अथ चतुर्थोऽध्यायः।
NHAT
राजक्रयस्तृतीये तु प्रोक्त आतिथ्यया सह ।
अथाभिष्टवमाख्यातुमितिहासं धीति ह ॥ यज्ञो वै देवेभ्य उदक्रामद् न वोऽहमन्नं भविष्यामीति ॥
युष्माकमन्नं नैवाहं भवितेत्यभिधाय वै । ‘यज्ञ उत्क्रान्तवान् देवगणान् क्रोधान्वितः पुरा ॥
१. घड्गुरुशिष्येण विरचितायां ब्राह्मणब्याख्यायां तृतीयोऽध्यायः ‘घ, १. पाठः
page 44.
- ‘प्राणा वै प्रयाजानुयाजाः’ श. बा. १४-२-२-५१. * ‘याशब्देनात्र प्रवर्यो विवक्षितः’ इति सायणगोविन्दस्वामिनी.
खण्ड:
चतुर्थोऽध्यायः ।
॥
॥ नेति देवा अब्रुवन् अन्नमेव नो भविष्यसीति ॥ नास्त्यन्त्रमन्यदस्माकं भवानमिति तेऽवदन् ॥
॥ तं देवा विमेथिरे ॥ तमगृहीतानुनयम् । विभयनं ताडनम् ॥
॥स हैभ्यो विहतो न प्रबभूव ॥ विशब्दः प्रार्थे । प्रहृतस्ताडितः । मिसो भ्यस् । एभिर्देवैः । न प्रबभूव समर्थो नाभवत् ॥
॥ ते होचुर्देवाः ॥ हेति तापे । ते प्रहतासमर्थयज्ञकाः ॥ कयं,
॥ न वै न इत्थं विहृतोऽलं भविष्यति हन्तेमं यज्ञ
सम्भरामेति ॥ ना अस्मभ्यम् । इत्थं विहृतस्ताडितः । अलं पर्याप्तः । *हन्तेत्याभि मुख्ये । सम्भराम । लोट् । आद् । भृन् भरणे । प्रवर्दीसम्भारैः
कुर्मः ॥
॥ तथेति तं संजभ्रुः॥ तथेति निश्चयं कृत्वा यज्ञं देवा अपोषयन् । भूलो लिट् । भोजः॥
१. ‘प्रतो’. पाठः.
___ * ‘हन्तेत्यन्तःकरणवृत्तेरभिप्रायस्य । सूचनम् एवमभिप्रायं कृतवन्त इत्यर्थः’ इति गोविन्दस्वामी, सम्पूर्तिहेतुदर्शननिमित्तजन्यहर्षयोतनार्थों इन्तशब्दः’ इति सायणः.विथमः
सवृत्तिके ऐतरेयब्राह्मणे ॥ तं संभृत्योचुरश्विनाविमं भिषज्यतमिति ॥ भृवो स्यपि तुक् । भिषजिति कण्ड्वादेर्यको लोट् । हे अश्विनी यज्ञमिमं युवामरोगं कुरुतमित्यूचुर्देवा इत्यर्थः ।।
नन्वन्येषु सत्सु दसौ किमूचुरत उच्यते -
॥ *अश्विनौ वै देवानां भिषजौ ॥ भैषज्ये सर्वदेवानां मध्ये तो कुशलौ खलु ॥
अश्विनावध्वयं ॥ अध्वर्यु अध्वर्युप्रतिप्रस्थातारौ । ‘अधिनाध्वर्यु आध्वर्यवाद् इत्युतुषे ह्यधीयते ॥
॥ तस्मादध्वयूँ धर्म संभरतः ॥ तस्मात् तथाहि ॥
॥ तं सम्भृत्याहतुर्ब्रह्मन् “प्रवर्येण प्रचरिष्यामो
होतरभिष्टुहीति ॥
अध्वर्य ॥
प्रथमः खण्डः
१. किमूचुरत आह’ घ, ङ. पाठः, २.
खलु अत्रापि अश्विना । क, पाठः,
- अश्विनोदेवभिषक्तवं च ’ देवा वै सत्रमासत’ (ते. आ० ८-२) इत्यनुवाके ‘ते देवा अश्विनावब्रुवन् भिषजौ वै स्थः इदं यज्ञस्य शिरः प्रतिधत्तमिति’ इत्यादिनोक्तम्, + ‘अश्विनौ हि देवानामध्धयूं आस्ताम् ’ तै० आ० ८-२, * आप० श्री० सू० ११-१९-८. s ऋतुयाजार्थ मैत्रावरुणेन पठितव्या मन्त्रा ऋतुप्रैषा प्रवर्यशब्दः कर्मविशेष. वचनः प्रवल्यतेऽस्मिन् धर्मः इति.
खण्ड:
चतुर्थोऽध्यायः ।
HTI
AT THE
.
1
*धर्म त्वभिटुहीत्येवं होताध्वर्युप्रचोदिनः , ॥ ब्रह्म जज्ञानं प्रथम पुरस्तादिति प्रतिपद्यते ॥ प्रतिपत्तिरारम्भः ॥ व्याचष्टे
॥ ब्रह्म वै बृहस्पतिः ॥ देवानां बृहतां पाता रक्षको वेद एव हि ॥
॥ ब्रह्मणैवैनं तद् भिषज्यति ॥ तत् तत्र । एनं यज्ञम् ।
अवस्येत् प्रणवेनात्र’ ऋचं प्रोच्यानवानतः ।
ऋचमृचमनवानमुक्त्वा’ इत्यादि हि सून्यते ।। “ब्रह्मादृक् सूत्रपठिता तथेयपिमहानभि । भिषज्यत्यरोगं करोति ॥
॥ इयं पित्र्ये राष्ट्रयेत्यग्र इति ॥ अभिष्टुयादिति शेषः॥ व्याचष्टे —
॥ वाग्वै राष्ट्री ॥ ईश्वरी राष्ट्री ॥
१. ‘प्रगतो नान’घ, पाठः,
- धर्मशब्दः प्रवर्यहविर्वचनः. तै० सं० ४.२-८. * अगवानतः अनुच्छासेनेत्यर्थः, आ० श्री. सू. ४-६-२, आ. श्री. सू० ४-६-३. 2 अथर्वसं० ४-१-२.
16
१२२
सवृत्तिके ऐतरेयब्राह्मणे
द्वितीय:
॥ वाचमेवास्मिंस्तद् दधाति ॥ अस्मिन् यजमाने । तत् तत्र ॥
॥ *महान्मही अस्तमाय द्विजात इति ॥ अभिष्टुयात् ॥ इयं च,
॥ ब्राह्मणस्पत्या ।
पत्यन्तापण्या
॥ ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद् भिषज्यति । ____ अभि सं देवं सवितारमोण्योरिति ॥ अभिष्टुयात् ॥ इयं च,
॥ सावित्री ॥ सविदेवत्या ।।
॥ प्राणो वै सविता ॥ प्राणयतीति व्युत्पत्या ।।
. ॥ प्राणमेवामिस्तद् दधाति ॥ तत् तत्र । अस्मिन् यजमाने ॥ .. ॥ संसीदस्व महाँ असीत्येवैनं समसादयन् ।
पा. सू. ४-१-८५,
. सं. १-२-६,
- तै० सं० २.३.१४, ऋक्सं. १-३-९-४.
