११

अथैकादशोऽध्यायः । ॐ। वर्णितं दशमे त्वाज्यमय मउगमुच्यते

॥ ग्रहोक्थं वा एतद् यत् प्रउगम् ॥ उक्थं शस्त्रं कर्माण क्थन् वचेवै सम्प्रसारणम् ॥ कथं,

॥ नव प्रांतर्ग्रहा गृह्यन्ते ॥ ऐन्द्रयायवादयः॥

॥ नवभिर्बहिष्पवमाने स्तुवते॥ *उपास्मै दविद्युतत्या पवखेति तृचैखिभिः ।

निरभ्यासैः स्तुवन्त्याये पवमानेऽत्र सामगाः ॥

॥ स्तुते स्तोमे दशमं गृह्णाति ॥ अध्वर्युराश्विनम् । श्रूयते हि-‘आश्विनो दशमो गृह्यते । ते तृतीय जुह्वति’ इति ॥

॥ हिंकार इतरासां दशमः ॥ ऋचां नवानामुक्तानां हिङ्कारो दशमो मतः ॥

ततच,

॥ सो सा सम्मा ।।

  • उणादिसू० ३-७. पा० सू० ६.१.१५. * ऋक्सं० ६-७-३६-१. 8 ऋक्सं० ७-१-४१-३. | ऋक्सं० ७-२-४-१. ‘तस्माद् बहिष्पवमाने स्तुत आश्विनो गृह्यते’ इति तै० सं० ६-४-९. ५ ‘एतयैवाचयुः पात्राणि संमृश्याश्विन गृहाति’ इति आप श्री. स. १२-१८-१,

प्रथमः खण्डः

AP

Krator

सा । उ अपि । समस्य मकार उपजनः ।

या संख्या या ग्रहाणां सा च सा च समा भवेत् ।। अथ प्रउगऋचां स्तोनि-~~

॥ वायव्यं शंमति ॥ वायवायाहीनि तृचं अंमेद् वै वायुदैवतम् ।।

॥ तेन वायव्य उक्थवान् । तेन वायव्यतचेन।

ऐन्द्रवायवपूर्वीशो वायव्यग्रह उच्यते ।।

॥ ऐन्द्रवायवं शंमति ॥ ‘इन्द्रवायू इमे’ इति तृचम् ॥

॥ तेनैन्द्रवायव उक्थवान् ।। ऐन्द्रवायच इत्युक्तः परोंऽशस्त्वैन्द्रवायवे ।।

॥ मैत्रावरुणं शंसति ॥ “मित्रं हवे’ इति ॥

॥ तेन मैत्रावरुण उक्थवान् ।

आश्विनं शंसति ॥ अधिना यज्वरीरिपः ’ इति ।।

M

AIN

___ * ‘उकारोऽवधारणे । ये प्रतिपादिता समता सब सा तादृश्येव सा प्रहाणां स्तोत्रियाणां च समा सम् इति संख्यासाम्यम् इत्यर्थः । आतधोपसर्ग इत्यालयः । यद्वा एवमुजेन प्रकारेण सा ग्रहसंख्या सा च स्तोनियसंख्या समव’ इति भभास्करः, ‘उकारो निपातः समुच्चयार्थः सन् स्त्रीलिङ्गाभ्यां तच्छब्दाभ्यां संवध्यते । तथा सति सा च प्रहसंख्या सा च स्वोत्रिय संख्येत्युक्तं भवति’ इति सायणः । ऋक्सं० १-१-३-१. * ऋक्सं० १.१.३.४. ‘ऐबवायवग्रह उक्थवान् भवति । यत्र वायव इन्द्रवायुभ्यां चैन्द्रनायवो अहो गृह्यते स वायन्यश्च भवति ऐन्टवायवश्च भवति’ इति भभास्करः ऋक्सं० १.१०४२.३ ऋक्सं० १.१५.१.४१२

सलिके तरेय ब्राह्मणे

[प्रथमः

माजमा

॥ तेनाश्विन उक्थवान् । ऐन्द्रं शंसति ॥ * इन्द्रायाहि चित्रभानो’ इति ।।

॥ तेन शुक्रामन्थिना उक्थवन्तौ ॥ शुक्रश्च मन्थी चेति द्वौ शुक्रस्यात्वं निपातितम् ॥

॥ वैश्वदेवं शंसति ॥ “ओमासः’ इति ।।

॥ तेनाग्रयण उक्थवान् ।

सारस्वतं शंसति ॥ * पावका नः’ इति ॥ अत्र चोदयति

॥ न सारस्वतो ग्रहोऽस्ति ॥ तत्र सारस्वतचः कस्योक्थमिति गृह्यताम् । इति शेषः । परिहरति

॥ वाक् तु सरस्वती ॥ ततः किं,

॥ ये तु के च वाचा ग्रहा गृह्यन्ते तेऽस्य सर्वे शस्तोक्था

उक्थिनो भवन्ति य एवं वेद ॥ के च केचित् । अस्य अनेन सारखलचेन । अक्थिन इति व्याचष्टे सस्तोक्था इति । शस्तं कुतशंसनम् उक्थं शस्त्रं येषां ते । तस्य वेदितुः।

  • ऋक्सं० १-१-५-४ । ऋक्सं० १-१-६-१. s ‘उक्थिनो भवन्तीत्यादि विदुषः फलम् ’ इति भट्टभास्करः.

ऋक्सं० १-१-६-४,

खण्ड:]

THY

एकादशोऽध्यायः ।

फल ज्ञातृगत कर्तुदेण्डापूापकया भवत् । *वायुरग्रेगेति खेलसतानां तु पुरोरुचाम् ।। क्रमादेते तृवाः सप्त परस्तादिति गृह्यताम् सर्वेषु प्रउगेष्वेवं पुरोरुग्भ्यः परे तचाः ।।

प्रथमः खन्ना

FMms

पुनः स्तौति—

॥ अन्नाचं वा एतेनावरुन्धे यत् प्रउगम् ।। यदेतत् प्रउगं शस्त्रं तेनानायं समश्नुते ।।

आद्यं भोज्यं प्रधानत्वादन्नस्यात्र पृथग्ग्रहः ॥ उपपादयति

॥ अन्यान्या देवता प्रउगे शस्यते ॥ वाविन्द्रवायू च मित्रावरुणाचीन्द्रविश्वकाः ! सरखती भिन्नरूपा देवतात्र हि शस्यते ।।

॥ अन्यदन्यदुक्थं प्रउगे क्रियते ॥ उक्थं वाक्यं तच्च भिन्नं खिलाखिलविभेदतः । पुरोरुचो हि खैलिक्या स्वधीतं वृचसप्तकम् ॥

Tr

ततच,

1M

(

14

स्थाप्यतेऽन्नं बहुविषं बांदतुस्तु गृहेषु वै ॥

  • ‘वायुरने गा यज्ञप्रीरिति सप्तानां पुरोरुवा तस्यास्तस्या उपरिधात् तूच तचं शंसेत् । वायवाचाहिं दर्शनेति सास तृचाः’ इति आ. श्री. सू. ५-१०-४, ५,

सवृत्तिके ऐतरेयब्राह्मणे

द्वितीयः

.

पुनरपि स्तोति-~ ॥ एतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत् प्रउगम् ॥ *अध्यात्मतममतिशयेन स्वदेहत्वेन निर्मितमिव ।।

॥ तस्मादेनेनैतदुपेक्ष्यतममिवेत्याहुः ॥ एनेन यष्ट्रा । तस्मात् किश्चेत्यर्थः । उपेक्ष्यं श्रद्धया ज्ञेयम् । उप

सम्यक॥

॥ एतेन ह्येनं होता ‘संस्करोतीति ॥

एतेन प्रउगेण । एनं यष्टारम् । हि यस्मात् ॥

NA

॥ वायव्यं शंसति ॥ वायव्यादय उक्ताः प्राक् तृचाः सारखतान्तकाः ॥

॥ तस्मादाहुः ॥ तस्मात् तत्र, इयर्थे कसि ॥

॥ वायुः प्राणः ॥

  • ‘आत्मनि भवमध्यात्मम् ’ इति गोविन्दस्वामी. अन्येभ्यः शस्त्रेभ्योऽतिशयेना त्मनोऽन्तरङ्गमिव भवति । आत्मन्याधि अन्तरगतया स्थितमध्यात्मम् उपचारेण तत्रस्थे तच्छन्दः। तेनाव्ययीभावादप्यातिशायनिको भवति । इवशब्दोऽवधारणेऽपि वर्तत इत्युकम्’ इति भटभास्करः. ‘आत्मानं शरीरमधिकृत्य वर्तत इत्यध्यात्मम्’ इति सायणः, + ‘अपूर्वाश्रयविलक्षणदेहयोगित्वकरणं यजमानस्य संस्कारः’ इति भट्टभास्करः, ‘पूर्वत्राज्य शस्त्रस्य यजमानशरीरनिष्पत्तिहेतुत्वाभिधानात् तदप्यध्यात्मम् इदं तूत्पत्रस्य शरीरस्य संस्कारत्वादतिशयेनैवाध्यात्मम्’ इति सायणः.

