०५

अथ पञ्चमोऽध्यायः।

HTTARA

सोमक्रयणमारभ्य यावदग्निः प्रणीयते । तावद्वक्तुमुपांशुत्वमितिहासं ब्रवीत्यथ

॥ सोमो वै राजा गन्धर्वेष्वासीत् ।। पुरा गन्धर्वलोके वै सोमो राजा बभूव ह ।।

॥ तं देवाश्च ऋषयश्चाभ्यध्यायन् ॥ ‘ऋत्यकः॥

१. ‘इति ब्राह्मणवृत्ती सुखप्रदायां’ क, ख., ‘इति षड्गुरुशिष्येण विरचितायां

ख्याया’ घ. इ. पाठः,

  • पा० सू० ७-१-५. + page 44. * ‘स्वानभ्राजेत्याह । एते वा अमुष्मिन् लोके सोममरक्षन् ‘, ‘तं सोममाहियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात् ’ इति तै. सं०६-१-१०, ६-१-६. पा० सू० ६-१-१२८,

सवृत्तिके ऐतरेयब्रामणे

[प्रथमः

प्रथमः

देवर्षयस्तं गन्धर्वलोकस्थं समचिन्तयन् ।। चिन्तास्वरूपमाह—

। कथमयमस्मान् सोमो राजागच्छेदिति ॥ प्रतीति शेषः । आगच्छेत् ॥ एवं स्थिते,

॥सा वागब सा प्रसिद्धेत्यर्थः ।।

॥ स्त्रीकामा वै गन्धर्वाः ॥ काम इच्छा स्त्रीषु येषां ते स्त्रीकामा इहोदिताः । कामयन्ते स्त्रिय इति शीलिकामादिणोऽपिवा ॥ कमेः कर्मणि घञ् काम्या स्त्री येषामिति वा भवेत् ॥

ततथा

॥ मयैव स्त्रिया भूतया पणध्वमिति ॥ पणध्वं व्यवहरत ।

तेभ्यो दत्त्वा स्त्रियं मां तु सोममानेतुमर्हथ ।। ॥ नेति देवा अब्रुवन् । कथं वयं स्वदृते स्यामेति ॥ स्वत् स्वत्तः । ऋते विना ॥

  • ते देवा अब्रुवन् स्त्रीकामा वै गन्धर्वाः स्त्रिया निष्क्रीणामेति ते वाचं स्त्रियमेक हायनी कृत्वा तया निरक्रीणन् ’ तै० सं० ६.१-६. पा. सू. वा० ३.३.१.

वण्ड:

11

१६९

ततः,

!! साब्रवीत् ॥

“man

॥ क्रीणीतैव यहि वाव वो मयार्थो भविता तषेत्र

वोऽहं पुनरागन्तास्मीति ॥ क्रीणीत स्वीकुरुत । यहि यस्मिन् काल । तहि तदानीम् । अर्थः प्रयोजनम् । वः युष्मान् । आगन्तास्मि । लुट् । आगमिष्यामि ॥

॥ तथेति ॥ देवा निश्चिक्युः ॥

॥ तया महाणग्न्या भृतया सोमं राजानमक्रीणन् ॥ ‘नग्नोपभोगयोग्या स्त्री सुन्दरी महती मता। ईत्वणत्वे छान्दसे ॥ तथेदानीमपि,

॥ तामनुकृतिमस्कन्ना वत्सतरीमाजन्ति सोमक्रयणीम् ॥ तां कालमनु तदनुसारण । क्रांत्रः करणे ल्युट् ।

वत्सोक्षेति ष्टरच् प्राप्तद्वितीयवयसं तु गाम् । आ अजन्ति मल्यत्वेनानन्ति ।

अप्राप्तिषयोगा गौरस्कन्ना स्यादवर्षणात् ॥

१. ‘आगन्ता । लट्’ घ. पाठः. २. ‘ताम् । क. ख. पाठः,

  • पिसम्पत्तिविषक्षया महत्त्वमुच्यते बाल्यविवक्षया नमत्वम् ’ इति सायणः. ‘महानगन्या अत्यन्तबालभूतया इत्यर्थः । उपांशुत्व हि वाचो बाल्याम् । इति गोविन्दस्वामी. + ‘तामनुकृति तां स्त्रीरूपां वाचमनुक्रियमाणां निष्पन्नां तत्सहशीमित्यर्थः’ इति सायणः, * पा० सू० ५.३.११. ‘अस्कनां वीर्यस्कन्दनरहितामप्राप्तयौवनाम्’ इति सायणः…

22[प्रथमः

१७०

सवृत्ति के ऐतरेयब्राह्मणे आनीय च,

॥ तया सोमं राजानं क्रीणन्ति ॥ ‘भाभ्यस्तयोरातः॥

॥ तां पुननिष्क्रीणीयात् ॥ मूल्यभूतां वत्सतरी गृह्णीयात् पुनरेव हि ॥

कस्मादवम्

तानागच्छत् ॥

सा वाक् । तान् देवर्षीन् । ॥ तस्मादुपांशु वाचा चरितव्यं सोमे राजनि क्रीते ॥

कुता,

॥ गन्धर्वेषु हि तर्हि बाग् भवति ॥ तहि तदानीम् ॥

१. ‘क्रीते । गन्धर्वेषु’ घ. इ, पाठः,

___ * ‘पुरस्तात्प्रतीची सामायण्यवस्थिता भवत्येकहायनी विहायनी वर्षायसी वा । अकूटयाकर्णयेति रूपाणि । या रोहिणी बभ्रुलोन्नी पृश्निवाला पृश्निशफा शुध्यक्षी चित्रोपकाशा तया क्रीणीयादित्येक ’ इति आप० श्री० सू० १०-२२-२, ३, ४, + पा० सू० ६-४-११२. * “सा रोहिद्रूपं कृला गन्धर्वेभ्योऽपक्रम्यातिष्ठत् तमोहितो जन्म ते देवा अब्रुवन्नप युष्मदक्रमीनास्मानुपावर्तते वियामहा इति ब्रह्म गन्धर्वा अवंदनगायन देवा: सा देवान् गायत उपावर्तत तस्माद् गायन्तं स्त्रियः कामयन्ते कामुका एनं स्त्रियो भवन्ति’ इति तै० सं० ६.१६ इदम्प्रभृतिकर्मणां शनैस्तरामुत्तरोत्तरम्’ : इति आ० श्री० म. ५.१-२३.

खण्ड:

पञ्चमोऽध्यायः ।

१७१

॥ सामावेव प्रणीयमाने पुनरागच्छति ॥ अग्निप्रणयनाथुञ्चैर्वदितव्यमिति स्थितिः । सूयते’ हि-“ऊर्ध्व प्रथमाया अग्निप्रणयनीयाया औपवसथ्ये. नियमः’ इति ॥

प्रथमः खण्डः

अथाग्निप्रणयनीया ऋचः संविदधाति ह

॥ ‘अग्नये प्रणीयमानायानुब्रूहीत्याहाध्वर्युः ॥ उक्तार्थम् ॥

॥ प्रदेवं देव्या धिया भरता जातवेदसम् । हव्या नो __वक्षदानुषगिति गायत्रीं ब्राह्मणस्यानुब्रूयात् ॥

गायत्रो वै ब्राह्मणः ॥ सृष्टिवाक्ये सहपाठात् । गायत्री छन्दसां ब्राह्मणं मनुष्याणाम्’ इति ॥

तेजो वै ब्रह्मवर्चसं गायत्री ॥

१. ‘वेदितव्यमिति’ क. पाठः. २. ‘सूच्यते अर्ध्व’ घ. ड. पाठः. ३. ‘अथा. शामिप्रणयनी अचः ’ क पाठ.. ४. ‘सृष्टि वाक्येन’ घ. ड, पाठः,

  • आ० श्री. सू० ४.१-२६. + ‘प्राचीनवंशगत आहवनीयेऽवस्थितस्याः सौमिक्यामुत्तरवेद्यां नयनं यदस्ति तदेतदत्रानिप्रणयनम् ’ इति सायणः, * सोमाय क्रीताय –’ (page 79.) इत्यनेन तुल्यार्थत्वादुक्कार्थत्वम् . ऋक्सं०८-८-३४-२, 1 गायत्री छन्दो रथन्तरं साम बामणो मनुष्याणामजः पशूनां तस्मात् ते मुख्या मुखतो

‘तै० सं० ७.१.१.

