१०

अथ दशमोऽध्यायः ।

तूष्णींशंसनिवित्सूक्तैराज्यं शस्त्रं त्रिपर्वकम् । तूष्णीशंसा पूर्वमुक्तो निहित्सूक्ते नवीत्यथ

॥ ब्रह्म वा आहावः ॥

SUSN

a

आहाव इति शोसायोमित्यत्याख्येति वै विदुः । ‘शोसायोमित्याहयत’ इति खल्वत्र वक्ष्यते ॥

ब्रह्म ब्राह्मणजातिः स्यात् तुलपत्वं चादियोगतः ॥ १. ’ इति ब्राह्मणव्याख्यायां नवमोऽध्यायः’, २. ‘सूक्तैराचं’ घ, ङ. पाठः.

  • page 44. “तदुक्तं संप्रदायविद्भिः’ इत्यवतारिकापुरस्सरं पद्यखण्डोऽयमुद्धतः सायणेन. * ऐ० वा. १२-१.

खण्ड:

.

tax

n

H

S

॥ क्षचं निवित् । द्वितीयत्वसाम्यात् ॥

॥ विट् सूक्तम् । तृतीयत्वसाम्यात् : विड बेश्य जानिः ॥

तूष्णींशंस उपांशुत्वादुतत्वाद् गलितस्त्विह’ ॥ ॥ आह्वयतेऽथ निविदं दधाति । ब्रह्मण्येव तत्

क्षत्रमनुनियुनक्ति ॥ राजजाति विप्रजातौ संगतां निदधाति तत् ।।

॥ निविदं शस्त्वा सूक्तं शंसति ॥ ततः किं,

॥ क्षत्रं वै निविद् विट् सूक्तम् । क्षत्र एव

तद् विशमनुनियुनक्ति ॥ वैश्यजाति राजमानो सङ्गता निदान तद ।

खराधन्तोपमष्टान्न त व्यत्यशान युरिह ।। अथ काम्यमाह ॥ यं कामयेत क्षत्रेणैनं व्यर्धयानीति मध्य एतस्यै निविदा

सतं शंसेन ।

.

१. ‘उपांशुत्वादमत्त्वाद गमिगस्विकस्व. पाय: * अनिदेवेद्ध इति द्वादशपदा निवित, वा देवाति सप्तर्ष सूक्तम् .

प्रथममायते शस्त्राने । अथ निविदं दधाति । यद्यपि तृष्णाशंसोऽम्बाहावादनन्तर शस्यते तथाप्याहावनिवित्सूक्तानामेवात्र पौर्वापर्यमुच्यते वर्णत्रयसंस्तुतत्वात्’ इति गोविन्दस्वामी. पा. सू. वा० १-३-६४,

३६६

[प्रथमः

सवृत्तिके ऐतरेयब्राह्मणे यं यजमान होतैवमिच्छेद-एनं क्षत्रेण विश्लिष्टं करवाणीति, तदा सः । इसो ।

निविदोऽस्याः पदानां वै मध्ये शंसेत्तु सूक्तकम् ॥ ॥ क्षत्रं वै निविद् विट् सूक्तम् । क्षत्रेणैवैनं तद् व्यर्धयति ॥

तथा,

॥ यं कामयेत विशैनं व्यर्धयानीति मध्य एतस्य सक्तस्य निविदं शंसेत् । क्षत्रं वै निविद् विट् सूक्तम् । विशैवैनं तद् व्यर्धयति ॥

विशा वैश्यजात्या ॥ ॥ यमु कामयेत सर्वमेवास्य यथापूर्वमृजु क्लुप्तं स्यादिति ॥ ऋिजु साधु क्लुप्तं सङ्गतम् । #उ पुनः । अस्य यष्टुः ॥

॥ आह्वयेताथ निविदं दध्यादथ सूक्तं शंसेत् सो

सर्वस्य क्लुप्तिः ॥ सा उ खलु सर्वस्य’ यष्टुः क्लप्तिः प्रकारः ॥

१. ‘सर्वस्य क्लनिः’ घ. पाठः,

  • ‘व्यद्धं वियुकं विरोधिनम् ’ इति सायणः. ‘ऋद्धिहानि प्रापयानि’ इति भभास्कर:. ऋजु क्लुप्तम् अञ्जसा क्लप्तं यथोपच रक्लुप्तम् ’ इति गोविन्दखामी. ‘ऋग्वा अयत्नेनैव विध्यनतिक्रमेण वा’ इति भट्टभास्करः. * ‘पूर्वोकस्य द्वेष्यस्य यजमानस्य व्यावृत्यर्थ उशब्दः’ इति सायणः. 8 ‘सा क्लप्तिर्भवति। उ इत्यनर्थकम् । यद्वा सो इलेकं पदं तस्यापि स एवार्थः’ इति गोविन्दस्वामी.

खण्ड:

दशमोऽध्यायः

1

अथास्यां निविदीतिहासमाह –

॥ प्रजापतिर्वा इदमेक एवान आस ॥ इदं जगत् सर्वमग्रे प्रजापतिरभूत् पुरा ॥

॥ सोऽकामयत ॥

माप

॥ प्रजायेय ॥ प्रजातः स्याम् । लिङ् * ज्ञाजनार्जा’ ! “इटोऽन्’ ।। व्याचष्टे

॥ भूयान् स्यामिति ॥ ईयसुनि * बहोर्लोपो भू च— ||

।। स तपोऽतप्यत ॥ नियमेषु तपशब्दः । तपिरार्जने । शपः श्यन् । अतपत् आर्जितवान् ॥

42

SHARE

!

॥सवाचमयच्छत् ॥ वाग्यमनं कृतवान् ॥

॥ स संवत्सरस्य परम्ताद् व्याहरद् द्वादशकृत्वः ।। अब्दाय द्वादश वारान् वाचमुक्तवान् ।

॥ द्वादशपदा वा एषा निवित् ।।

  • पा. सू० ७३ ७९.: पा० सू. ३-४-१०६. पा. सु. ६-४-१५८. तथायापतम्वधर्मसूत्रं .‘नियमे नशब्दः’ इति, प्र… पट: २० सू० १.

सवृत्तिके ऐतरेयब्राह्मणे

[प्रथम:

ततः किम् ,

॥ एतां वाव तां निविदं व्याहरत् । तां सर्वाणि

भूतान्यन्वसृज्यन्त ॥ तां निविदमनु तेनासृज्यन्त । भूतानि सृष्टानि ॥ .

उक्त्वा तु निविदं देवो जगत् सर्वं ससर्ज ह ॥

॥ तदेतदृषिः पश्यन्नभ्यनुवाच ॥ *ऋषिर्मन्त्रस्ती वा ॥

॥ स पूर्वया निविदा कव्यतायोरिमाः प्रजा

___अजनयन्मनूनामिति ॥ स प्रजापतिः पूर्वया आदिकालप्रवृत्तया निविदा किव्यता क्रान्त दर्शिन्या । आयोरायुष्मती:, मतुप्सकारयोर्लोपः । सो ङसिः । इमाः स्थावरजङ्गमात्मिकाः प्रजाः अजनयदुत्पादितवान् । मनूनां मनुष्य जातीनाम् । उपभोगार्थमिति शेषः ।

॥ तद्यदेतां पुरस्तात् सूक्तस्य निविदं दधाति प्रजात्यै ॥ दधाति यत् प्रजात्यै तत् स्यात् ।।

॥ प्रजायते प्रजया पशुभिर्य एवं वेद ॥

Pr

HAM

1bNA

V

प्रथम खण्ड:

PARMA


___* ‘कुत्स ऋषिः’ इति गोविन्दस्वामिसायणी. + अक्सं० १-७-३-२. * ‘कव्यता कवित्वं शब्दसत्वमायोरागतवान् प्राप्तवानित्यर्थः । तत अर्व मनूनां वैवस्वतादीनां सम्बन्धिनीरिमा ब्राह्मणक्षत्रिगादिरूपाः प्रजा अजनयत्’ इति सायणा.

खण्ड:

दशमोऽध्यायः ।

३१९

*अथ सूर्याग्निवातेषु पदानां तु त्रिकं त्रिकम् । क्रमेण योजयन्नेतां निविद संप्रशंसति

॥ अग्निर्देवेड इति शंसति ॥ ति शेषः । आहुहि

“निविदो द्वादशायेष्ठौ पोळशिन्युत्तमा स्थिता ।

अग्निष्टोमे दशैताच होत्रा बाच्या न चेतरैः ॥” इति । अर्थस्तु-इष्टौ दर्शपूर्णमासयोराधा निविद् ‘देवेद्धो मन्विद्ध’ इति चतुर्दशपदा । उत्तमा ‘अस्य मदे जरितरित्येका । आज्ये मरुत्वतीये निष्केवल्ये चेति तिस्रः । वैश्वदेवे चतसः । आनिमारुते तिस्रः । इति निविदो द्वादशी । आसां च वक्ता होतैवेति ।।

न्याचष्टे

॥ असौ वा अनिर्देवेद्धः ॥ असौ सूर्यः । *अग्नि, आगन्ता सर्वकार्यार्थम् । ‘अगेनिनलोपश्च’। * देवैरिन्द्रायः इद्धो दीप्तः ॥

M

. अत्र चत्वारः पर्यायाः । एकैकस्मिन् पर्याय तिमस्तितो देवताः । क्षियन्तरिक्षास्थानामग्निर्वायुः सूर्य इति । इह तु सूर्योऽमिवायुरिति क्रमः’ इति गोविन्दस्वामी. अत्र चत्वारः पर्यायाः । तत्रैकैकास्मिन् पर्याये तिलस्तिस्रो निविदस्तिश्च देवता युणिज्यन्तरिक्षस्था: सूर्यानिवायवः प्रतिपर्यायमावर्तन्ते । तत्रादशब्दो धुलोकवतिसूर्यविपयो द्रष्टव्यः । एतच्छब्दोऽपि तत्पर्यायः । इदंशब्दस्तु भूलोकवर्ति पहिविषयो भूलोकविषयश्च । वाय्वन्तरिक्ष तु स्वशब्देनैवोच्येते सर्वत्र ब्राह्मणेन इति इष्टव्यम्’ इति भहमास्करः । अत्र च आश्वलायनौते १-३-६, ५-९-१२, ५-१४-२०; ५-१५-२२, ५-१८.७, ८, ६-२.१० सूत्राणि द्रष्टच्यानि, ‘अग्निशब्दो योगादादित्य वर्तते । अग्निः सर्वदा गच्छत्सादित्यः अतोऽग्निरादित्य उच्यते’ इति गोविन्दस्वामी,

उणादिसू. ४.५१. देवैः प्राणवनशीलैवा रश्मिभिः’ इति भभास्करः.