खण्ड:

कथम् ।

॥ प्राणो रेतः ।।

॥ रेतः पुरुषस्य प्रथमं संभवतः सम्भवतीति ॥ सम्भवत उदरे जायमानस्य ॥

ततश्च,

॥ यद् वायव्यं शंसति प्राणमेवास्य तत् संस्करोति ।। अस्य यष्टुः । तत् तेन ॥

॥ ऐन्द्रवायवं शंसति । यत्र वाव प्राणस्तदपानः ॥ तत् तत्र ॥ ॥ यदैन्द्रवायवं शंसति प्राणापानावेवास्य तत् संस्करोति ॥

अस्य यष्टुः । तत् तेन ॥

॥ मैत्रावरुणं शंसति तस्मादाहुः ॥ पूर्ववत् ॥ कथं,

॥ चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यन्मैत्रा

वरुणं शंसति चक्षुरेवास्य तत्संस्करोति । आश्विनं शंसति । तस्मात् कुमारं जातं संवदन्त उप ॥

  • ‘प्राणापानयोरविनाभूतत्वादैन्द्रवायवेन तृचेन प्राण इवापानोऽपि यजमानसम्बन्धी संस्कृतो भवति’ इति भहभास्करः, ‘उच्छ्वासरूपः प्राणो यत्रास्ति , तत्र निःश्वासरूपो ऽपानोऽप्यस्ति । इन्द्रवायू च प्राणापानरूपौ । तस्मात् तेन सूक्तेन प्राणापानयोः संस्कारः’ इति सायणः. ‘चक्षुमैत्रावरुणः श्रोत्रमाश्विनः’ (तै० सं० ६.४.१) इति श्रुतेश्चक्षुरादिकारणत्वमेषाम् ।

पानोS

, इति भट्टभास्करः, वायवेन तृचेन प्राण इवापानी

T

सवृत्तिके ऐतरेयब्राह्मणे

द्वितीयः

तस्मात् किञ्च । जातं कुमारं सं सम्यक् उपवदन्ते । “भासनोप सम्भाषा-’ इति तङ् ।।

कर्य,

॥ वै शुश्रूषते नि वै ध्यायतीति ॥ श्रोतुमिच्छति । ज्ञाश्रुस्मृदृशां-’ इति तङ् । निध्यायति अवलोकयति । वैशब्दौ चाौँ ।

॥ यदाश्विनं शंसति श्रोत्रमेवास्य तत् संस्करोति ।

ऐन्द्रं शंसति । तस्मात् कुमारं जातं संवदन्ते । पूर्ववत् ॥ कथम्,

॥ प्रतिधारयति वै ग्रीवा अथो शिर इति ॥ अथो अपिच ।

ग्रीवा गळसिरास्ताश्च शिरश्चायं तु बालकः । वीर्ययोगाद्धारयतीत्येवमाहुः शिशु प्रति ॥

॥ यदैन्द्र शंसति वीर्यमेवास्य तत् संस्करोति । वैश्वदेवं शंसति । तस्मात् कुमारो जातः पश्चेव प्रचरति ॥

इव एव । पश्च पश्चात् ।

जातः पाण्यादिविक्षेपं पश्चादेव करोति हि ॥

T

  • पास सू० ३.३.४७.

पा. सू. १-३५७.

खण्ड:]

एकादशोऽध्यायः ।

कस्मादेवं,

a

SAR

PISTERIF

.

HI

॥ वैश्वदेवानि हाङ्गानि । विश्वेदेवप्रसादाद्धि सर्वाङ्गपरिपूर्णता ॥

॥ यद् वैश्वदेवं शंसत्यङ्गान्येवास्य तत् संस्करोति । सारस्वतं शंसति । तस्मात् कुमारं जातं जघन्या वागाविशति ।।

तस्मात् तथाहि ।

इवार्थे जघनाच्छाखादित्त्वाचे के जघन्यगी ! वाग्वै जघनवत् पश्चाद्भूता जातस्य जायते ।।

॥ वाग्धि सरस्वती ॥ नात्र वाच्यमस्ति ।

॥ यत् सारस्वतं शंसति वाचमेवास्य तत् संस्करोति ॥

स्तुत्वा विविच्यैवमयो सह सर्व प्रशंसति ॥ एष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः ॥

प्राचातुरुदराजातो वाय्वादिभ्यस्तु जायते ।

ऋतूतफलयोगाहेदेहसम्बन्धसंयुतः ॥

॥सर्वेभ्य उक्थेभ्यः ।। उक्यं शस्त्रम् । पूजायां बहुत्वम् । जातो जायत इत्येव ।।

॥ सर्वेभ्यश्छन्दोभ्यः॥ शस्त्रावयवगतेभ्यः ।।

1

पा

  • पा० सू०५-२-१३,

तितीयः

सवृत्तिके ऐतरेयब्राह्मणे

॥ सर्वेभ्यः प्रउगेभ्यः ।। प्रजगावयवसप्ततचेभ्यः ।

।। सर्वेभ्यः सवनेभ्यः ॥ प्रातस्सवनादिभ्यः । यजमानो जायते ।।

॥ य एवं वेद ॥

सोऽपि

॥ यस्य चैवं विदुष एतच्छंसन्ति । यदुर्ज्ञानेऽप्यत्विजः स्यादिदं फलमितीष्यताम् । प्रयोगापेक्षं बहुत्वम् ।।

द्वितीयः खण्डः

पुनरपि तदेव स्तौति–

॥ प्राणानां वा एतदुक्थं यत् प्रउगम् ॥

प्रउगाख्यमिदं शस्त्रं प्राणसंप्राप्तये भवेत् ।।

कथं,

सत देवताः शंसति

वास्वाद्या॥

ततः कि,

॥ सप्त वै शीर्षन् प्राणाः ॥ नेत्रे श्रोत्रे घ्राणविले वाक् माणाः सन मूर्धनि ॥

खण्ड:

44

IMAL

ARAN

॥ शीर्षन्नेव तत् प्राणान् दधाति ॥

तत् तत्र ।।

L

॥ किं स यजमानस्य पापभद्रमाद्रियेतेतिहमाह

योऽस्य होता स्यादिति ।। यदि तदा कुर्यादिति शेषः । अस्य यजमानस्य यो होता स्यात् स यदि पापमुपद्रवं भद्रमभ्युदयं वाद्रियेत श्रद्दध्यात् तदा स किं कुर्यादिति कश्चिञ्चोधमाह स्मेत्यर्थः ।।

परिहरति

॥ अत्रैवैनं यथा कामयेत तथा कुर्यात् ॥ अत्र प्रउगे । एनं यजमानम् । यथेच्छं कुर्यात् ।। स्पष्टयति-~ ॥ यं कामयेत प्राणेनैनं व्यर्धयानीति : वायव्यमस्य लुब्धं शंसेत् ॥

होता यमिच्छेत् प्राणेन हीनं कुर्यामिमं त्विति । तदास्य प्रउगे लुब्धं वायव्यं तचमीरयेत् ।। ‘लुभिय॒धिश्च नाशार्थों क्तः कर्मणि गिचच लोट् ।।

॥ ऋचं वा पदं वातीयात् तेनैव तल्लुब्धम् ॥ अत्ययोऽतिक्रमः । पदं पादप्रदर्शनत्वाद वा ।

"

  • पापं वा भद्रं वा कतै कथमाद्रियेत । हौने खल्वयं सर्वदा वर्तते । अतस्तद्विरोधि को किश्चिदपि कर्तुं नाहति । अतोऽसावस्य पापभद्रं कर्तुं कथमाद्रियेन । तरकारी खल्वृत्विम् भवति’ इति भट्टमास्करः + ‘अत्रैव जन्मनि ’ इति सायणः. + न्युद्धिर्वियोगा,

ब्ध व्यामूळे लुब्ध विमोह इत्यस्मादेतद् रूपम्’ इति गोविन्दस्वामी. ‘लभ विमोहन इति धातुः’ इति सायणः

मवृत्तिके ऐतरेयब्राह्मणे

[तृतीयः

॥ प्राणेनैवैनं तद् व्यर्धयति ॥ तत् तत्र ।।

॥ यं कामयेत प्राणापानाभ्यामेनं व्यर्धयानीति ॥ यं यष्टारम् ॥

॥ ऐन्द्रवायवमस्य लुब्धं शंसेत् ॥ तृचम् ।। ॥ ऋचं वा पदं वातीयात् तेनैव तल्लुब्धम् । प्राणा

पानाभ्यामेवैनं तद् व्यर्धयति । यं कामयेत चक्षुषेनं व्यर्धयानीति। मैत्रावरुणमस्थ लुब्धं शंसेत् ॥

वचम् ॥

॥ ऋचं वा पदं वातीयात् तेनैव तल्लुब्धम् । चक्षुषैवैनं तद् व्यर्धयति ।

यं कामयेत श्रोत्रेणैनं व्यर्धयानीति ॥ णिचो लोटो ‘मेनिः’ ।।

॥ आश्विनमस्य लुब्धं शंसेत् ॥

होता॥

॥ ऋचं वा पदं वातीयात् तेनैव तल्लुब्धम् । श्रोत्रेणैवैनं तद् व्यर्धयति ।

यं कामयेत वीर्येणैनं व्यर्घयानीति । ऐन्द्रमस्य लुब्ध

पा. सू० ३-४-८९.

खण्ड:

एकादशोऽध्यायः ।

४११

ATTA

शंसेत् । ऋचं वा पदं वातीयात् तेनैव तल्लुब्धम् । वीर्येणैवैनं तद् व्यर्धयति ॥ वीर्य बलम् ॥

॥ यं कामयेताङ्गैरेनं व्यर्धयानीति ॥ अझै पाण्यादिभिः॥

॥ वैश्वदेवमस्य लुब्धं शंसेत् । ऋचं वा पदं वातीयात् तेनैव तल्लुब्धम् । अङ्गैरेवैनं तद् व्यर्धयति ।

__यं कामयेत वाचैनं व्यर्धयानीति । सारस्वतमस्य लुब्धं शंसेत् । ऋचं वा पदं वातीयात् तेनैव तल्लुब्धम् । वाचैवैनं तद् व्यर्धयति ॥

इत्थं पापादरे प्रोक्तं भद्रेच्छायां ब्रवीत्यथ

॥ यमु कामयेत सर्वैरेनमः सर्वेणात्मना समर्धयानीति । एतदेवास्य यथापूर्वमृजुकृतं शंसेत् ॥

एव तदा । उ पुनः । अझैः पाण्यादिभिः । आत्मना देहेन । समर्धयानि पूर्ण करवाणि । एतत् प्रउगम् । ‘ऋजु सुष्टु । क्लसं व्यवस्थितम् । यथा पूर्वमवोचाम ॥

॥ सर्वैरेवैनं तदङ्गैः सर्वेणात्मना समर्धयति ॥ एवं कुर्वनिति शेषः ।

॥ सर्वैरङ्गैः सर्वेणात्मना समृध्यते य एवं वेद ॥

वेदिता स च नोति तिपस्त नः श्यनत्र वै ।।

.

