामयतैतुम् ॥ तान् युयुत्सून सुरानग्निच्छदन्वेतुमञ्जसा ।।

॥ तं देवा अब्रुवन् ॥

कथम्,

॥ अपि त्वमेह्यस्माकं वै त्वमेकोऽसीति ॥

१. ‘इति ब्राह्मणवृत्तौ त्रयोदशोऽध्यायः’ ध.क, पाठः.

सवृत्तिके ऐतरेयबामणे

[प्रथमः

Coभाकपकासासद

मीपतः॥

॥ स नास्तुतोऽन्वेष्यामीत्यब्रवीत् । स्तुत नु मेति ॥ सोऽब्रवीत् । स्तुत लोट् । नु क्षिप्रम् ।

अन्वेष्यामि नास्तुतोऽहं यदीच्छा स्तुत मां द्रुतम् ॥

॥ तथेति तं ते समुत्क्रम्योपनिवृत्यास्तुवन् ॥ उत्क्रम उत्थानम् । उपनिवृत्तिराभिमुख्यम् । तमग्निम् ।।

॥ तान् स्तुतोऽनुप्रैत् ॥ तान् देवान् । अनुप्रैदन्वगच्छत् ॥ कथं, ॥ स त्रिश्रेणिभूत्वा व्यनीकोऽसुरान् युद्धमुपप्रायद्विजयाय ॥

युद्धं योद्धं तुमर्थे त आयदैल्लङ् शपो न लुक् ॥ त्रिश्रेणीति व्यनीकेति’ ब्याचष्टे द्वितयं खयम्

॥त्रिश्रेणिरिति च्छन्दांस्येव श्रेणीरकुरुत ॥ श्रेणी: व्यूहान् गायत्रीत्रिष्टुब्जगतीरूपान् ।।

॥ व्यनीक इति सवनान्येवानीकानि ॥ अकुरुतेत्येव । अनीकं मुखम् ॥ एवमणिः

॥ तानसम्भाव्यं पराभावयत् ॥

तानसुरान् ।

१. ‘त्रिणिरित्यनांकेति’ क. पाठः,

खण्ड:

चतुर्दशोऽध्यायः ।

पुनः समृद्धिः संभाव्यं यथा तद्रहितं तथा । पराभावयत् व्यनाशयत् ।।

  • ॥ ततो वै देवा अभवन् परासुराः । भवत्यात्मना परास्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥ उक्तार्थम् ।

इत्यो स्तुतियोगेन त्वग्निष्टोमः ऋतुः स्मृतः ।। किञ्च,

॥सा वा एषा गायच्येव यदग्निष्टोमः ॥

यत् या॥

॥ चतुर्विशत्यक्षरा वै गायत्री चतुर्विंशतिरमिष्टोमस्य

स्तुतशस्त्राणि ॥ पादैरष्टाक्षरैर्युक्ता गायत्री त्रिभिरेव हि । स्तोत्राणि द्वादशोद्गातुः शस्त्रं होत्रादिगं तथा ।। पवमानास्त्रयश्चत्वार्याज्यानि स्युश्च पृष्ठवन् । यज्ञायज्ञीयमन्त्यं च स्तोत्रद्वादशकं विदम् ॥ आज्यं होतुः सप्रउगं होत्रकाणां त्रिकं ततः । होतुर्मरुत्वतीयं च निष्केवल्यं च वै ततः ॥ होत्रकाणां त्रिकं होतुर्वैश्वदेवाग्निमारुते । इति शस्त्रद्वादशकमनिष्टोमे व्यवस्थितम् ॥

• ‘असंभाव्यं पुनरुजीयनसम्भावनापि यथा न भवति तथा । यद्वा अन्यत्राननुभूत पराक्रमम् ’ इति भट्टभास्करः + page 281.

१८८

सवृत्तिके ऐतरेयब्राह्मणे

[प्रथमः

॥ तद्वै यदिदमाहुः सुधायां ह वै वाजी मुहितो

.

A

*सुधामृतं तद्युक्तायां दिवि वाजीव वेगवान् ।

देवो दधाति सुहितो यष्टन हे किपि तुक् शसि ॥

इति सन्तस्तु यत् प्राहुस्तदिदं संभवत्यपि ।। कथं,

॥ गायत्री वै तत् । न ह वै गायत्री क्षमा रमते ॥ डिग्लुक् । क्षमायां भूम्याम् ॥ किंतहि,

॥ अर्वा हवा एषा यजमानमादाय स्वरेतीति ॥ खा स्वर्गम् । इतिः समाप्त्यर्थः ।। किच, ॥ अग्निष्टोमो वै तत् । न ह वा अग्निष्टोमः क्षमा रमते ।

जो हवा एष यजमानमादाय स्वरेति ॥ ऊर्ध्वः उन्मुखः ।।

किच,

॥स वा एष संवत्सर एव यदग्निष्टोमः ॥ यत् यः॥

  • ‘सुष्टु धीयन्ते सुकृतिनोऽस्यां दिवि सा छौः सुधा । तस्यामेव वाजी बाजोऽ सोमरूपं यस्मिन्नस्तीत्यमिष्टोम उच्यते । स च सुहितः साढण्येनानुष्ठितो दधाति सुधाशब्दवाच्यायां दिवि यजमान स्थापयति’ इति सायणः, ‘वाजी वेगवान् हविलक्षणेनानेन तद्वान वा सुहितः हविर्भिः सुतृप्तः। अनिर्वाय वाजी (तै० सं० ५-५-१०) इति च ब्राह्मणान्तरम् । अमिः खल्वीडशो भूत्वा यजमानं स्वर्ग स्थापयति इत्यनेन श्रुति. वचनेनोच्यते’ इति भट्टभास्करः