सवृत्तिके ऐतरेयबामणे

[द्वितीयः

तदाह

॥ एतं हि देवा इन्धते ॥ इन्धेः ** नामलोपः’ नसोरल्लोपः’ । दीपयन्ति ।

॥ एतमेव तदेतस्मिल्लोक आयातयति ॥ एतस्मिन् धुलोके वर्तमानम् आयातयति सम्यक् प्रशंसति ॥

॥ अग्निमन्विद्ध इति शंसति । अयं वा अग्निमन्विद्धः ॥ मनवो मनुष्याः ॥

तदाह

॥ इम हि मनुष्या इन्धते । अग्निमेव तदस्मिल्लोक

आयातयति ॥ अस्मिन् भूलोके ।। ॥ अग्निः सुषमिदिति शंसति । वायुर्वा अग्निः सुषमित् ॥ सुपमिद् इति ब्याचष्टे

॥ वायुर्हि स्वयमात्मानं समिन्धे स्वयमिदं सर्वे

यदिदं किञ्च ॥ वायुः प्रकाशयति हि स्वात्मानं जगता सह । इदं सर्वमिति व्याचष्टे-यदिदं किश्चेति ॥

  • पासू० ६.४.२३. । पा० सू० ६.४-१११. * ‘आयातयति आनयति । इति गोबिन्दस्वामी. ‘प्रजारक्षणार्थ सर्वतो यजमान करोति’ इति भाभास्कर:. ‘आदित्यरूपं प्रकाशम् आयातयति प्रसारयति इति सायणः. ६ ‘स्वयमिदं सर्वमित्यादि । यदिदं परिदृश्यमान स्थावरजङ्गमं वा किचिदपि इदं खल सर्वमपि.स्वप्रकाशाधीनात्मलाभ यदि प्रकाशते ततः सर्व स्यात् । अप्रकाशमानमसदेव । स्वयमित्यस्यार्थे खुशब्दः । आहुश्च — आत्मलाभे च भावानां करणापेक्षिता भवेत्। लब्धात्मना स्वकार्येषु प्रवृत्तिः स्वयमेव तु॥इति ’ इति भभास्करः

खण्ड:

दशमोऽध्यायः।

ENA

॥ वायुमेव तदन्तरिक्षलोक आयातयति ॥ व्यक्तम् ॥ ।। होता देववृत इति शंसति । असौ वै होता देववृतः ॥

कथम् ,

॥ एष हि मर्वतो देवैर्वृतः ॥ सेवितः ॥

॥ एतमेव तदेतस्मिल्लोक आयातयति । होता मनुवृत इति शंमति । अयं वा अग्निर्होता मनुवृतः ॥

कथम्, ॥अयं हि सर्वतों मनुष्यैर्वृतः । अग्निमेव तदस्मिल्लोक आयातयति।

प्रणीर्यज्ञानामिति शंसति । वायु प्रणीर्यज्ञानाम् ॥ प्रकर्षण नयतीति प्रणीः ॥

कथं,

॥ यदा हि प्राणित्यथ यज्ञोऽथामिहोत्रम् ॥

१. ‘प्रणीः ॥ यदा’ ५ रु. पाठा.

  • ’ असौ खलु सूर्यों होता रसानामादाता देव रश्मिभिवतः’ इति भभास्करः. *स्खोदयास्तमयाभ्यां सायंप्रातमिनिमित्तत्येन होता स वै धुलोके वर्तमानस्वाद् दतः’ इति सायण:. ‘होता हवनयोगाद् देवैः सर्वदा वृत आदित्यः’ इति गोविन्दस्वामी. + वैश्वानरो वा एष आत्मन्यन्तर्वसति इति श्रुतेः सर्वदा मनुष्यैः परिवृतः’ इति गोविन्दस्वामी. + ‘यदाहीत्यादि । यदा खलु वायुः प्राणिति प्राणयति जनान् । अन्तणीतष्योऽनितिद्रष्टव्यः । यद्वा, यदा प्राणिति बलवान् भवति तदा खल्वयं प्रणीभवति । अधुना प्रत्यर्थ एवानितिद्रष्टव्यः’ इति महमास्कर,३०२ सवृत्तिके ऐतरेयब्राह्मणे

[द्वितीयः

अथ तदा। ‘श्वस प्राणने’ । ‘अन च। रुदादिभ्यः सार्वधातुके’ इति तिप इद् । “अनितेः’ इति णत्वम् ॥

॥ वायुमेव तदन्तरिक्षलोक आयातयति । रथीरध्वराणामिति शंसति । असौ वै रथीरध्वराणाम् ॥

मत्वर्थ ईकारः । रथारूढो रथी॥ कथम्,

॥ एष हि यथैतच्चरति रथीरिव’ । एतत् डिलुक्, एतस्मिल्लोके । इव एव । यथा स्थीवरति एष तथा ॥

॥ एतमेव तदेतस्मिल्लोक आयातयति । अों होतेति शंसति । अयं वा अग्निरतूतों होता ॥ “अतूर्तः अहिंसितः । तुर्वतेः क्तः । ६’ राल्लोपः’ ॥ व्याचष्टे

॥ इमं ह न कश्चन तिर्यचं तरति ॥ तिर्यञ्चं तु तिरथीनज्वालामालासमाकुलम् । इमं लोके कश्चिदपि न तरत्यभिहन्ति वै ॥

१. ‘स्थीरिव । डिलुक्’, २. ‘एतस्मिन् काले’ प., पाठः,

  • पा. सू० ७-३-७६. + पा० सू० ८-४-१९, * पा० सू० वा०५-२-१०९, * रथीः रेफरछान्दसः’ इति गोविन्दस्वामी. 8 ‘एतद् गन्तव्यस्थानं प्रति’ इति सायणा,

अतूर्तः अतिक्रमितुमशक्यः’ इति भभास्करः. केनाप्यतीर्णः’ इति सायणः. ‘तरणायोगादतूर्तत्वम् ’ इति गोविन्दस्वामी. पा. सू. ६-४-२१.

खण्ड:]

दशमोऽध्यायः ।

३७३

NE

॥ अग्निमेव तदस्मिल्लोक आयातयति । तूणिर्हव्यवाळिति शंसति । वायुर्वै तूर्हिव्यवाट । तूर्णिः क्षिप्रगामी । हव्यवाद् “वहश्च ’ इति ण्विः । इनिर्वाही ॥ कर्य,

  • ॥ वायुहीदं सर्व सद्यस्तरति यदिदं किश्च ॥ तरति अतिक्रामति । सद्यः समान एवाहनि । इनि तूर्णित्वम् ॥

॥ वायुर्देवेभ्यो हव्यं वहति ॥ वायुना प्रेरितो ह्याग्निरिताऽभु प्रापयद्धावः । इति हव्यवाट्त्वम् ॥

॥ वायुमेव तदन्तरिक्षलोक आयातयति । आ देवो देवान् वक्षदिति शंसति । असौ वै देवो देवानावहति ॥

उद्यन् सूर्यस्तथास्तं यन् यज्ञादीनां प्रवर्तकः। आवक्षदावहेत् ॥

॥ एतमेव तदेतस्मिल्लोक आयातयति ।

यक्षदग्निर्देवो देवानिति शंसति ।

अयं वा अग्निदेवो देवान् यजति ।। अग्निोता हि देवानां मानुषस्तदधिष्ठितः ।।

॥ अग्निमेव तदस्मिल्लोक आयातयति ॥

WriRE

HTTTTTE

  • पा० सू० ३-२-६४. ‘सूर्यः खलु देवो दीप्यमानः सन् देवान् यष्टव्यान् योवावहति आगमयति । सूर्य उदिते सवनानामारम्भात् ’ इति भटमास्कर,

सवृत्तिके ऐतरेयब्राह्मणे

(तृतीयः

॥ सो अध्वरा करति जातवेदा इति शंसति । वायु

जातवेदाः॥

*विदिः अर्थः ॥

॥ वायुहीदं सर्वं करोति यदिदं किञ्च ॥ वायुः सदा जगत् सर्व चेष्टायुक्तं करोति वै ॥

॥ वायुमेव तदन्तरिक्षलोक आयातयति ॥ इत्थं सूर्याग्निवा स्त्रीनाश्रित्य निविदीरिता ॥

द्वितीयः खण्डः।

अथाज्यसूक्त आघायां विग्रहं त्वाद्यपादयोः।

तृतीयान्तिमयोश्चैक्यं रोचयन् प्रब्रवीति ह ॥ ‘प्र वो देवायामय इत्यनुष्टुभः प्रथमे पदे विहरति ।

# प्रेत्यानुष्टुभसप्तप्रथमायास्तु ये पदे ।।

विहरेत् ते पृथक् कुर्यात् ततो दे श्लेषयेत् पदे ।।

अवसाय स्वनुच्छ्वस्य वचनं विहलोच्यते ॥

॥ तस्मात् रब्यूरू विहरति । स्त्री सम्भोगपरा दृष्टापशयाना रतार्थिने । ऊरू पृथक् करोतीह तस्मादर्थस्तथाविति ।। ‘या न ऊरू उगतीति सूर्यासूक्तेऽध्यगीष्महि ।।

१. ‘सूक्तस्याद्यायाम् ’ घ. ङ, पाठः.

  • ‘जातवेदाः जातधनः धनानामुत्पत्तिहेतुः’ इति भट्टमास्करः. ‘उच्छवासनिःश्वास प्रदानेन आतं प्राणिनं वेदयति जीवनयुक्तत्वेन ज्ञापयति’ इति सायणः । ऋक्सं. ३-१-१३-१, * प्र वः सप्त ऋषभस्वानुष्टुभम् ’ इति सर्वानुक्रमणों म० ३ सू० १३.

ऋक्सं. ८-३.२७-२,

खण्डः

दशमोऽध्यायः ।

३७५

Anima

॥ समस्यत्युत्तर पदे ॥ तृतीयं च चतुर्थं च पदे सङ्गमयेदुभे ।

॥ तस्मात् पुमानूरू समस्यति ॥ पुमान् शयान उपरि खावूरू श्लेपयत्याप । *‘न सेशे यस्य रम्बते’ न सेशे यस्य रोमशम् ॥

‘कन्नरः कपृथमुदिति तिस्रोऽध्यगीष्महि ।।

॥ तन्मिथुनम् ॥ तत् पृथक्त्वैक्ययुगळं स्त्रीपुंसयुगळं खलु ॥

॥ मिथुनमेव तदुक्थमुखे करोति ॥ तत् तेन । उक्थमुखे शस्त्रादौ ॥

॥ प्रजासै प्रजायते प्रजया पशुभिर्य एवं वेद ॥

सा॥

पुनः स्तौति ॥ प्रवो देवायामय इत्येवानुष्टुभः प्रथमे पदे विहरति ॥

एव पुनः ॥

॥ वज्रमेव तत् परोवरीयांसं करोति ॥ तत् तेन वजं शस्त्रम् उत्तरोत्तरस्थूलम् ।।

  • ऋक्सं० ४-४-४-१. * मक्सं० ८-४-४-२. + ऋक्सं० ८०५-१९-६.