द्वितीयः

सवृत्तिके ऐतरेयब्राह्मणे

ततः किं,

॥ तेजसैवैनं तद् ब्रह्मवर्चसेन समर्धयति ॥ तत् तत्र ॥ ॥ इमं महे विदथ्याय शूषमिति त्रिष्टुभं राजन्यस्यानुब्रूयात् ॥

ALTH

F

"

॥ त्रैष्टुभो वै राजन्यः॥ सृष्टी सहपाठात् ॥ ॥ ओजो वा इन्द्रियं वीर्य त्रिष्टुप् । ओजसैवैनं तदिन्द्रियेण

वीर्येण समर्धयति ॥ तत् तत्र । एनं राजन्यम् ॥

अत्रास्ति, ॥ शश्वत्कृत्व ईड्याय प्रजभ्रुरिति । खानामेवैनं तच्छैष्ठ्यं

गमयति ॥ तत् तेन । खानां ज्ञातीनाम् । शश्वत्कृत्वा सदा । ईड्याय स्तुत्याय । राज्ञे उपायनाय’ प्रहतवन्त इति बस्यार्थः ।।

॥ शृणोतुं नो दम्येभिरनीकैः शृणोत्वग्निदिव्यैरजन इति ॥

अस्थार्थमाह

|| आजरसं हास्मिन्नजस्रो दीदाय ॥

HELL

१.

उपायनादि’ क पाठः.

  • ऋक्सं०३-३-२४-१. + ’ उरसो बाहुभ्यां पञ्चदर्श निरमिमीत तमिन्द्रो देवतान्वसृज्यत त्रिष्टुप्छन्दो बृहत्साम राजन्यो मनुष्याणामविः पशूनां तस्मात्ते वीर्या वन्तो वीर्यायसूज्यन्त’ ते० सं० ७.१-१.

खण्डः ]

पञ्चमोऽध्यायः ।

१७३

अस्मिन् राजन्ये । आजरसं सर्वमायुः । अजस्रोऽक्षीणः । दीदाय दीप्यतेऽग्निः॥

॥ य एवं वेद ॥ तस्मिन्नपि वेदितरि ॥

॥ *अयमिह प्रथमो धायि धातृभिरिति जगती

वैश्यस्यानुब्रूयात् ।।

॥ जागतो वै वैश्यः॥ सृष्टौ सहपाठात् ॥

॥ जागताः पशवः पशुभिरेवैनं तत् समर्धयति ॥ एनं वैश्यम् ॥

॥ वनेषु चित्रं विश्वं विशे विश इत्यभिरूपा ॥ विदशब्दयोगात् ॥

॥ यद् यज्ञेऽभिरूपं तत् समृद्धम् ॥ उक्ता आधा प्रेममयं विप्रक्षत्रविशां क्रमात् ।

१. ‘अस्मिन्नपि’, २ ‘विटशब्दप्रयोगात् ‘घ. इ, पाठः, ३. ‘आधाः घ. पाठः,

  • ऋक्सं० ३-५-६-१. + मध्यतः सप्तदशं निरमिमीत तं विश्वेदेवा देवता अन्वरज्यन्त जगती छन्दो वैरूपं साम वैश्यो मनुष्याणां गावः पशूनां तस्मात्त आया अन्नधानाद्धयसज्यन्त तस्माद् भूयांसोऽन्येभ्यो भूयिष्ठा हि देवता अन्वरज्यन्त ‘, तै. सं० ५-१-१, * प्रेममयं-प्रदेव, इमं महे, अयमिह इति ऋच इत्यर्थः.

सवृत्तिके ऐतरेयब्राह्मणे

[द्वितीयः

सूच्यते हि*-‘इमं महे विदथ्याय शूषमयमिह प्रथमो धायि धावृभिरिति तु राजन्यवैश्ययोराधे’ इति ।।

अथ सप्तायमुष्यादि सर्वेषां तुल्यमुच्यते -

॥ अयमु ण्य प्र देवयुरिति ॥ एतां द्वितीयामन्वाह ॥ अनुब्रुवन्,

॥ अनुष्टुभि वाचं विसृजते ॥ उच्चैरुचारणं विसर्गः ॥

। वाग् वा अनुष्टुप् ॥

॥ वाच्येव तद् वाचं विसृजते ॥ #अनुष्टुविति वाङ्नामसु पाठात् । तदनुष्टुभ्युच्चैस्त्वम् ।। स्पष्टयति ॥ अयमु प्य इति यदाहायमु स्यागमं या पुरा गन्धर्वेष्ववात्स.

मित्येव तद् वाक् प्रब्रूते ॥ अयमियम् । उ पुनः । स्या सा । आगमम् आगतवत्यस्मि । याहं पुरा गन्धर्वेष्ववात्समुषितवती । इत्येव वाक् प्रवते तत् । गमेलङि लूदित्वादई । बसेहलन्तवृद्धिः । * ‘सः स्वार्षधातुके

१. ‘शषमयमिहेत्यादि’ घ. इ. पाठः,

  • आश्री. सू० २.१७-७. + ऋक्सं . ८-८-३४-३. * था. निख. १-११ ‘अनुभो वायूपत्वस्य सर्वश्रुतिप्रसिद्धत्वादनुष्टुबूपायां वाच्येवोपांशुध्वनिरूपां वाचं तन्मत्रपाठेन विसृजते’ इति सायणः 8 पा० सू० ३-१-५५. , पा० सू०

५.२.३. पा. सू. ७.४-४९.

खण्ड:

पञ्चमोऽध्यायः ।

*297TTITTE

॥ *अयमग्निरुरुष्यतीति ॥ तृतीयामनुब्रूयात् ।। व्याचष्टे

॥ अयं वा अग्निरुरुष्यति ॥ रिक्षार्थादुरुषि उरुष्यति । कण्ड्वादेर्यक् ॥

अत्रास्ति, ॥ अमृतादिव जन्मन इत्यमृतत्वमेवास्मिंस्तद् दधाति ।। तत् तेनामृतपदेन । अस्मिन् यजमाने ॥

॥ सहसश्चित् सहीयान् देवो जीवातवे कृत इति ॥ अस्ति ।

॥ देवो ह्येष एतज्जीवातवे कृतो यदग्निः ॥ एतदेतस्य लोकस्य । जीवातवे । जीवेरातुः, जीवनाय कृतः स्थापितः । यत् यः॥

॥ इळायास्त्वा पदे वयं नाभा पृथिव्या अधीति ॥ चतुर्थीमन्वाह ॥ व्याचष्टे

॥ एतद् वा इळायास्पदं यदुत्तरवेदी नाभिः ॥

  • ऋक्सं० ८-८-३४-४. । ‘उरुष्यति रक्षति प्रकाशयति उद्भवति वा । इति गोविन्दस्वामी. * पा. मू० ३.१.२७. उणादि. १-८२. ऋक्सं. ३-१-३२-४.