खण्ड:

चतुर्दशोऽध्यायः । ‘. कथं,

॥ चतुर्विशत्यर्धमासो वै संवत्सरः । चतुर्विशतिरग्निष्टोमस्य

स्तुतशस्त्राणि ॥ *व्याख्यातम् ।। ॥ तं यथा समुद्र स्रोत्या एवं सर्वे यज्ञक्रतवोऽपियन्ति । + स्रोतसो विभाषा ड्यड्यौ’ । स्रोत्याः नद्यः । यज्ञक्रतवो यागाः । अपियन्ति उपगच्छन्ति ।

प्रथमः खण्डः।

उक्तमर्थ स्पष्टयति वदन्निदमिदं विति

॥ दीक्षणीयेष्टिस्तायते ॥ कवर्थे तनिः । कर्मणि लट् । यक् । तनोतेर्यकि’ इत्यात् ।

__प्रथमं दीक्षणीयेष्टिरग्निष्टोमे प्रयुज्यते ।। तता किं, ॥ तामेवानु याः काश्चेष्टयस्ताः सर्वा अग्निष्टोममपियन्ति । तामनु लक्षीकृत्य । अनेष्टयो विकृतयः उत्तरत्र दर्शपूर्णमासयोरुक्तेः ॥ किश्च तत्र,

॥ इळामुपह्वयते ॥ होता॥

El.

  • page 587. + पा० सू० ४-४-११३. * पा० सू० ६-४-४४,

४.४४,

सवृत्तिके ऐतरेयत्राह्मण

[द्वितीयः

॥ इळाविधा वै पाकयज्ञाः ॥

.

इळानं तत्प्रकारा हि पाकयज्ञास्तु सप्त वै । हुतः प्रहुत आहुतो बलेहेरणमेव च ।।

प्रत्यवरोहोऽष्टका च तथा शूलगवोऽन्तिमा ।। ॥ इलामेवानु ये के च पाक्यज्ञास्ते सर्वेऽग्निष्टोममपियन्ति ।

43

किञ्च,

॥ सायंप्रातरग्निहोत्रं जुह्वति ॥

अत्र च,

॥ सायंप्रातव्रतं प्रयच्छन्ति ॥ दीक्षिताय । पयो व्रतं ब्राह्मणस्यैतादृशास्तितं (१) भक्ष्यं व्रतम् ॥ किन,

॥ स्वाहाकारेणाग्निहोत्रं जुह्वति ॥ मन्त्रान्तस्ति हि स्वाहाकारा ॥

॥ स्वाहाकारेण व्रतं प्रयच्छन्ति ॥

. ‘इळा खल्ल वैषा पाकयज्ञः’ इति तै० सं० १-७-१. सोऽयं सूत्रान्तरकारस्य पक्षः । आश्वलायनस्तु हुतादीस्त्रीनेव पाकयज्ञानाह’ इति सायणः, * तथाच ते. आo- ‘पयो ब्राह्मणस्य व्रतं यवागू राजन्यस्यामिक्षा वैश्यस्याथों सौम्येऽप्यध्वर एतद् व्रतं भूयात् ’ इति (२-८-१). ‘पयो दीक्षासु’ इतिच आ० श्री. सू. १२-४-२९. तथाच तै० वा…‘अभिज्योतिज्योतिरग्निः स्वाहेति सायं जुहोति । सूर्यो ज्योतिज्योतिः सूर्यः वाहेति प्रातः’ इति (२-१.१०). ‘ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा’ (तै० सं० १-२-३) इति दीक्षितो व्रतयति । तथाच आप. श्री. सू०..ये देवा मनोजाता मनोयुज इति दक्षिणेनाइपनीयं परिनित प्रतयति’ इति (१०-१७-९).

खण्ड:

चतुर्दशोऽध्यायः ।

५९१

.. ततश्च,

.

॥ स्वाहाकारमेवान्वग्निहोत्रमग्निष्टोममप्येति ॥ अग्निहोत्रं कई ॥ किञ्च,

॥ पञ्चदश प्रायणीये सामिधेनीरन्वाह पञ्चदश

__ दर्शपूर्णमासयोः॥ सामिधेनीरन्वाहेत्येव ॥

ततश्च

॥ प्रायणीयमेवानु दर्शपूर्णमासावग्निष्टोममपीतः ॥ प्रायणीयं यागम् । इत: उपगच्छतः ।

॥ सोमं राजानं क्रीणन्ति ॥ सोमक्रयं कुर्वन्ति ॥

॥ औषधो वै सोमो राजा॥ ओषधिरूपत्वादोषधीशत्वाच्च सोमस्य ।

॥ ओषधिभिस्तं भिषज्यन्ति यं भिषज्यन्ति ॥ +++++++क्तं कर्तुमिच्छन्ति बन्धवः ।

तं भिपज्यन्त्योपधिभिषिक् ‘कण्डादियक् झि लट् ॥ ततच,

॥ सोममेव राजानं क्रीयमाणमनु यानि कानि च

भेषजानि तानि सर्वाण्यनिष्टोममपियन्ति ॥ क्रया स्वीकारः । यानि कानि च सर्वाणि आयुर्वेदः सर्वरोग….गत)।

HTTA

पा. सू० ३.१०२.