इत्येवातुम इति योऽयमेवकारः स पूर्वस्यैवानुवादः नतु नूतनविधिरिति ज्ञापनार्थः’ इति सायण:. ‘उफ एव शंसनविशेष वर्णकान्तरं क्रियते इति प्रदर्शयितु मेवकारः’ इति भभास्कर

सवृत्तिके ऐतरेयब्राह्मणे

॥ समस्यत्येवोत्तरे पदे ॥ एव पुनः॥

॥ आरम्भणतो वै वज्रस्थाणिमा ॥ *आदावणुत्वं वज्रस्य शकुलादेहि दृश्यते ॥

॥ अथो दण्डस्य ॥ आरम्भणतोणिमेत्येव ॥

॥ अथो परशोः॥

पूर्ववत् ॥

7

RTE

HARETTE

अणुशब्दादिमनिचा टिलोपेनाणिमा पुमान् ।। ॥ वज्रमेव तत् प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य

स्तुत्यस्तस्मै स्ततवै॥ *उतार्थम् ॥

तृतीयः खण्डः।

RANA

  1. ‘शकुलादौ हि’ घ. इ. पाठः,
  • ‘आरम्भगतो वै वजस्याणिमाथो दण्डस्याथो परशोः । एतदुकं भवति-वा स्यादिरणीयान् ततः स्थूलं मध्यम् । ततोऽपि स्थूलमन्तम् । इति गोविन्दस्वामी. वनस्य खल्वारम्भणे आरम्भ हस्तग्रहणप्रदेशेऽणिमा अणुत्वं भवति । अथो अनन्तरं दण्डभागस्या न्योऽणिमा पूर्वस्मादूनो भवति । अथो तदनन्तरं च परशोः आस्यप्रदेशस्यान्यो ऽणिमा ततोऽप्यूनो भवति । यदा चाणिमा उपर्युपरि क्षीयते तदा चोपर्युपरि परिमा भवति वनस्य’ इति भभास्करः, ‘वनशब्देन खड्गादिरूपमायुधमभिधीयते। दण्डशब्देन गदा विवक्षिता । परशुरपि तथाविधः । यथा अयं त्रिविधो वनः, एवमिदमपि सूक्तम्’ इति सायणः. । पा० सू० ५-१-१२२. * pages 202 & 203,

दशमोऽध्यायः ।

PPPERATE

.

MN

अथानीधीयवासादिसिय प्राइ कथा शुभाम्

॥ देवासुरा वा एषु लोकेषु समयतन्त ॥ “उक्तार्थम् ॥

॥ ते वै देवाः सद एवायतनमकुर्वत ।। सदाप्रदेशं रक्षार्थस्थानं चक्रुः पुरा सुराः ॥

॥ तान् सदसोऽजयन् ॥ आद्रावयन् सदोदेशात् सुरांस्तानसुरा अपि ॥

॥त आग्नीघ्रं सम्प्रापद्यन्त ॥ सदसो द्राविता देवा आनीधीयं समाश्रिताः ॥ .

॥ ते ततो न पराजयन्त ॥ ततः आनीधीयात् । पराजयः प्रच्युतिः ॥

॥ तस्मादामीघ्र उपवसन्ति न सदसि ॥ अतस्त्यक्त्वा सदः सर्व आग्नीधीये वसन्ति हि ॥

॥ आनीधे ह्यधारयन्त ॥ हि यस्मात् ।

अग्नीधः शरणे रण भत्वं चेत्याग्नीधनिर्वचः ।।

Fr

इत्यवर

  • page 93. आनीध्र एतां रात्रिमृस्विजा वसन्ति ’ इति आप. श्री. सू. ११-२१-१३. पा. सू. वा. ४-३-१२०. प्रियाजादिप्रदानेनामरिन्धका देवा ध्रियन्तेऽस्मिानसानीध्रम् । अवर्थे कविधानमित्यधिकरणे कः । इन्धः कियू अमीधा मेवामीनः खार्थिकोऽणू । वर्णव्यत्ययेन वाकारस्य दीर्घत्वम् । तदिदानीमानीवस्यानीघ्रत्वम् ।

अमीधः शरणे रण भत्वं चेलेतदनानियैवमुरुम् ’ इति भभास्करः,

सवृत्तिके ऐतरेयब्राह्मणे

चितुर्थः

॥ यदानीधेऽधारयन्त तदानीघ्रस्यानीभ्रत्वम्॥

किश्व

॥ तेषां वै देवानामसुराः सदस्यानग्मीन निर्वापयांचाः ॥ सदसि भवान् विष्ण्याननीन् ।

___ वापेरां चि शान्त्यर्थात् पुक् कृञ्चानुप्रयुज्यते ।

अशमयन् ॥

॥ ते देवा आग्नीध्रादेव सदस्याननीन् विहरन्त ॥

सदस्यादिषु दैत्यै नाशितेषु ततः सुराः। आनीध्राद् व्यहरननीन् हलो लङयण न तङ् वितः ।।

॥ तैरसुररक्षांस्यपानत ॥ तैरामीधात् प्रणीतैः ॥

॥ तथैवैतद् यजमाना आमीधादेव सदस्यानमीन्

विहरन्ति ॥ एतदेतहि ॥

॥ असुररक्षास्येव तदपन्नते ॥ सत् तैः । झेझ ॥

१. ‘आमीनत्वम् । तेषाम् ’ प. उ. पाठः,

  • पा. सू० ३-१.४०, ‘देवा वै यज्ञ पराजयन्त तमामीध्रात पुनरपाजयत्रेतद्वै यज्ञस्यापराजितं यदानीनं यदानीध्राद् धिष्णियान् विहरति यदेव मस्यापराजितं तत एवेनं पुनस्तनुते ’ इति तै० सं०६-३-१.

खण्डः

दशमोऽध्यायः । अथ स्तोत्रवाचिनमाज्यशब्दं निराह

॥ ते वै प्रातराज्यैरेवाजयन्त आयन् ॥ ते देवाः प्रातः प्रात:सबने । ‘पञ्चदशान्याज्यानि’, चस्सारीति सामविदा प्रसिद्धैः । आ साधु । जयन्तः वशीकुर्वन्तः । आयत्रागच्छन् ।।

॥ यदाज्यैरेवाजयन्त आयस्तदाज्यानामाज्यत्वम् ॥

क्षेपणार्थादजेराज्यम ; निर्बुवन्ति यत् । तन्न सुष्छु जयार्थत्वादापूर्वाज्जेनिरुच्यताम् ॥

इति भावः ॥

AMMAKAL

MT

सदःप्रवेशे पश्चात्त्वमच्छावाकस्य चाह ह ॥ तासां वै होत्राणामायतीनामाजयन्तीनामच्छा

वाकीयाहीयत ॥ तासां सदाप्रवेशित्वेन प्रसिद्धानां होत्राणामूविजां मध्ये । अच्छावाकीया । ‘होत्राभ्यश्छ।’ स्वार्थे । अच्छावाको नाम होत्रको दुर्बलत्वादहीयत च्युतवान् । कर्तरि यक् ॥

AL

  • ताज्यमा० २०.३-१. बहिष्पवमानसूफादनन्तरम् ‘अम आयाहि’ (उत्तरऋक् १-४) इत्यारभ्य गीयमानानि सूक्तान्याज्यस्तोत्राणि । तत्र प्रातःसवने चत्वारि । माध्यन्दिनसक्ने पञ्च । तृतीयसबने षट् इति पादश. - आइपूर्वान्नयतेरजतेर्वा ण्यन्ताद’ इति गोविन्दस्वामी. + वषट्कारो होत्रादयो होत्राः । देवात्मानो होत्राः, मनुष्यात्मानो होत्रका इति केचित्’ इति भभास्कर: ‘होत्रका यद्यपि पुरुषास्तथापि तदीय तनुविवक्षया तासामित्यादिस्त्रीलिङ्गनिर्देशः । यास्तन्यः पूर्वमसुरानपानत तासामेव होत्राणां होकतनूनाम्, अच्छायाक्रीया अच्छावाकसम्बन्धिनी तनः’ इति सायमः, ६ पा. सू. ५.१-१३५.

सवृत्तिके ऐतरेयब्राह्मणे

चतुर्थः

। तस्यामिन्द्राग्नी अध्यास्ताम् ॥ अभूतां स्थापकौ तस्या इन्द्राग्नी नाम देवते । अघि सम्यक् । उसो डि* ॥

कथं तयोः स्थापकत्वं नान्येषामत उच्यते– ॥ इन्द्रामी वै देवानामोजिष्ठौ बलिष्ठौ सहिष्ठौ

सत्तमौ पारयिष्णुतमौ ॥ ओजो दीतिर्बलं वीर्य प्रसङ्गकरणं सहः । गाम्भीर्य सत् पारयिष्णुरुपक्रान्तसमाप्तिकत् ॥ टिलोप इष्टनि तमा पारेर्णेश्छन्दसीष्णुचि ॥ ॥ तस्मादैन्द्राग्नमच्छावाकः प्रातस्सवने शंसति ॥ तस्मात् तथाहि । इन्द्राग्निदेवत्यं शस्त्रम् । इन्द्रामी आगतम्’ इत्यादि सूत्रितम् ॥

॥ इन्द्राग्नी हि तस्यामध्यास्ताम् ॥ हि यस्मात् ।।

T

C

THE

    • अधिशोधासां कर्मेत्यास्ते: सकर्मकत्वादस्यानुपादानाच द्वितीयार्थे सप्तमी हरव्या । इन्द्रानी हि तस्यामिलनायेवमेव ’ इति गोविन्दस्वामी, तस्यां तन्वाम्’ इति सायण:. ओजिष्टौ अतिमायेन देहबलवन्तौ बलिष्ठौ अतिशयेन बुद्धिबलवन्ती सत्तमौ अतिशयेन समीचीनमती’ इति भभास्करः, ‘ओजाशब्देन बाहुवीर्यमभिप्रेतं, सहाशब्देन प्रसाकारित्वं नाम बलम् । बलशब्दः काकाक्षिनिरीक्षणवदुभयत्र संबध्यते । सत्तमौ अतिशयेन सन्तौ’ इति गोविन्दस्वामी. * पा० सू० ३.२-१३७. s ऋक्सं० ३.१.१०.१. आ. श्री. सू. ५-१०-२८. ‘अध्याताम् अध्यासाताम् । आसयलयेन परसैपदम् अधिशीस्थासामिति कर्मसंज्ञाभावश्च । भट्टा अस्तेर्लङ् । खामित्वेन भवनमधिभवनम् । इन्दामी खलु तस्यामधि स्वामित्वेनास्ता marata | अधिरीभर इति कर्मप्रवचनीयवाद् यस्मादधिकमिति सप्तमी’ इति भाभास्कररा.