तृतीयः खण्डः।

  • यथापूर्व यथाकमम् ऋजु अजसानतिक्रमेण क्लसं यथाकल्पनं यथोत्पत्ति यहा, क्याप्तम् अविकल्पम् ’ इति भभास्कर.१२२

सवृत्तिके ऐतरेयबामणे

Aamir

Irangempire

..

चोधखरूपमाह—

॥ यथा वाव स्तोत्रमेवं शस्त्रम् ॥ ततः किम्,

॥ आग्नेयीषु सामगाः स्तुवते वायव्यया होता प्रतिपद्यते । कथमभ्याग्नथ्योऽनुशस्ता भवन्तीति ॥

सारखतान्तसम्तानां वायव्येति प्रदर्शनम् । इहाग्नेय्यः सामगानामा आयाहि वीतये ॥

कथमानेय्योऽनुशस्ता वायव्यायास्तु शंसता । शंसनाथः प्रतिपदिः । टार्थे हे ॥ परिहरति–

… ॥ अग्नेर्वा एताः सर्वास्तन्वो यदेता देवताः ॥ यत् याः । एता वायव्याद्याः । तन्वा शरीराणि ॥

कथं, ॥ म यदग्निः प्रवानिव दहति । तदस्य वायव्यं रूपम् ॥ ‘प्रवान् प्रकर्षेण गच्छन् । इव एव । रूपं सादृश्यम् । इदमर्थे वायो येत् । दहतीति यत् ॥

॥ तदस्य तेनानुशंसति ॥ अस्य अग्नेः तद्रूपम् । तेन तृचेन । एवमुत्तरत्रापि ॥

  • ऋक्सं० ४-५-२२-५, आग्नेय्यः अन्न आयाहीत्याद्याः अग्निं दूतमित्याचा वा’ इति गोविन्दस्वामी. + प्रकर्षवानेव सन्नधिकज्वालतया दहत्यनिरिति यदति तत प्रकर्षात्मक वायुसम्बन्धि रूपं वायुना ज्वालाधिक्योदयाद्’ इति सायणः. * पा. सू. ४-२-३१. ‘तेन वायुना’ इति गोविन्दस्वामी. वायुरूपेण’ इति सावण

.

खण्ड:

एकादशोऽध्यायः ।

पर

॥ अथ यद् द्वैधमिव कृत्वा दहति द्वौ वा इन्द्रवायू ॥ * वियोश्च धमुन्’ ॥

॥ तदस्यैन्द्रवायवं रूपम् ।। पूर्ववत् ॥

। तदस्य तेनानुशंसति ।। कुर्वन् द्वेधा दाह्यमनिरिन्द्रवायूपमा मतः ॥ ॥ अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपम् ॥

हृषिदिवादिर्गत्यर्थो मित्र ऊदति हि । निन्नगामी च वरुणस्ततोऽग्निरनयोः समः ॥

अधश्चोर्ध्वं च काष्टादि मंदहन विक्षिपत्ययम् ।।

॥ तदस्य तेनानुशंसति ।। ॥ स यदग्नि!रसंस्पर्शस्तदस्य वारुणं रूपम् ।।

FRI

तत्र च,

तं यद् घोरसंस्पर्श सन्तं मित्रकृत्येवोपासते तदस्य

मैत्रं रूपम् ॥ मित्रीकरणं मित्रकृतिः।

  • पा० सू० ५-३-४५, । ‘वैधं कृत्वाज्ञया रूपेण द्वेधा भूत्वा दहति’ इति गोविन्दस्वामी. ज्वालाद्वयमिव कृत्वा’ इति सायणः । यस्मादयमनिहारम्भ दाहसंयोगादुद्रष्यति जर्वज्वालो भवति । अथ भस्मीकृतदाह्यो निहस्थति निभृतज्वालो भवति इति भदभास्करः.

रेयब्राह्मण

चतुर्थः

शीतार्ता जुह्वतश्चाग्निं प्रविसारितपाणयः सख्यसम्पादन इव सेवन्तेऽतोऽस्य मित्रता ।।

॥ तदस्य तेनानुशंसति । अथ यदनं द्वाभ्यां बाहुभ्यां द्वाभ्यामरणीभ्यां मन्थन्ति

द्वौ वा अश्विनौ तदस्याश्चिनं रूपम् ॥ द्वित्वं बाह्वोररण्योश्च नेनाग्नेरश्चितुल्यता !!

॥ तदस्य तेनानुशंसति । अथ यदुच्चै?षः स्तनयन् बबबाकुर्वन्निव दहति

यस्माद् भूतानि विजन्ते तदस्यैन्द्र रूपम् ॥ उच्चै!षो महाशब्दः स्तनयनशनिध्वनिम् । कुर्वच बबबाकुर्वन् बबबेति बानुक्रिया ॥ तुदादिरनुदात्तेच्च विजिरर्थोत्र बिभ्यति । भूतानि भीति असिरित्यग्नेरिन्द्रतुल्यता ॥

॥ तदस्य तेनानुशंसति । अथ प्रदेनमेकं सन्तं बहुधा विहरन्ति तदस्य वैश्वदेवं रूपम् ॥

एकमौपासनं गायें बहून् श्रौता हि कुर्वते ॥

पा० सु. १-४-३५. + ‘एकं सन्तं बहुधा नानादेशेषु पाकायर्थ विहरन्ति’ इति गोविन्दस्वामी. अनेराहवनीयादिस्थानेष्वामीघ्रादिधिष्ण्येषु च बहुधा विहरणं यदस्ति’ इति सायणः.

खण्ड

एकादशोऽध्यायः ।

AL

॥ तदस्य तेनानुशंसति ॥ अथ यत् स्फूर्जयन् वाचमिव वदन् दहति तदस्य

सारस्वतं रूपम् ॥ ‘स्फूर्जयनशनिवन्महाध्वनि कुर्वन् वाचं भाषमाण इव ॥

॥ तदस्य तेनानुशंसति । एवमु हास्य वायव्ययैव प्रतिपद्यमानस्य तृचेन तृचेनैवैताभिर्देवताभिः स्तोत्रियोऽनुशस्तो भवति ॥ उक्तार्थम् ॥

इति शस्त्रं समापय्य शस्त्रयाज्यां ब्रवीति ह

॥ विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना । पिबा मित्रस्य धामभिरिति वैश्वदेवमुक्थं शस्त्वा वैश्वदेव्या यजति ॥

प्रउगें वैश्वदेवोक्तिवादिबहुयोगतः। वैश्वदेव्या गुणभूतविश्वदेववायुमिनेन्द्रकाग्निदेवत्यया ।।

॥ यथाभागं तद् देवताः प्रीणाति ॥ पीणाति तर्पयति तद् यथाभाग यथांशकम् ॥

चतुर्थः खण्डः ।

  • ‘स्फूर्जयन इसन्’ इति गोविन्दस्वामी. ‘स्फूर्जयन् दाह्यं वस्तु निधिषन् ’ इति भहभास्करः. ‘स्फूर्जयति ईषद्विच्छिश्च विलक्षणोच्चारणमिव शब्दं करोति’ इति सायणः. + page 383. * ऋक्सं० १-१-२७.४, ‘विश्वेभिः सोम्यं मध्विति याज्या’ इति आ. श्री सू. ५-१०-१०,

54

१२६

[पञ्चमः

सवृत्तिके ऐतरेयब्राह्मणे शस्त्रयाज्याप्रसङ्गेन वषट्कारं ब्रवीत्यथ

॥ देवपात्रं वा एतद् यद् वषट्कारः ॥ यत् यः।

पिवतेः ष्ट्रस्तु* करणे पात्रं पानस्य साधनम् ॥

FAS

ततश्च

.

.

.

॥ वषट्करोति ॥ वषदकारं कुर्यात् ।।

॥ देवपात्रेणैव तद् देवतास्तर्पयति ॥ हवि गिनीः । तत् तत्र ॥

कि

शादीवान

॥ अनुवषट्करोति ।। * सोमस्थाने वीहीत्यनुवषदकारः’ इति हि सूत्र्यते ।।

अनुवषट्कारं स्तौति

• ॥ तद् यथादोऽश्वान् वा गा वा पुनरभ्याकारं तर्पयन्त्येव मेवैतद् देवताः पुनरभ्याकारं तर्पयन्ति यदनुवषट्करोति ॥ . तदिति वाक्योपन्यासे । अद इति वक्ष्यमाणपरामर्शः ।

अभ्याङ्क पूर्णभक्षार्थस्तस्मात् क्वार्थे णमुल् कृतः । घासमुद्रादिकं भक्ष्यं पुनः प्रापय्य रक्षिणः ।।

..