५९४

सवृत्तिकै ऐतरेयब्रामणे

तृतायः

T

तत्र,

॥ पश्चदशोक्थ्यस्य स्तोत्राणि पञ्चदश शस्त्राणि ॥ उक्थ्यस्यैव’ । अनिष्टोमादूर्ध्वमुक्थ्यस्तोत्रिय….विषयम् (t) ॥ तता किं,

॥ स मासः॥ द्विपञ्चदशसंघातस्त्रिंशत्त्वान्मासवद् भवेत् ।।

॥ मासधा संवत्सरो विहितः ॥ *छान्दसो धा । विधा प्रकार: ! विहितः क्लृप्तः । मासप्रकारेण पुरा क्लुप्तो देवहि वत्सरः ॥

॥ संवत्सरोऽग्निवैश्वानरः ॥ वैश्वानराग्निरूपेण श्रुतौ संवत्सरः श्रुतः ॥

॥ अग्निरग्निष्टोमः॥ अग्निस्तुतिरूपत्वात् ॥

॥ संवत्सरमेवानूक्थ्योऽग्निष्टोममप्येति ॥ संवत्सररूपेऽन्तर्भावात् ॥

HTTE

१. उक्थ्यस्यैवेति ’ क, ख, पाठ:.

  • ‘बी’सायां छान्दसो धाप्रत्ययः, मासो मासः, अनेके मासाः सम्भूय संवत्सरो विहितः’ इति भभास्करः. तथाच तै० सं० … संवत्सरो वा अग्निर्वैश्वानरः’ दति -२-५.

खण्ड:]

चादेशोऽध्यायः

५९५

(

TRENT

MARCH

. तन च,

॥ उक्थ्यमपियन्तमनु वाजपेयोऽप्येति ॥

अग्निष्टोमन साम्योक्त्या वाजपेयोऽनुयात्यपि ॥

कुता

॥ अत्युक्थ्यो हि स भवति ॥ उक्थ्यपरभूतपोळश्याश्रयत्वान् । मध्यने हि-पोळशी विह । तस्मादूर्ध्वम्-’ इत्यादि।

आहाथाग्निष्टोमयोगमशोर्यापालिरात्रयो:

॥ द्वादश रात्रेः पर्यायाः सर्वे पञ्चदशाः ।। * ’ (स्तो)मे डविधिः पञ्चदशा(ध्य द्यर्थः ।) पञ्चदशावृत्तिकः॥

तत्र च,

॥ ते द्वौ द्वौ सम्पद्य त्रिंशत् ॥ त्रिंशद्रूपास्तु संघाताः षडासन द्वादशवपि । कार्थे ल्यप् । सम्पन्नाः ॥ ॥ एकविंशं षोळशिसाम त्रिवृत् सन्धिः । सा त्रिंशत् ॥ सम्पयेत्येव ।

___ * आ० श्री. सू. ९-९-९, १०. अतिरात्रे च द्वादश रात्रैः पर्यायाः । ते चापस्तम्बेन स्पष्टीकृता: — अतिरात्रश्चेत् षोडशिचमसानुनयंत्रयोदशभ्यश्चमसगणेभ्यो राजानमतिरेचयति । षोडशिना प्रचर्य रात्रि पर्यायैः प्रचरति । होतृचमसमुख्यः प्रथमो गणो मैत्रावरुणचमसमुख्यो द्वितीयो ब्राह्मणाच्छंसिचमसमुख्यस्तृतीयोऽच्छावाकचमसमुख्य श्चतुर्थः । प्रथमाभ्यां गणाभ्यामध्वर्युश्चरत्युत्तराभ्यां प्रतिप्रस्थाता । एष प्रथमः पर्यायः । एवं विहितो द्वितीयस्तृतीयश्च’ इति (१४-३-८, ९, १०, १४, १५, १६). * पा० सू० वा० ५.१-५८ त्रिवृत्तात्रयोऽवयवा यस्य स त्रियुत् । नव स्तोत्रिया इत्यर्थः,तृतीयः

सन्धिषोळशिUTA

ख्योऽन्य

ENSATTTETT

॥ स मासः ॥ स संघातो मास इब त्रिंशत्संख्यान्वयादभूत् ।।

॥ त्रिंशन्मासस्य रात्रयो मासधा संवत्सरो विहितः संवत्सरोऽग्निर्वैश्वानरोऽग्निरग्निष्टोमः संवत्सरमेवान्वतिरात्रोऽग्नि टोममप्येति ॥

किञ्च,

॥ अतिरात्रमपियन्तमन्वप्तोर्यामोऽप्येति ॥

कुता

॥ अत्यतिरात्रो हि स भवति ॥ अतिरावाश्रयत्वादप्तोर्यामस्य । सूत्र्यते हि-* अतिरास्त्विह अद्वैपदोक्थ्यश्चेद् वैषुवतं तृतीयसवनम् । ऊर्ध्वमाश्विनादतिरिक्तोक्थानि इति ॥

निगमयति–

च पुरस्ताद ये चोपरिष्टाद् यज्ञक्रतवस्ते नर्वेऽग्निष्टोममपियन्ति ॥

पूर्वे तेऽग्निष्टोमात् परे च ये। यान्ति सर्वे+++वै खलु ॥

ख्यान्वितो’ क. पाठः.

-११-११, १२, १३.

खण्ड

चतुर्दगी

.

___ ५९७

.