४COM

दशमोऽध्यायः ।

३१

॥ तस्मादु पुरस्तादन्ये होत्रकाः सदः प्रसर्पन्ति ।

पश्चाच्छावाकः ॥ प्रविशन्ति सदः पूर्व हो पो नेऽसीद् बच म षट् । पश्चादर्थे ** पश्च पश्वा च च्छन्दसि निपातितौ ।।

॥ पश्चैव हि हीनोऽनु सजिगमिषति ॥ मन्दो हीनः पूर्वगताननुगन्तुं किळेच्छति । * गमेरिट परस्मैपदेषु ॥

॥ तस्माद्यो ब्राह्मणो बहुचो वीर्यवान् स्यात्

सोऽस्याच्छावाकीयां कुर्यात् ॥ बिचश्चरणाख्यायां वीर्यमुक्तिस्थपाटवम् ।।

॥ तेनैव साहीना भवति ॥ सा अच्छावाकीया । अहीना सुदृढा । तेन वीर्यवदचकर्त कत्वेन ॥

चतुर्थः खण्डः।

१. बवृधवक्तस्वेन ’ घ. इ. पाठः.

पा. सू. ७०२.५८. *

पा. सू. वा.

  • पा० सू. ५-३-३३. । ५-४-७४,पञ्चमः

३८२ सवृत्तिके ऐतरेयब्राह्मणे

होतुः प्रथमशस्त्रं यदाज्यं तत् स्तोतुमाह ह

॥ देवरथो वा एष यद्यज्ञः ॥ यत् यः॥

रमन्तेऽत्र समारूढा *रमे क्थन् सुखदो रथः । देवार्थोऽयं तत्कृतो वा देववत् पूज्य एव वा ।।

॥ तस्यैतावन्तरौ रश्मी यदाज्यप्रउगे ॥ भवार्थेऽण्याद्यवृद्धिः स्यान्नान्तरौ मध्यवर्तिनौ । यो रश्मी तु रज्जू वै तस्य देवरथस्य ह ॥ ॥ तद्यदाज्येन पवमानमनुशंसति प्रउगेणाज्यं

देवरथस्यैव तदन्तरौ रश्मी विहरत्यलोभाय ॥ तत् तत्र पवमानं बहिष्पवमानम् । आज्येन प्रथमशस्त्रेण अनुशंसति यत् । यच्च भउगेण द्वितीयशस्त्रेण होतुराज्यं नाम स्तोत्रमनुशंसति । विहरति तत् सङ्गृह्णाति । अलोभाय अनाकुलत्वाय ॥

॥ तामनुकृति मनुष्यरथस्यैवान्तरौ रश्मी विहरन्यलोभाय ॥

तां कृतिमनु लक्षीकृत्य । विहरन्ति । रथस्य परिचारकाः ॥ ॥ नास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद ॥ अस्य वेदितुः । देवरथो यज्ञः । लुभिर्दिवादिः । व्याकुलो न स्यात् ॥

॥ तदाहुः ।।

  • उणादिसू. २-२, । ‘अन्तरौं अन्तरगौ प्रधानोपकरणत्वात् । यद्वा प्रेरकत्वादन्तरात्मस्थानीयौ ’ इति भाभास्करः,

खण्ड:

देशमाऽध्यायः ।

चोद्यस्वरूपमाह -

॥ यथा वाव स्तोत्रमेवं शस्त्रम् ॥

ततः किम्,

॥ पावमानीपु मामगाः स्तुवत आमेयं होताज्यं शंसति

कथमस्य पावमान्योऽनुशस्ता भवन्तीति । अस्य अनेन । ‘म वो देवायाग्नय’ इत्याग्नेयं मूक्तं शंसता कथमनुशस्ताः 8’ उपास्मै गायत’ ‘दविद्युतत्या’ पवस्व’ इत्यूचः पवमानदेवताः स्युः।।

परिहरति-~

। यो वा अग्निः स पवमानः ॥ *पवमानः शुद्धिकारी सर्वस्याग्निहि शोधकः ।। ॥ तदप्येतदृषिणोक्तमग्निर्ऋषिः पवमानः इति । एवमु हास्या मेयीभिरेव प्रतिपद्यमानम्य पावमान्योऽनुशस्ता भवन्ति ।

एवमुह एवञ्च सांत । आग्नेयीभिः शमा भिम्।। प्रतिपदिः शंसनाथः । अग्निदेवत्याः शंसतानेन ॥

किच,

॥ तदाहुर्यथा वांव स्तोत्रमेवं शस्त्रम् ॥

TET

१. ‘भवन्तीति’ घ. ह. पाठः. ___ * ऐ. ब्रा० २४-४, स्तिोत्रम शस्त्रात् ’ इति आ. श्री. सू० ५-१०-१. 5 ‘अस्य होतुः’ इति सायण: अक्सं० ३.१-१३-१, ऋक्सं. ६-७-३६.१. ऋक्सं० ७-१-४१.३० % ऋक्सं ० ७-२-५.१. * योऽयमग्निः स एव पवमानो वायुः प्रीलतिशयेनकत्वप्रतिभासात् । यद्वा शोधकत्वादभिरेव पवमान इति मन्त्रार्थः’ इति सायणः ऋक्सं ७-२-१०-५. अमिदेवताकाभिः सूकगताभिः ऋग्भिः ’ इति सायणाः

२८१

सवृत्तिके ऐतरेयब्राह्मणे

ततः किं,

॥ गायत्रीषु सामगाः स्तुवत आनुष्टुभं होताज्यं शंसति

कथमस्य गायच्योऽनुशस्ता भवन्तीति ॥

आनुष्टुभं भवः सप्त गायत्र्यश्चाप्युपा नव । आनुष्टुभमिति । *उत्साघम् । उक्तं हि

“अनुष्टुबुष्णिक त्रिष्टुप् च जगती पक्तिरेव च ।

उत्सादित्वादवेभ्यः’ स्याद्दीव्यतः प्रागणन्यतः ॥ उक्ताद्युत्कृतिपर्यन्तच्छन्दसस्सविशेषकात् ।

स्वार्थे तु सर्वतस्त्वण स्यादिति शब्दविदो विदुः ॥” इति ॥ परिहरति

॥ सम्पदेति ब्रूयात् ॥ चोदकान् प्रति ॥ कर्य,

॥ सप्तैता अनुष्टुभः ॥ + प्रवः सप्त ऋषभस्त्वानुष्टुभम् ’ इति हि सर्वानुक्रमणी ॥

॥ तास्त्रिः प्रथमया त्रिरुत्तमयैकादश भवन्ति ॥ सप्तसु चतुराधिक्यात् ॥

॥विराड् याज्या द्वादशी ॥ विपरिणामेनानुष्टुवित्येव ।

१. ‘उत्सादिः स्यादसेभ्यः ’ क, ख. पाठः.

  • पा० सू० ४.१.८६.

म. ३० सू० १३.

खण्ड:

दशमासाय.

SETTE

नन्वन इन्द्रश्च त्येपा व्यधिकत्रिंशदारा ।

कथमस्या अनुष्टुप्त्वमन उत्तरमुच्यने ॥ नवा एकनाक्षरेण छन्दांमि वियन्ति न द्वाभ्याम्

धेकवर्णाधिकोनत्वे छन्दसो नान्यथा खलु ।।

॥ ताः षोळश गाययो भवन्ति ॥

I

ता द्वादशानुष्टुभः स्युगायत्रगः पोडशैव हि । कथं स्यादेवमिति चेत् सम्पत्तिः श्रूयतामियम् ।

प्रातिशायनिदानादों प्रोक्ता श्रुतिषु सम्मता ।। “छन्दस्तुरीयेण समानसंख्या याश्छन्दसोऽन्यस्य भवन्त्यूचोऽन्याः

यावतुरीयं भवनि स्वमासां तावत्य एता इतरा भवन्ति ॥” इति प्रातिशाख्यो।

" यस्य कस्यचिच्छन्दसः सम्पदं कश्चिदिति ।

चतुर्थ तस्य संख्याय तावतीराहरेदृचः । यदुतच्छन्द आहरेदन्यदन्यस्य सम्पदे ।

चतुर्थ तस्य संख्याय विद्यात्तास्तावतीचः ।।” इति छन्दोगनिदाने ।।

“गायच्यादिच्छन्दसां सम्गदुक्तौ यत्तुच्छन्दः प्रेप्स्यते येन तत्र । तुर्यान् वर्णान् प्रगणय्योभयत्र थगायत्रयस्तोष्णिहश्चेति विद्यात् ।।

१. ‘संप्रति ‘घ इ. पाठ. २. ‘प्रोच्यते’ क ख. पाटः

  • ऋक्सं० ३-१-२५-४. + पट. १८. वाराणस्यां मुद्रिते पुस्तके पद्यमिदं गलितम् . * निदानगतच्छन्दोविचितो पट. २. ख० १.