NNN

FFE

. * उणादिसू० ४-१६०. आ. श्री. सू० ५-५-१९, * ‘अद इति सर्वनान्ना लोकप्रसिद्धि नशेयति इति मभास्कर:. अदः किञ्चिदिदं निदर्शनमस्ति’ हलि सायमः

अश्वान् गोरक्षिणो गाव तर्पयन्ति नया विदम् । एतदेतास्तर्पयन्ति यो कुर्वन्ति झेस्तु तिम् ॥ ॥ इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यानथ कस्मात्

पूर्वस्मिन्नेव जुह्वति पूर्वस्मिन् वषट्कुर्वन्तीति ।। इमान् विष्ण्यानेवाग्नीन् सदस्युपासते। के। ये वषट्कुर्वन्ति । अथ तथा सति। कस्मात् पूर्वस्मिन्नुत्तरवेद्याग्नेय्येऽग्नौ जुबत्यध्वर्यव इति चोयम् ।।

परिहरति

॥ यदेव सोमस्यामे वीहीत्यनुवषट्करोति तेन

धिष्ण्यान प्रीणाति ॥ अनुवषट्कारेण धिष्ण्याग्निप्रीतिरित्यर्थः ।। अथ तन्त्रेण चोद्यद्वयमाह

॥ असंस्थितान् सोमान् भक्षयन्तीत्याहुर्येषां नानुवषट्करोति को नु सोमस्य स्विष्टकृद्राग इति ।। “ऋतुयाजान् द्विदेवत्यान्’ इत्लादियज्ञगाथादर्शनाद् येषामृतुयाद्वि देवत्यपानीवतादित्यग्रहसावित्रग्रहाणां नानुवषट्करोनि होलादिः, तानसंस्थितानसमासान् किपिति भक्षयन्तीत्येकं चोयम् । सोमस्प खिष्टकृतो भागोंऽशः को न्वित्यपरम् ॥

mar

Sm

.

eNy

F

4

.

  • ‘चोद्यस्वरूपप्रदर्शनार्थो द्वितीय इतिकरणः। चाबहेतुप्रदर्शनार्थः प्रथम इतिकरणः इति भभास्कर. आ. श्री. सू० ५.५-२१.

१२८ सवृत्तिके ऐतरेय ब्राह्मणे षष्ठः

इति चोधद्वयं तन्त्रेण परिहरति

॥ यहाव सोमस्याग्ने बोहीत्यनुवषट्करोति तेनैव संस्थितान् सोमान् भक्षयन्ति स उ एव सोमस्य स्विष्टकृद्भागः ॥

सोमस्येत्यविशेषोक्ते सर्वसोमार्थताभवत् । इत्येकः परिहारः । स उ खलु एव अनुवषट्कारः सोमस्य स्विष्टकृदंश इत्यपरः । पूर्व चाध्यगीष्महि—* ’ स यदनुवषदकरोत्यग्नेरेव विष्टकृतोऽनन्तरित्यै ’ इति ॥

AmA

I

RINPTE

ततच,

॥ वषट्करोति ॥ अन्विति शेषः । अनुवषटकारं कुर्यात् ।।

पञ्चमः खण्डः।

अथ वषदकार स्तौति

॥ वज्रो वा एष यद् वषट्कारः॥ यत् यः। वजा वज्रवद् विजयकृत् ।।

ततथ।

॥ यं द्विष्यात् तं ध्यायेद् वषट्करिष्यन् ॥ स्मरेच्छवं नामरूपगोत्रवर्णादिसंयुतम् ।।

page 139.

खण्ड:

एकादशोऽध्यायः

कृते च ध्याने,

॥ तस्मिन्नेव तं वज्रमास्थापयति ॥ बाधकत्वेन तहेहे वषट्वनं प्रवेशयेत् ॥

॥ षळिति वषट्करोति ॥ पनितिरूपं वषट्कारं कुर्यात् ॥ व्याचष्टे

॥षडू वा ऋतवः॥

AR

एवञ्च,

॥ ऋतूनेव तत् कल्पयति ॥ तत् तत्र । सम्पत्तिः क्लृप्तिः ॥ किञ्च,

॥ ऋतून प्रतिष्ठापयति ॥ सुस्थिरान करोति ।।

एकच,

॥ ऋतून वै प्रतितिष्ठत इदं सर्वमनु प्रतितिष्ठति

यदिदं किञ्च ॥ इदं सर्वमिति व्याचष्टे – यदिदं किश्चेति ! लक्षणेऽनुः कर्मप्रवचनीया इति । प्रतितिष्ठत इति शतुः शस् ।

  • ‘कल्पनमविपर्यस्तधर्मत्वम् ’ इति भभास्करः । पा. सू० १-४-८४.

प्रकृतिक ऐसा यात्राह्मण

ऋतुप्रतिष्ठा जगतः प्रतिष्ठाय तु कल्पते ।।

॥ प्रतितिष्ठति य एवं वेद ॥

THPUR

A

THE

.

पळित्यक वषदकारमन्यथा स्तौति रोचयन्

॥ तदुह स्माह हिरण्यदन् बैदः ॥ स्वाभ्यासतप्तग्वेदेन यस्य दन्ता हिरण्मयाः ।

निर्मिताः शीर्णदन्तस्य स वै प्रोक्तो हिरण्यदन् । इत्यैतिहासिकाः । तत् तत्र । उ खलु । आह स्म ।। कथम,

॥ एतानि वा एतेन षट् प्रतिष्ठापयति । एतानि वक्ष्यमाणानि । एतेन पनिति वषट्कारेण ॥ कथं

॥ द्यौरन्तरिक्षे प्रतिष्ठिता । अन्तरिक्षं पृथिव्याम् ॥ प्रतिष्ठितमिति गम्यते ।

॥ पृथिव्यप्सु ॥ . ’ प्रतिष्ठिता।

॥ आपः सत्ये ॥ प्रतिष्ठिताः । “तत्तानं सदिति माणः’ इति श्रुतेरात्मात्र सत्यम् ।।

॥ सत्यं ब्रह्मणि ॥ ब्रह्म वेदः ।।

in

hindimammies

. ऐ. आ. २-१-५. + ‘आपश्च सत्ये समाश्रिताः । जनेषु सत्सवादिषु सत्सु यथाकालं बुष्टिसंभवातू ’ इति सायणः

.

.

॥ ब्रह्म तपसि ॥ ‘तपः परमं ज्योतिः । ऋतं च सत्यं चाभीद्धात् तपसः’ इति यथा । प्रतिष्ठितम् ॥

॥ इत्येता एव तत्प्रतिष्ठाः । प्रतितिष्ठन्तीरिदं सर्व

मनु प्रतितिष्ठति यदिदं किश्च ॥ तत् तत्र ।।

प्रतितिष्ठति य एवं वेद ॥ सः॥

इति वेदमतेनापि मन्त्रः पर्जित संस्तुतः ।। अथान्यमाह

। बौषळिति वषट्करोति ॥ सभ्यते हि- वौनिति वषट्कारः’ इति ॥ व्याचक्षाणः स्तौति

॥ असौ वाव वौ॥ अत्र वौ इति शब्देन सूर्योऽसौ कथ्यते कथम् । वो डिश्चि सोरर्थे सदा खे गतिमान् रविः ।। निखण्टौ पठ्यते चैवं ‘विः पक्षिपरमात्मनोः ॥

"

  • ‘तपसि वषट्कारमन्दानुष्ठानरूप ’ इति सायण:. ‘पस्मिस्तेजसि ईश्वरशरीरे’ इति भट्टभास्कर:. + ऋक्सं० ८-८-४८-१. * ‘अत्र यद्यप्यन्तरिक्षादीनामेव प्रतिष्ठात्वं ब्राह्मणेनोच्यते, तथापि गुलोकस्यापि देवानां प्रतिष्ठात्वात् प्रतिष्ठेति युप्रभृतयः षड्डुच्यन्ते । तप्रसस्तु सप्तमस्य सत्यस्य सर्वप्रतिष्ठात्वे तम्य होत्रा कचिदप्रतिष्ठापनीयत्वात् तद्यतिरेकेण षड् गृह्यन्ते ’ इति भभास्कर: 5 मा. श्री. सू० १-५-१५. ‘उणादिसू० ४-५. (Madras University edition) इदं च कातत्राणादिपाठानुसारेण, वौशब्दो निपातस्वाद वा गतिप्रजनेत्यादिधातुजवाद्वा गमनस्वभावमादित्यमभिधत्ते’ इति सायणा

वैजयन्यां शेषकाण्डे पुलिलाध्याये श्लो० ६०,सवृत्तिके ऐतरेयब्राह्मणे

षष्ठः

ततच,

॥ ऋतवः षट् ॥ षट्पदेनर्तवश्वोक्ताः सुपः स्थाने जसोऽत्र लुक् ।। ऋतुपदके विरादित्यः स्थित इत्यर्थ इष्यताम् ।।

॥ एतमेव तहतुष्वादधाति ॥ तत् तेन वौषदशब्देन स्थापयतुषु त्वमुम् ।। स्पश्यति

॥ ऋतुषु प्रतिष्ठापयति ॥ ऋतुषट्के स्थापयति’ सूर्य किं स्यात् तदुच्यते ॥ यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वन्ति ॥

इव एव ।

ऋतुषु स्थापयन् सूर्य स्वयं चैव स्थिरो भवेत् । यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥

षष्ठः खण्डः ।

१. स्थापयतः’ क.ख. पाठ

  • ‘वौषडितीत्यादिना वौषडिति वषट्कारान्तरं विदधाति । अत्र पक्षे वौ षडिति वे पदे वक्ति । तत्र पूर्वस्वार्थमाह–असौ वाय बाविति असौ खल्वादित्यो वौ इति पदेन सप्तम्यन्तेनोच्यते । तेरौणादिके डिप्रत्यये विरिति आकाशगामी आदित्य उच्यते । तत्र षड्तव उत्पद्यन्तामनेन यागेन इति समुदायार्थः । अस्यार्थस्य द्योतकः पदसमुदायात्मा निपातोऽयं द्रष्टव्यः । आदित्य हि षड्तव उत्पद्यन्ते आदित्यगत्यधीनात्मलाभवातूनाम् । यद्वा वौ आदिले जगतां धारयितरि षड्तव. सहायत्वेन वर्तन्ताम्’, ‘एतमेव तदित्यादि । ननु विप्रतिषिद्धमिदं ब्राह्मणम् । आदित्य ऋतूनां स्थापन मन्त्रेण प्रतिपाद्यते । आदित्यमेव ऋतुष्वा दधाति इति ब्राह्मणेन कथमुच्यते । अयमभिप्रायः-नानेन वषट्शब्दस्यार्थोऽभिधीयते । अपितु ईदृशस्य यागस्य फलमनेन ख्याप्यते इति व्याचष्टे । यस्मादादित्यस्योपकाराय तस्मिन् ऋतवः प्रतिष्ठाप्यन्ते तस्मात् प्रत्युपकारार्थमृतुष्वादियं प्रतिष्ठापयति । न केवलमृतूनामादिले स्थापनमेवानेन क्रियते, अपित्वादित्यस्याप्यतुष्वास्थापनमनेन वौषट्शब्देन प्रतिपाद्यते प्रत्युपकारपयन्तत्वान्महत्सृपकारस्य । ….एतदेव स्पष्टयति यादृगिव वा इत्यादि इति मध्मास्कर,