१७६

nau

RAM

*इळाया भुवः पदं मुख्यस्थान’ मध्यं नाभिः । वेदेडम ॥

॥जातवेदो निधीमहीति ॥ अस्ति ।

॥निधास्यन्तो ह्येनं भवन्ति ॥

निदध्मह इत्यर्थे निधीमहीति छान्दसम् ।।

॥ अमे हव्याय बोळव इति ॥ एतदप्यभिरूपमेवास्ति ।।

कथं,

॥हव्यं हि वक्ष्यन् भवति ॥ वहेलृट् । । ‘पढोः का सि।

अयमग्नि तं हव्यं देवान् प्रति हि वक्ष्यति ॥ ॥ अग्ने विश्वेभिः स्वनीक देवैरूविन्तं प्रथमः सीद

योनिमिति ॥ पञ्चमीमन्वाह ।।

१. ‘मुख्यं स्थानम् ’ ध. ड. पाठः,

  • “इळायाः पद इति । इलाशब्दो गोवाची । इलाख्या देवतां प्रकृत्य • गौवा अस्यै शरीरम् ’ (तै० सं० १.७-२) इति श्रुतत्वात् इळेऽनन्ते सरस्वतीति वाड्नामसु श्रुतत्वात् । तस्याः पदं घृतनिष्पीडनेन प्रशस्तं सा यत्र यत्र न्यक्रामत् ततो धृतमपीध्यत’ (तै० सं० २-६-१) इति श्रुतेः। तत्पदरूपत्वविशेषणेन उत्तरवेदिनाभिः प्रशस्यते । यद्वा सोमायण्या गोपदपांसुरस्यां नाभौ प्रक्षिप्यत इति तत्पदरूपत्वम्” इति सायणः, + पा. सू० ८.२.४१ । ऋक्सं० ४.५-२०-१,

खण्ड:

पञ्चम वाय.

१७७

१७७

17

॥ विश्वेरेवैनं तद् देवैः सहासादयति ॥ एनमग्निं सह सुरैः सर्वैः स्थापयतीह वै । तत् तत्र॥

॥ कुलायिनं घृतवन्तं सवित्र इति । अभिरूपमस्ति ।

॥ *कुलायमिव ह्येतद् यज्ञे क्रियते यत् पैतुदारवाः परिधयो

गुग्गुलूर्णास्तुकाः सुगन्धितेजनानीति ॥ नीडं कुलायम् । पितुदारुः खदिरः, देवदारुरित्यन्ये । गुग्गुलु प्रसिद्धम् । अर्णास्तुकाः अविलोमानि । सुगन्धितेजनानि कावष

Dowk

तृणानि ॥

NTP

॥ यज्ञं नय यजमानाय साध्विति ॥ अस्ति । व्याचष्टे

यज्ञमेव तहजुधा प्रतिष्ठापयति ॥ ऋजुषा ऋतु साधु । धेत्युपजनः ।।

॥सीद होतः स्व उ लोके चिकित्वानिति ॥ षष्टीमन्वाह ॥

१. अभिरूपमस्ति । कुलायमिव ‘ध, इ. पाठः, २. ‘साध्विति । व्याचष्टे’ , पाठः, ‘साध्विति । यज्ञमेव ’ क. पाठः ३. ‘मुटु’ध. ड पाठः,

  • ‘अग्नेर्भमासीत्युत्तरवेद्यां सम्भाराग्निवपति गुग्गुलु सुगन्धितेजन श्वेतामूर्गास्तुका पेत्वस्यान्तरागृङ्गीयां लूनस्यालूनपूर्वस्य वा’ इति आप० श्री. सू० ७-६-१, । ऋक्सं० ३.१.३३.३.

१७८

सवृत्तिकै ऐतरेय ब्राह्मणे [द्वितीयः

॥ अग्नि देवानां होता ॥ देवेषु यज्ञं कुर्वत्सु हौत्रमग्निः पुराकरोत् ।।

॥ तस्यैष खो लोको बदुत्तरवेदी नाभिः ।। ख: आत्मीय लोक स्थानम् ॥

॥ सादया यज्ञं सुकृतस्य योनाविति ॥

• व्याचष्टे

॥ यजमानो वै यज्ञः॥ *प्रवर्तकत्वात् फलित्वाच ॥

॥ यजमानायैवैतामाशिषमाशास्ते ॥ इष्टमर्थमर्थयते ॥ ॥ देवावीर्देवान् हविषा यजास्थग्ने बृहद्यजमाने वयोधा इति ॥

अत्रास्ति ॥

तत्र,

॥ प्राणो वै वयः ॥ चयो धनं तेन साध्यं प्राणस्य स्थापनं त्विति ॥

  • ‘इज्यत इति व्युत्पत्त्या यज्ञशब्दः सर्वत्र यागवाची । इह तु यजतीति ध्युत्पत्या यधारमाचष्टे’ इति सायणः, ‘देवापीः देवानां भक्षणहेतो’ इति गोविन्दस्वामी. “देवान् वेति कामयत इति देवावीः देवप्रिय हे अग्ने’ इति सायणः, * ‘अत्र वयाशब्देन प्राण उपलक्ष्यते । बाल्यादिवयोविशेषहेतोरायुषो निमित्तत्वात ‘यावदस्मिन् शरीरे प्राणो वसति तावदायुः (कौषी० उप० ३.२) इति श्रुतेः’ इति

सायणः,

खण्डमा

पञ्चमोऽध्यायः ।

॥ प्राणमेव तद्यजमाने दधाति ।। तत् तेन वयश्शब्देन ॥

॥ *नि होता होतृषदने विदान इति ॥ सप्तमीमन्वाह ।। ॥ अग्नि देवानां होता। तस्यैतद्धोतृषदनं यदुत्तरवेदी नाभिः ॥

होता यत्र सीदति तत् ॥

अत्रास्ति,

॥ त्वेषो दीदिवाँ असदत्सुदक्ष इति ॥ अभिरूपमेतत् ॥

AM

॥ आसन्नो हि स तर्हि भवति ॥ असदत् । ‘लूदित्वादङ् । आसन्नः आसदतेः क्तः । ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः॥

॥ अदब्धव्रतप्रमतिर्वसिष्ठ इति ॥ वसे प्रशस्यार्थादिष्ठनि टिलोपः । अदब्धमर्हिसितं व्रतं कर्म यस्य स च प्रमतिः प्रकृष्टमतिकरश्चेति ।। ॥ अग्नि देवानां वसिष्ठः । सहस्रभरः शुचिजिह्वो अग्निरिति ।

अस्ति ।

१ ‘मासदेः’, २ ‘अग्निरिति । एषा’ ध, इ. पाठः,

  • ऋक्सं० २-६-१-१. + पा० सू० ३-१-५५ * पा० सू०८-२-४२ 8 ‘वसिष्ठो वसीयान् इति गोविन्दस्वामी. ‘वसिष्ठ अतिशयेन निवासहेतुः इविर्वहनेन देवानां स्वस्वस्थाने निवासहेतुत्वादमेर्वसिष्ठत्वम् । इति सायणः, ‘प्रकृष्टा नतिर्यस्य’ इति सायणगोविन्दस्वामिनौ.१८०