49

(पञ्चमः

१८६ सवृत्तिके ऐतरेय ब्राह्मणे

द गायत्र्योऽनुष्टुभस्तो द चोष्णिक थानुष्टुभश्चैवमेवा जगत्याः । एवं कृत्वा द्वादशानुष्टुभः स्युयियों वै पोळशेत्यादिसिद्धिः ॥ महावते बृहत्तीनां सहस्रं निष्केवल्ये सम्पदा प्राप्यते हि ।

कश्छन्दसां योगमावेद धीर इति स्तुता मन्त्रतः सम्पदेषा ॥” इति बृहदेवताशेषे । अत्र च,

षट् त सप्त थ दाष्टौ तु संख्या कटपयादिना ।

गायत्र्यः सप्लोष्णिहः परित्यावर्थोऽत्र गृह्यताम् ।। सूच्यते हि चतुर्धारण्यके … ‘सप्त सप्त गायत्र्यः षट् पल्लष्णिहो

HTTTTT

॥ एवमुहास्यानुष्टुभिरेव प्रतिपद्यमानस्य गायन्यो

ऽनुशस्ता भवन्ति ॥ पूर्ववत् ॥

॥ अन्न इन्द्रश्च दाशुषो दुरोण इत्याग्नेन्द्रया यजति ॥ उत्तरपदवृद्धिर्नेन्द्रस्य परस्य इति ॥ स्तौति

॥ नवा एताविन्द्राग्नी सन्तौ व्यजयेतामाग्नेन्द्रौ

वा एतौ सन्तौ व्यजयेताम् ।। पाविपराभ्यां जेः’ इति तङ् । स्वार्थिकोऽण् ।

NATOM

U

__ * ऐ• आ० ५.२-५. मुद्रितमन्थरीत्या (Asiatic Society) पञ्चमारण्यक मिदम् . + ऋक्सं० ३-१-२५-४, * पा० सू० ७-३-२२. 8 अमीन्द्रावित्यपि पाठमाह भहभास्करः । तथाचाह–‘अग्नीन्द्रो अभिप्रधानौ अमिपूर्वी वा सन्तौ विजयिना बभूताम् । आग्नेन्द्राविति कचित् पाठः । तत्र स्वार्थिकोऽण’ इति. पा० सू० १-३-१९.

ग्वण्ड

दशमोऽध्यायः ।

k

pmdar

HTTA

L

O

"

इन्द्रम्य प्राग्भवलेन्द्र पूर्वन्वे नाभवजयः । जयोऽभूदग्निपूर्वन्चे ऋग्म्याग्नेहि दाहनः ।

॥ तद्यदानन्द्रया यजति विजिन्या एव ।। यजति यत्तु नद् विजित्य विजयाय स्यान ।

॥ सा विगट त्रयस्त्रिंशदक्षरा भवति ॥ ‘दशकास्त्रयो विराट् । एकादशका बा’ इति हि सर्वानुक्रमणी* ॥

॥ त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशा दित्याः प्रजापतिश्च वषट्कारश्च तत् प्रथम उक्थमुखे देवता

अक्षरभाजः करोति ॥

तत् तत्र ॥

॥ अक्षरमक्षरमेव तद् देवता अनुप्रपिबन्ति ॥

एकैकवर्णपमृतसममास्वादयन्ति ताः ।

तत ताः ।।

॥ देवपात्रेणैव तद्देवतास्तृप्यन्ति ।। पात्रेण पिवतेः ष्टस्तु करणे पानहेतुना । तत् नेन याज्यानुवाकोन लियुक्ता भवन्ति च ॥

॥ तदाहुः ॥

TOS

ATTER

१.

प्रामवत्वेनेन्द्र’ घ, इ. पाठः.

परि० ६-७, ८.

उणादिसू० ४.१६००

सवृत्तिके ऐतरेयब्राह्मणे

३८८

पक्षमा

पञ्चमः

चोद्यस्वरूपमाह

॥ यथा वाव शस्त्रमेवं याज्या॥ शस्त्रतधाज्ययोः साम्यमुचितं हि श्रुतौ श्रुतम् ।। ततः किम्,

॥ आग्नेयं होताज्यं शंसत्यथ कस्मादाग्नेन्द्रया यजतीति ॥ अथ तथा सति , केवलाग्नि देवत्या याज्या भवितुमईतीति भावः ।।

पारहरात–

RAPHARMA

पत

॥ या वा आनेन्द्रयैन्द्रामी वै सा ।। वै खलु । वै एव !

नहि क्रमो वस्तुगतस्तदन्यत्वकृतौ क्षमः । इति भावः ।। ततः कि,

॥ सेन्द्राग्नमेतदुक्थम् ॥ शस्त्रमुक्थं तदिन्द्राग्निदेवतायुगळान्वितम् । ‘आद्यावृद्धिज्योतिषवद् बहुव्रीहौ सहस्य सः ॥

नन्वाग्नेयमिदं मूक्तमत उत्तरमुच्यते

॥ ग्रहेण तूष्णींशंसेन च ॥ सेन्द्राममित्येव ॥

ULI

१. ‘तथा सति न केवलाग्नि’ घ. ड. पाठः.

• संज्ञापूर्वकविधियान्न वृद्धिरिति भावः + पा० सू० ६-३-७८.

खण्डः

३८९

.

कथम्,

॥ इन्द्रामी आगतं सुनं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषितेत्यैन्द्राग्नमध्वर्युग्रहं गृह्णाति । भूग्निोतिर्योति रनिरिन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रसूर्यों ज्योतिर्योतिः स्वः सूर्य इति होता तूष्णींशमं शंमति ।।

ततश्च

॥ तद्यथैव शस्त्रमेवं याज्या ॥ तत् तेन , ऐन्द्राग्मत्वेन ! एवं तथा ।।

Anni

T

पचमः खण्डः।

पराङ्मुखे समासीने त्वध्वयों जप उच्यते । फलित्वरूपसम्पत्त्यै निषेकादि च वयेते-

॥ होतृजपं जपति ॥ सुमदित्यादिमन्त्रस्य नाम होजपस्त्विति ।

॥ रेतस्तत् सिञ्चति ॥ तत् तेन ।

। उपांशु जपति ॥

Mad

  • ३-१-११-१. अध्वरेन्द्रानं गृहाति · । इन्द्रानी आगतं सुतमिति प्रहणसादनौ’ इति आप. श्री. सू० १२-२७-८. * ‘पराडध्वर्यावावृत्ते सुमत्पद्वग्दे पिता मातरिश्वाच्छिद्रा पदा वाच्छिद्रोक्या कवयः शमन् । सोमो विश्वविन्नीथा निनेषद् बृहस्पतिरुक्थामदानि शंमिषद बागायुर्विश्वायुर्विश्वमायुः क इदं शंसिध्यति स इदं

शंसिष्यतीति जपित्वानभिहिंकृत्य शांसावामित्युच्चैराहय’ इति आ. श्री. सू. ५-९-१.

सवृत्तिके ऐतरेयब्राह्मणे

॥ उपांश्विव वै रेतसः सिक्तिः ॥ इव एव ।

योनौ हि रेतसः सेकः’ क्रियते गुप्तमेव तु ॥

॥ पुराहावाजपति ॥

कुत एवं ,

॥ यदै किश्चोर्ध्वमाहावाच्छस्त्रस्यैव तत् ॥ किच किश्चित् ।

आहावस्योपरिष्टाञ्चेजपा शस्त्राङ्गतां व्रजेत् ॥

॥ पराञ्चं चतुष्पद्यासीनमध्याह्वयते ॥ सैषा चतुष्पदी भूम्यां यदा इस्तौ च पादयत् ।

निहितौ तु तयासीनमध्वर्यु प्रति चाह्वयेत् ॥ एतच्च युक्तमित्याह–

॥ तस्मात् पराञ्चो भूत्वा चतुष्पादो रेतः सिञ्चन्ति । तस्मात् तथाहि । चतुष्पादः पशवः । पराञ्चः अनभिमुखाः ।।

आहावादनन्तरमध्वर्युः,

॥ सम्यग् द्विपाद् भवति ॥ सम्यगभिमुखः । द्विपात् हस्तौ भूम्या आदते ॥

॥ तस्मात् सम्यञ्चो भूत्वा द्विपादो रेतः सिञ्चन्ति ॥ द्विपादः मनुष्याः । सम्यञ्चोऽभिमुखाः । अश्चतौ ’ समः समि* ॥

१. ‘रेतसंसेकः ‘घ. ह. पाठ

TRA

  • पा सू०६-३-९३०

खण्डः

देशभऽव्याय. :

देशमाध्याय

३९१

पिताम

a

जपैकदेशम् ।। अत्र,

॥ प्राणो वै पिता प्राणा मातरिश्वा प्राणो रेतः ॥

ततः किं,

॥ रेतस्तत् सिञ्चति ॥

.

तत् तत्र ।।

॥ अच्छिद्रा पदा धा इति ॥ धादित्युचार्य धा इति छान्दसः ॥ अत्र,

॥ रेतो वा अच्छिद्रम् ॥

॥ अतो ह्यच्छिद्रः सम्भवति ॥ अतः प्राणरूपाद् रेतसः : अच्छिद्रः पूणाङ्गः ।

॥ अच्छिद्रोक्था कवयः शंसन्निति ॥

HEEN

RAM

। ये वा अनचानास्ते कवयः ॥ अनूचानाः सर्ववेदपाठार्थज्ञानसंयुनाः ।

.

समानास्त्यते…’ यद्वा ते प्राणादेतः सिच्येत पूयेन संभवत् । (ऐ० आ० ३१.२) इति सायणःसवृत्तिके ऐतरेयवाहणे षष्ठ ॥ त इदमच्छिद्रं रेतः प्रजनयन्नित्येव तदाह ॥ ते कवयः क्रान्तदर्शनाः । जनयन् । लोटो लङयन । जनयतु ॥

रेतः सुतार्थ कवीनां प्रसादादिह वै भवेत् । इति भावः ॥

सोमो विश्वविन्नीथा निनेषद् बृहस्पतिरुक्थामदानि

शंसिषदिति ॥

व्याचष्टे–

॥ ब्रह्म वै बृहस्पतिः । क्षत्रं सोमः ॥ वित्रा वृहस्पातः प्रातः सामः क्षात्रय ईरितः ।

अंशान्वयाद्धि सोमस्य भन्नलमिनि वै विदुः ॥ " इन्द्राद प्रभुत्वं ज्वलना प्रापं क्रौर्य यमात् सोमत एव सौम्यम्

सत्त्वस्थिती रामजनार्दनाभ्यामादाय राज्ञां क्रियते शरीरम् ॥” इति श्रीविष्णुधी भवति

॥ स्तुतशस्त्राणि नीथानि चोक्थामदानि च ॥

नीथानीति स्तोत्रमुक्तं शस्त्र क्यामदेति च ॥ एक्च, ॥ देवेन चैवैतद् ब्रह्मणा प्रसूतो देवेन च क्षत्रेणोक्थानि

शंसति ॥ एतदेतार्ह प्रसूतः अनुज्ञातः । उक्थानि शस्त्राणि ।।

  • सोमस्य क्षत्रियत्वं तच्छ्योरूपमत्यस्जत क्षत्रं यान्येतानि देवत्रा क्षत्राणि इन्दो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः’ इति शतपथब्राह्मणे (१४-४-२-२३)

जिटि: १.४.११} चाम्नातम् . । अध्या० ६३ श्लो. ५.