खण्डः
चतुर्थोऽध्यायः ।
१२३
*खरदेशे महावीरमेनं देवा असादयन् ॥
॥ अञ्जन्ति यं प्रथयन्तो न विप्रा इति ॥ । अभिष्टुयात् ।। इयं च,
॥ अज्यमानायाभिरूपा ॥ अन्यमानं महावीरमभिधातुमियं क्षमाः ॥
॥ यद् यज्ञेऽभिरूपं तत् समृद्धम् ॥ उक्तार्थम् ॥ ॥*पतङ्गमक्तमसुरस्य मायया यो नः सनुत्यो अभिदासदग्ने * भवानो अग्ने सुमना उपेताविति द्वे वे अभिरूपे ॥
• प्रतिप्रतीकं द्वित्वार्था वीप्सा तेन ऋचोऽत्र षट् ॥
॥ यद् यज्ञेऽभिरूपं तत् समृद्धम् ।
कृणुष्व पाजः प्रसितिं न पृथ्वीमिति पश्च ॥ ऋचा ॥
AN
- खरो नाम महावीरसन्तापनप्रक्षालनाद्यर्थं सिकताभिः कल्पितो देश उच्यते । तत्कल्पनं चापस्तम्बसूत्रे-‘ततः खरानुपवपति । उत्तरेण गार्हपत्यमेकम् उत्तरेणा हवनीयमेकम् । उत्तरपूर्व द्वार प्रत्युच्छिष्टखर करोति बाह्यतो निषेचनवन्तम् ।’ इति १५-६-२०, २१, २२. तप्रमाणं चाह बोधायन:–‘प्रादेशमात्रं परिमण्डलम् । इति. + प्रवर्यहविराश्रयभूतो मृन्मयपात्र विशेषो महावीरः । तन्निर्माणप्रकारश्वापस्तम्बसूत्र ‘संप्रक्लिश्य मृदं मखस्य शिरोऽसीति पिण्डं कृत्वा यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यां निरय महावीर करोति । युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा प्रादेशमात्रमूर्खसानुमुपरिष्टादासेचनवन्तं मध्ये सन्नतं वायव्यप्रकारम् ’ इति १.५-२-१४. ऋक्सं० ४-२-२१-२, 8 विनियोग धानयोराश्वलायनत्रौतसूत्रे-‘संसीदस्त्र महाँ असीति संसाधमाने, अञ्जन्ति यं प्रथयन्तो न विधी इत्यज्यमाने ’ इति ४-६-३. page 31. * ऋक्सं. ८-८-३५-१. || ऋक्सं० ४.५-७.०४. * ऋक्सं० ३-१-१८.१. सं० ३-४-२३-१,
सवृत्तिके ऐतरेयनामणे
Sou
द्वितीयः
ताचा
॥ राक्षोऽन्यः ॥ रक्षाकर्मकहननकार्यग्निप्रतिपादनसमर्थाः । रक्षोहनोऽणि, * पपूर्वहन्-’ इत्यल्लोपः ।।
आसामभिष्टवश्व,
॥ रक्षसामपहत्यै ॥ स्यात् ।।
॥ परि वा गिर्वणो गिरोऽधि द्वयोरधा उक्थ्यं वचः शुक्र ते अन्यद् यजतं ते अन्यद् अपश्यं गोपामनिपधमानमिति चतस्त्र एकपातिन्यः॥ एकत्वयोगिन्या ॥
॥ता एकविंशतिर्भवन्ति ॥ ब्रह्मज्ञायपश्यंगोपामन्ता एकविंशतिः ॥
॥ एकविंशोऽयं पुरुषः॥ एकविंशतः पूरणः । ॥ ति विंशतेर्डिति ।।
१. ‘डिति दश’ प. पाठ:.
- पा. सू. ६.४.१३५. । ऋक्सं० १-१-२०-६. * ऋक्सं० १.६-४-३. 8 ऋक्सं० ४-८-२४-१. 4 ऋक्सं० २-३-१०.१, ८-८-३५.३. १ ‘एकैकस्मिन् प्रतीके एकैकोपाया इत्यर्थः’ इति गोविन्दस्वामी, ‘एकस्य मन्त्रस्य पातः प्रतीक्रम् एकपातः, सोऽयं यास्वता एकपातिन्यः। परित्वा गिर्वण इति यत् प्रतीकं तत् संहितायां क्रमेणानातानां चतमणां प्रतीकमित्याशक्येत चतल इति ब्राह्मणेऽभिधानात् । एवमधिद्वयोः शुक्र ते अपश्यं गोपामिति त्रिषु प्रतीकेषु शङ्कोदियात् तद्व्यावृत्त्यर्थमेकपातिन्य इत्युच्यते । एकैकस्या ऋचः प्रतीकानि मिलित्वा चतस्त्र इति तात्पर्यार्थः इति सायणः. | पा० सू० ६-४-१४२.
खण्ड: .
चतुर्थोऽध्यायः ।
१२५
कथं,
EN
॥ दश हस्त्या अगुलयः॥ हस्तयोर्भवाः ॥
॥ दश पायाः॥ अगुलय इत्येव ॥
॥ आत्मैकविंशः॥ आत्मा मध्यमः काया।
॥ तमिममात्मानमेकविंशं संस्कुरुते ॥ संस्कारः फलयोगिता।
ब्रह्मजज्ञाद्यपश्यंगोपेत्यन्तोक्तकविंशतिः ॥
द्वितीयः खण्डः।
॥ सके द्रप्सस्य धमतः समस्वरन्निति नव ॥ ऋचोऽभिष्टुयात् ॥ ताच,
॥ पावमान्यः॥ Sपवमानगुणस्यैताः सोमस्य प्रतिपादिकाः ।। नवत्वं स्तौति
॥ नव वै प्राणाः ॥ नाभेरूचं नव प्राणा द्वौ स्तन्यौ सप्त मूर्धनि ।।
- ‘दश हस्त्या अगुलयो दश पद्या आत्मैकविंशः तै० सं०.६-१-१. + ‘आत्मा मन्यदेहः जीवात्मा वा’ इति सायण: ऋक्सं० ७-२-१९-१. .६ पवमान शब्दवत्यः’ इति गोविन्दस्वामी. पवमानदेवताकाः’ इति.सायणा..
सवृत्तिके ऐतरेय ब्राह्मणे तृ तीयः
॥ प्राणानेवास्निस्तद् दधाति ॥ होताभिष्टुवन् । तत् तेन नवर्चेन ॥
॥ अयं वेनश्वोदयत् पृश्निगर्भा इति ॥ अभिष्टुयात् ॥ व्याचष्टे
॥ अयं वै वेनः॥ कमनीयो वेन उक्तो वेनतेः कान्तिकर्मणा । नाभिचक्रगतः प्राणोऽत्रायंशब्देन कथ्यते ॥
॥ अस्माद्दा ऊर्ध्वा अन्ये प्राणा वेनन्ति ॥ नाभिस्थादुत्थिता हास्मानव प्राणाश्चरन्ति वै । अर्ध्वरूपा एतदिच्छावनातोऽस्य चेनता ॥
॥ अवाञ्चोऽन्ये ॥ अस्माद् वेनन्तीत्येव
नाभेरधस्तादूतस्यः पुरीष्यो मत्र्य एव च । तेऽप्येतदिच्छासंयुक्ताश्चरन्तीत्यस्य वेनता ॥ वेनन्ति क्रीडायुक्ताश्चरन्ति ॥ निगमयति
॥ तस्माद वेनः॥
- अझ ७-७-७.१. या० निघ० २-६. * श्रयं वै नाभिर्वेनः’, $ अस्मानाः’ इति सायणगोविन्दस्वामिनौ, ॥ यद्यपि वेनतिः कान्तिकर्मा, तथाप्यत्र गतिकर्माभिप्रेतः’ इति गोविन्दस्वामी.
खण्ड:
चतुर्थोऽध्यायः ।
नाभिशब्दं निराह
॥ प्राणो वा अयं सन्नाभेरिति ॥ उक्तवानिति शेषः । सन् कल्याणः । अयं प्राण उक्तवान् वागादीन प्रति । कथम् । न अभेः अभैषीः । छन्दस्त्वाद् रूपम् ।
स्थिते मयि हि वागाद्या न भयं वः कुतश्चन । अथवायमत्रार्थ:
*ल्यब्लोपे पश्चमी नाभेनाभिं प्राप्य सिराः शुभाः ।
अयंसद् बद्धवानेष शिरःपादान्तकं दृढम् ।। यमु बन्धन इत्यस्माल्लुट्सिच्शवितश्च वै ।।
॥ तस्मान्नाभिः॥ नाभिप्राप्तेनाभिश्य प्राण एवेति गृह्यताम् ॥
॥ तन्नाभर्नामित्वम् ॥
ततश्च
प्राणमेवास्मिंस्तद् दधाति ॥ उक्तार्थम् ।। ॥ पवित्रं ते विततं ब्रह्मणस्पते तपोष्पवित्रं विततं दिवस्पते
वियत्पवित्रं धिषणा अतन्वतेति तिस्रोऽभिष्टुयात् ॥ वियदादिः सूत्रपठिता ॥
।
HTA
% 3D
१. ‘स्तुते’, २. ‘नाभिरियं घ. पाठ:
- पा० सू० वा० २-३-२८. page 122. * ऋक्सं० ७.३-८-१, ऋक्सं०७०३-६-२, , आ० श्री. सू. ४-६-३.
सवृत्तिके ऐतरेयब्राह्मण
॥ पूतवन्तः ॥ त्रयो मन्त्राः पूतवन्तः पूधातूत्थपदान्विताः ।।
॥ प्राणास्त इमेऽवाञ्चः ॥ ते त्रयो मन्त्राः अवाक्माणस्थितिकारिणः ॥
अवाचा पाणानाह–
॥ रेतस्यो मूत्र्यः पुरीष्य इति ॥ रेतापुरीषमूत्रेभ्यस्तत्र साधुर्यदुच्यते ॥
॥ एतानेवास्मिंस्तद् दधाति ॥ तत् तेन पूतवत्रिकेण ।
स्रकादिवियदन्तास्तु त्रयोदश ऋचः खलु ॥
HISTTE
तृतीयः खण्डः।
॥
॥ गणानां त्वा गणपतिं हवामह इति ब्राह्मणस्पत्यम् ॥
एकानविंशत्यूचकमिदं सूक्तमभिष्टुयात् ॥
॥ ब्रह्म वै बृहस्पतिर्ब्रह्मणैवैनं तद् भिषज्यति ॥ उक्तार्थम् ॥
१.
एकोन’ घ. पाठः
- पा० सू • ४-४-९८. + ऋक्सं० १-६-२९-१. ‘गणानामेकोना ब्राह्मणस्पत्वं ह बाहस्पत्यास्तु दृष्टलिङ्गाः पञ्चदश्यन्ये त्रिष्टुभौ ’ इति सर्वानुक्रमणी मं० २ सू० २३. page 121.