45

10

· पुनः स्तौति

॥ तस्य संस्तुतस्य नवतिशतं स्तोत्रियाः ॥ स्तोत्राद् धः । संख्याथा अल्पीयाः’ इति नवतः पूर्व निपातः।

कथं संख्यैवमिति चंच्छलोको शृणु पुरातनौ— “त्रिवृद् बहिष्पवमाने नव स्युश्चतुषु चाज्येषु हि पष्टिरेवम् ।

माध्यदिने पवमाने दशाथ पञ्चाधिकाः स्नोत्रियाः स्युस्तथैव ।।

चतुर्पु पृष्ठेषु तथाष्टषष्टिः सप्ताभने पवमाने दशाथ ।

अग्निष्टोमं त्वेकविंशं वदन्तीत्येवं संख्या नवति शतं च ॥” इति । अर्थस्तु-वहिष्पवमाने स्वोत्रियालिटन्नव । पञ्चदशाज्यानि चत्वारि इति षष्टिः। माध्यंदिने पवमाने पञ्चदश । सप्तदशानि पृष्ठानि चत्वारि इत्यष्टषष्टिः । आर्भवे मामाने सप्तदश : एकत्रिंशं यज्ञायज्ञीयसामेति ॥

अथावग्रुत्य स्तौति–

॥ सा या नबतिस्ते दश त्रिवृतः ॥ शतात् पूर्वा तु नवतिर्नवका दश वै मनाः ।।

  • ॥ अथ या नवतिस्ते दश ॥ त्रित इत्येव । अथ शनात् परा नवनिर्दश नवकाः ।। ॥ अथ या दश तासामेका स्तोत्रियोदेति त्रिवृत् परिशिष्यते ॥

MP4

14

AAP

पा. सू० वा० २-२-३५ । श्लोकाविमौ मृग्यौ.

सवृत्तिके ऐतरेयजाह्मणे

तृितीयः

रा

"

HA

T

APRINCOME

मध्ये नवत्योर्दश याः स्तोत्रियास्तासु चान्ततः । ए(का)तिरिच्यते बन्यो नवकस्तिष्ठ(ति) त्रिवृत् ।।

॥ सोऽसावेकविंशोऽध्याहितस्तपति ॥ अधि इव । स शिष्टनवकसंघातः । आहितः स्थितः तपति दीप्यते । असौ सूर्य इव ॥

कथं,

॥ विषुवान् वा एष स्तोमानाम् ॥ विषुः कालो मध्यवर्ती तयोगी विषुवान रविः । वै इव । वत्वं छान्दसम् ।

मध्यवर्तिसूर्य(नि)मा नवत्योर्मध्यगा त्रिवत् ॥ उपपादयति

॥ दश वा एतस्मादञ्चिस्त्रिवृतः॥ एतस्मान्मध्यनवकात् । अर्वाश्चः पूर्वभूता नवकदशकाः ॥

॥ दश पराञ्चः ॥ त्रिवृत इत्येव । परभूताः ।।

॥ मध्य एष एकविंश उभयतोऽध्याहितस्तपति ॥ अधि इव । द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’ इत्युक्त एकविंशतः पूरणः सूर्य इवैष नवक इत्यर्थः ।

१. ‘स्तोमानाम् । विषुवान्’ प. इ. पाठः,

  • Page 198.

५९९

पा

खण्ड:

चतुर्दशोऽध्यायः । * ॥ तद्यासौ स्तोत्रियोदेति सैतस्मिन्नध्यूहळा ॥ - उदेति अतिरिच्यते । एतस्मिन्नादित्यसमे नवके । साध्यदना । उपरि निहिता॥

॥ स यजमानः ।। (आ) टापो लुक् । सा॥ किञ्च,

॥ तद् दैवं क्षत्रं सहो बलम् ॥ यजमान इत्येव । आश्रित इति शेषः । तत् सूर्याख्यं ज्योतिर्दैवं सर्व देवसम्बन्धि , क्षत्रं राजरूपम् । सहः अभिभवित , बलं बलवत् ।।

॥ अश्नुते ह वै दैवं क्षत्रं सहो बलम् ॥ यजमान इत्येव ॥ ॥ एतस्य ह सायुज्यं सरूपता सलोकतामश्नुते य एवं वेद ॥

तृतीयः खण्डः ।

त्रिवृदादिस्तोमयोगपग्निष्टोमे ब्रवीत्यथ - ॥ देवा वा असुरैर्विजिग्याना ऊर्ध्वाः स्वर्ग लोकमायन् ॥ सह युद्ध इति शेषः । वै पुरा ऊर्वाः अर्बप्लखाः ।।

*सन्लिटोजेॉलिटा कानच ‘विपराभ्यां तडेव च ।

  • पा० सू० ४-३-५७. । पा० सू० ३-२-१०६. * पा० सू० १.३.१९.