TE

TF

A

(खण्डः

-वाय. ! ३९३ कस्मादेवम् , ॥ एतौ ह वा अस्य सर्वस्य प्रसवस्येशाते यदिदं किञ्च ॥ प्रसवस्य । कोण भारप . अनुतानन्यस्य । अस्य सर्वस्येति व्याचष्टे– यदिदं किञ्चेनि पता विनराजानी । ईशाते ईश्वरौ भवतः ।।

तदनुज्ञा च प्राय॑वेन्याह —

॥ तद्यदेताभ्यामप्रसूतः करोत्य ऋतं तत् ॥ नत् तत्र । एताभ्यां विप्रराजभ्याम् । यत्कर्म करोति । अप्रसूतः अननुज्ञातः । अकृतं करणानई तत् ।।

ततः किम् ,

॥ अकृतमकरिति वै निन्दन्ति ॥

OPM

AND

AN.MAH

अक: अकापीः ।

AM

॥ कृतमस्य कृतं भवति नास्थाकृतं कृतं भवति

य एवं वेद ।।

अस्यानेन वैदित्रा ।

कृतं कर्तव्यमेव स्यान्नवाकृत्यं कृतं भवेत् ॥

॥ वागायुर्विश्वायुर्विश्वमायुरित्याह

  • पा० सू. ३.३.५७,

‘अस्य वेदितुः’ इति सायणा.

50

१९९

सवृत्ति के ऐतरेयब्राह्मणे

न्याचष्टे–

॥ प्राणो वा आयुः । प्राणो रेतो वाग् योनिः॥

शताब्दरूपमायुश्च प्राणस्थित्येह वै भवेत् ।

प्राणकार्यञ्च रेतो वाग् योनिः संश्लेषकारिणी ॥ * ‘वाचा मित्राणि संदधती’ति खल्वध्यगीष्महि ।।

॥ योनि तदुपसंधाय रेतः सिञ्चति ॥ उपसंघाय विदृत्य । तत् तत्र ॥

अत्र,

॥ “प्रजापति कः॥

ततश्च,

प्रजापतिः प्रजनयिष्यतीत्येव तदाह ।। शंसनस्य प्रजापतिहेतुत्वात् ॥

FIR

  • ‘आयुःशब्देन प्राण एव विवक्ष्यते ’ यावर्यालञ्छरीरे प्राणो वसति तावदायुः’ (कोषी. उ. ३-२) इति श्रुतेः’ इति सायणः. + ‘प्राणो रेतः प्रागनहेतुत्वात् । योनिरेव बाक सर्वार्थानां विकल्पमूलत्वात् ’ इति भट्टभास्करः. ऐ० आ० ३-१-६. s - उपसन्धानमुपसं लेषः’ इति भट्टमास्कर:- योनिमुपसन्धाथ गर्भस्थानमभिलक्ष्य’ इति सायण:. शस्त्रस्य गोनिभूतां वाचमुपसन्धान मन्त्रेण रेतोभूतं यजमान सिञ्चति’ इति गोविन्दस्वामी को ह वै नाम प्रजापतिः’ इति तै० प्रा० २-२-१०,

इसमा

-y

HA

गुणाः केचिदयोच्यन्ते तूष्णोशंस निविद्याप

॥ आहूय तूष्णींशंसं शंसति ॥ शोसावों पूर्वमुक्त्वाथ भूग्नीत्यादिकं वदेन ।

॥ रतस्तत मक्त विकरोति ॥ यद्रेतः सिक्तमग्रे नद् गर्भस्थाने प्रवेशयेत् । गर्भाशयप्रवेशस्तु विपूर्वेण बोच्यते ॥

॥ सिक्तिर्वा अग्रेऽथ विकृतिः ॥ योनौ प्राग्रेतसः सेका प्राप्तिर्गर्भाशये नतः ।। ॥ उपांशु तूष्णींशंसं शंसति । उपाश्विव वै रेतसः सिक्तिः॥

इव एव ।।

॥ तिर इव तूष्णीशंमं शंसति ॥ तिरः जपात् किश्चिदुचैः ।।

॥ तिर इव वै रेतांसि विक्रियन्ते ।। ओर्यकि लट्’ (१) । विकुर्वन्ति ।

रेतांसि मातुरुदरे किञ्चिदुच्छ्नन्ति वै ।।

किश्च,

॥ षट्पदं तूष्णींशंसं शंसति ॥

१. ‘लट् । रेतांसि’, २. ‘मातुरुदरं’ प. है. पाठ:

  • शोसावोमित्युच्चैराहय तूष्णींशंस शंसेदुपांशु सप्रणवमसन्तन्वन्’ इति भा. श्री. सू. ५.९.1.1 ‘देहत्वेन परिणामो विकार:’ इति माभास्करः.

३९६ सवृत्तिक ऐतरेयब्राह्मणे

सप्तमः ज्योतिश्शब्दैरप्रभूतैरवसाने पदानि षट्। सूत्र्यते हि–” यधु व षट्पदः पूज्योतिश्शब्दरग्रेऽवस्येद्’ इति ॥

॥ षडिधो वै पुरुषः ॥ लोमानि त्वांसमस्थि सिरा मजेति षड्डिधाः ।।

॥ षळङ्गः॥ पुरुष इत्येव ।

पाणिपादमुखघ्राणनेत्रश्रोत्रैः पळङ्गता ॥ ॥ आत्मानमेव तत् षड्डिधं पळझं विकरोति ॥

जननाई तु वृद्धत्वं विकार इह कथ्यते ।।

॥ तूष्णींशंसं शस्त्वा पुरोरुचं शंसति ॥ तूष्णीशंसं तु शंसित्वा शंसेनिविदमन च । प्राक् मूक्ताद्रोचनादेषा पुरोरुक प्रोच्यते निवित् ॥

॥ रेतस्तहिकृतं प्रजनयति ॥ तत् तत्र रेती विकृतं प्रवृद्धं तु प्रकाशयेत् ।। ॥ विकृतिर्वा अग्रेऽथ जातिः । उच्चैः पुरोरुचं शंसति ॥ निवित् पुरोरुक् ॥

AN

AT

  • आ० श्री सू० ५९-११. ‘षडङ्गक इति यथा ब्राह्मणान्तरे घोढा विहितो वै पुरुष आत्मा च शिरश्चत्वार्यशानि’ इति (ते. सं० ५-६-९) । आत्मा मध्यमः काय: शिर उपरिभागः द्वौ पाणी द्वौ पादौ इति केचिदाहुः । आत्मा कायः स च पञ्चविधः । मध्यकायो द्वे पार्थे पृष्ठं कुक्षिः इति । एवं पञ्चविध आत्मा व शिरश्च इति पुरुषः षड्विधः । तस्यानानि षड् द्वे पाणी द्वौ पादौ द्वौ च स्तनौ’, “विकृतं कललीभूतं प्रजनयति प्रजात्वेन परिणमयति’ इति भभास्करः. S ’ उच्चैनिविदं यथानिशान्तमनिर्देवेद्र इति ’ इति आ० औ० सू० ५.९.१२.

खण्ड:

दशमोऽय.

॥ उच्चैरेवैनं तत् प्रजनयति ॥ तत् तम् । एनं यजमानम् ॥

॥ द्वादशपदा पुरोरुचं शंसति ॥ पदद्वादशकोपेता ह्यांनर्देवादिका निवित् ।। ॥ द्वादश वै मासाः मंवत्सरः संवत्सरः प्रजापतिः सः ॥

यस्तु संवत्सरो नाम स प्रजानां हि रक्षकः ॥

कुतः,

॥ अस्य सर्वस्य प्रजनयिता सः॥ अब्दायत्तं हि जगतः सर्वस्यास्य प्रवर्तनम् ।। ॥ योऽस्य सर्वस्य प्रजनयिता स एवैनं तत् प्रजया

पशुभिः प्रजनयति ॥

ततश्च,

॥ प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद । जातवेदस्यां पुरोरुचं शंसति जानवेदोन्यङ्गाम् ॥ न्य चिह्नम् । ‘सो अध्वरा करति जातवेदा’ इति’ ॥

॥ तदाहुः ॥

१. ‘इति जातवेदशन्दे भवाम् । तदाहुः’ क. ख. पाठा.

  • ‘उच्छ्रितगुणेन देहेन विशिष्ट प्रजनयति’ इति भहभास्करः. ‘उत्पादनकाले प्रसववेदनया तन्मातोश्चैवनि करोति । तदिदमुच्चैः प्रजनयतीत्युच्यते’ इति सायणः. +‘जातवेदो(न्य शामिति । जातवेदशब्दावयवाम् । केचित् पठन्ति जातवेदोन्यामिति । तत्र जातवेदःशब्दविहामिति द्रष्टव्यम् ’ इति भभास्करः.

सवृत्तिके ऐतरेयब्राह्मणे

सप्तमः

चोद्यस्वरूपमाह–

॥ यत् तृतीयसवनमेव जातवेदस आयतनमथ कस्मात् प्रातःसवने जातवेदस्यां पुरोरुचं शंसतीति ॥ यत् यदि । अथ तथा सति । एव खलु । पुरोरुचं निविदम् ।

जातवेदास्तु देवोऽयं वर्तते ह्यानिमारते ।। परिहरति

॥ प्राणो वै जातवेदाः ॥

॥ स हि जातानां वेद ॥ शिस आम् । एवमुत्तरत्रापि ॥

॥ यावतां वै स जातानां वेद ते भवन्ति ॥ भूतिः समृद्धिः। स प्राणः ॥

॥ येषामु न वेद किमु ते स्युः ॥ उ पुनः उ खलु । किं स्युः । नहि भवन्तीति भावः ॥

॥ यो वा आज्य आत्मसंस्कृति वेद तत्सुविदितम् ॥

यजमानशरीरस्य य आज्ये वेत्ति संस्कृतिम् । तत् तेन सुष्टु विदितं स हि विज्ञानपारगः॥ .

सप्तमः खण्डः।

  • ‘तथाच सम्प्रदायविद आहुः’ इत्यवतारिकया पथमिदं सायणेन पश्यते. + ‘जातानामिति । कर्मणः सम्प्रदानत्वाचतुर्थ्यर्थे षष्ठी । जातानि जन्मवन्ति शरीराणि सर्वभूतानि वा येषु स्वयं तिष्ठन्ति तानि सर्वाणि ’ इति भभास्करः, ‘जातानामुत्पमानां शरीराणां स्वरूपं वेद ’ इति सायणः.