सवृत्ति के ऐतरेयब्राह्मणे

द्वितीयः

hr

PER

॥ एषा ह वा अस्य सहस्रभरता यदेनमेकं सन्तं बहुधा

विहरन्ति ॥ एकमौपासनं गार्ख बहून् श्रौता हि कुर्वते ॥

॥ प्र ह वै साहस्रं पोषमाप्नोति ॥ सहस्रसंख्यगोरनहेमादि लभते यजन् । ‘व्यवहिताश्च । प्रामोति ॥

॥ य एवं वेद ॥ सोऽपि ।

॥ त्वं दूतस्त्वमु नः परस्पा इत्युत्तमया परिदधाति । अष्टम्या समापयेत् त्रिरक्तया ॥

॥ त्वं वस्य आ वृषभ प्रणेता अग्ने तोकस्य नस्तने

तनूनामप्रयुच्छन् दीघद् बोधि गोपा इति’ ॥ अस्ति ।।

॥ अग्नि देवानां गोपाः ॥ गोपाः । पचायचो दीर्घः । रक्षकः ॥ ॥ अग्निमेव तत् सर्वतो गोप्तारं परिदत्त आत्मने च यजमानाय

च यत्रैवं विद्वानेतया परिधाति ॥

4

१. ‘इति अग्नि’ इ. पाठः.

  • पा० स० १-४.८२. + ऋक्सं० २-६-१-२. * पा० सू० ३-१-१३४.

खण्डः

मोध्या

CUR

T

Y

तत् तेन गोपा इति पदेन । सोखल्, यत्र यः । स होता परिदत्ते प्रार्थयते । " नाभ्यस्तयोरातः’ । ‘सरि च’ । आत्मने स्वस्मै ।

॥ अथो संवत्मरीणामेवैतां स्वस्ति कुरुते ॥ अथो अपिच । भवार्थे संवत्सरान खाई । स्वस्तिमविनाशम् ।।

॥ ता एता अष्टावन्वाह रूपसमृद्धाः ॥ प्रदेवादित्वंदूतान्ताः ॥

॥ एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं यत् कर्म क्रिय माणमृगभिवदति । तासां त्रिः प्रथमामन्वाह । त्रिरुत्तमाम् । ता द्वादश सम्पद्यन्ते द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापत्यायतनाभिरेवामी रानोति य एवं वेद । त्रिः प्रथमां निरुत्तमामन्वाह यज्ञस्यैव तद् बौं नह्यति स्थेम्ने बलायावित्रेसाय ।

उक्तार्थानि !

द्वितीयः खण्डः।

१.

यः होता’ व पाठः.

  • यत्र यस्मिन् कमणि’ इति सायणगोविन्दस्वामिनौ. +पा०स०६-४-११२. * पा० सू० ८-४.५५ पा० सू० ५-१-९२. था तथाचाश्वलायनसूत्रम्– ‘प्र देवं देव्या धिय इति तित्र इडायास्त्वा पदे वयमग्ने विश्वेभिः स्वनीक देवैरित्यधर्च आरभेत् । आसीनः प्रथमामन्याहोपांशु सप्रणवाम् । निहितेऽसौ सीद होत: स्व उ लोके चिकित्वान् नि होता होतृषदने विदान इति द्वे परिधाय तस्मिन्नेवासन उपविश्य भूर्भुवःस्वरिति वाचं विसृजेत’ इति २-१७-३, १०. page 90 &91.

444

तितीयः

सवृत्तिके ऐतरेयब्राह्मणे अथर्को विदधात्यष्ट हविर्धानप्रवर्तनी: ॥ हविर्धानाभ्यां प्रोह्यमाणाभ्यामनुबृहीत्याहाध्वर्युः ॥ प्रोहः प्रवृत्तिः॥ ॥ ‘युजे वां ब्रह्म पूर्य नमोभिरित्यवाह ब्रह्मणा वा एते देवा

__ अयुञ्जत यद्दविर्धाने ॥ यद् ये। ब्रह्मणा वेदेन । अयुञ्जत नियुक्तवन्तः ।

ततश्व,

॥ ब्रह्मणैवैने एतद् युते ॥ एतदेतर्हि काले। युङ्क्ते नियोजयति । युजे वामिति वदन् । एने हविर्धानाख्ये शकटे । युजेर्लट् तङ् । नसोरल्लोपः’ ।

॥न वै ब्रह्मण्वद्रिष्यति ॥ उक्तार्थम् ॥

अथ, ॥ *प्रेतां यज्ञस्य शंभुवेति तृचं द्यावापृथिवीयमन्वाह । तदाहुः॥

चोधस्वरूपमाह–

१ योजयति’, २. ‘चोछ । स्वरूपमाहुर्जाह्मणाः ’ क. पाठः.

  • हविः सोमरूपं धत्तः धारयतः इति हविर्धाने शकटे । तत्स्वरूप वापस्तम्बसूने—-’ प्रयुक्त पूर्वे शक्टे नद्धबुगे प्रतिहतशम्ये प्रक्षाळ्य तयोः प्रथमप्रथितान् प्रन्थीन् वित्रस्य नवान् प्रज्ञातान् कृत्वाण प्राग्वंशमभितः पृष्ट्यामध्यपनयन् परित्रिते सच्छदिषी अवस्थापयति’ इति ११-६-३ तत्प्रवर्तनं च तत्रैव-‘प्राची प्रेतमध्वर मित्युद्गृहन्तः प्रवर्तयन्ति’ (११ ६-११) इति. ऋक्सं० ७.६.१३.१. * ब्राह्मणमुखेन’ इति सायणः. पा० सू० ६-४-४१. page 80. * अक्स. ३-८-१०-४. पू तथाचानुक्रमणी’ द्यावापृथिन्योऽन्यस्तुचो हाविधानो वा’ म. २ सू० ४१.

खण्ड:

पश्चमाऽध्यायः ।

.

॥ यहविर्धानाभ्या प्रोह्यमाणाभ्यामनुवाचाहाथ कस्मात्

तृचं द्यावापृथिवीयमन्वाहेति ॥ *व्याख्यातप्रायम् । देवतार्थे छः ॥ परिहरति

॥ द्यावापृथिवी वै देवानां हविर्धाने आस्ताम् ॥ औडो लुक् । अमवताम् ॥

॥ ते उ एवाद्यापि हविर्धाने ॥ ते द्वे । उ पुनः । अद्यापि द्यावापृथिव्यौ। हवींषि धीयन्ते ययोस्ते तथोक्ते ॥

उपपादयति

॥ ते हीदमन्तरेण सर्व हविर्यदिदं किञ्च ॥ ते अन्तरेण तयोर्मध्ये । सर्वमिति व्याचष्टे- यदिदं किश्चेति ॥

॥ तस्मात् तृचं द्यावापृथिवीयमन्वाह ।। इति चतस्र उक्ताः ॥

॥ यमे इव यतमाने यदैतमिति ॥ पञ्चमीमन्याह ।। च्याचष्टे

॥ यमे इव ह्येते यतमाने प्रबाहुगितः ॥

  • ‘यदग्नये मथ्यमानाय….’ (page 100) इत्यादिना तुल्य जातीयत्वात् . * पा० सू० ४-३-३२. युजे वामित्येका, प्रेतां यज्ञस्येत्याद्यास्तिस्त्रः, ऋक्सं० ७.६-१३.३.