++

६००

चतुर्थः

m

विजयं कृतवन्तः ॥

॥ सोऽग्निदिविस्पृगूर्ध्व उदयत ॥ *हृद्युभ्यां डे:’ इत्यलुक् । उद प्रथमम् । सः प्रसिद्धः ।।

॥ स वर्गस्य लोकस्य द्वारमवृणोत् ॥ अग्निः प्रविश्य स्वर्गस्य प्रादाद् (१) द्वारं ततो दृढम् ।। कथमस्य प्रवेशः प्रागत उत्तरमुच्यते—-

॥ अग्नि स्वर्गस्य लोकस्याधिपतिः ॥ आनीतं ह्यग्निना सर्वा हविरश्नन्ति देवताः ॥

A

॥ तं वसवः प्रथमा आगच्छन् ॥ वा सर्वनाम प्रिथमचरमेति जसो न शी॥

आगत्य च,

॥त एनमब्रुवन् ॥ ते अष्टौ वसवः ।।

कथम् ।

॥ अति नोऽर्जस्याकाशं नः कुर्विति ॥ अर्नेः प्रवेशार्थील्लोटो लट् । अत्यनः प्रवेशः । नः’ अस्मान् ।

आकाशमवकाशं तु द्वारो(लो? द्वा)टनतः कुरु ॥

१. ‘असर्जनं प्रवेशनम् घ, ड, पाठ:

पा० सू बा० ६.३.१० । पा सू० १-१.३३.

खण्डः]

चतुर्दशोऽध्यायः ।

॥ स नास्तुतोऽतिम्रक्ष्य इत्यबवीत् । स्तुत नु मेति ॥ अतिसर्गः प्रवेशनम् ।।

॥ तथेति तं ते त्रिवृता स्तोमेनास्तुवन् ।

सच,

॥ तान्थस्तुतोऽत्यार्जत ॥ प्रावेशयत् ॥

॥ ते यथालोकमगच्छन् । लोकं स्थानम् ॥

॥ तं रुद्रा आगच्छन् । एकादश ॥

॥ त एनमब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति । स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत् स्तुत नु मेति । तथेति तं ते पञ्चदशेन’ स्तोमेनास्तुवन् । तान्थस्तुतोऽत्यार्जत । ते यथा लोकमगच्छन् ।

॥ तमादित्या आगच्छन् ॥

.

MORE

ORG

L

द्वादश ॥

  • ‘तिसृभ्यो हिकरोति से प्रथमया तिसृभ्यो हिकरोति स मध्यमया तिसभ्यो हिंकरोति स उत्तमयोद्यती त्रिवतो विध्रुतिः’ इति त्रिवृत्स्तोमविधायकं ताण्ड्यब्राह्मणम् (२-१), पञ्चभ्यो हिंकरोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिंकरोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिंकरोति स एकया स एकया स तिसृभिः’ इति पञ्चदशस्तोमविधायक ताण्ड्यब्राह्मणम् (२-४.)

76

सवृत्तिके ऐतरेयब्राह्मणे

चतुर्थः

॥ त एनमब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति । स नास्तुतोऽतिम्रक्ष्य इत्यब्रवीत् स्तुत नु मेति । तथेति तं ते सप्तदशेन’ स्तोमेनास्तुवन् । तान्थस्तुतोऽत्यार्जत । ते यथा लोकमगच्छन् ॥

॥ तं विश्वेदेवा आगच्छन् ॥ दश॥

॥ त एनमब्रुवन्नति नोऽर्जस्याकाशं नः कुर्विति स नास्तुतोऽतिस्रक्ष्य इत्यब्रवीत् स्तुत नु मेति । तथेति तं त एक विशेन स्तोमेनास्तुवन् । तान्थस्तुतोऽत्यार्जत । ते यथालोक

मगच्छन् । एवम्,

॥ एकैकेन वैतं देवाः स्तोमेनास्तुवन् । तान्थस्तुतो ऽसार्जत । ते यथालोकमगच्छन् । अथहैनमेष एतैः सः स्तोमैः स्तौति यो यजते ॥

अथह एवंहि । यो यजते स एष सवैत्रिवृत्पञ्चदशसप्तदशैकविंशः ।।

॥ यश्चैनमेवं वेद ॥ सोऽपि ॥

  • ‘पञ्चभ्यो हिंकरोति स तिसमिः स एकया स एकया पश्चभ्यो हिंकरोति स एकया स तिमभिः स एकया सप्तभ्यो हिंकरोति स एकया स तिमृभिः स तिसृभिः’ इति सप्तदशस्तोमविधायक ताण्ड्यब्राह्मणम् (२-४), ‘सप्तभ्यो हिंकरोति स तिभिः स तिसभिः स एकया सप्तभ्यो हिंकरोति स एकया स तिसृभिः स तिमभिः सप्तभ्यो हिकरोति सतिसृभिः स एक्रया स तिसृमिः’ इत्ये कवि शस्तोमविधायकं ताण्ड्यब्राह्मणम् (२.१४).

खण्ड:

चतुर्दशोऽध्यायः ।

॥ अती तु तमर्जातै ॥ तं यष्टारं वेदितारमपि’ सोऽग्निः प्रवेशयेत् । अतेर्दीर्घश्छान्दसः । अर्जेलेंट् । * आत थे। वैतोऽन्यत्र ’ । अर्जेत दुःखमतिक्रमय्य सुखं प्रवेशयेत् ।।

स्पष्टपति

॥ अति ह वा एनमर्जते स्वर्ग लोकममि ॥ एनं यष्टारम् । स्वर्गमभि प्रति अजैसे प्रवेशयति ॥

.

॥ य एवं वेद ॥

चतुर्थः खण्डः ।

Maxon4

पुनः स्तौति

॥स वा एषोऽग्निरेव यदग्निष्टोमः ॥ . यत् यः॥ कथं,

॥ तं यदस्तुवस्तस्मादग्निस्तोमस्तमग्निस्तोमं सन्तमग्नि ष्टोम इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः ।।

१. होतारमपि’ क. पाठः, २. “ अर्जेलट्’ र पाठः, ३० ‘वेद । सोऽपि ॥‘कपाठः,

  • पा० सू० ३-४-९५. । पा० स० ३-४.९६.