खण्ड:

दगमायायः

अथाज्यमुक्तस्य ऋचा प्राणसंस्कृतिकर्माण । आभिरूप्यं तु सप्तानां सम्यगाह मगेचयन —- ॥ ‘प्र वो देवायामय इति शंसति ॥

A

Hot

तत्र,

प्राणो वै प्र॥ प्रशब्देन प्राण उक्त एकदेशस्य कीर्तनात् । प्रजापतेर्दशब्देन दण्डदंशदमा यथा । दैत्यसर्पब्राह्मणानां हितं प्रद्युमुपेयुपाम् ।। ॥ प्राणं हीमानि सर्वाणि भूतान्यनुप्रयन्ति ॥ चरन्ति सर्वभूतानि प्राणे सत्येव नान्यथा ।।

॥ प्राणमेव तत् सम्भावयति ॥ तत् तेन प्रशब्देन । सम्भावनमुत्पादनम् ॥

१. ‘अथाधसूक्तस्थऋचा’, २.

शंसति । प्राणो’ प. द. पाठ;

  • ऋक्सं० ३.१-१३-१. उत्तमेन पदेन प्रवो देवायेत्याध्यमुपसन्तनुयात् ’ इति आ० श्री० सू०५-९-१५. बृहदारण्यक त्वेवं इश्यते— त्रयः प्राजापत्याः प्रजापतो पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या असुदा उपित्या ब्रह्मचर्य देवा ऊचुनैत्रीतु नो भवानिति तेभ्यो हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति प्रज्ञासिध्मेतिहोचुर्दाम्यतेति न आत्थेयोमितिहोवाच व्यज्ञासिष्टेति । अथहैन मनुध्या ऊचुनीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति ध्यज्ञासिटा३ इति व्यज्ञासिध्मेतिहोचुर्दत्तेति न आत्थेयोमितिहोवाच व्यज्ञासिष्टेति अपहनमसुरा ऊचुनवीतु नो भवानिति तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिटा३ इति व्यज्ञासिध्मेतिहोचुदयध्वमिति न आत्थेयोमितिहोवाच व्यज्ञासिष्टेति’ (५२) इति. * प्राणसम्बन्धिनि अन्नप्रकर्षे प्राणशब्दो वर्तते । तस्य (प्राण प्रशब्दो द्योतकः । तत्र योत्सद्योतकयोरभेदोपचारात् प्राणप्रशब्दयोः सामानाधिकरण्यम्’ इति मभास्करः,

‘सम्भावितं पूजितं करोति इति सायणः.

सवृत्तिके ऐतरेयब्राह्मणे

[अष्टमः

HIST

॥ प्राणं संस्कुरुते ॥ संस्कृतिरलङ्कारः । “सम्पर्युपेभ्यः-’ इति सुट् ॥

॥ दीदिवांसमपूर्व्यमिति शंसति ।। म ऋतावा सय सनो दीदिवोतन नूनच । इति क्रमात् संहितास्थादन्य आश्रीयते क्रमा ॥

शंसनाय स प दीदि सनः शर्माणि चोतनः । स यन्ता ऋत नूनोराखायान्त्ये’ क्रमयोः समे ॥

॥ मनो वै दीदाय ॥ दीदीति धातुर्दीप्त्यर्थस्तिपो गल् वृद्धिरायचि आदौ प्रकाशते ॥ स्पष्टयति

___॥ मनसो हि न किश्चन पूर्वमस्ति । ‘मनसा वा अग्रे संकल्पयति ’ इति श्रुतेः ।।

॥ मन एव तत् सम्भावयति । मनः संस्कुरुते । स नः शर्माणि वीतय इति शंसति । वाग्वै शर्म ॥

वागिन्द्रियेण सम्पाद्यशब्दः सुखकरो महान् ॥

  1. “स यन्ता च तानूनोरायन्ते’ घ.. पाठः,
  • पा० सू० ६-१-१३७ + ऋक्सं० ३-१-१३-५. + ‘अनुब्राह्मणं बानुपून्यम्’ इति आ. श्री. सू० ५.९.२३. ऐ. आ. ३-१-१. ऋक्सं. ३-१-१३ ४,

खण्ड:]

दशमोऽध्यायः

१०१

उपपादयनि

॥ तस्माहाचानुवदन्तमाह शर्म बदास्मायांसीति ॥

कश्चिद् ब्रूने स्वं सग्वायं गुरुक्तार्थानुवादिनम् । ‘अस्मा अस्य यथा शम तथा वद उसस्तु रे ।।

आपवादमतेलंट सिम् मोऽनुस्वारः शपश्च लुक् ।

आंसि यास्यसि शर्म त्वं गुरौ तोऽनुवादनः ।।

इति तस्मात्तथाहीह वाग्युक्तं शर्म शुश्रुम । र अस्मै आंसि । आयादेशः । ‘लोपः शाकल्यस्य’ इति पक्ष यलोपाभावः ।

॥ वाचमेव तत् सम्भावयति वाचं संस्कुरुते । ‘उत नो ब्रह्मन्नविष इति शंसति श्रोत्रं वै ब्रह्म ॥

१. ‘शुश्रुम । वाचमेव’ क. ख. पाठः, * शर्मवद् इति च्छेदः सायणमते। तथाच तयाख्या- अस्मै गुरुतार्थस्य सम्यगनु. वादिने शिध्याय शमवत् सुखयुक्तं जीवनं सम्पन्नम् ’ इति. ‘आयांसि समन्ततो नियतोऽसि । आङ्पूर्वस्य यम उपरमे इत्यस्य धातोश्छान्दमं रूपम् । आस्मा इत्याकारश्च च्छान्दसः’ इति सायणः, अत्रयो भट्टमास्करीयन्याख्याभागः कचिद् अशुद्धोऽपि विशेषार्थ दर्शनाद् यथामातृकमेव निवेदयते-‘शर्म सुखकरं वद भूयोऽपि वद । किं कारणमेवमुच्यत इति चेत् त्वं खल्वस्मै ईशाय सुखहेनवे बचनाय आयांसि आगच्छसि अत्यर्थ शक्नोषि । यस्मादेवमाह तस्माच्छमहतुगिति मन्यामहे । अम गत्यादिनित्यस्य छान्दसः शपो लुक् । बदा शर्म बदाः वदामः भूयोऽपि वदितुमे सि ले…………डागमः सकारस्य कृत्वयत्वलोपा व्यत्ययेन में क्रियन्ते । सुखहेतुमिमां ते वाचमविच्छेदेन वदत देवा वा मा यांसि इति मा हंसीरिति उपरतां मा काषीः । यमेलडि मध्यमवचने इतश्च लोपे यमरमनमातामिति सगिटोः सकारस्थ यत्वलोपावप्राप्ताव कियेते व्यत्ययेना त्वलोपो वा द्रष्टव्यः । यद्वा ण्यन्तालेटि छान्दस: शो लुक् । छन्दस्युमयथा इति सिप आर्धधातुकरवाणिलोपः । एवं वदनप्रार्थनया निवृत्तिप्रतिषेधाच सुखहेतु गिति मन्यामहे । सुखमेव हि प्राथ्यते । तन्निवृत्तिरेव च प्रसज्यमाना निषिध्यते प्राणिभिः’ इति भभास्करा, * पा० सू० ८-३-२३. पा० ० ८.३.१९.., असं ० ३०१-१३-६.१०२

सवृत्ति के ऐतरेयब्रामणे

[अष्टमः

कथं,

॥ श्रोत्रेण हि ब्रह्म शृणोति ॥ ब्रह्म वेदः ।।

॥श्रोत्रे ब्रह्म प्रतिष्ठितम् ॥

ततश्चा

॥ श्रोत्रमेव तत् सम्भावयति ॥

तत् तत्र॥

॥ श्रोत्रं संस्कुरुते ॥ ॥ स यन्ता विप्र एषामिति शंसति । अपानो वै यन्ता ॥ यमेवन्धनार्थात् तृच् ॥

॥ अपानेन ह्ययं यतः प्राणो न पराङ् भवति ॥

अन्तर्वतिवायुना हि बहिर्गच्छन् स वार्यते । ॥ अपानमेव तत् सम्भावयति । अपानं संस्कुरुते। . ऋतावा यस्य रोदसी इति शंसति । चक्षुर्वा ऋतम् ॥ कर्थ, ॥ तस्माद्यतरो विवदमानयोराहाहमनुष्ठया चक्षुषादर्शमिति

तस्य श्रद्दधति ॥ तथाहि कोचिन संसत्सु विरुद्धं वदतस्तयोः । यतरो योऽहमद्राक्ष यत्नेनेत्याह तस्य तु ॥

T

बदतोस्तयोः’ क. स्व. पाठः.

१. कोपात् ‘, २. * ऋकसं० ३.१.१३.३

  • अक्सं०३-१-१३-२..

4

,

JUNE

TTYLE

शास्ताव

वाक्यं जनाः अनि पलं च भुनानं नतः । *भासनेति वदेः शानजिरिनो यदि चाङ् दृशः ।। धात्रः नाभ्यस्तयोः योनी कि ष्टुरनुष्ठिगी ।

॥ चक्षुरेव नत सम्भावनि चक्षुः मम्कुरुते । ‘नू नो रास्त्र महस्रवत्तोकवत्युष्टिमहस्वित्युत्तमया परिदधाति ।।

ध्याचष्टे ॥ आत्मा वै समस्तः महनवांस्तोकवान् पुष्टिमान् ॥

सहस्रं बहु तोकञ्च पुत्रः पुष्टिः मुरखान्वयः । एभिः समस्तः सम्पूर्ण आत्मा पुरुष उच्यते ॥ ॥ आत्मानमेव तत् समस्तं सम्भावयति ।

आत्मानं समस्तं मंस्कुरुते ॥

भखान्ते ॥

॥ याज्यया यजति ॥

अन्य इन्द्रश्चेत्यनया !!

॥ प्रत्ति प्राज्या ।

.

.