खण्ड:)
चतुर्थोऽध्यायः ।
१२९
॥ प्रथश्व यस्य सप्रथश्च नामेति ॥ तृचं सूक्तमभिष्टुयात् ॥ एताच,
॥ धर्मतन्त्रः ॥ धर्मस्य तन्व इत्येवं विद्यात् तिस इमा ऋचः ॥
ततधा
॥ सतनुमेवैनं तत् सरूपं करोति ॥ सतनुपदस्य व्याख्यानं सरूपमिति ॥
अत्रास्ति,
॥ रथंतरमाजभारा वसिष्ठो भरद्वाजो बृहदाचक्रे अग्नेरिति ।
आद्योपाधऋचोरन्त्यौ पादौ तु पठिताविमौ ॥ ’ ॥ बृहद्रथंतरवन्तमेवैनं तत् करोति ॥ एनं धर्मम् । तत् तेन, बृहद्रयंतरवचनेन ॥
॥ अपश्यं त्वा मनसा चेकितानमिति ।। तृचं सूक्तमभिष्टुयात् ॥
। प्रजावान् प्राजापत्यः॥
- ऋक्सं० ८-८-३९-१. * प्रथश्चैकर्चाः प्रथो वासिष्ठः सप्रथो भारद्वाजो धर्मः सोयाँ वैश्वदेवम् ’ इति सर्वानुक्रमणी म. १० सू. १८१. ऋक्सं० ८.८.४१.१.चितुर्थः
सवृत्तिके ऐतरेयब्राह्मणे ‘प्रजापतिसुतो नाम्ना प्रजावान् दृष्टवानिदम् ॥
॥प्रजामेवास्मिंस्तद् दधाति ॥ तत् ततो हेतोः।
अत्रान्वृचं यष्ट्रपनीहोतरूपसमीक्षणम् ।
अपश्यं स्वेत्येतस्येति सूत्रकारः खलूक्तवान् ॥
॥ का राधद्धोत्राश्विना वामिति नव ॥ अभिष्टुयात् ॥
ताच
॥विच्छन्दसः॥ नानाच्छन्दस्काः । ‘गायत्रानुष्टुभौष्णिहा बचाः विष्टारबृहती कृतिविराट् तिस्रो गायत्र्य’ इति हि सर्वानुक्रमणी ।।
॥ तदेतद् यज्ञस्यान्तस्त्यम् ॥ अन्तश्चन्दाद त्य। अन्तर्भवम् ॥ ॥ विक्षुद्रमिव वा अन्तस्त्यमणीय इव च स्थवीय इव च ॥
*नानारूपक्लप्तमध्यं कुड्यादि त्वभितः शुभम् । इव नाना वि क्षुद्रं किश्चिद्विवरणं परम् ।।
. * ‘अपश्यं प्रजावान् प्राजापत्योऽन्वृचं यजमानपत्नीहोत्राशिष’ इति सर्वानुक्रमणी म. १० सू. १८३. + अपश्यं वेस्खेतस्याद्यया यजमानमीक्षते द्वितीयया पत्नी तृतीययात्मानम् ’ इति आ० श्री. सू० ४-६-३. ऋक्सं० १-४-२२-१, ६ म० १सू. १२० इयमानुपूर्वी मुद्रितसर्वानुक्रमण्यां यद्यपि न दृश्यते, तथाप्य स्मान्यशालास्थतालपत्रमातृकायां दृश्यत एव. पा. सू० ४-३-१०४. * ‘शरीरेऽपि विक्षर विविधक्षुदमेवान्तस्त्यम्’ इति गोविन्दस्वामी. ‘लोकेऽप्यन्तस्त्वं शरीरमध्यस्था क्यवजात विक्षुदमिव वै विविधलेन तारतम्येन स्वल्पमेव भवति’ इति सायणः,
खण्ड:
चतुर्थोऽध्यायः ।
॥ तस्मादेता विच्छन्दसो भवन्ति ॥ स्तौति
॥ एताभिर्हाश्विनोः कक्षीवान् प्रियं धामोपागच्छत् ॥ धाम स्थानम् ॥
॥स परमं लोकमजयत् ॥ स कक्षीवान् । जयतिर्वशीकरणाः ॥
॥ उपाश्विनोः प्रियं धाम गच्छति । जयति परमं लोकं
य एवं वेद ॥ *व्यवहिताच’ । उपगच्छति । सोऽपि ॥
॥ आभात्यनिरुषसामनीकमिति सूक्तम् ॥ अभिष्टुयात् पञ्चर्चम् ।। अत्रास्ति,
॥ पीपिवांसमश्विना धर्ममच्छेति ॥ एतच,
॥ अभिरूपम् ॥ धर्मश्रवणात् ।।
॥ यद् यज्ञेऽभिरूपं तत् समृद्धं तदु त्रैष्टुभम् ॥ उ पुनः । तदाभातीयम् ॥
।
पा० सू०१-४-८२. + ऋक्सं० ४-४-१७-१.
सवृत्तिके ऐतरेयब्राह्मण
चतुर्थः
॥ वीर्य वै त्रिष्टुप् ॥ *सृष्टौ वीर्यवत्क्षत्रसम्बन्धात् ॥
॥ वीर्यमेवामिस्तद् दधाति ॥ तत् तेन त्रिष्टुप्त्वेन ॥
॥ ‘ग्रावाणेव तदिदर्थ जरेथे इति सूक्तम् ॥ अष्टर्चमभिष्टुयात् ॥ अत्र च सन्ति ,
॥ अक्षी इव कर्णाविव नासेवेति च ॥ ‘अक्षी इव चक्षुषा यातमर्वान’ । ‘कर्णाविव सुश्रुताभूतमस्मे । नासेव नस्तन्वोरक्षितारा’ इति ॥
॥ अङ्गसमाख्यायमेवास्मिंस्तदिन्द्रियाणि दधाति । ल्यवर्थे णमुलि युक् । अङ्गानि सम्यगाख्याय गणयित्वा । तत् तत्र ॥
॥ तदु त्रैष्टुभम् । वीर्य वै त्रिष्टुब्बीर्यमेवामिस्तद् दधाति । ___ ळे द्यावापृथिवी पूर्वचित्तय इति सूक्तम् ॥ पश्चविंशत्यूचमभिष्टुयात् ॥
- उरसो बाहुभ्यां पञ्चदर्श निरमिमीत तमिन्द्रो देवतान्वमृज्यत त्रिष्टुप्छन्दो बहन साम राजन्यो मनुष्याणामविः पशूनां तस्मात्ते वीर्यावन्तो वीर्यायसूजन्त’ इति तै. सं. ७-१-१. + ऋक्सं० २.८.४.१. * ‘अङ्गसमाख्यायम् अयाचिशब्दवत्त्वमस्मिन् सूके यस्माद् भवति’ इति गोबिन्दस्वामी. ऋक्सं० १-७-३३-१.
खण्ड:]
चतुर्थोऽध्यायः ।
अत्रास्ति,
॥ अनि धर्म सुरुचं यामन्निष्टय इति ॥
॥ अभिरूपम् । यद् यज्ञेऽभिरूपं तत् समृद्धम् । तदु जागतम् ॥
उ पुनः।
अन्त्ययोस्स्रष्टुभत्वेऽपि भूम्ना जागतमुच्यते । ‘ईळे पश्चाधिकाधिनमायौ पादौ लिङ्गोक्तदेवतावन्त्ये त्रिष्टुभौ’ इति हि सर्वानुक्रमणी* ॥
॥ ‘जागता वै पशवः पशूनेवास्मिस्तद् दधाति ॥ तत् तत्र ॥ अत्र च बहुकृत्वोऽस्ति,
॥ याभिरममावतं याभिरममावतमिति ॥ याभिरूतिभिरेनं तु प्राप्तवन्तौ युवां पुरा । अश्विनौ ताभिरेवेह सम्यगागच्छतं विति’ ॥
॥ एतावतो हात्राश्विनौ कामान् ददृशतुः ॥ कामान् काम्यान् श्रद्धेयान् आत्मभक्तरक्षणरूपान् । अत्र सूक्तेऽभिष्ट्रयमाने ददृशतुः । अहो नूनमावाभ्यामेव कृतमिति ।।
॥ तानेवास्मिस्तद् दधाति ॥
‘५
.
१.
अश्विनावाभि’ घ पाठः, २ ‘विह’ क. पाठः.