[पञ्चमः

H

TTPR

HTTTTTTTE सामा

सवृत्तिके ऐतरेयब्राह्मणे *अग्नेः स्तुत्स्तोमसोमेति षत्वं नाम तिरोहितम् । .

अग्नेः स्तोमा अत्र सन्तीत्यग्निष्टोमः क्रतुर्मतः । ॥ तं यच्चतुष्टया देवाश्चतुर्भिः स्तोमरस्तुबस्तस्माच्चतुस्तोमः ॥

सिंख्याया इति सूत्रेण चतुरोऽवयवे तथए । वा सर्वनाम प्रथमचरमेति जसो न शी ।।

अग्नेः स्तोमास्तु चत्वारः सन्यत्रेति कतौ पदम् ।। ॥ तं चतुस्तोमं सन्तं चतुष्टोम इत्याचक्षते परोक्षण

परोक्षप्रिया इव हि देवाः॥ सुषामादिषु चेत्येवं षत्वं नाम तिरोहिनम् ॥

॥ अथ यदेनमूर्ध्व सन्तं ज्योतिर्भूतमस्तुवंस्तस्माज्योति स्तोमस्तं ज्योतिस्तोमं सन्तं ज्योतिष्टोम इत्याचक्षते परोक्षण परोक्षप्रिया इव हि देवाः ॥

ज्योतिर्भूतमतिप्रकाशमानम् ।

ज्योतिरायुषा स्तोमेति षत्वं नाम तिरोहितम् । ज्योतिष्टोमो ज्योतिषोऽमेरिह स्तोमा इति ऋतुः ॥

१.

अमिष्टोमोऽमिर्मतः ‘प. उ. पाठ:.

  • पा० सू० ८-३.८२. + पा० सू०५-२-४२. * पा० सू० १-१-३३. पा० सू०८-३-९८. पा० सू०८-३०६३.

खण्ड:

तुर्दशोऽध्यायः । : . पुनः स्तौति–

॥ स वा एषोऽपूर्वोऽनपरो यज्ञक्रतुर्यथा

स्थचक्रमनन्तमेवं यदग्निष्टोमः ॥ यत् यः’ । अग्निष्टोमो नाम एप यज्ञः (पूर्व) पररहितः । यथा रथचक्रमनन्तमायन्तरहितम् एवं तथा ॥

स्पष्टयति

.. || तस्थ यथैव प्रायणं तथोदयनम् ॥ प्रायणमारम्भः । उदयनं समातिः ।

*याः प्रायणीयस्येत्यादि प्राग्गतं अध्यगीष्महि । सूज्यते चां-‘उदयनीयया–’

॥ तदेषाभि यज्ञगाथा गीयते ॥ तत् उक्तमर्थरूपम् । एषा वक्ष्यमाणा अभि प्रति । यज्ञगाथा यज्ञविषया गाथा । आत्मगपदक्रमिता(?) । गीयतेऽधीयतेऽध्यतृभिः ।।

॥ यदस्य पूर्वमपरं तदस्य यदस्यापरं तद्वस्य पूर्वम् । अहेरिव सर्पणं शाकलस्य न विजानन्ति यतरत् परस्तादिति ॥

अर्थस्तु-अस्याग्निष्टोमस्थ (यन्) पूर्व प्रायणीयाख्यकं तदेवास्यापर मुदयनीयाख्यम् । व्यत्यस्योक्तिरादरार्था । उ पुनः । उ खलु । अहे। सर्पस्य । सर्पणम् । इयर्थेऽम् , सर्पणे गमने ।

गतगाथा

T

PATH

१. ‘यः एष’ घ. क. पाठः.

  • page 73. + आ० श्री. सू० ६.१४-१, + शरीरमिव तथा शिरापुच्छविवेकहितं सर्पति तद्वत् ’ इति भइभास्करः

‘सर्पणं सर्पणशीलंपञ्चमः

सवृत्तिके ऐतरेयनाम सर्पः शाकलनामा तु वालं दृष्ट्वा दृढं मुखे । चक्रवन्मण्डलीभूतः सर्पन् हि (प)रिदृश्यते ॥ दुनिमुखपुच्छाममध्यो बलयसन्निभः । न विजानन्ति यतर परस्ताद्यच्च पुरस्तात् ॥

॥ यथा वास्य प्रायणमेवमुदयनम् ॥ उक्तं दूषयतीत्याह— ॥ असदिति तदाहुः । यत् त्रिवृत् प्रायणमेकविंशमुदयनं

केन ते समे इति ॥ यत् यदि ।

आदौ बहिष्पवमानचित्स्तोमोऽन्तिमस्तथा । एकविंशोऽग्निष्टोमाख्या कथ(मद्य ? माधन्त तुल्यता ॥

अत आहुः ++ + + + प्रोक्तमसदेव तत् ॥ परिहरति

॥ यो वा एकविंशस्त्रिवृद्वै सः ॥ एकविंशे द्वे नवके विद्यते तिष्ठतु त्रिकम् । अवयुत्य त्रिपुत्रोऽपि द्विपुत्रत्वं न मुञ्चति ।। नवकाख्यविदिति केचिदन्येऽन्यथोचिरे’।

१.

अन्यथोचिरे। त्रिकानि स्व विद्यन्ते । अतश्च’ क. पाठ:

  • सायणभभास्करौ तु असदित्यस्य पूर्ववाक्येनान्वयं कृत्वा यथावामिष्टोमस्थ प्रायणीयमेवमेवोदयनीयमप्यसत् स्यादिति व्याचक्षाते.