५ कादशोऽध्यायः

वषट्कारं स्तौति तत्र विवास्तिवः प्रदर्शयन्—

॥ त्रयो वै वषट्काराः ॥ *त्रयस्त्रिविधाः ॥

कथं ,

॥ वज्रो धामच्छद् रिक्तः ॥ विविच्याह

॥ स यमेवोच्चैर्बलि वषट् करोति स वज्रः ॥ स होत्रादिः । बलि बलवत्, अनिस्फुटङ् । यं वषट् वपद्कार करोति प्रयुङ्क्ते स वजः॥

ततच,

॥ तं तं प्रहरति द्विषते भ्रातृव्याय वधम् ।

योऽस्य स्तुत्यस्तस्मै स्ततवै ॥ उक्तार्थम् ।।

॥ तस्मात् म भ्रातृव्यवता वषट्कृत्यः ॥ भविभाषा कृषोः क्यप् तुक् कार्यः शत्रुमता स च ।। ॥ अथ यः समः संततोऽनिर्हाणर्चः स धामच्छत् ॥ समा याज्यया तुल्यध्वनिः । संततः मध्य उच्छवासरहितः । व्याचष्टे–अनिहोणः । निहोणं विश्लेषः । ऋक्पू.—’ इत्यकार: समासान्तः । ऋचा विश्लेषरहितः ॥

  • प्रकारत्रित्वं वषट्कार उपचर्यते त्रिप्रकारो वषट्कारोऽयं भवतीति । वषट्शब्दश्व वौषडादीनामुपलक्षणम् । वषटकारसाधनः शब्द इत्यर्थः’ इति भट्टभास्करः. pages 202 & 203. * पा० सू० ३-१-१२०. पा. सू. ५-४-५४. नितरां हान निहींणम् । यस्थ वषटकारस्य ऋग हीना न भवति सोऽनिहोणर्चः’ इति गोविन्दस्वामी,

1

सवृत्तिके ऐतरेयब्राह्मणे

सितमः

सप्तमः ॥ तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते ॥ तं वषट्कारम् । तं धामच्छत्संज्ञम् । अनु संलक्षीकृत्य । प्रजाः पक्षवयोपतिष्ठन्ते ।

*धामच्छत्वं श्रिया धाम गृहं छादयतीति ह ।। ॥ तस्मात् स प्रजाकामेन पशुकामेन वषट्कृत्यः ॥ चेति शेषः ॥

॥ अथ येनैव षळवरानोति स रिक्तः ॥ घण्मन्द्रमध्यमोत्तमद्भुतलम्बितमध्यमान् । ध्वनेर्विभागान् विच्छिन्धाद् येन व्याहरणेन वै ॥

स रिक्ताख्यो वषट्कारोऽवराधिश्छेदवाचकः ॥ सच,

॥ रिणक्त्यात्मानं रिणक्ति यजमानम् ॥ रिची रुधादिः॥

व्याचष्टे– ॥ पापीयान् वषट्कर्ता भवति पापीयान् यस्मै वषट्करोति ॥

  • धाम यक्षस्थानं तत्र यथा रक्षांसि न प्रविशन्ति तथा छादयति स धामच्छ’ इति सायणः । तथाच ऋक्प्रातिशाख्ये-‘त्रीणि मन्द्रं मध्यममुत्तमं च स्थानान्याहुः सप्त यमानि वाचः’, ‘तिस्रो धृत्तीरुपदिशन्ति वाचो विलम्बितां मध्यमां च द्रुतां च’ इति १३-४२ & ४६, (Benares Edition). ‘येन वषट्कारेण षडपि शब्दधर्मान् शिक्षाशास्त्रप्रसिद्धान् वर्णस्वरमात्राबलसामसन्तानाख्यान अवरानोति व्यर्षयति अवहीनान् करोति स वषट्कारो रितो नाम ’ इति भहभास्करः. ‘षट्शब्दो वषट्कारमभि थत्ते येनैवोच्चारणेन बडवरानोति वषट्कारोऽवराध समृद्धथभावं प्राप्नोति । नीचोचारणेन वषट्कारस्य समृद्धधभाव ’ इति सायणः. ‘पडिति वषट्कारमन्त्रः तस्य अवराधः ऋक्स्वरानीचश्चारणम् ’ इति गोविन्दस्वामी.

खण्ड:

एकादशोऽध्यायः ।

‘पापीयान् निश्रीकः ॥

॥ तस्मात् तस्याशां नेयात् ॥ इच्छानिषेधे निषिद्धा दण्डापूपिकया क्रिया ॥

॥ किं स यजमानस्य पापभद्रमाद्रियेतेतिहस्माह योऽस्य होता स्यादिति । अत्रैवैनं यथा कामयेत तथा कुर्यात् ॥

उक्तार्थम् ॥ ॥ यं कामयेत यथैवानीजानोऽभूत् तथैवेजानः स्यादिति ॥ ईजानः इष्टवान् । तत्र,

॥ यथैवास्य ऋचं ब्रूयात् तथैवास्य वषट्कुर्यात् ॥ * ऋत्यका’ । अस्य यजमानस्य ।।

॥ सदृशमेवैनं तत् करोति ॥ तत् तेनानीजानेन । एनमीजानम् ॥ तथा,

॥ यं कामयेत पापीयान् स्यादिति ॥

MAN

.

तत्र,

Myrm

॥ उच्चैस्तरामस्य ऋचमुक्ता शनैस्तरां वषट्कुर्यात् ।

___ पापीयांसमेवैनं तत् करोति ॥ तत् तत्र ।।

  • ‘अत्यन्तनरकसाधनपापेन युक्तः इति सायणा. + page 419.4 पासू. 1-१-१९८.

सवृत्तिके ऐतरेयब्राह्मणे

[सप्तमः

[सप्तमः

तथा,

॥ यं कामयेत श्रेयान स्यादिति ॥ श्रेयान प्रशस्यतरः ।।

तदा,

॥ शनैस्तरामस्य ऋचमुक्तोच्चैस्तरां वषट्कुर्यात् ॥

TAMI

RE

A

14

॥श्रिय एव ॥

स्यात् । तादर्थे के । इयङ् । एव पुनः ।। स्पष्टयति

॥ एनं तच्छ्रियामादधाति ॥ तत् तत्र । श्रिया समृद्धौ ।।

ततच,

॥ संततमृचा वषट्कृत्यम् ।। भावे तः संतनं इस्लुग वषद तुक् कृषोः क्यपि ।

वषट्कारस्य कर्तव्यं संश्लेषणमृचा सह ।। किमर्थ,

॥ संतत्यै ॥

प्रजातिसमृद्ध्यर्थम् ।।

*, मा० सू० ३-१-१२०.

खण्ड:

एकाइयो :: .

॥ संधीयते प्रजया पशुभिर्य एवं वेद ॥ सः । संघीयते सम्बध्यते ।

त्रिषु धापच्छदेवेह सम्यक कर्तव्य ईरितः । अत एव हि मूज्यते– * उस्तरां बलीयान याज्यायाः’ इति ॥

सप्तमः खण्डः

अथ सम्यग् वषट्कर्तुर्देवताध्यानमुच्यने ॥ यस्यै देवतायै हविगृहीतं स्यात् तां ध्यायेद् वषट्करिष्यन् ।

. (पुरा देवै ? )वेदितव्यं रूपवर्णायुधादिकम् ।

देवतानां नामपत्रीपुत्रभृत्यादिकं तथा ॥ ध्यायंश्च,

॥ साक्षादेव तद् देवतां प्रीणाति ॥ तत् ताम् । साभादव्यवधानेन ।

स्पष्टयति—

॥ प्रत्यक्षाद् देवतां यजति ॥ टार्थे कसिः, प्रत्यक्षेणा । यजति सम्यक् प्रीणाति ॥

अथ वषट्कारानुमन्त्रणं विधातुमाह …

॥ वज्रो वै वषट्कारः ॥

  • आ० श्री. स. १५.६. + ‘यागकाले प्रत्यक्षेण पश्यतीत्यर्थः । ननु देवता चक्षुषा न दृश्यते । कथमस्याः प्रत्यक्षलमिति चेत्, नायं दोषः । मानसप्रत्यक्षस्य विवक्षितत्वात् । यथा पुरोवर्तिनी देवता चक्षुषा दृश्यते तथैव चिन्त्यमानापि मनसा दृश्यत

एव’ इति सायणः.