- म. १ सू० ११२. ‘सा पशुभिश्च दीक्षया चागच्छत् तस्माजगती छन्दसां पशव्यतमा’ (० सं० ६-१-६) इति पशूनां जागतत्त्वम्
सवृत्तिके ऐतरेयब्राह्मणे
[चतुर्थः
स्पष्टयति
॥ तैरेवैनं तत् समर्धयति ॥ एनं यजमानं संपर्युक्तं करोति ॥
॥ अरूरुचदुषसः पृश्निरनिय इति ॥ चतुर्विश्याः परमिमां प्रागन्याया अभिष्टुयात् । सूत्र्यते हि-ईळे द्यावापृथिवी इति प्रागुत्तमाया अरूरुचदुषसः पृश्निरग्रिय इत्यावपेत’ इति’ ॥
इयं च,
॥ रुचितवती ॥ रुचिधातुमती यस्माद् रुचेर्धातोररूरुचत् ॥
॥ रुचमेवारिंमस्तद् दधाति ॥ रुग् दीप्तिः ॥
॥ धुभिरक्तुभिः परिपातमस्मानित्युत्तमया परिदधाति ॥
सूक्तान्त्यया पञ्चविंश्याभिटुवंत्रिः समापयेत् ॥ अस्यामस्ति,
॥ अरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौरिति ॥
१. ‘प्रागुत्तमाया इत्यादिना इयं च’ घ. इ. पाठः,
अकसं० ७-३-८-३. ।
आ. श्री. सू. ४-६-३.
खण्ड:
चतुर्थोऽध्यायः ।
१३५
।
एवञ्च,
॥ एतैरेवैनं तत् कामैः समर्धयति ॥ तत् तत्र । एनं यजमानम् । एतैरश्व्यादिभिर्देवैर्दत्तः कामैः सौभाग्या दिभिः। समर्धयति सम्यग्वर्धयति होता ।
ब्रह्मादिद्युभिरन्ताः स्युचः सप्तोत्तरं शतम् ॥
॥ इति नु पूर्व पटलम् ॥ नु खलु। __ अभिष्टवाय पटलमेवं संवर्णितं खलु ।
‘पटलं ग्रुक्छदिषोः क्ली न ना पिटके गणे’ ॥ इति हि निखण्टु!* |
आद्यान्सात्रित्वसिद्धयर्थं पटलद्वितयं कृतम् । अन्यथाभिष्टवस्यैक्यात् त्रित्वं तत्रैव वै भवेत् ॥
चतुर्थः खण्डः ।
॥ अथोत्तरम् ॥ पटलमित्येव । वक्ष्यत इति शेषः । ऋगावानमभिष्टुयादिति च ।
१. ‘पटलं गणः । आद्यान्या’. . पाठः,
- वैजयन्ती (ध्यक्षरकाण्डे नानालिङ्गाध्याये श्लो० ५२.) + षड्गुरुशिष्यीया चेयं कारिका ‘अत एवोकम्’ इति नामनिर्देशमन्तरा सायणभाष्ये पठ्यते.
[पञ्चमः
सवृत्तिके ऐतरेयब्राह्मणे आरम्भोऽस्य तदाध्वर्युर्यदा धर्मदुधा ह्वयेत् । अत्रायां त्रिनैव कुर्यादभिर्हिकारमञ्जसा ॥ सूच्यते हि–” उपविष्टेष्वध्वर्युर्धर्मदुहामाह्वयति’ इत्यादि ।
॥ उपह्वये सुदुधां धेनुमेतां हिङ्कण्वती वसुपत्नी वसूना ममि त्वा देव सवितः “समीवत्सं न मातृभिः संवत्स इव मातमि यस्ते स्तनश्शशयो यो मयोभ गौरमीमेदनुवत्सं मिषन्तं *नमसेदुपसीदत संजानाना उपसीदन्नभिजु आदशभि विवस्वते दुहन्ति सप्तकाम् ॥
इत्यूच एकादश ॥ ॥ समिद्धो अग्निरश्विना सिमिद्धो अमिषणा रतिर्दिवः ॥
ठिते एते ॥ . ॥ मतदु प्रयक्षतममस्य कर्मा “त्मन्वन्नभो दुह्यते घृतं पय
“उत्तिष्ठ ब्रह्मणस्पते ॥
१.
उपविष्टेश्वध्वर्युरित्यादि ’ क. पाठः,
- ‘उपविष्टेष्वध्वर्युघर्मदुधामाह्वयति स संप्रेष उत्तरस्य अनभिहिकृत्य’ इति मा. श्री० सू० ४.७०२, ३, ऋक्सं० २-३-१९-१. * ऋक्सं० २-३-१९-१.
अक्सं० १-२-१३-३. ऋक्सं० ७-५-७-२, $ ऋक्सं० ७-५-४-२. ॥ ऋक्सं० २-३-२३.३. ऋक्सं० २-३-१९.३. * अक्सं० ६-७-३५-१. * ऋक्सं० १-५-१७५. ऋक्सं० ६-५-१५-३. ऋक्सं० ६.५-१५-१,
6 अथर्वसं. ७-७७-२, १. आ. श्री. सू. ४-५.४ र १-५-२-१, ** ऋक्स. ५-२-३१.४. ऋक्सं० १-३-२०.१.
1
खण्ड:
चतुर्थोऽध्यायः । शेषोऽत्र सूत्र उक्तः स्यादेतामुक्त्वावतिष्ठते ।
॥ अधुक्षत् पिप्युषीमिषम् ॥ दुग्धायामिति शेषः॥
॥ ‘उपद्रव पयसा गोधुगोषम् ॥ आहियमाण इति शेषः ।।
॥ *आ सुते सिञ्चत श्रियम् ॥ आसिच्यमानेऽजाक्षीर एतामृचमभिष्टुयात् ॥
॥ आ नूनमश्विनोषिः॥ आखिच्यमाने गोक्षीर एतामृचभिष्टुयात् ॥
॥ समुत्ये महतीरपः ॥ अभिष्टुयादृचं त्वेतामासिक्ते तु पयोद्वये ॥
॥ इत्येकविंशतिरभिरूपाः ॥
न
१. ‘गोक्षीर इति शेषः समुले’ छ, ड. पाठः
- ऋक्सं० ६-५-१७-१. + अथवंसं० ७-७७-६. * ऋक्सं० ६-५-१६-३. 8 अक्सं० ५-८-३०-१. 1 ऋक्सं० ५-८-२२-२. 8 तथाचाश्वलायनश्रौतसूत्रम् ‘उत्तिष्ठ ब्रह्मणस्थत इत्येतामुक्त्वावतिष्ठते दुग्धायामधुक्षत् पिप्युषीमिषमित्याहियमाण उपद्रव पयमा गोधुगोषमधर्मे सिश्च पय उस्रियायाः । वि नाकमख्यत् सविता वरेण्यो नु बावापृथिवी सुप्रणीतिरित्यासिच्यमान आ नूनमश्विनोपिरिति गव्य आ सुते सिञ्चत श्रियमित्याज आसिकयोः समुत्ले महतीरप इति’ इति ४-७०४.
18
१३८
सवृत्तिके ऐतरेयब्राह्मणे
पञ्चमः
॥ यद् यज्ञेऽभिरूपं तत् समृद्धम् । ‘उदुष्य देवः सविता हिरण्ययेत्यनूतिष्ठति ॥ उत्तिष्ठत्सु महावीरमादायैतामभिनुपात् ।।
॥ तु ब्रह्मणस्पतिरित्यनुप्रैति ॥ गच्छतोऽनुव्रजेचैनानेतामृचभिष्टुवन् । ॥ गन्धर्व इत्था पदमस्य रक्षतीति खरमवेक्षते ॥
यत्र देशे महावीरः सादितः स खरो मतः । । अभिधुवंस्तु गन्धर्व इति वै खरमीक्षते ॥ ॥ नाके सुपर्णमुपयत्पतन्तमित्युपविशति ।।
“अभिष्टुवन्निमामन्यप्रणवेन विशेद् भुवि ।। अथ धर्मस्य यजेति प्रेषिता, ॥ तप्तो वां धर्मो नक्षति खहोतोभा पिबतमश्विनेति
पूर्वाह्ने यजति ॥ ‘ततो वामिति सूत्रपठिता । उभाभ्यामनवानमिति शेषः ।।
PowereTA TTEExjitter
Turri
६.