सवृत्तिके ऐतरेयब्राह्मणे

[तृतीयः

mAP

MEROLANDAmanda

पर

यमे सहजे इव यतमाने । यकः शम् । यत्यमाने । अध्वर्युप्रति प्रस्थावभ्यां प्रवर्त्यमाने । प्रबाहुक सहेत्यर्थः । इतः गच्छतः ।।

|| प्रवां भरन् मानुषा देवयन्त इति ॥ अस्ति ।। व्याचष्टे

॥ देवयन्तो ह्येने मानुषाः प्रभरन्ति । देवान् यष्टुमिच्छन्तो देवयन्तः । क्यचः शतुर्जसि नुम् । एने शकटे द्वे प्रभरन्ति । पाङ्नयन्ति । हाहो । मानुषाः मनुष्याः ॥ ॥ आसांदत स्वमु लोकं विदाने स्वासस्थे भवतामन्दव

न इति ॥ अस्ति ॥ व्याचष्टे ॥ सोमो वै राजेन्दुः सोमायैवैने एतद् राज्ञ आसदेऽचीक्लपत् ॥

आसदे भावे किपो ङे । आसनार्थम् । एतदेतेन पादेन । एने शकटे । ‘कुपो रोला’। जो चङयुपधाया हवः’ । " उरत् । कल्पयति ।।

॥अधि द्वयोरदधा उक्थ्यं वच इति ।। षष्ठीमन्वाह ॥

  • ‘प्रवर्तमाने ’ इति गोविन्दस्वामी. ‘प्रयत्नं कुर्वती’ इति सायणः, + पा० सू० वा०८-२-३२. * पा० सू०८-२-१८, 8 पा० सू० ७-४.१. पा. सू. ७.४-६६. ऋक्सं० १-६-४-३

खण्डः)

पञ्चमोऽध्यायः ।

१८५

॥ द्वयोर्येतत् तृतीयं छदिरधि निधीयते ॥ एतदेतर्हि । अस्या ऋच उच्चारणकालेऽध्वर्युणा ।

छदियस्योपरिष्टात् तृतीयं स्तीर्यते छदिः ॥ ॥ उक्थ्यं वच इति यदाह यज्ञियं वै कर्मोक्थ्यं वचो

यज्ञमेवैतेन समर्धयति ॥ उक्थ्यं स्तुत्यम् । यज्ञियं यज्ञे भवम् । यज्ञाद् घः ॥ ॥ यतस्रुचा मिथुना या सपर्यतः । असंयत्तो व्रते ते क्षति

पुण्यतीति ॥ अस्ति । ॥ यदेवादः पूर्व यत्तवत्पदमाह तदेवैतेन शान्त्या शमयति ॥

संग्रामवाचीह यतिः समय(त)न्तेति दर्शनात् ।

यतेति सूचितं युद्धं पोषोक्त्या शमयत्यसौ ।। शान्त्या। डेर्थे टा । शान्तये । एतेन पुषिधातुना ।।

॥ भद्रा शक्तिर्यजमानाय सुन्वत इत्याशिषमाशास्ते ॥

AARRAO

  • ‘हविधानाख्ययोः शकटयोरुपरि सोमस्यावस्थानाय गृहाकारेण परितो वेष्टनम् उपर्या च्छादनं यत् क्रियते तदेतदाच्छादनं छदिःशब्दवाच्यम् । तादृशे द्वे छदिषी द्वयोहवि धानयोरवस्थाप्य तयोश्छदिषोपरि तृतीयं छदिहविर्धानयोरुदाहृतयोरवस्थाप्यते । तदेतत् तैत्तिरीया आमनन्ति —’ दण्डो वा औपरतृतीयस्य हविर्घानस्य वषट्कारेणाक्षमाच्छिन्द् यत् तृतीयं छदिहविर्षानयोरुदाहियते तृतीयस्य हविर्धानस्यावरुद्धथै’ (तै० सं०६-२-६) इति सायणः - पा० सू० ५-१-७१. * page 93.

24

१८६ सवृत्तिके ऐतरेयब्राह्मणे [तृतीयः

सुन्वतो यजमानस्य भद्रा शक्तिर्भवत्विति ॥ ॥ विश्वा रूपाणि प्रतिमुञ्चते कविरिति विश्वरूपामन्वाह ॥

सप्तमी विश्वरूपाम् । अर्शआयच् । विश्वा रूपाणीत्युक्ते विश्वरूप शब्दवतीम् ॥

अत्र च,

॥ स्ल रराट्यामीक्षमाणोऽनुब्रूयात् ॥ स होता।

हिरण्यकेशिनां सूत्रे रराव्या लक्षणं श्रुतम्–

‘राटी तेजन्यैषीकी प्राच्यणूकाण्डा मध्ये विष्यूता तां वंशे निवनाति’ इति । अर्थस्तु-तेजनं तेजनीति च यष्टिनाम । ‘तद्यथैवाद इति ह माह तेजन्या उभयत’ इति, ‘चतुःसन्धिीषुरनीकं शल्यं तेजनं पर्णानि’ इतिच दर्शनात् । ऐषीकी। इषीका काशास्तद्विकारभूता। प्राची प्राक्प्रत्यग्वितता नतु दक्षिणोदग्वितता । अणूकाण्डा । दीर्षणत्वे छान्दसे । अनुकाण्डा काण्ड पर्व । # ’ काण्डात् काण्डात् प्ररोहन्ति’ इति यथा । अनुलोमपर्वका प्रग्रहपर्वकेत्यर्थः । मध्ये विष्यता मध्यतः सुषिरं कृत्वा सूत्रेण प्रोता । तामेवंभूतां रराटी बनाति । कशे । ‘अग्रेण हविर्थाने स्थूणे निहन्ति अनयोरुदग वंशं निधाय’ इति

पूर्वोक्त इति । अमर्थे डेराम् । रराटी पश्यन् ॥

i

  • ऋक्सं० ४.४-२४.२, । पा० सू० ५.२-१२७ ‘विश्वा रूपाणि प्रतिमुश्चत्ते कविरिति व्यवस्तायाम् ’ इति आ. श्री० सू० ४-९-५.१ प्र० ७, ख० १७.

page 74. page 157. ० सं० ४-३.९.

S

खण्ड:

पञ्चमोऽध्यायः ।

१८७

आभिरूप्यमाह—

॥विश्वमिव हि रूपं रराट्याः ।।

. ॥ शुक्लमिव च कृष्णमिव च ॥

यष्टेः पर्वणि कृष्णत्वं काण्डमध्ये तु शुक्लता’ । इव एवम् ॥ विदुषो होतुराह

॥ विश्वं रूपमवरुन्ध आत्मने च यजमानाय च यत्रैवं

विद्वानेतां रराट्यामीक्षमाणोऽन्वाह ॥ अमो डि, रराटीम् । यत्र सोखल् यः । अवरुन्धे संप्रामोति । रूपं वस्तु । विश्वम् विशेः कर्मणि कनां । श्रद्धेयमत्र गोधनादि प्रवेष्टव्यम् ।।

॥ परि त्वा गिर्वणो गिर इत्युत्तमया परिदधाति । अष्टम्या त्रिः समापयेत् ॥ कालमाह - ॥ स यदैव हविर्धाने संपरिश्रिते मन्येताथ परिदध्यात् ॥ ‘स होता । यदा ते परिश्रिते सच्छदिष्के कृते । अथ तदा ॥

  • ‘दर्भमालाया अत्यन्तशुष्कास्तृणविशेषाः शुक्ला दृश्यन्ते । अशुकास्तु कृष्णाः’ इति सायण: + उणादिसू० १.१५७. ऋक्सं० १-१-२०-६ “मेथ्योरुपनिहितयोः परि वा गिर्वणो पिर इति परिदध्यात् ’ आ. श्री० सू० ४-९-१.