सवृत्तिके ऐतरेयब्राह्मणे

[अष्टमः

[अष्टमः

ततः किं,

॥ स एष प्रहृतोऽशान्तो दीदाय ॥ प्रहृतः, हन् शब्दनार्थः, प्रयुक्तः । अशान्तः कुपितः दीदाय ।

दीदीतिधातुर्दीप्त्यर्थो ल(त? ति)णल् दीप्यते भृशम् ॥ ॥ तस्य हैतस्य न सर्व इव शान्ति वेद न प्रतिष्ठाम् ॥ तस्य वषट्कारस्य । शान्ति शमनं प्रतिष्ठा सुखस्थितिं च । सर्वो न जानाति । इव एव ॥

॥ तस्माद्धाप्येतर्हि भूयानिव मृत्युः ॥ तस्माद्ध तथाहि । एतयस्मिन्नपि काले । सि वषट्कारः भूयान् बहुत मृत्युरिव मरणहेतुः ।।

॥ तस्य हैषैव शान्तिरेषा प्रतिष्ठा ॥ चेति शेषः । एषा वक्ष्यमाणा ॥ सा च,

॥ वागित्येव ॥ वागोजइत्यादिमन्तः प्रोक्त आदिग्रहादिह ॥ ॥ तस्माद् वषट्कृत्य वषट्कृत्य वागित्यनुमन्तयेत ॥

"

ATT

  • ‘प्रतिष्ठाम् अवसानम् । एतावत्येव दीप्यते नातः परमित्येतदपि न जानाति’ इति भभास्करः. तमाच्छान्तिप्रतिष्ठाज्ञानाभावादेतापीदानीमपि लोके मृत्युभूयानिव बहुभूत एव प्रवर्तते’ इति सायण:. ‘जीवनादपि बहुतरः प्रजानां मृत्युर्भवति हिंसकाक्रान्तत्वाद’ इति मनभास्कर

खण्डा

एकादशोऽध्यायः

‘वागोजः सह ओजो मयि प्राणापानौ’ इति वषट्कारमुक्त्वोक्त्वानु मन्त्रयते इत्यर्थः । वषट्शब्दस्य *साक्षात्प्रभृतित्वाद् गतित्वे का क्त्वो ल्यप् तुक् ॥

अनुमन्त्रितश्च,

॥ स एनं शान्तो न हिनस्ति । सा वषट्कारः । एनं वषट्कारम् ॥

.

अनुमन्त्रणान्तरमाह

॥ वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेति वषट्कारमनुमन्त्रयेत ॥

मृतिहिंसाः ॥ एसम्म सुष्ठित्याह—

॥ तदु ह स्माह ॥ ‘तत् अनुमन्त्रणम् उ निन्दयन् कश्चिद् ब्रह्मवादी आह स्म ह ।। कथं,

॥ दीर्घमेतत् सदप्रभु ॥ इतीति शेषः । एतदनुमन्त्रणम् अप्रभु असमर्थम् । सत् भवत् । दीर्घ दुर्वचं चेति ॥

MAINMENT

  • पा. सू. १-४-५४, - ‘तह तत्रैवानुमत्र’ इति सायण: * ‘दीर्घ दीर्घकालोचारणीयं सत् सद्यो वषटकारं शमयितुम् ’ इति भभास्कर

सवृतिक ऐतरेय ब्राह्मणे

अष्टमः

-Promote जानNGE

SEPTET

केन तर्हि,

॥ ओजः सह ओज इत्येव वषट्कारमनुमन्त्रयेत ॥ स्तौति

॥ ओजश्च ह वै सहश्च वषटकारस्य प्रियतमे तन्वौ ॥

ओजो दीतिर्बलं चापि प्रसाकरणं सहः । तन्वी शरीरे द्वे ।

॥ प्रियेणैवैनं तद्धाम्ना समर्धयति ॥ “तत् तेन धाम्ना तेजसा । एनं वषट्कारम् । सम्यग् वर्धयति ॥ किच,

॥ प्रियेण धाम्ना समृध्यते य एवं वेद ॥ भः श्यन् । तिपस्तः । स वेदितौति ।।

अथ पूर्वोक्तवागोजोमन्तं वक्तुं ब्रवीनि ह ॥ वाक् च वै प्राणापानौ च वषट्कारः ॥

पाणापानवाग्यतेन देहिना वाच्य इत्यनः ।। ततः किं,

॥ त एते वषट्कृते वपद्कृते व्युत्क्रामन्ति ॥ विनाना। उत्क्रम ऊर्ध्वगतिः। क्रमः परस्मैपदेषु’ इति शपि दीर्घः ॥

  • वषट्कार एनं होतारम् आत्मीयन प्रियेण धान्ना स्थानेन तेजसा वा’ इति भट्टभास्करः. ‘एनं वषट्कारः प्रियेण धाना सर्वभूतानामनुपद्रवकारिणा प्रियेण स्वरूपेण समृद्ध करोति’ इति सायणः + वाक् च प्राणापानौ वा अयं वषट्कारः । तद्धेतुत्वात् तान्च्छन्दम्’ इति भट्टभास्करः, ‘येयं वागस्ति यौ च प्राणापानौ रतस्ते क्यो वषटकारस्वरूपम् ’ इति प्रायशः. ‘व्युत्थाय निकामन्ति’ इति भट्टभास्करः पा० सू०

खण्ड:

एकादशोऽध्यायः ।

14

तच्छान्तये

॥ ताननुमन्वयेत वागोजः स ह औजो मयि

प्राणापानाविति ॥ तान् उत्क्रान्तान् ॥

॥ आत्मन्येव तरोता वाचं च प्राणापानौ च

प्रतिष्ठापयति ॥ तत् तेनानुमन्त्रणेन । होत्रादिषट्कर्ता । आत्मनि स्वे देहे ॥

ततध,

॥सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद ॥ उक्ताथोनि ॥

अष्टमः खण्डः।

T

पैष पुरोरुचं वेदि ग्रहं निविदमेव च । पश्च शब्दान्निर्बुवाणो रोचयंस्तोत्यथो पृथक्

॥ यज्ञो वै देवेभ्य उदकामत् ॥ *उक्तार्थम् ॥

॥ तं प्रैषैः प्रैषमैच्छन् । औषसूक्तसमाम्नातैहोतायक्षपदादिकैः ।। Sणमुल् तुमर्थेऽन्वर्थे प्रच्छन्नन्चेष्टुमध्वरम् ।।

____ * ‘बागोजः स ह ओजो मयि प्राणापानाविति वषट्कारमुक्योक्त्वानुमन्त्रयते’ इति आ. श्री. सू० १.५.१५. + page 247. * page 18. ‘प्रैषम् आह्वानम्’ इति सायणः

56नवमः

सवृत्तिके ऐतरेय ब्राह्मणे ॥ यत् प्रैषैः प्रैषमैच्छंस्तत् त्रैषाणां प्रेषत्वम् ॥

‘नष्टान्वेषणहेतुत्वात् प्रेषत्वमिति गृह्यताम् । किन,

॥तं पुरोरुग्भिः प्रारोचयन् ॥ पुरोरुचस्तु खैलिक्यः प्राक् तृचेभ्यो हि सप्त याः ।

वायुरग्रादिकाः शख्ने द्वितीये प्रउगाह्वये ॥ ॥ यत् पुरोरुग्भिः प्रारोचयंस्तत् पुरोरुचां पुरोरुक्त्वम् ॥ __ अन्विष्यमाणे यज्ञे वै दीपा आसन् पुरोरुचा । इत्यर्थः ।। किञ्च,

तं वेद्यामन्वविन्दन् ॥

अलभन्त।

॥ यद् वेद्यामन्वविन्दस्तद् वेदेर्वेदित्वम् ॥ विदेरिचि कृते वेदिराधारे लभ्यतेन तत् ॥

॥ तं वित्तं ग्रहैय॑गृह्णत ॥ वित्तं लब्धम् । ग्रहरैन्द्रवायवादिभिः । विग्रहो विभज्य ग्रहणम् ॥

॥ यद् वित्तं ग्रहैय॑गृह्णत तद् ग्रहाणां ग्रहत्त्वम् ॥ " ग्रहनिश्चि–’ इति करणेऽम् ॥

__ * ‘प्रेषन्त्याहानं कुर्वन्त्येभिरिति व्युत्पत्त्या मन्त्राणां प्रैषनाम सम्पन्नम्’, + तै० वा. २-४-७ अनुवाके द्रष्टव्याः। ‘वायुरने गा यज्ञप्रीरिति सप्तानां पुरोरुचां तस्यारतस्या उपरिष्टात् तृचं तृचं शंसेत् । वायवायाहि दर्शतेति सप्त तृचाः’ इति आ० श्री. सू० ५.१०.४,५, *‘प्रारोचयन् यज्ञस्य रुचिमुत्पादितवन्तः । अतः पुरो रोचनाहेतुत्वात् पुरोरुगिति नाम सम्पन्नम्’ इति सायणः, 8 उणादिसू० ४-११८. इन् इत्प्रत्ययाभ्यामेव वेदिशन्दनिष्पत्तिर्मुद्रितोणादिषु दृश्यते. पा. सू० ३-३-५८.

METHTTP

खण्डः ]

एकादशोऽध्यायः १ . १४३

॥ तं वित्त्वा निविहिन्यवेदयन् ॥ वित्त्वा लब्ध्वा । निवेदन प्रकाशनम् ।।

॥ यद् वित्त्वा निविद्भिन्यवेदयंस्तन्निविदां निवित्त्वम् ॥ निपूर्वाद्विदेः प्रकाशनार्थात् करणे सम्पदादिकिम् ॥

अथ प्रैषांस्तु वदतः प्रशास्तुः प्रहतोच्यते - ॥ महहाव नष्टैष्यभ्यल्पं वेच्छति ।। नष्टैषी नष्टान्वेषणकारी । अल्पं फलादि महद्रनादिकं वा अभी च्छति प्रार्थयते ॥ । तत्र,

॥ यतरो वाव तयोाय इवाभीच्छति स एव तयोः

साधीय इच्छति ॥ तयोर्मध्ये यतरः यः । ज्यायः महत् । इव एव । साधीयः अत्यर्थम् । बाढस्येयमुनि साधा॥

एवञ्च,

॥ य उ एव प्रैषान् वर्षीयसो वर्षीयसो वेद स

उ एव तान् साधीयो वेद ॥ वृद्धस्येयसुनि वर्षादेशः । वृद्धतरान् । उ खलु । उ पुनः । घेद जानाति॥

  • पा. सू० वा. ३-३-९४.

पा. सू. ५-३-६३.