१. ‘खरमीक्षताम् । क. पाठः,
- ऋक्सं० ५.४०५-१, ऋक्सं० १-३-२००३. * ऋक्सं० ७-३-४-४. ६ ऋक्सं० ७-३-११-५. ‘महावीरमादायोसियसुदृष्य देवः सविता हिरण्यये. लचित् । प्रैतु. ब्रह्मणस्पतिरित्यनुव्रजेत् । गन्धर्व इत्था पदमस्य रक्षतीति खरमवेक्ष्य तमतिक्रम्य नाके सुपर्णमुपयत्पतन्तमिति समाप्य प्रणवेनोपविशेदनिरस्य तृणम्। इति आ. श्री सू०४-७-४, अथर्वसं० ७-७७-५. ५ ऋक्सं० १-३-३५-५. * ‘प्रेषितो यजति तप्तो वा धर्मों नक्षति स्वहोता प्रवामध्वर्युश्वरति प्रयस्वान् । मधोर्दुग्धस्थाश्विना तनाया वीतं पातं पयस उस्त्रियायाः । उमा पिबतमश्विनेति चोभाभ्यामनवानमान्ने वीहीत्यनुवषट्कारो धर्मस्थाने वीहीति वा आ० श्रो० सू० ४-७-४,
खण्ड:
चतुर्थोऽध्यायः ।
॥ *अग्ने वीहीत्यनुवषट्करोति ॥
॥ विष्टकृद्भाजनम् ॥ विष्टकृत्स्थानीयं स्यात् ॥
॥ यदुनियावाहुतं घृतं पयो ऽस्य पिबतमश्विने
त्यपराह्ने यजति ॥ यदुनियेति सूत्रपठिता । उभाभ्यामनवानम् ॥
॥ अमे वीहीत्यनुवषट्करोति स्विष्टकृद्राजनम् ॥
स्तौति
- त्रयाणां ह वै हविषां स्विष्टकृते न समवद्यन्ति सोमस्य धर्मस्य वाजिनस्येति स यदनुवषट्करोत्यमेरेव स्विष्टकृतो. ऽनन्तरित्यै ॥ अनन्तरयोऽविच्छेदः’ ।।
॥“विश्वा आशा दक्षिणसादिति ब्रह्मा जपति ॥
१. ‘अन्तरयो विच्छेदः’ क. पाठः,
-
- आश्राव्य प्रत्याश्रावित संप्रेष्यति धर्मस्य यजेति । अश्विना धर्म पातमिति वषरकृते जुहोति । खाइन्द्रावडित्यनुवषट्कृते ’ इति आप. श्री. सू. १५-१०.११. अथर्वसं. ७:४५-४. *. ऋक्सं० ५-४-३-४, 8 एवमेवापरालिके यदुनियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आगतं माध्वी धारा विदयस्य सत्पती तप्त धर्म पिबतं सोम्यं मधु । अस्य पिवतमश्विनेति च’ आ० श्री. सू. ४-५-४., ते आ० ४-९-२,[पञ्चमः
सवृत्तिके ऐतरेयवाक्षणे “सूत्रपठितेयम् । ब्रह्मा वषदकृते जपत्यनुवषदकृते च ॥
अथानुवषद्कृत्य होतामिष्टुयात्—
॥ स्वाहाकृतः शुचिर्देवेषु धर्मः ॥ मूत्रपठितेयम् ।। ॥ समुद्रादूमिमुदियति वेनो “द्रप्सः समुद्रमभि यज्जिगाति ।
“सखे सखायमभ्याववृत्स्व ॥ एषार्धत्रयोपेता धृतिर्वर्णा द्विसप्ततिः ॥ ॥ *ऊर्ध्व ऊ षु ण उतय ऊर्बो नः पााहसः तं मित्था
नमस्विनः॥
MARAR
माया
॥
‘अर्थचिदु’तरार्चा प्रागाथे मण्डले स्थिता । पूर्वाह्नेऽथ कण्वदृष्टा होत्राभी’त्युत्तरार्षिका ।। “प्रागाथीं पूर्वाह्न काण्वीमपराह्ने ’ इतिहि सूज्यते ॥
१.
काण्वीमित्यादि ’ क पाठः
- ब्रह्मा वषट्कृते जपत्यनुवषट्कृते च विश्वा आशा दक्षिणसाद विश्वान् देवानयाडिह । खाहाकृतस्य धर्मस्य मध्वः पिबतमश्विनति’ आ. श्री. सू० ४.७.४. + अथर्वसं० ७.७७-३. * आ० श्री. सू. ४.७-४. ऋक्सं० ८-७-७२. । ऋक्सं० ४-५.८.३. ऋक्सं० ३-४-१२-३. ‘गायत्र्युष्णिगनुष्टुबबहती. पतित्रिष्टुन्जगलतिजगतीशकर्यतिशक्कयष्ट्यत्यष्टिधृत्यतिधृतयः चतुर्विंशत्यक्षरादीनि चतु रुत्तराणि ’ सर्वा० परि० ३. ऋक्सं० १-३-१०-३.५ ऋक्सं० १-३-१०.४. $ ऋक्सं० ६-५-५-४, १-३-९-२. आ० श्री. सू० ४.७-४.
खण्ड:
चतुर्थोऽध्यायः
॥ इत्यभिरूपाः ॥
॥ यद् यज्ञेऽभिरूपं तत् समृद्धम् ॥ *पावकशोचे तव हि क्षयं परीति भक्षमाकाङ्क्षते ॥ ’ इत्यभिष्टुत्य भक्षमिच्छेदित्यर्थः ॥
॥ ‘हुतं हविर्मधु हविरिन्द्रतमेऽमावश्याम ते देव धर्म । मधुमतः पितुमतो वाजवतोऽङ्गिरस्वतो नमस्ते अस्तु मा मा हिंसीरिति धर्मस्य भक्षयति ॥
भक्षपोऽयं धर्मस्य ।।
एकादश मथाभिष्टुयात् –
॥ श्येनो न योनि सदनं धिया कृतमा यस्मिन्थसप्त
वासवा इति संसाधमानायान्वाह ॥ सूत्रपठितेयं चेति शेषः । अभिष्टुवन्नेव धर्म च संसादयेदित्यर्थः ।। ॥ हविर्हविष्मो महि सद्म दैव्यमिति यदहरुत्सादयिष्यन्तो
भवन्ति ॥ यदइः यस्मिनहनि धर्मोत्सादनं करिष्यति तत्रान्त्यप्रवग्ये हविर्हविष्म इत्यभिष्टुयात् ।
१ ‘एकदेश ’ क पाठः,
ऋक्सं.
- अक्सं० २-८ १८.१ ७-२-२६-१. ते० सं० १-६-१२.
ते. आ० ४ १०.५. ऋक्सं ० ७-३-८-५. .
सवृत्तिके ऐतरे
‘उत्तमे प्रागुत्तमाया हविरि’त्यादि सून्यते ।। ॥ सूयवसाद् भगवती हि भूया इत्युत्तमया परिदधाति ॥ सदोत्तर’ पटलम् । सूयवसेति त्रिरुक्तया’ समापयेत् ।
ऋचोऽत्र पटले षट् च त्रिंशचान्त्येऽधिका हविः ॥ स्तौति
॥ तदेतद् देवमिथुनं यद् धर्मः ॥ यद्या ।
स्त्रीपुंसयुगळं देवनिर्मितं कर्म धर्म यत् ।।
कयं,
॥स यो धर्मस्तच्छिश्नम् ॥ स प्रसिद्धो महावीरः शिश्नरूपमिहेष्यताम् ।।
॥ यौ शफौ तौ शफौ ॥
महावीरघटनाएँ शफावौदुम्बरौ हि यौ। तौ प्रसिद्धौ शफौ भेदो शेयौ भगगतावुभौ ।।
॥ योपयमनी ते श्रोणिकपाले ॥ योदुम्बरोषयमनी महावीरोपधानकम् । ते श्रोणिफलके योनिमभितस्तूरुमूलके ।
॥
- पाठः.
सदोत्तम प. उ. पाठ.. २. ‘त्रिरुत्तमया’, ३. रूपमिहोच्यता क.
__* आ० श्री. सू० ४-७-५. । अक्सं० २-३०२१-५. भगवती हि भूया इति परिदभ्यातू’ आ. और सू. ४-७०४.
‘सूयवसाद
खण्ड:)
चतुर्थोऽध्यायः ।
॥ यत् पयस्तद् रेतः॥ पयो गव्यमाजमपि सुभृतं रेत इष्यताम् ।। ॥ तदिदममौ देवयोन्यां प्रजनने रेतः सिच्यते ॥
महावीरपयोऽग्निष्ठं भगस्थं रेत इष्यताम् ।।
॥ अग्नि देवयोनिः॥ देवानां प्रियकरत्वात् ॥
॥ सोऽमेर्देवयोन्या आहुतिभ्यः सम्भवति ॥ स यजमानः । भिसर्थे भ्यस् । सम्भवो जन्म ॥
॥ ऋभयो यजुर्मयः साममयो वेदमयो ब्रह्ममयोऽमृतमयः
सम्भूय देवता अप्येति य एवं वेद । ऋग्यजुस्साममन्त्रात्मा* चतुर्वेदात्मकस्तथा ।
देवा इन्द्रादयो ब्रह्म स्वमृतं परमं पदम् ॥ सम्भूतिर्दीपनं प्राप्तिरप्ययो वेदितुस्त्विदम् ॥
॥ यश्चैवं विद्वानेतेन यज्ञक्रतुना यजते । यज्ञेन धर्मेण । ऋतुना कुमाः क्रतुः, साधुकारिणा । सोऽपि यजमानो देवता अप्येत्य॒मयादि भवन् ।
चत्वारिंशश्चतस्रथ ऋचः शतमभिष्टचे ॥
पञ्चमः खण्ड:
. * ‘वेदशब्देनाथर्ववेदः सर्ववेदसमष्टियुरिकर्वोच्यते’ इति सायणः. ‘वेदमय इति पूर्वोक्षानुवादः आथर्वणाधुपसंग्रहार्थो वा’ इति गोविन्दखामी. ब्रह्मशब्देन हिरण्यगर्भः’ इति सायणः.