१८८

सवृत्तिके ऐतरेयब्राह्मणे [तृतीयः

॥ अनमंभावुका ह होतुश्च यजमानस्य च भार्या भवन्ति यत्रैवं विद्वानेतया हविर्धानयोः संपरिश्रितयोः परि दधाति ॥

यत्र यदीत्यर्थः । “कर्तरि भुवः खिष्णुच्खुको’ । अरु द्विषदजन्तस्य मुम्’ । प्रयोगापेक्षं बहुत्वम् ।

होतुर्यधुश्च भार्याणां वस्त्रकाय न वै भवेत् ॥ स्तौति

॥ यजुषा वा एते संपरिश्रियेते यद्धविर्धाने ॥ यत् यः । परिश्रयः छादनम् । कर्मणि यकि दीर्घाभावः ।। प्रपश्चयति

॥ यजुषैवैने एतत् परिश्रयन्ति ॥ एतद् एतहि ॥ शनिखातान्तः परिश्रय इत्याह—

॥ तौ यदैवाध्वर्युश्च प्रतिप्रस्थाता चोभयतो मेथ्यौ निहन्यातामथ परिदध्यात् । अत्र हि ते संपरिश्रिते भवतः॥

HTTA H

om.br

मा

  • पा० सू० ३-२.५७. + पा० सू० ६-३-६७. + ‘विष्णोः पृष्ठमसीति तेषु मध्यमं छदिरध्यूहति व्यरनिविस्तारं नवायामम्’ इति आप० श्री० सू० ११-८-१,

यद् हविर्धाने ये शकटे’ इति सायणः । तथाच तैत्तिरीयसंहिता— *दिवो वा विष्ण उत्तवा पृथिव्या इत्याशीपदयों दक्षिणस्य हविर्वानस्य मेथीं निहन्ति’ ६-२-९ इति, ‘आपस्तम्बश्चाह - ‘दिवो वा विष्णावित्यनयुदक्षिणस्य हविधानस्य दक्षिणं कर्णातर्दमनु मेथी निहन्ति तस्यामीषां निनयति । एवमुत्तरस्य प्रतिप्रस्थाता विष्णोर्नु क मित्युत्तरं कर्णातदमनु’ इति ११-५-३, ४.

खण्ड:

पञ्चमोऽध्यायः ।

१८९

SETTE

तौ प्रसिद्धौ । मेथी नाम महाशकुः । अथ तदा । लिङ् यासुन् । तसस्ताम् । निहन्यातां स्थापयेताम् । भवतः सम्पद्यते ॥

॥ता एता अष्टावन्वाह रूपसमृद्धाः॥ *युजेवामादिपरित्वान्ताः॥

॥ एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं यत् कर्म क्रियमाण मृगभिवदति । तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां, ता द्वादश सम्पद्यन्ते, द्वादश वै मासाः संवत्सरः, संवत्सरः प्रजापतिः, प्रजापत्यायतनाभिरेवाभी राधोति य एवं वेद । त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तहसौं नयति स्थेने बलाया विषेसाय ॥

उक्तार्थानि ।

तृतीयः खण्डः।

आग्नीध्रकामेः प्रणये लतासोमस्य चैव हि । वाच्या ऋचः सप्तदश प्रब्रवीति प्ररोचयन्-~

१. ‘ताम् । अन हि ते सम्परिश्रिते निहन्याताम्’ क. पाठः

  • तथाचाश्वलायनसूत्र-‘युजे वां ब्रह्म पूर्णं नमोभिः प्रेतां यज्ञस्य शम्भुवा युवा यमे इव यतमाने यदैतमधि द्वयोरदधा उक्थ्यं वच इत्यर्धर्च आरभेदव्यवस्ता चेहराटी । विश्वा रूपाणि प्रतिमुश्चत कविरिति व्यवस्तायाम् मेथ्योरुपनिहितयोः परि खा गिर्वणो गिर इति परिदध्यात्’ इति ४-९.४, ५, ६. + pages 90 & 91.१९०

सवृत्तिके ऐतरेयब्राह्मण

चितुः

॥ अमीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहीत्याहाध्वर्युः ॥ इह ईत्वं छान्दसं सूक्तहविपतियोगिदेवताद्वन्द्वस्वाभावात् ।।

॥सावीहि देव प्रथमाय पित्र इति सावित्रीमन्वाह ॥ इयं च सूत्रपठिता ।

॥ तदाहुः॥ चोयस्वरूपमाह

॥ यदन्नीषोमाभ्यां प्रणीयमानाभ्यामनुवाचाहाथ

कस्मात् सावित्रीमन्वाहेति ॥ अमिसोमदेवत्यया हि भाव्यमिति भावः ॥ परिहरति

  • ॥ सविता वै प्रसवानामीशे ॥

व्याख्यातम् ॥

॥ सवितृप्रसूता एवैनौ तत् प्रणयन्ति ॥

  • ‘योऽयमग्निः प्राचीनवंशाख्यायाः शालाया मुखे द्वारभागे पूर्वसिद्धाहबनीम रूपेणावतिष्ठते तस्माच्छालामुखीयादनेः सकाशात् कियानप्यामीध्रीये धिष्ण्ये नेतन्यः सोमश्च पूर्व शालामुखीयसमीपेऽवस्थितस्तेनाग्निना सहानीतः सन् पुनरपि हविर्धान मण्डपे नेतन्यः । तदिदमनीषोमप्रणयनम् । तदर्थ होतारं प्रत्यध्वर्युः त्रैषमन्त्रं ब्रूयात् । तदेतत् सर्वमापस्तम्ब आह - ‘शालामुखीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्यानीषोमाभ्यां प्रणीयमानाभ्यामनुब्रहीति संप्रेष्यति । अभिप्रथमाः सोमप्रथमा वा प्राचीममिप्रव्रजन्ति । आनीधीयेऽमि प्रतिष्ठाप्य इति च । सोमो जिगाति गातुविदिस्यपरया द्वारा हविर्धानं राजानं प्रपादयति इति च ’ (११-१४-२, ३, ४, ८) इति सायण:.- अथर्वसं० ४.३. * आ० श्री. सू० ४.१०.१. page 100.

खण्ड:]

पञ्चमोऽध्यायः ।

एनौ अग्निसोमो’ । तत् तत्र ।।

॥ तस्मात् सावित्रीमन्वाह । *प्रैतु ब्रह्मणस्पतिरिति ब्राह्मणस्पत्यामन्वाह ॥

पत्यन्ताण्ण्या ॥

॥ तदाहुर्यदग्नीषोमाभ्यां प्रणीयमानाभ्यामनुवाचाहाथ

__ कस्माद् ब्राह्मणस्पत्यामन्वाहेति ॥

परिहरति

॥ ब्रह्म वै बृहस्पतिः। ब्रह्मैवाभ्यामेतत् पुरोगवमकः ॥ आभ्याम् अग्नेः सोमस्य चार्थाय । अकः निरुक्तम् । अकार्षीत् ॥

॥ न वै ब्रह्मण्वद्रिष्यति ॥

अत्रास्ति ,

॥ प्र देव्येतु सूनृतेति ससूनृतमेव तद् यज्ञं करोति ॥ तत् तत्र ।

यज्ञं ससूवृतं कुर्यात् प्रियं सत्यं च सूनृतम् ॥

॥ तस्माद् ब्राह्मणस्पत्यामन्वाह ॥ द्वितीयाम् ॥

SIP

.

.

१.