पा. सू०

AN

४४४ - सवृत्तिके ऐतरेयब्राह्मणे

दिशमः

ततः किं,

॥ नष्टैष्यं ह्येतद् यत् प्रैषाः ।। एतदेते । यत् ये । जसोऽम् । नष्टैष्याः । इषेः कर्मणि ण्यत् ॥

॥ तस्मात् प्रहस्तिष्ठन् प्रेष्यति ॥ प्रहः अवनतगात्रः । तस्मात् तथाहि । सूत्र्यते हि-दक्षिणो होवृषदनात् प्रह्वोऽवस्थाय वेद्यो दण्डमवष्टभ्य ब्रूयात् प्रैषांचादेशम्’ इति ।।

नवमः खण्डः ।

अथ निविदः स्तौति . ॥गर्भा वा एत उक्थानां यन्निविदः ॥ यत् याः। उक्यानां शस्त्राणाम् । एते गर्भाः । लुप्तोपमम् । गर्भा इव ॥

कथा

॥ तद्यत् पुरस्तादुक्थानां प्रातःसवने धीयन्ते तस्मात् पराञ्चो गर्भा धीयन्ते पराञ्चः संभवन्ति ॥

यत्तदोर्व्यत्ययेऽत्र स्यात् पराञ्चस्तु पराङ्मुखाः । योनौ गर्भा निधीयन्ते सिक्ता वृद्धिं ब्रजन्ति यत् ।।

  • ‘नटैष्यं नष्टस्यान्वेषणसाधनम् । करणे कृत्यः’ इति भभास्करः + आ. श्री० सू० ३.१.२०. गर्भा:पराचः शरीरे परमुत्कृष्टं पुरोभागमश्चन्तो गच्छन्तो धीयन्ते धार्यन्ते । प्रसवकालेऽपि पराचः पुरोभागं गच्छन्त उत्पद्यन्ते प्रयुक्ताः’ इति सायणः. ‘यथा गीः प्रथमं पार्श्वतः प्रविश्य ततो मध्ये स्थित्वा पश्चात् ततो ग निगच्छन्ति तद्वत् प्रथमं प्रातःसवने उक्थानां पुरस्तात् पूर्वस्मिन् पार्श्व धीयन्ते स्थाप्यन्ते शस्यन्ते निविदो

रेतांसि । तत्र च पराञ्चोऽपुनरावृत्ता एव संभवन्ति संपश्चन्ते वर्धन्त इत्यर्थः’ इति भडभास्कर

खण्ड:

एकादशोऽध्यायः ।

AR

तस्माद सूक्तस्य पुरतो निवित् प्रातनिधीयते ।

उक्थं शस्त्रमवयवापेक्षं च बहुचद्वचः ॥ तत् तत्र ॥

किञ्च,

॥ यन्मध्यतो मध्यंदिने धीयन्ते तस्मान्मध्ये गर्भा धृताः ॥ पूर्ववत् ॥

॥ यदन्ततस्तृतीयसवने धीयन्ते तस्मादमुतोऽश्चिो

गर्भाः प्रजायन्ते ॥ *अश्चिः अर्वाचीनाः । अमुतः मातुरुदरात् । अन्ततः प्रागन्याया। +एको परिशिष्य तृतीयसवने’ इति हि वक्ष्यते ।।

विदुष आह

॥ प्रजासै प्रजायते प्रजया पशुभिर्य एवं वेद ॥ अपरथा स्तौति–

" ॥ पेशा वा एत उक्थानां यन्निविदः ॥ यत् याः । पेशम् अलंकारः । जसि सलोपश्चान्दस॥

॥ तद्यत् पुरस्तादुक्थानां प्रातस्सवने धीयन्ते यथैव

प्रवयणतः पेशः कुर्यात् तादृक् तत् ॥

  • ‘अमुतो गर्भाशयाद् अर्वाश्चः इतोमुखाः’ इति भटभास्कर.. + ऐ. बा. ११.११. * ‘पिश अवयवे । असुन्नन्ताजसः शौ शेश्छन्दसि बहुलमिति लोपः । यद्वा घमि रूपं द्रष्टव्यम्’ इति भकभास्कर:.

सवृत्तिके ऐतरेय ब्राह्मणे .

[एकादशः

A

तत् तत्र । ताहक ताशम् ।

वस्त्रादेवयनारम्भदेशं प्रवयणं विदुः ।। वेबो ल्युट करणे ज्ञेयः प्रशब्दश्चादिकर्मणि ॥ ॥ यन्मध्यतो मध्यदिने धीयन्ते यथैव मध्यतः

पेशः कुर्यात् तादृक् तत् ॥ हारिद्रादिकसूत्रेण वस्त्रं मध्ये विभूष्यते ॥ ॥ यदन्ततस्तृतीयसवने धीयन्ते यथैवावप्रज्जनतः

पेशः कुर्यात् तादृक् तत् ॥ *अवप्रजनेति वस्त्राधन्तर्देशोऽभिधीयते ।।

॥ सर्वतो यज्ञस्य पेशसा शोभते य एवं वेद । यज्ञस्य सर्वालङ्कारैर्विद्वानपि स शोभते ॥

दशमः खण्डः।

अथ ता एव निविदः पुनः स्तौति प्ररोच यन् ।। सौर्या वा एता देवता यन्निविदः ॥

  • ‘अवसितं प्रजननमवप्रजननम् अवसानम् । द्वितीयो जकार उपजनः । यद्वा प्रतिमुखं जननं प्रजननम् । सर्वात्मना समाप्तिः। प्रतेन्त्यलोपडादाः’ इति भाभास्करः.

खण्ड:

एकादशोऽध्यायः । सूर्यादिवानष्टाप् (१) ता निविदः सूर्यसन्निभाः । पूज्यत्वादेवता यद् याः सूर्यसादृश्यमाह ह

॥ तद्यत् पुरस्तादुक्थानां प्रातस्सवने धीयन्ते मध्यतो मध्यन्दिनेऽन्ततस्तृतीयसवन आदित्यस्यैव तद् ब्रतमनु पर्या वर्तन्ते ॥

तत् तत्र । तत् तेन । व्रतं कर्म । परि सर्वतः । अनु लक्षीकृत्य । आवर्तन्ते कुर्वन्ति ।।

अथ निविदां पच्छस्तामाह

॥ पच्छो वै देवा यज्ञं समभरन् ॥ ऋचा श’ इति पादस्य पद्भावे पच्छ उच्यते । ‘ऋचा त्व’ इत्युचः पादैश्चतुर्वर्गाभिधायिभिः ।। पुरा यज्ञं सुरा जझुरिति श्रौती कथोच्यते ।

॥ तस्मात् पच्छो निविदः शस्यन्ते ॥ यथापाठं पादेष्ववसाय ॥

___ * या निविदः सन्ति ता एताः सूर्यसम्बन्धिन्यः’ इति सायमः, ‘सूर्यस्य व्रतं सौर, तत्र साध्या सौर्याः सूर्येण तुल्यत्रताः । निविदो नाम सौर्याः सूर्येण तुल्यकाणी भवन्ति । तदेवाह -आदित्यस्यैव तद् व्रतं कर्मानु पर्यावर्तन्ते पर्यायेणानुवर्तन्तेऽनुगच्छन्ति । तत्प्रकारश्च तद्यत् पुरस्तादित्यादिना दर्शितः । यदा पुनः सूर्यस्येमा इत्यर्थे तस्येदमित्या क्रियते तदापि बीपि सूर्यतिध्यागस्त्येति यलोपे सौर्यो निविदः स्युः न सौर्याः । तस्मात् सौरे कर्मणि साध्य इति तत्र साधुरिति यद् भवति इति वेदितव्यम् ’ इति भट्टभास्करः, पा० सू० ६-३.५५. * ऋक्सं० ८-२.३४-६. 8 ‘देवाः खलु यज्ञं निविदात्मकं पच्छ: पादश; पदे पदेऽवसाय समभरन्’ इति भट्टभास्करः. ‘देवाः पुरा यज्ञं पच्छः पादशः समभरन एकैकं पादं क्रमेण संपादितवन्तः’ इति सायणा, कथा चेयं मृग्या.

सवृत्तिके ऐतरेयब्राह्मणे

[एकादशः

शंसित्रे निविदामच देयं वक्तुं कयोच्यते ॥ यद्वै तद्देवा यज्ञं समभरंस्तस्मादश्वः समभवत् ।

तस्मादाहुरश्चं निविदां शस्त्रे दद्यादिति ॥ यत् यत्र । वै पुरा । तत् ते । तस्मात् ड्यर्थे कसिः, तस्मिन् काले । तस्मात् तथाहि । शंत्रे , इण्नां । शंसित्रे ॥

अश्वदानं स्तौति

॥ तदु खलु वरमेव ददति ॥ उ अपि।

तोरुक्ता दक्षिणास्तु यजमाने ददत्यपि ।

तदश्वदानमधिकं वरणीयं वरं विदुः ॥ किञ्च,

॥न निविदः पदमतीयात् ॥ अत्ययोऽतिक्रमः ॥

॥ यनिविदा पदमतीयाद् यज्ञस्य तच्छिद्रं कुर्यात् ॥ यत् यदि । तदतिक्रमणं कर्तृ ॥

ततश्च ॥ यज्ञस्य वै छिद्रं स्त्रवद् यजमानोऽनु पापीयान् भवति ॥

तुङ् नात्र वा पदान्तस्य स्वधाकृतरसं सवत् ।।

  • ‘यद्वै यस्मिन्नेव देशे तत् तदा देवा यज्ञे संपादितवन्तस्तस्माद् देशात् ’ इति सायणः. ‘यद्वै तदित्यादि । यदा खल्ल देवा यह निविदात्मकं तत् तेन प्रकारेण पच्छः समभरन् तदा तस्मात् तादृशाद यज्ञात् ’ इति भभास्करः । पा० सू० -२-३४. * पा. सू०६-१-७६.