सवृत्ति के ऐतरेयब्राह्मणे
उक्त्वा प्रवग्यमुपसत्कमे वक्तुमथो कथाम् । *पौराणिकी ब्रवीत्यत्र सम्यगेव प्ररोचयन्
॥ देवासुरा वा एषु लोकेषु समयतन्त ॥ उक्तार्थम् ।।
॥ ते वा असुरा इमानेव लोकान् पुरोऽकुर्वत ॥ इमान् पृथिव्यादीन् । पुरो नगरीः ।। दृष्टान्तयति
॥ यथौजीयांसो बलीयांस एवम् ॥ ओजो दीप्तिर्वलं वीर्य तद्वन्तोऽसन्त उद्धताः । प्रद्राव्य साधूंस्तत्स्थाने प्रासादादीन प्रकुर्वते ।
एवमेतेऽपि’ विद्राव्य देवांश्चक्रुः पुरत्रयम् ।। कथं,
॥स्ते वा अयस्मयीमेवेमामकुर्वत ॥ पृथिवीं नगरी चक्रुरयसा निर्मितां दृढाम् ।। ‘अयस्मयादीनि-’ इति मत्वम् ।।
१. ‘एवमेत च’ घ. पाठः, ‘एवमेव च’ हु, पाठः.
- तदुक्तं महाभारते कर्णपर्वणि ३३-अध्याये…. “देवानामसुराणां च परस्परजिगीषया । बभूव प्रथमो राजन् सप्रामस्तारकामयः।
………………..
ततो मयः स्वतपसा चक्रे धीमान पुराणि च । त्रीणि काञ्चनमेकं वै रौप्य काणायसं तथा। काश्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् । आयसं चाभवद् भौमं चक्रस्थं पृथिवीपते ॥” इत्यादि. (Printed at Gopalnarayan & Co. Bombay). + page 93. * तेषामसुराणां तिस्रः पुर आसन्भयस्मव्यवमाथ रजताथ हरिणी’ इति तै. सं. ६-२-२.६ पा. सू. १-४-२०,
चतुर्थोऽध्यायः ।
|| रजतामन्तरिक्षम् ॥ अकुर्वतेत्येव । रजतां राजतीम् । *विकारेऽओ’ लुक् ।
खलोकनगरी सम्यग् रजतेन विनिर्मिता ॥
॥ हरिणी दिवम् ॥ त्सिव । ते चक्रुः स्वर्गनगरी तप्तकाञ्चननिर्मिताम् ।
हिरण्मयीं हेममयीं हरिणीति विदुर्बुधाः ।। निगमयति
॥ ते तथेमालोकान् पुरोऽकुर्वत ॥ पुरत्रयात्मना दैत्यैरेवं लोकत्रये कुते ॥
॥ ते देवा अब्रुवन् ।
कथम्,
॥ पुरो वा इमेऽसुरा इमाल्लोकानक्रत ॥ अक्रत अकृषत ।
मन्त्रे घसेति लुक् च्लेस्तु मन्त्रं छन्दःप्रदर्शनम् ।।
॥ पुर इमाल्लोकान् प्रतिकरवामहा इति ॥ पुरो नगरीः । करकामहै लोटो महिङ् आट् । प्रतिकुर्मः ।।
.. ॥ तथेति ॥ निश्चयं चक्रुरिति शेषः ॥
॥ ते सद एवास्याः प्रत्यकुर्वत ॥
१. ‘विकारेऽणो’ घ. पाठ..
- पा. सू. ४-३-१५४. । पा० सू० २-४८
सवृत्तिके एतरेय ब्राह्मणे
षष्ठः
भूपूप्रतिनिधित्वेन सदोदेशं प्रचक्रिरे । *‘प्रतिः प्रतिनिधि—’ इति कर्मप्रवचनीयत्वम् । ‘प्रतिनिधिप्रतिदाने च यस्माद्’ इति पञ्चमी ॥
॥ आनीभ्रमन्तरिक्षात् ॥ ते प्रत्यकुर्वतेत्येव । खपुर्याः प्रतिनिधिराग्नीध्रः ॥ .
IFY
रम
२
A
।
A
ते प्रत्यकुर्वतेत्येव
वापुर्यास्तु प्रतिनिधि हविर्धाने प्रचकिरे ।। निगमयति
॥ ते तथेमाल्लोकान् पुरः प्रत्यकुर्वत ॥ इमान् सदआग्नीध्रहविर्धानाख्यान् लोकान् वासदेशान् । पुरः भ्यसो ङसिः । पूभ्यः भूखधुभ्यः । इति कृतस्थानेषित्वा ।।
॥ ते देवा अब्रुवन् ॥
कथम्,
॥ उपसद उपायाम || एतेलूटो लोट् मस् । आद् सलोपः ।
उपसत्संज्ञकान् यागान् करिष्यामस्त्वतः परम् ॥
अन्तरिक्षात् । खपुर्याः’, ३, ‘दिवः ।
१. भुवः प्रति’, २. स्व:पुर्यास्तु घ. पाठः,
anmranpmemawwammam
- पासू. १ ४-९२. । पा. सू. २-३-११. प्राचीनवंशात् पूर्वभावि मण्डपं सदः. सोमे महावदेखत्तरार्धे पश्चारनिचतुरश्रस्थानविशेष आनीध्रम्, हविधीने इति शकटद्वयनाम, S ‘ता देवा जेतुं नाशक्नुवन् ता उपसदैवाजिगीषन् तस्मादाहुर्यश्चैवं वेद यश्च नोपसदा वै महापुरं जयन्तीति ’ इति तै० सं० ६.२.३.
खण्ड:
चतुर्थोऽध्यायः
कुत एतत् ,
॥ उपसदा वै महापुरं जयन्तीति ॥ स्म शुश्रुमेति शेषः ।
पुरेति शुश्रुम वयमतः कार्योपसत्त्विति ।।
॥ तथेति ॥ निश्चयं चक्रु॥
अथ, ॥ ते यामेव प्रथमामुपसदमुपायंस्तयैवैनानस्माल्लोकादनुदन्त ॥
एनानसुरान् । अनुदन्त अद्रावयन् ।।
॥ यां द्वितीयां तयान्तरिक्षात् ॥ उपायंस्तयानुदन्तेत्येव ॥
॥ यां तृतीयां तया दिवः ॥ पूर्ववत् ।। निगमयति–
॥ तांस्तथैभ्यो लोकेभ्योऽनुदन्त ॥ . तान् दैत्यान् ॥
॥ ते वा एभ्यो लोकेभ्यो नुत्ता असुरा अतूनश्रयन्त ॥ . नुत्ताः द्राविताः । वसन्तावान्तून् ।
*. ‘लोकेधूपसदा वै परकीयदुर्गसमीपावस्थानेन दुर्गावरोवरूपेणैव ’ इति
सायण
॥ ते देवा अब्रुवन्नुपसद् एवोपायामेति ॥
एव पुनः ॥ ॥ तथेति त इमास्तिस्त्रः सतीरुपसदो द्विदिरेकैकामुपायन् ॥
पूर्वाह्नापराह्नभेदेन द्वित्वम् ।। ॥ ताः षट् समपद्यन्त। षडा ऋतवः । तान्या ऋतुभ्योऽनुदन्त ॥
तान् असुरान् ॥
॥ते वा ऋतुभ्यो नुवा असुरा मासानश्रयन्त ॥
तता,
॥ ते देवा अब्रुवन्नुपसद एवोपायामेति । तथेति त इमाः षट् सतीरुपसदो द्विबिरेकैकामुपायन् । ता द्वादश सम पद्यन्त । द्वादश वै मासाः ॥
चैत्राधाः ॥
॥ तान् वै मासेभ्योऽनुदन्त । ते वै मासेभ्यो नुत्ता असुरा अर्धमासानश्रयन्त । ते देवा अब्रुवन्नुपसद एवोपायामेति। तथेति त इमा द्वादश सतीरूपसदो द्विर्हिरेकैकामुपायन् ।
- तिल उपसद उपैति त्रय इमे लोका इमानेत्र लोकान् प्रीणाति षट संपद्यन्ते षड् वा ऋतवः ऋतूनेव प्रीणाति द्वादशाहीने सोम उपैति द्वादश मासाः संवत्सरः संवत्सर मेव श्रीणाति चतुर्विशतिः संपद्यन्ते चतुर्विशतिरद्धमासा अर्द्धमासानेव प्रीणाति’ इति ते. सं० १-२-३. राजक्रयायहःसंख्याननैकाहानां तिस्रः, षड् वा, अहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणाम् ’ इति आ० श्री. सू० ४-८-१३, १४, १५, ‘तिस्स एव साहायोपसदो द्वादशाहीनस्य ’ इति आप० श्री. सू. ११-४०५,
खण्ड:
चतुर्थोऽध्यायः । ताश्चतुर्विंशतिः समपद्यन्त । चतुर्विशतिर्वा अर्धमासाः । तान् वा अर्धमासेभ्योऽनुदन्त । ते वा अर्धमासेभ्यो नुत्ता असुरा अहोरात्रे अश्रयन्त । ते देवा अब्रुवन्नुपसदावेवोपायामेति । तथेति ते यामेव पूर्वाह्न उपसदमुपायंस्तयैवैनानहोऽनुदन्त यामपराह्ने तया रात्रेः ॥ उपायन्ननुदन्तेत्येव ॥ एवं देवा,
॥ तांस्तथोभाभ्यामहोरात्राभ्यामन्तरायन् ।। निसोऽर्थेऽन्तर् । इण् अन्तर्णीतण्यर्थः । निरगमयन्’ ।।
॥ तस्मात् सुपूर्वाह्न एव पूर्वयोपसदा प्रचरितव्यम् ॥ प्रचरणमनुष्ठानम् ॥
॥ स्वपराहे परया ॥ तस्मात् प्रचरितव्यमित्येवं॥
। तावन्तमेव तद् द्विषते लोकं परिशिनष्टि ।
१. निरगमयन् । इदानीमपि । तस्मात् ‘क. पाठा. १. ‘प्रचरितम्यम् । तावन्तमेवघ, पाठ..