खण्ड

चतुदशोऽध्यायः ।

Por

AM

अतश्च त्रिदाधन्तयोगादायन्ततुल्यता ।। ॥ अथो यदुभौ तृचौ तृचिनाविति ब्रूयात् तेनेति ॥ अथो अपिच । उभौ बहिष्पवमानयज्ञायज्ञीयाख्यस्तोमौ । अर्शआधच । व्याचष्टे-वृचिनौ । तुल्यतेति ब्रूयादित्यर्थः ।

__ ऋतुरेषोऽपरिच्छिन्नो दुर्शनाद्यन्तको महान् । इति भावः ।।

पुनः स्तौति—

॥ यो वा एष तपत्येषोऽग्निष्टोम एष साह्नः॥ यः अनिष्टोमः स एषः । यस्तपति दीप्यते साह्नश्च सूर्यः तद्वत् पूज्यः । इषेः कर्मणि पञ् । श्रद्धेया । अहा सह वर्तते साहः । *अह्रादेशश्छान्दसः ॥

TRAFE

বনখ,

॥ तं सहैवाहा संस्थापयेयुः ॥ तममिष्टोमम् । ऋत्विजः ॥

॥ साह्रो वै नाम ॥ साहेति नाम चास्यास्ति यः श्रुतौ श्रूयते मुहुः ।।

  • ‘अहोऽह्न एतेभ्य इत्यहादेशः । वोपसर्जनस्येति सहस्य सभावः’, + ‘एष खल्वनिष्टोमः साह्रो भवति तस्मादहोऽतिक्रमं न सहते’ इति भट्टभास्करः. * तिन एवं साहस्योपसदः । (तै० सं०६-२-५) इत्यादी.

सवृत्तिके ऐतरेयब्राह्मणे ॥ तेनासंस्वरमाणाश्चरेयुर्यथैव प्रातस्सवन एवं माध्यंदिन .

एवं तृतीयसवने ॥ अन्यग्राः कुर्युः ॥

॥ एवमु ह यजमानोऽप्रमायुको भवति ॥ एवमुह एवञ्च । अप्रमायुको दुष्कीर्तिरहितः आयुष्मान् वा । ढयति–

॥ यद्धवा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्वरन्ति

तस्माद्धेदम् ॥ इवेति शेषः । असंत्वरमाणाः अव्ययाः चरन्ति यत् तस्माद् । (एतद्) अव्यग्रानुष्ठा(नम् ) इदमिव भवति ॥

किं तत्,

॥ प्राच्यो ग्रामता बहलाविष्टाः ॥ पाच्यो ग्रामता ग्रा(मसामहाः। ग्रामजन— इति तल् । बहुलाविष्टाः निविष्टाः । प्राच्या सह्यपर्वतात् प्राग्भूताः ॥

॥ अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेदम् ॥

इवेति शेषः । सन्त्वरमाणाः (अ) व्यग्राः ।।


किं तत् ,

॥ प्रत्यश्चि दीर्घारण्यानि भवन्ति ॥

  • ‘असंवरमाणा: पूर्वाभ्यां सवनाभ्यां चरन्ति । सत्वरमागास्तृतीयसबनेन ’ इति आप. श्री. सू० १२-२१.१२. 1 पा० सू० ४-१-४३.

-AM

साह

चतुर्दशोऽध्यायः ।

६०९ सह्यपर्वतात् प्रत्यश्चि प्रत्यग्देशवर्तीनि दीर्घारण्यानि महान्ति दुष्प्रवेश नानि वनानि ! एतद् व्यग्रानुष्ठानमिदमित्र स्यात् ।।

॥ तथा ह यजमानः प्रमायुको भवति ॥ निगमयति–

॥ तेनासंत्वरमाणाश्चरेयुर्यथैव प्रातस्सवन एवं माध्यंदिन एवं तृतीयसवन एवमु ह यजमानोऽप्रमायुको भवति ॥ एवं तृतीयसबने त्वरा त्याज्येति वर्णितम् ।।

॥ स एतमेव शस्त्रेणानु पर्यावर्तेत ॥ अनुपर्यावृत्तिरनुसारः । एतम् आदित्यम् । सः शस्त्रं शंसन् ॥ कवं, ॥ यदा वा एष प्रातरुदेत्यथ मन्द्रं तपति । तस्मान्मन्द्रया

वाचा प्रातस्सवने शंसेत् ॥

उदेति ऊर्च गच्छति । अथ तदा । तस्मात् । ड्यर्थे कसिः। एवमुत्तरत्रापि । तस्मिन् प्रानस्सबने शंसेत् ॥

॥ अथ यदाभ्येत्यथ बलीयस्तपति तस्माद्

बलीयस्या वाचा मध्यंदिने शंसेत् ॥ अभ्येव मध्यगमनम् । बलीयः दृढम् । बलीयसी म(ध्यम)स्वरवती च वाक् ॥

१. ‘दुष्प्रवेशानि’ प. इ. पाठः. २. ‘वर्णितम् । किश्च स एतमेव ’ क. पाठा,

सवृत्तिके ऐतरेयब्राह्मणे ॥ अथ यदाभितरामेत्यथ बलिष्ठतमं तपति तस्माद् बलिष्ठतमया वाचा तृतीयसवने शंसेत् ॥ बलिष्ठतम तीनम् । बलिष्ठतमोत्तमखरवती वाक् । सूत्र्यते हि “परं मन्द्रेण प्रातस्सवनं च’ ‘मध्यमवरेणेदं सवनम् ’ ‘उत्तमस्वरेण’ इति च ।