एकादशोऽध्यायः ।

४४९

निगमयति

॥ तस्मान्न निविदः पदमतीयात् ।। किञ्च,

॥न निविदः पदे विपरिहरेत् ॥ विपरिहारो व्यत्यासः॥

॥ यन्निविदा पदे विपरिहरेन्मोहयेद् यज्ञम् ॥ कर्तव्याजानं मोहा॥

ततश्च,

॥ मुग्धो यजमानः स्यात् ॥ व्याकुलचित्तः॥

॥ तस्मान निविदः पदे विपरिहरेत् ॥ किश्च ,

॥न निविदः पदे समस्येत् ॥ समासोऽनवसायोच्चारणम् ॥

॥ यन्निविदः पदे समस्येद् यज्ञस्य तदायुः संहरेत् ।। यत् यदि । तत् तदा । अल्पकालतयायुषो नाशः ॥ ततध,

॥ प्रमायुको यजमानः स्यात् ॥ मायुर्दुश्शब्दः । यत् पशुर्मायुम्’ इति लिङ्गात् । मायुर्मरणमित्येके ॥ ___ + ‘तस्मान्न निविद इति द्वितीयं निषेधवचनमवश्यपरिहारार्थम् ’ इति भभास्करः.

C’

वमगम

  • है सं०३-१-५

157

सवृत्तिके ऐतरेयब्राह्मणे

(एकादशः

॥ तस्मान्न निविदः पदे समस्येत् ॥ किन्तु,

॥ प्रेदं ब्रह्म प्रेदं क्षत्रमित्येते एव समस्येत् ॥ एते पदे ।। किमर्थ,

॥ ब्रह्मक्षत्रयोः संश्रित्यै ॥ संधितिर्भेदः संश्लेषः॥

॥ तस्माद् ब्रह्म च क्षत्रं च संश्रिते ॥ *सर्वस्य साधके इति शेषः । तस्मात् तथाहि ।। किञ्च,

॥ न तृचं न चतुर्ऋचमतिमन्येत निविद्धानम् ॥ ‘निविनिधानं सूक्तं स्यात् उचादि तु ततोऽल्पकम् ।

बृचमेककं वापि कस्मादित्यत उच्यते— ॥ एकैकं वै निविदः पदमृचां सूक्तं प्रति ॥

  • ‘तस्मादेव लोके जातिद्वयं परस्परमाश्रित्य तिष्ठति । ब्राह्मणो धर्म प्रवर्तयति क्षत्रियस्तस्य रक्षा करोति ’ इति सायणः. । ‘उक्तं प्रातस्सवने उक्थानां पुरस्ताग्निविदो दृश्यादिति । तृतीयसवने च वक्ष्यति एकामृचं परिशिष्य तत्र निविदो दभ्यादिति । इदानीं तु माध्यंदिन सक्ने मध्ये निधीयमाना निवित् क प्रदेशे निधेया इति शक्षायां तनिर्णयः क्रियते– तृच न चतुचमतिमन्येत निविद्धानमिति । माध्यंदिने सवने तृचं वा चतुचं वातीत्य निविद्धानं न मन्येत । तृवचतुर्मचाभ्याधिकास्थक्षु पञ्चषट्सप्तादिषु निविद्धानं कर्तुं न मन्येत । अपितु तिमधु चतसषु वा ऋक्षु निविदं दध्यात्। त्रिचतुर्ग्रहणाद् द्वयोरेकस्यां व निविदं न दध्यादिति लभ्यते’ इति भट्टभास्करः. ऋचं सूक्तं प्रति’ इति सायणसम्मतः पाठः । तथाच तयाख्या .. ‘निविदः मम्बन्धि यदेकैकमेव पदं तदेव प्रत्यूचं प्रतिसूफ च समर्थ भवति’ इति.

खण्डः

एकादशोऽध्यायः ।

४५१

ऋचां सम्बन्धि यन् मुक्तं तेन तुल्यं निवित्पदम् ।

एकेकमहन्तं नार्वाक बोड तृवचतुर्कचाम् (१) ।। निगमयति

॥ तस्मान्न तृचं न चतुर्ऋचमतिमन्येत निविद्वानम् ॥ किञ्च,

स्तोमातिशंसनं चापि निविदा कृतमिष्यताम् ।। किञ्च,

॥ एकां परिशिष्य तृतीयसवने निविदं दध्यात् ॥ शिषः असर्वोपयोगे क्वो ल्यप् ।।

॥ यद् वे परिशिष्य दध्यात् प्रजननं तदुपहन्यात् ॥ यत् यदि । द्वे ऋचौ । प्रजननं योनिम् ।। व्याचष्टे

॥ गभैस्तत् प्रजा व्यर्धयेत् ॥ गर्भे सम्पाद्याः प्रजाः। द्विपरिशेषणं तत् । व्यर्षयेत् नाशयेत् ॥ ॥ तस्मादेकामेव परिशिष्य तृतीयसवने निविदं दध्यात् ।।

T

. ‘एकां शिष्ट्वा तृतीयसक्ने’ इति आ० श्री. सु. ५-१४-२३.

प्रजननं ज्योतिरिति’ इति भभास्कर’. ‘प्रजननमुपन्यादिलनेन यजमानस्य प्रजोत्पादनराहित्यम् । प्रजा व्यर्धयेदित्यनेन पूर्वमुत्पन्नानां पुत्रादीनामपत्यराहित्यम्’ इति सायण१५२

सवृत्तिके ऐतरेयब्राह्मणे

किश्च,

॥न सूक्तेन निविदमतिपद्येत ॥ *ड्यर्थे टा। अतिपत्तिः स्वदेशात् प्रच्युतिः ॥

॥ येन सूक्तेन निविदमतिपद्येत न तत् पुनरुपनिवर्तेत ॥ वृतिरन्तीतण्यर्थः । न पुनरावर्तयेत् ॥ कुता

॥ वास्तुहमेव तत् ॥ “पहीणं वास्तुहं च्युतम्’ इति निघण्टुः ।। ॥ अन्यत् तदैवतं तच्छन्दसं सूक्तमाहृत्य तस्मिन्निविदं दध्यात् ॥

** अनसन्तानपुंसकात् -’ इति टच ।।

॥ मा प्र गाम पथो वयमिति पुरस्तात् सूक्तस्य शंसति ॥ च्युतसूक्ततुल्यस्थानीयस्य पुरस्तान्मा प्रगामेति पळूचं शंसेत् ॥ कस्मादेवम् ,

॥ पथो वा एष प्रैति यो यज्ञे मुह्यति ॥

.

P

६.

M

१. ‘पुनरुपनिवर्तयेत्’ ध. के. पाठः,

  • ‘सूफेन निविद्वानीयेन ’ इति भभास्करः, निघण्टुरयं मृग्यः. ‘वास्तुशब्देन निविदः स्थानमुच्यते तस्य स्थानस्य घातकम्’ इति सायणः. * पा० सू० ५-४-१०३. 8 ऋक्सं० ८-१-१९-१. स्थानं चेनिविदोऽतिहरेन्मा प्रगामेति पुरस्तात् सूकं शस्खान्यस्मिंस्तवते दध्यात्’ इति आ० श्री. सू. ६-६-१८. ‘निविदः स्थानातिहारो नामैवंरूपः । सूकस्य अस्मिन्नन्तराले निविद् धीयते तस्माद या पूर्ण ऋक् तदन्तगतेन प्रणवेनाहावमकृत्वैवानन्तरामेव अचं सन्धाय तस्यामृचि चोदिते ऽवसानेऽवसानपर्यन्तमुक्त्वा यदावस्येत् एवंप्रकार एव निविदतिहारो नान्यः प्रकार इति । अतोऽन्यथा यः प्रमादः स ऋग्दोष एव न निविदतिहारः’ इति तत्र गायनारायणवृत्तिः,

खण्ड:

एकादशोऽध्यायः । यज्ञप्रयोगमूढो यः स मार्गाद् वैदिकाच्च्युतः ॥

॥ मा यज्ञादिन्द्र सोमिन इति ॥ प्रगामेत्यनुवर्त्य व्याचष्टे

॥ यज्ञादेव तन्न प्रच्यवते ॥ वत् तत्र ।।

॥ मान्तःस्थु) अरातय इति ॥ अरातयो नो न बाधेरन्नित्यर्थ मत्वा व्याचष्टे

॥ अरातीयत एव तदपहन्ति ॥ *अरातिरसमृद्धिः । तां परस्येच्छतः। ‘छन्दसि परेच्छायाम्’ इति क्यचः शतुर शस् । अपहन्ति बाधते ॥

यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः।

तमाहुतं नशीमहीति ॥

॥ प्रजा वै तन्तुः॥

ततच

॥ प्रजामेवारमा एतत् संतनोति ॥ अस्मै अस्य । एतत् एतर्हि । सम्यग् विस्तारयति ॥

॥ मनो न्वा हुवामहे नाराशंसेन सोमेनेति ॥

  • ‘अरातीयत: शत्रुत्वमिच्छतः’ इति सायणः । पा० सू० वा. ३-१-१०७. * ऋक्सं० ८-१-१९.२, ६ ऋक्सं०८-१-१९-३.

४५४

रावृत्तिके ऐतरेयबामणे

प्रथमः

व्याचष्ट–

॥ मनसा वै यज्ञस्तायते ॥ ** तनोतेर्यकि’ इत्यात्वम् ॥ स्पष्टति

॥ मनसा क्रियते। सैव तत्र प्रायश्चित्तिः प्रायश्चित्तिः ॥

प्रायो नाशस्तस्य चित्तिः समाधानमिदं भवेत् । प्रायस्य चित्तिचित्तयोरिति सुद्द गणसूत्रतः ॥ तत्रातिपत्तौ निविदां द्विरुक्त्यर्थः समापनम् ॥ .

एकादशः खण्डः।

इति षड्गुरुशिष्यविरचितायां महिदासैतरेयब्राह्मणवृत्ती

सुखप्रदायामेकादशोऽध्यायः ॥