- ‘देवा वै याः प्रातरुपसद उपासीदनहस्ताभिरसुरान् प्राणुदन्त याः सायं रात्रियता. मियत् सायं प्रातरूपसद उपसचन्तेऽहोरात्राभ्यामेव तद् यजमानो भ्रातृव्यान् प्रणुदते’. + ‘सुपूर्वाक स्वपरावे च ’ इति आ० चौ. सू. ४-८-१२, “सुपूर्वाहे पौर्वानिकीभ्यां प्रवग्योपसयां चरन्ति, स्वपराक आपरालिकीभ्याम् ’ इति आप० श्री. सू० ११०४-११५०
सवृत्तिके ऐतरेयब्राह्मणे
[सप्तमः
तौ पूर्वाहापराह्नकालौ । एव पुनः । द्विषते । उसो छ । शत्रोः । तत् तत्र । परिशिनष्टि गमयति । अन्त नाशम् । लोकं सबैलोक्यं दृश्यम् । सुपूर्वाहापराह्नयोरुपसदौ कुर्वन्नायुनाशात् तत्कालहीनं शत्रु करोतीत्यर्थः ।
कथाख्येन’ प्रसङ्गेन प्रोक्ता उपसदस्त्विति’। तिसः षड् द्वादश तथा चतुर्विंशतिरेव च ।।
ENA
काव
षष्ठः खण्डः।
अधोपसदः स्तौति–
॥ जितयो वै नामैता यदुपसदः ॥ . यद् याः। जेः करणे क्तिन् । जयहेतुत्वाद् आसां नाम ॥
कुत एतत् ,
॥ असपत्नां वा एताभिर्देवा विजितिं व्यजयन्त ॥
“विपराभ्यां जेः’ इति तङ् । वै यस्मात् । असपना नष्टशत्रुकाम् ॥
१. ‘कथाख्याने ‘, २. ‘उपसदस्त्विह’ क. पाठः,
- इह तावन्तमिति तावच्छब्दोऽभिमतः सायणगोविन्दस्वामिनोः. तथाच सव्याख्या- ‘सावन्तमेव कालं तद् द्विषते सन्ध्यामात्रमेव ’ इति गोविन्दस्वामी. ‘यस्मात पूर्वाहापराह्नौ कालविशेषावहोरात्राभ्यां शत्रूणां निस्सारणे हेतू तस्मात्तस्मिन्नेव कालदये ऽतुष्ठातव्यम् । एवं सति यावानहोरात्रयोः सन्धिकालस्तावन्तमेव द्विषते द्वेषिणे लोकं स्थानविशेष परिशिनष्टि । इतरस्मात् कालानिस्सारितत्वेन सन्ध्याकाल एवासुराणां परिशिष्यते’ इति सायणः । पा० सू. १-३-१९,
.
UNTH
खण्ड:
चतुर्थोऽध्यायः ।
१५१ विदुषः फलमाह
॥ असपत्नां विजितिं विजयते य एवं वेद ॥ सः। एवमासां जितिरिति नाम ॥ . किन,
॥ यां देवा एषु लोकेषु यामृतुषु यां मासेषु याम मासेषु यामहोरात्रयोर्विजितिं व्यजयन्त तां विजितिं विजयते य एवं वेद ॥
सः । विजितिं विजयं’ विजयते लभने ।
अत्रान्तरे संस्थितायामातिथ्येष्टी प्रवय॑तः । प्राक् तानूनप्रकर्म तदाह कथया सह
॥ ते देवा अबिभयुः ॥ ते प्रसिद्धाः । “सिनभ्यस्त-’ इति झेर्नुस् । " जुसि च ’ इति गुणः । भीतवन्तः ।
कथम्,
॥ अस्माकं विप्रेमाणमन्विदमसुरा आ भविष्यन्तीति ॥ प्रियस्येमनिचि प्रा । इमनिजन्तः पुमान् । विप्रेमाणं विरुद्धत्वम् । इदं जगत् । आङ् अभ्यर्थः । अभिविष्यन्ति । अनु लक्षीकृत्य ।।
भयनिवृत्तये,
१. ‘विजयनं’, २ ‘प्राग्यज्ञात् ’ क. पाठः, ३. ‘आभविष्यन्तीति । अनु विप्रेमाणं’ घ, इ. पाठः,
- पा. सू. ३.४.१०९.
पा. सू. ४-३-८३. * पा. सू.
सवृत्तिके ऐतरेयब्राह्मणे
सिप्तमः
.
॥ ते व्युत्क्रम्यामन्वयन्त ॥ ते चिन्तितभयकाः उत्क्रम्य गुप्तं देशं प्राप्य वि नानापक्षभेदेन मन्त्रणं च कुर्युः ॥
कथम् ।
॥ अग्निर्वसुभिरुदकामत् ॥ मन्त्रार्थ गुप्तदेशं तु गतोऽग्निर्वमुभिः सह ॥
॥ इन्द्रो रुद्रैः॥ पूर्ववत् ॥
॥ वरुण आदित्यैर्वृहस्पतिर्विश्वैर्देवैः’ ॥ वखादित्यरुद्रायाश्च पूर्व प्रोक्तास्तु नामभिः । विश्वेदेवाश्च नाम्नोक्ता भारतेऽर्जुनजन्मनि ॥ “ऋतुर्दशः.सवः सत्यः कालः काम्यो धुनिस्तथा ।
कुरुमानुडुमांश्चैव रोचमानश्च ते दश ॥ विश्वेदेवा इति ख्यातास्तस्यासन् जन्मनि स्थिताः” ॥ इति ॥
.
RAY
१. विश्वैर्देवैः । पूर्वोकैः । निगमयति’ घ. ड. पाठ..
- इह तैत्तिरीयसंहितायां पञ्चधा ब्यूश्यावस्थानमानातम् । यथा–‘देवासुराः संयत्ता आसंस्ते देवा मिथो विप्रिया आसंस्तेऽन्योन्यस्मै ज्यव्यायातिष्ठमानाः पञ्चधा व्यकामनग्नि. वसुभिः सोमो रुटैरिन्द्रो मरुद्भिर्वरुण आदिौर्बहस्पतिर्विश्वैर्देवैः’ इति ६.२-२. k page 68.
खण्ड:
चतुर्थोऽध्यायः ।
निगमयति-~-,
॥“ते तथा व्युत्क्रम्यामन्त्रयन्त तेऽब्रुवन् ॥ मन्त्रवाक्यम् ॥ मन्त्र रूपमाह—-
॥ हन्त या एव न इमाः प्रियतमास्तन्वस्ता अस्य वरुणस्य
राज्ञो गृहे सन्निधामहै ।। हिन्तेत्यभिमुखीकरणे।
वयं घोराणि रूपाणि गृहीत्वा शत्रुनुत्तये। वरुणस्य गृहे देहान् प्रियांस्तु निदधामहै ।। धाबो लोटो महिङ् ! आट् ।
जित्वा शत्रून् पुनस्तानि रूपाणीह लभेमहि ।।
ARMA
ताभिरेव नः स न सङ्गच्छातै यो न एतदतिकामाद्
य आलुलोभयिषादिति ॥ या नाऽस्माक मध्य एतन् समयकरण मतिकामात् । एत आत् अतिक्रामेति शेषः । आलुलोयिषात् । आलोभो भ्रमः
ME.
..
१. ‘मन्त्रणवाक्यम्’, २
रूपाणि हि’, ३.
समय कारिण’ क. पाठः.
- ‘तेऽमन्यन्तासुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मो या न इमाः प्रियास्तनुवस्ताः समवद्यामहै ताभ्यः स निच्छाद्यो नः प्रथमोऽन्योन्यस्मै द्वयादिति तस्मायः स तानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिमाईति यत्तानूनप्त्रं समवद्यति भ्रातृव्या. भिभूत्यै’ इति तै० सं०६-२-२. । ‘हन्तेति मनोवृत्तिः’ इति गोविन्दस्वामी.