.

owner

  • पा० स० १-३-४७. पा. सू०३-१-५७ - पा० सू० ६.४.११९. s ‘अनुपूर्वात तिष्ठतेः विपि तृतीमाया याद्देशः’ इति भभास्करः., ऋक्सं० ३-१-१३.५, ‘आहूयोत्तमया परिदधाति’ इति आ औ० सू० ५.९.२४. ऋक्सं० ३-१-२५-४. ‘अम इन्द्रश्च दागुपी दुरोण इति याज्या’ इति आ. श्री. सू. ५-९-२६. * हविष आदानप्रदाने च पुरोनुवाक्यापाज्याधीने । तथान ने० सं० ‘पुरोनुवाश्ययादत्ते प्रयच्छति याज्यया’ (२-६-२) इति । ‘अति का अनुवाक्यया प्रयच्छति याज्यया’ इति शत. ब्रा०१-७-२-७७. ‘पुरोनुवाक्या देवनात्मरमाथा । बाज्या च हविःप्रदानार्थी’ इति कात्या. नौ० सू० १-८०९. दातुरूप कन्नः पत्तिः ऊधो जमणमिति यो गोषु प्रसिद्धः । यथा बामणान्तरे ‘प्रत्ता व गोदुहे प्रत्तेडा यजमानाय दुहे’ (तै० सं० १-७.१) इति यज्ञात्मिकाया धेनोः सर्वाभिमतफलप्रदानादिकर्मस्थानीया याज्या’ इति भट्टभास्करः

my

सवृत्तिके ऐतरेयब्राह्मणे [अष्टमः दान करणे क्तिन् । * अच उपसर्गात्तः ॥

सा च,

॥ पुण्यैव लक्ष्मीः ॥ यज्ञानुष्ठानलब्धा श्रीः पुण्यमेव हि साधयेत् ॥

॥ पुण्यामेव तल्लक्ष्मी सम्भावयति ॥ तोलि ’ । तत् तत्र ।।

॥ पुण्यां लक्ष्मी संस्कुरुते । म एवं विद्वान् छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः

. सम्भूय देवता अप्येति ॥ इदमर्थे मयट् । छन्दो गायत्र्यादि, देवता अग्न्यादि, ब्रह्म वेदा,

• अमृतं मरणाभावः, सम्भूय सम्यग्भूत्वा होताप्येति प्रामोति ॥

॥ य एवं वेद ॥ सोऽपि ।

॥ यो वैतवेद यथाच्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति ॥ यष्टेति स इति शेषः । यथा सम्यक्, वा खलु, एतदर्थरूपम् ।

छन्दआदिमयो यष्टा देवता प्रतिपद्यते । इति यो वेद सोऽप्येति देवता इति गृह्यताम् ।।

.

ht

  • पा० सू० ७.४-४७. + पा० सू० ६.४.६०. ‘परमात्ममयः’ इति भाभास्करः,

‘अमृतमय, यक्षलक्षण

खण्डः ]

दशमोऽध्यायः ।

१०५

पुनः स्तौति–

॥ तत् मुविदितम् ॥ ‘भावे क्न पतज्ज्ञानं यत्तत् सु सुष्क्षिति गृचनाम् ।।

॥ इत्यध्यात्मम् ॥ शरीरमधिकृत्यैवं सूक्तमुक्तं मयाज्यकम् ॥

॥ अथाधिदैवतम् ॥ देवना अधिकृत्याथ तूष्णींशंसादि वर्ण्यते ॥

अष्टमः खण्डः।

॥ षट्पदं तूष्णीशंसं शंसति ॥ उक्तार्थम् ॥ स्तौति

॥ षड्डा ऋतवः ऋतूनेव तत् कल्पयति ॥ तत् तेन पदत्वेन कल्पयति सुयुक्तान् करोति ॥

॥ ऋतूनप्येति ॥

*अध्ययोऽनुभवः ॥

  • तदिदं वेदितुरुकं फलं सुविदितं सुप्रसिद्ध ब्रह्मवादिनाम् । यद्वा अयजमानस्यापि वेदितः फलसंपत्तो कारणमनेनोच्यते ’ इति भभास्कर:. page 396. * अप्येति प्रामोति’ इति सायणः, ‘अनुप्रवेशोऽप्ययः’ इति भहभास्करः,

निवमः

४०६ सवृत्तिके ऐतरेयवाक्षणे

॥ द्वादशपदां पुरोरुचं शंसति । द्वादश वै मासाः।

मासानेव तत् कल्पयति ॥

तत् तत्र ॥

॥ मासानप्येति । *प्र वो देवायामय इति शंसति ॥

अत्र,

॥ अन्तरिक्ष वै प्र॥ प्रभूतशब्दैकदेशप्रशब्देन खमुच्यते ॥ ॥ अन्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्ति ॥

खे प्रभूतावकाशे हि वर्तन्ले जन्तवः सुखम् ।। ॥ अन्तरिक्षमेव तत् कल्पयत्यन्तरिक्षमप्येति । दीदिवांसमपूर्व्यमिति शंसति । असौ वै दीदाय ।। आदौ दीप्यते ॥ असाविति का,

॥ योऽसौ तपति । एतस्माद्धि न किश्चन पूर्वमस्ति ॥

यस्य प्रयाणमन्वन्य उद्ययुमन्त्रलिङ्गतः ।।

  • ऋक्सं० ३-१-१३-१. ‘अन्तरिक्षे पक्षिणां प्रयाणं, प्रयाणस्यायं प्रतीकः प्रेति’ इति गोविन्दस्वामी. ‘सर्वे प्राणिनोऽन्तरिक्षमनुसृत्य तिष्ठन्ति । तस्मिभवकाशे प्रकृष्टगमनादन्तरिक्षस्य प्रशब्दवाच्यत्वम् ’ इति सायणः. ऋक्सं. ३-१-१३-५.

खण्ड:

Power

॥ एतमेव तत् कल्पयति । एतमप्येति । . स नः शर्माणि वीतय इति शंमाते । अग्निवै शर्माध्यन्नाद्यानि

.

.

RRCES

AM

YE

11

पाकेन सुखादु कुर्वन् भक्ष्यमग्निर्ददानि हि

॥ अग्निमेव तत् कल्पयति । अग्निमप्येति । उत नो ब्रह्मन्नविष इति शंसति । चन्द्रमा वै ब्रह्म ॥ अमृतानरूपत्वात् ॥

।। चन्द्रमसमेव तत् कल्पयति । चन्द्रमसमप्येति । स यन्ता विप्र एषामिति शंसति । वायुबै यन्ता ।

॥ वायुना हीदं यतमन्तरिक्षं न समृच्छति ॥ ‘ऋच्छिा प्रळयार्थः ।

खं हि वातेन नद्रत्वाचवन्नहि वेष्टयते ॥

॥ वायुमेव तत् कल्पयति । वायुमप्येति । ऋतावा यस्य रोदसी इति शंसति । द्यावापृथिवी वै रोदसी ॥

__ * ऋक्सं०३-१-१३.४. ऋक्सं० ३-१-१३-६. * ‘चन्द्रमा वै ब्रह्मा ब्रह्मप्राप्तिहेतुतया ‘आदित्याचन्द्रमसम् ’ इति श्रुतेः’ इति गोबिन्दस्वामी. आहादहेतुत्वादमृतात्मकत्वाच’ इति भभास्करः. ‘नक्षत्रादिप्रकाशेषु बृहत्त्वाचन्द्रमसो ब्रह्मत्वम्’ इति सायणा.

ऋक्सं० ३-१-१३-३. ‘समृच्छति गच्छति’ इति गोविन्दस्वामी. * सम्पद प्रामोति’ इति सायणाः, लीयते विशीर्यते’ इति भाभास्करः, ऋक्क ३-१-१३.२

सवृत्तिके ऐतरेयब्राह्मणे (नवमः

और ईत् । योश्च पृथिवी च ! “दिवसश्च पृथिव्याम्’ इति द्यावादेशः॥

॥ द्यावापृथिवी एव तत् कल्पयति । द्यावापृथिवी अप्येति । नू नो रास्व सहस्रवत्तोकवत्पुष्टिमहस्वित्युत्तमया परिदधाति ।

संवत्सरो वै समस्तः सहस्रवांस्तोकवान पुष्टिमान् ॥ पूर्ववत् ॥

॥ संवत्सरमेव तत् समस्तं कल्पयति । संवत्सरं

समस्तमप्येति । याज्यया यजति ॥ पूर्ववत् ॥

॥ वृष्टि याज्या ॥ जगत्पोषकरत्वात् ॥

॥विद्युदेव ॥ या हि दृष्टिः सा विद्युदेव ।।

॥ विधुडीदं वृष्टिमन्नायं सम्प्रयच्छति ॥ विद्युद् दृष्टिं पुरो दत्वाथान्नाद्यानि ददाति हि ॥

॥ विद्युतमेव तत् कल्पयति ॥

तत् तत्र ।।

  • पा० सू. ६.३-३०, ऋक्सं० ३.१-१३-७. । तथाच मनुः– " अनी प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्यानायतें वृष्ष्टेिरनं ततः प्रजाः ॥” इति ३, ४६.

दशमोऽध्यायः ।

Spal

॥ विद्युतमप्यति । स एवं विद्वानेतन्मयो देवतामयो भवति भवति ॥

एवं ज्ञानोपसम्पन्नो वष्टा होता च वै सुखम् । एतन्मयो वसन्नादिविद्युदन्त भयो भवन् । एतान् पामोति वै देवान् देवतान्वयिसौख्यवान् । मयडर्थः सुखप्राप्तिद्विरुक्त्यर्थः समापनम् ।।

नवमः खण्डः । इति षड्गुरुशिष्यविरचिनाया महिदासतरेयत्रात्मणवृत्ती

मुखप्रदायां दशमोऽध्यायः ॥ प्रथमे दशके खण्डसंख्या स्यादेकसातिः । अध्यायिका षट् पश्च पनव चत्वार एव च ।। दशाष्टौ च पळष्टौ च नवेत्येवं समीरिताः। *गर्वगाथा च मुख्येति कलिशुद्धदिने सति ।।

वृत्तिः पाइगुरवी जाना ब्राह्मणस्य सुखप्रदा ।

क्षेत्रपालं वीरभद्र भद्रकाळी विनायकम् । दुर्गा च सर्वकार्येषु विनशान्त्यै नमाम्यहम् ॥ . द्वितीयपञ्चिका समाप्ता।

प्रथमदशकं च समाप्तम् ॥

A

१. ’ इति षड्गुरुशिष्येण विरचिताया जाता दामोऽध्यायः’, २. ‘गुरुगाया’, घ, ह. पाठ..

  • कलिदिनसंख्या-1567343===AD. 1192. पद्यमिदं प्रन्थप्रति रूपकसंयोजितमिति सम्भाव्यते । घ ढ. ग्रन्थयोस्तु पयस्यास्य स्थानेऽन्यदेव पथं पश्यते। यथा—

“नमामि देवं नरनाथमच्युतं नारायणं लोकगुरुं सनातनम् ।

अनादिमव्यामचिन्त्यमधन्यं दान्तवेधं पुरुषोत्तमं हरिम् ॥” इति.

52