एवमादित्यगमनं शस्त्रिणानुस्मृतं भवेत् । इति भावः ॥ पुनः स्तौति

॥ एवं शंसद्यदि वाच ईशीत ॥ यदीच्छेद्वाच ईशः स्यामिति शंसेयथेरितम् ॥

॥ वाग्घि शस्त्रम् ॥ शस्त्र शस्य पूजनीयं वाग्मित्वं सर्वदा खलु ।

भट्टैषां लक्ष्मीनिहिताधिवाचीत्यध्यगीष्महि ।। किञ्च,

॥ यया तु वाचोत्तरोचरिण्योत्सहेत समापनाय

तया प्रतिपद्येत ॥

N

AM

  • आ० श्री० सू०५.१.३, ४, ५.१२-४, ५-१७-१. । यद्ययं होता वाच ईशितेश्वरी भवेत् वयवाकू स्यात् श्लेष्मादिदोषेण ध्वनेर्मान्धं न प्राप्नुयात् ’ इति सायणः. ‘यद्ययं वाचो विविधोच्चारणगुणस्य कृत्स्नस्य वाक्तत्वस्येशिता ईश्वरः स्यात् । यद्यस्य सर्वापि नानाविकल्पा बाग विधेया भवेदिति यावत् ’ इति भभास्करः, ऋक्सं० ४-२०२३-२,

खण्ड

चतुर्दशोऽध्यायः ।

आदौ मृदु ततस्तीचं व्यक्तं व्यक्तितरं ततः ।

ततो व्यक्ततमं चेति वाचैवं तु समीरयेत् ॥ समापनं सम्यक् प्राप्तिः ॥

॥ एतत् सुशस्ततममिव भवति ।। इव एव । एतदेतया वाचा शंसने सुशस्ततममेव ।।

नन्वस्त यन्नानुमृत उत्तरोत्तरवादिना ।

अस्तं यतोऽस्ति क्षीणत्वमत उत्तरमुच्यते -

॥ स वा एष न कदाचनास्तमेति नोदेति । तं यदस्त मेतीति मन्यन्तेऽह्न एव तदन्तमित्वाथात्मानं विपर्यस्यते । रात्रीमेवावस्तात् कुरुतेऽहः परस्तात् ॥

यत् यदा तत् तदा। " उपसर्गादस्यत्यूयोर्वा’ इति तछ । आत्मानम् । मन्यन्ते रात्रि पूर्वमहरुपरिष्टादिव । अहो दिनाईत्रिंशन्नाडिकाख्यस्य कालस्यान्ते समाप्तौ । (इ ? कि)चा(द)गुणः । इत्वा गत्वा ॥

॥ अथ यदेनं प्रातरुदेतीति मन्यन्ते रावेरेव तदन्त मित्वाथात्मानं विपर्यस्यतेऽहरेवावस्तात् कुरुते रात्रि परस्तात् ॥

अहः पूर्व रात्रिमुरिष्टात् ॥

॥स वा एष न कदाचन निम्रोचति ॥

निम्रोचनमस्तगमनम् ॥

  • पा० सू० वा० .३.२९.

संवृत्तिके ऐतरेयबाणे

NEPAL

भी

॥ न ह वै कदाचन निम्रोचत्येतस्य ह सायुज्यं सरूपता सलोकतामश्नुते य एवं वेद य एवं वेद ।

सूर्यो विराजति सदेत्यर्थमार्यभटोऽब्रवीत् —- " उदयो यो लङ्कायां सोऽस्तमयः सवितुरेव सिद्धपुरे ।

मध्याह्नो यवकोव्यां लोमविषयेऽर्धरात्रं स्याता॥” इति । अर्थस्तु–यदा पुरुषो दक्षिणस्यां दिशि लङ्कास्थ उदेतीति मन्यते तदैवोदीच्या सिद्धपुरसंज्ञके स्थितोऽस्तमेतीति, तदैव च प्राच्यां यवकोटि संज्ञपुरीस्थो मध्यंदिन इति, तदैव च प्रतीच्या लोभाराष्ट्रे स्थितोऽर्थ रात्रमिति ।

अतः सूर्यो महादीप्तिः सदैव खलु वर्तते । द्विरुक्तिरुक्ता ॥

षष्ठः खण्डः।

इति षड्गुरुशिष्यविरचितायां महिदासैतरेयब्राह्मणवृत्त

मुखप्रदायां चतुर्दशोऽध्यायः ॥

१. इति ब्राह्मणवृत्तौ सुखप्रदायो’ ध, अ. पाठ:.

  • गोलपादे श्लो. १३. + सिद्धपुर्यादिनगयवस्थानं च सूर्यसिद्धान्ते स्प प्रदर्शितम्। यथा–" समन्तान्मेकमध्यात् तु तुल्यभागेषु तोयधेः। द्वीपेषु दिक्षु पूर्वादि. नगर्यो देवनिर्मिताः ।। भूवृत्तपादे पूर्वस्या यवकोटीति विश्रुता । भद्राश्ववर्षे नगरी स्वर्णप्राकार तोरणा ॥ याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी । पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता ॥ उदक सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता । तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथा ॥ " इति भूगोलाध्याये श्लो. ३७०४०० + page 44.