अमीषोमौ’ क ड पाठ

___ * ऋक्सं० १.३-२०.३. - ‘उत्तिष्टाष्टौ ब्राह्मणस्पत्यम्’ इति सर्वा. म. 1. सू० ४०. * पा० सू० ४.१.८५ page 80.

१९२ सवृत्तिके ऐतरेयनामणे चतुर्थः

॥ होता देवो अमर्त्य इति तृचमाग्नेयं गायत्रमन्वाह

___सोमे राजनि प्रणीयमाने ॥ प्राङ्नीयमाने । स्तौति

॥ सोमं वै राजानं प्रणीयमानमन्तरेणैव सदो हविधीना

__ न्यसुरा रक्षास्यजिघांसन् ॥ हविर्धानानोदयस्य सदसश्चैव मध्यतः । प्राङ्नीयमानं सोमं तु दैत्या रक्षांसि चैव हि ॥ हन्तुमैच्छन् हनः सन् द्वे दीर्घोऽऽझनगमां सनि । अडभ्यासाचेति कुत्वमजिघांसन् लङा पदम् ॥

॥ तममिर्माययात्यनयत् ॥ तं सोममग्निः मायया प्रज्ञयात्यनयदविनीतवान् ॥ तदेतदाह

॥ पुरस्तादेति माययेति ॥ च्याचष्टे ॥ मायया हि स तमत्यनयत् तस्माद्वस्याग्निं पुरस्ताद्धरन्ति ।

अस्य सोमस्य । उ खलु । " मय उओ वो वा’ । नयन्ति । ऋत्विजः ॥

‘माययेति । मायया’ ध. ड. पाठ:,

क्स. ३-१.२९-२. + प्रवः पश्योना गायत्रम् ’ इति सर्वा० म० ३. सू० २७. * पा० सू० ६-४-१६. ६. पा. सू. ७-३-५५. मायया शत्या’ इति सायणः, पा० सू० -३-३.

खण्ड:

पञ्चमोऽध्यायः ।

१९३ ॥ उप त्वाने दिवे दिव “उपप्रियं पनिप्ततमिति तिस्रश्चैकां

चान्वाह ॥ उपत्वातस एकात्रोपप्रियेति क्रमाद्भवत् ॥ चतुरूंचं स्तौति

॥ ईश्वरौ ह वा एतौ संयन्तौ यजमानं हिंसितोः ॥ ‘संयन्तौ सङ्गच्छमानौ यजमानं हिंसितुं समर्थौ स्थाताम् ॥ एतौ को, ॥ यश्चासौ पूर्व उद्धृतो भवति यमु चैनमपरं प्रणयन्ति ॥ पूर्व उत्तरवेदिगतः । उ पुनः । अपर आग्नीधीयगतः ॥ एवं स्थिते,

॥ तद् यत् तिस्रश्चैकां चान्वाह संजानानांवेवैनौ तत्

सङ्गमयति ॥ संजानानौ सम्प्रतिपन्नौ । ‘संप्रतिभ्यामनाध्याने’ इति तङ् तत् तत्र ॥ च्याचष्टे–

॥ प्रतिष्ठायामेवैनौ तत् प्रतिष्ठापयत्यात्मनश्च यजमानस्य

चाहिंसायै॥

PA

pers

१. ‘आमीध्रगतः ‘घ. , पाठः.

  • ऋक्सं० १-१-२-२. + ऋक्सं० ७.२-१८-४. इति गोविन्दखामी. ‘संग्रामं कुर्वन्तो’ इति सायणा.

संयन्ती स्पर्धमानौ’ पा० सू० १-३-४६.

25

INTY

१९४ सवृत्तिके ऐतरेयब्राह्मणे [चतुर्थः

प्रतिष्ठायाम् । डेथे कि । प्रतिष्ठार्थम् । आत्मयष्टहिंसानिवृत्तये च । प्रतिष्ठापयति सङ्गमयति ॥ ॥ अमे जुषस्त्र प्रति हयं तच इत्याहुत्यां हूयमानायामन्वाह ॥

निहिताग्रीधाग्नेरिति शेषः । सून्यते हि – ‘आनीधीये निहिते ऽभिहूयमानेऽने जुषस्व प्रतिहयं तद्वच’ इति ॥

॥ अमय एव तज्जुष्टिमाहुतिं गमयति ॥ .. १ गत्यर्थकर्मणि-’ इति चतुर्थी । अग्निम् । जुष्टिम् । डेर्थेऽम् , प्रीतये आहुतिं प्रापयति ॥

॥ सोमो जिगाति गातुविदिति तृचं सौम्यं गायत्रमन्वाह सोमे राजनि प्रणीयमाने स्वयैवैनं तद् देवतया स्वेन छन्दसा समर्धयति ॥

१. ‘निहिताग्नीध्रानेरुपरीति’, २. ‘जुषस्वेति’ क. पाठः,

  • ‘प्रतिष्टायामेव उत्तरवेद्यान्नीध्रलक्षणस्वस्वोचितस्थान एव’ इति सायणः. + ऋक्सं० २.२-१४-७. * आहुतिस्तु-‘नयवत्यर्चानीधे जुहोति सुवर्गस्य लोकस्या भिजिसै ’ इति (६-३-२) यजुर्वेदगता. ‘आमाधीयेऽनि प्रतिष्ठाप्याग्ने नयेत्यर्धमाज्यशेषस्य जुहोति’ इति आप० श्री. सू. ११-१७-४. आ. श्री. सू. ४-१०-३.

पा० सू० २.३-१२ % ‘अनये जुष्टिं प्रीतिम्’ इति गोविन्दस्वामी, ‘आहुतिमः प्रियं सम्पादयति’ इति सायण:. ऋक्सं० ३-४-१९३. सौम्यर्चा प्रपादयति स्वयैवैनं देवतया प्रपादयति’ इति तै० सं० ६-३-२. ‘उत्तरेणान्नीध्रीय मतित्रजस्वतिनज्य सोमो जिगाति गातुविद् देवानां तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरभेत् ’ आ० श्री. सू. ४.१०.४ ‘सोमो जिगाति गातुविदित्यपरया द्वारा हविर्धानं राजानं प्रपादयति’ ११.१७-८. इति चापस्तम्बर,

खण्डः

पञ्चमोऽपाय.

१९५

अत्रास्ति ,

॥ सोमः सधस्थमासददिति ॥

आभिरूप्यमाह

॥ आ सत्स्यन् हि स तर्हि भवति ॥ तर्हि तदानीम् । सत्स्यन् । सदेः ‘लुटः सदा ।।

॥ तदतिक्रम्यैवानुब्रूयात् पृष्ठत इवाग्मीघ्रं कृत्वा ॥ तद् गायत्रतचं सोम इत्यादि । अनुब्रूयात् । एव पुन: । आनीध्र मतिक्रम्य । व्याचष्टे – पृष्ठत इवेति ।।

अथ,

॥‘तमस्य राजा वरुणस्तमश्विनेति वैष्णवीमन्वाह ॥ वैष्णवत्वद्योतनाय पठति— ॥ ऋतुं सचन्त मारुतस्य वेधसः। दाधार दक्षमुत्तममहविद

ब्रजं च विष्णुः सखिवाँ अपोर्तुत इति ॥ व्याचष्टे ॥ विष्णुवै देवानां द्वारपः स एवास्मा एतद् द्वारं विवृणोति ॥

सर्वसम्पदुपायानां विष्णुर्निवाहकः खलु । एतदेतया ऋचा। द्वारं हविर्धानं पश्चिमम् । विवृणोति उद्घाटयति अस्मै आगताय सोमाय ॥

PM

पा. सू. ३-३-१४.

.

ऋक्सं०

  • ऋक्सं० ३.४-११-५, २-२-२६-४

Se

ADAR

mpus

. TRUT

PARE

"

.

सवृत्तिके ऐतरेय ब्राह्मणे ॥ अन्तश्च प्रागा अदितिर्भवासीति प्रपाद्यमानेऽन्वाहा ॥ प्रवेश्यमाने सोमे ॥

॥ श्येनो न योनि सदनं धिया कृतमित्यासन्ने ॥ अन्वाहेत्येव । आसन्ने निविष्टे सोमे ॥

॥हिरण्ययमासदं देव एषतीति । अस्ति ॥ ॥ हिरण्मयमिव ह वा एष एतद् देवेभ्यश्छदयति यत्

कृष्णाजिनम् ॥ एष सोमा छदयति अध्यास्ते । देवेभ्यः देवानामर्थाय ।

एतत् कृष्णाजिनं त्वस्य’ राज्ञः सिंहासनं यथा । मृदुस्पर्श बिन्दुचित्रं सावनं सुमनोरमम् ।।

॥ तस्मादेतामन्वाह । “अस्तन्नाद् द्यामसुरो विश्ववेदा इति वारुण्या परिदधाति है। वरुणदेवत्यो वा एष तावद् यावदुपनरो यावत् परिश्रितानि प्रपद्यते । स्वयैवैनं तद् देवतया स्वेन छन्दसा समर्धयति ॥

१. ‘तस्य’ घ. पाठः

____ * ऋक्सं. ६-४-११-२, + ‘प्रपाद्यमान राजानमनुप्रपद्येत अन्तश्च प्रागा अदितिर्भवासि श्येनो न योनि सदनं घिया कृतम्’ इति आ० श्री. सू. ४-१०-५. + कृष्णाजिनास्तरणं चापस्तम्ब आह…. दक्षिणस्य हषिर्धानस्य नीडे पूर्ववत् कृष्णा जिनास्तरणं राज्ञश्वासादनम् ’ इति ११-१७-१०. ‘एषोऽध्वर्युः छदयसास्तृणाति’ इति सायमः भसं० ६.३-२८.१, अस्तनाद् धामसुरो विश्ववेदा इति परिदध्यात्’ आ. श्रीसू० ४.१५.५

खण्ड:

पञ्चमोऽध्यायः ।

*उक्तार्थमेतत् सोमप्रवहणे ॥ अत्र किञ्चिन्नैमित्तिकमाइ ॥ तं यधुप वा धावेयुरभयं वेच्छेरन् एवा वन्दस्व

वरुण बृहन्तमित्येतया पारदध्यात् ।। उपधावेयुर्वा । अभयमिच्छेधुर्वा । उपधावनं समाश्रयणम् । सूज्यते हि –‘उत्तरया वा क्षेमाचारे’ इति ॥

एवं कृते ,

॥ यावश्यो हाभयमिच्छति यावद्भ्यो हाभयं ध्यायति तावझ्यो हाभयं भवति यत्रैवं विद्वानेतया परिदधाति ॥

यावयो भूतेभ्यः । “यत्र यदि ॥

॥ तस्मादेवं विद्वानेतयैव परिदध्यात् ॥ क्षेमकामः । एवेति । पूर्वा अस्तनान्मा भूदिति ॥

॥ ता एताः सप्तदशान्वाह ॥ सावीरादिवारुण्यन्ताः ॥

॥ रूपसमृद्धाः । एतद्वै यज्ञस्य समृद्धं यद् रूपसमृद्ध यत् कर्म क्रियमाणमृगभिवदति । तासां निः प्रथमामन्वाह त्रिरुत्तमां ता एकविंशतिः सम्पद्यन्ते एकविंसो वै प्रजापतिः ॥

  • page 88: + ऋक्सं० ६-३-२८-१, गोविन्दस्वामी. आ० श्री. सू० ४-१०-५, न

उपधावनमुपद्रवः’ इति यन बागे’ इति सायणा,

सवृत्तिकै ऐतरेयबामणे

AAL

PER

…’ साRT

॥ द्वादश मासाः पञ्चर्तवः ॥ हेमन्तशिशिरैक्येन ॥

॥ त्रय इमे लोकाः ॥ भूखस्वराख्याः । इति विंशतिः ।।

॥ असावादित्य एकविंशः॥

॥ उत्तमा प्रतिष्ठा ।। सर्वजगदाधारत्वात् ॥

॥ तद् दैवं क्षत्रम् ॥ * ‘आदित्यो वै दैवं क्षत्रम्’ इति हि वक्ष्यते ॥

॥ सा श्रीः ॥

श्रयणीयत्वात् । ‘त एनमनुमदन्त्युदगादुदगाद्’ इत्यारण्यके हि वक्ष्यते ॥

॥ तदाधिपत्यम् ॥ स्वार्थे प्यम् । ‘आदित्य एषां भूतानामधिपतिः’ इति हि वक्ष्यते ॥

॥ तद् बन्नस्य विष्टपम् ॥

ऐ० ब्रा० ३४-२. + ऐ० आ० १-३.४. * ऐ• ब्रा० ३४-३.

पञ्चमोऽध्यायः ।

सोर्डम् । ‘बन आदित्यः । विष्टपं स्थानम् । आदित्याख्यं स्थानं च ॥

॥ तत् प्रजापतेरायतनम् ॥ सोर्डस् । ईश्वरः प्रजापतिः। सर्वस्यायतनं स्थानम् ॥

॥ तत् स्वाराज्यम् ॥ स्वयमीशिता’ । खार्थे व्यञ् ॥

॥ ऋश्नोत्येतमेवैताभिरेकविंशत्यैकविंशत्या ॥ एकविंशतिसंख्याभिराभिरादित्यमीश्वरम् । पामोति यष्टा होता च द्विरुक्तरर्थ ईरितः। ॥

चतुर्थः खण्डः ।

इति पड्गुरुशिष्यविरचितायां महिदासैतरेयब्राह्मणवृत्ती

सुखप्रदायां पञ्चमोऽध्यायः ॥

प्रथमपश्चिका समाप्ता॥

१ स्वराद’ घ. इ, पाठः, २. इति ब्राह्मणवृत्ता सुखप्रदायां’ क. स.. ’ इति षड्गुरुशिष्येण विरचितायां ब्राह्मणव्याख्यायां’ घ, ड पाठ .

  • ‘ब्रन आदित्यः तस्य स्थान त्रिविष्टपं विष्टप इति स्वर्गादित्ययोः साधारण नामत्वादिह स्वर्गार्थ परिगृहीत ’ इति गोविन्दस्वामी, अनस्यादित्यस्य विष्टपं स्थान भूतम् ’ इति सायणः. ‘प्रजापतिगृहस्थः प्रजोत्पादनात् साधु । गृहस्थस्याप्यादित्या यतनवादपवर्गावस्थायां प्रजापतेरायतनमित्युच्यते ’ इति गोविन्दस्वामी, ‘तदेव मण्डलं प्रजापतेरप्यायतनं स्थानम् । आदित्यमण्डले प्रजापत्युपासनस्याभिधानात् ’ इति सायणा.

‘स्वाराज्यं नाम परमात्मतादात्म्यम् । आदित्यो ब्रह्म’ इति श्रुतेः तत् स्वाराज्यमित्युच्यते’ इति गोविन्दस्वामी. page 44.Des