स्वकार्यहानिनिमित्तदुःखपरिहारोपायदर्शननिमित्तहर्षद्योतनार्थों हन्तशब्दः’, * अस्माक मत्यन्तं प्रिया याः पुत्रकलत्रादिरूपास्तन्वः सन्ति ताः सर्वाः’ इति सायणः,
20
१५४
सवृत्तिके ऐतरेयब्राह्मणे
सितमः
मोहयितुमिच्छेत् । लभेणिचः सनो लिङ् । एत आत् । आलुलोभयिषेद्वा । स ताभिस्तनूभिः प्रियाभिर्न सङ्गच्छातै न सङ्गच्छताम् । लोटो लेट् । आट् । “एत ऐ’ । ‘समो गम्यूच्छि-’ इति तङ् । भ्रमकारिणोऽतिक्रान्तसमयस्य च प्रियतन्वलामो दण्ड’ इत्यर्थः ॥
॥ तथेति ॥ पूर्ववत् ॥
॥ ते वरुणस्य राज्ञो गृहे तनूः संन्यदधत ॥ सं सह । नाभ्यस्तयोरातः’। ‘अदभ्यस्तात्’ । लङ् । तनर्देहान् ॥
॥ ते यद् वरुणस्य राज्ञो गृहे तनूः संन्यदधत तत् तानूनप्त्रमभवत् । तत् तानूनप्त्रस्य तानूनप्त्रत्वम् ॥ वरुणाख्या । तनूननोऽणि तानूनप्त्रम् ।
आज्यस्पर्शपूर्वकं हि सख्यमृत्विकृतं विदम् । दधिद्रप्सप्राशनेन त्यागो यस्य हि सत्यते–
SEE
रा
२, ‘दण्डः । तथेति’,
१. ‘ऐ । वैतोऽन्यत्र । समो’ क. पाठः.
तानूनप्त्रत्वम् । आज्य’ प. अ. पाठः.
३
. पा. सू. ३-४.९३. पा. सू० १-३-२९. * पा० सू० ६.४.११२. पा० सू० ७-१-४. तनूः न पाति इत्यस्मिन्नर्थे तानूनप्त्रशब्दो वर्तते । तत् तानूननं शरीररक्षणमित्यर्थः । ‘प्राणो वै तनूनपात् स हि तन्वः पाति’ (२०बा० ६-४)ति लिङ्गात् । नमो निषेधनानाथता नास्ति (1) इति गोविन्दस्वामी. ‘तनूनां पुत्रादिशरीराणां नत्रं न (तपत पतन)मतिशथितं निमित्तीकृत्य क्रियमाणत्वादस्य कर्मणस्तानूननं नाम सम्पन्नम् ’ इति सायणः. आज्यं तानूननं करिष्यन्तोऽभिमुशन्ति’ आ० श्री. सू. ४-५-३. ‘आतिभ्याया ध्रौवात् खुचि चमसे वा तानूनप्त्रं समवद्यति चतुरवत्तं पश्चावतं वा । भा पतये ला गृहामीयेतैः प्रतिमन्त्रमनाधृष्टमसीति यजमानसप्तदशा ऋत्विजस्तानूनप्त्रं समव मृशन्ति । अनु मे दीक्षामिति यजमानः’ इति आप० श्री० सू० ११-१-१, २,.३. ‘तनून पात्संबन्धातू तानून त्रमित्याज्यसमाख्या मेनर्विजः सख्यमुपगच्छन्ति’ इति तत्र भहरुद्रदत्तः,
बापासागर
।
खण्ड:
चतुर्थोऽध्यायः।
. १५५ “दधिद्रप्सान् प्राश्य सख्यानि विसृजन्त’ इति । शब्दप्रवृत्तिनिमितं चैतदेव ।।
॥ तस्मादाहुन स तानूनन्त्रिणे द्रोग्धव्यमिति ॥ सः । भिसः सुः । तै ऋत्विग्भिः । तानूनन्त्रिणे ऋत्विजे धनुह-’ इति उ । द्रोग्धपित्याहुर्यज्ञविदः ।।
॥ तस्माहिदमसुरा नान्वाभवन्ति ॥ इतस्मात् तथाहि । उ पुनः।
दैत्या जगन्न बाधन्ते । तानूनत्रबलात् खलु । इति ।
आतिथ्यधर्ममध्यस्थं तानूनष्त्रमितीरितम् ॥
सप्तमः खण्डः।
आतिथ्योपसदी तुल्यं बर्हिरित्यथ कथ्यते– ॥ शिरो वा एतद् यज्ञस्य यदातिथ्यं ग्रीवा उपसदः
१. ‘खल्ल । इलादिधर्म’ क. पाठः.
- आ० श्री. सू०६-१२-१२. + सतानूनप्त्रिण इत्येकपदं मन्याते सायणगोविन्द स्वामिनी. तथाच तयाख्या-‘सतानूनष्त्रिणे सहविश्वासकारिणे पुरुषाय’ इति गोविन्दस्वामी. ‘सतानूनविणे सहशपथकारिणे । देवसंबन्धिशपथविशेषवाचिना तानूनत्रशब्देन शपथमात्र मुपलक्ष्यते । बहुभिः सह क्रियमाण तानूननं यस्यास्ति सोऽयं सतानूननी’ इति सायणः. * पा० सू० १०४-३७. 8 ‘तस्मादु तस्मादेव कारणात् ‘, ‘नान्चा. भवन्ति नैव समन्तात् प्राप्नुवन्ति’ इति सायण:.9 शिर इव शिरः । प्रथमभावि त्वादातिथ्यस्य शिरसंस्तवः । उपसदां प्रीवया एवं तदनुभावित्वातू’ इति गोविन्दस्वामी.
१५६
सवृत्तिके ऐतरेय ब्राह्मण
।
दू
ततः किं,
॥ समानबहिषी भवतः ॥ *आतिथ्यायारतु यद् बर्हिस्तदेवोपसदा भवेत् ।। कथं,
॥ समानं हि शिरोग्रीवम् ॥ पाण्यङ्गत्वादेकवत्वम्॥
॥ इषु वा एतां देवाः समस्कुर्वत यदुपसदः ॥ यद् याः। भिसोऽम्, एताभिः ।
उपसद्भिः शरं देवा दैत्यैयुद्धाय चक्रिरे । “सम्पर्युपेति सुडिषेः किञ्चेत्युरक्लीषुः कथम् ।।
॥ तस्या अग्निरनीकमासीत् सोमः शल्यः ॥ आसीदित्येव ।।
॥ विष्णुस्तेजनं वरुणः पर्णानि ॥ अग्रोऽनीकमयः शल्यस्त्वथ यष्टिश्च तेजनम् । पुजबन्धानि पर्णानि शरस्त्वेवं चतुर्विधः ।।
।
१. ‘प्राण्यङ्गत्वादेकत्वं’ घ पाठः २. ‘अग्रे’ क. पाठः. ३. ‘पृङ्खबद्धानि ध. क. पाठः,
- ‘आतिथ्याबहिरुपसदामग्नीषोमीयस्य च तदेव प्रस्तरपरिधि तत् स्तीण बर्हिस्तत् परिधि ताः परिधय इति इत्येके ’ इति आप०ौ० सू० ११-१-११,१२. । पा०२० २-४-२,
‘त इधु समस्कुर्वतानिमनी सोमें शल्यं विष्णु तेजनम्’ इति तै० सं० ६-२-३. S ‘एताम् अग्न्यादिरूपाम् ’ इति सायण:, पा० सू०६-१-१३७. * उणादि. १-१३ * ‘कालो हि भगवान् रुद्रस्तस्य संवत्सरो धनुः । तस्माद् रौद्री कालरात्रिा कृता धनुषोऽजरा । इषुश्वाप्यभवद् विष्णुचलनः सोम एव च । ’ इति महाभारते कर्णपर्वणि त्रिपुरवधोपाख्याने. अ. ३४. (Printed at Gopalnarayan & Co. Bombay).
५ लोहस्य तीक्ष्णमयं तेजनम् ’ इति सायणः.
HTH
AX
चतुर्थोऽध्यायः ।
॥ तामाज्यधन्वानो व्यसृजन ॥ आज्यरूपे धनुषि तामिषु सन्धाय ते सुराः । दैत्यान् प्रत्यक्षिपन्नत्र धनुषश्चेत्यनङ् कृतः ॥ प्रसङ्गादुपसत्कर्मण्याज्यं हविरितीरितम् ।।
॥ तया पुरा भिन्दन्त आयन् ॥ तयेष्वा दैत्यनगरी भिन्दन्तो जग्मुरुद्धताः ॥
॥ तस्मादेता आज्यहविषो भवन्ति ॥ एता उपसदः । तस्माद्
अमिसोमविष्णुशरघृतचापसमन्वयात् ।। अथोपसद्रतक्षीरपरिमाणं ब्रवीति ह
॥ चतुरोऽग्रे स्तनान् ब्रतमुपैत्युपसत्सु ॥ कुता,
॥ चतुस्सन्धिीषुः ॥ कथम् ,
॥ अनीकं शल्यस्तेजनं पर्णानि । त्रीन्थस्तनान
व्रतमुपैत्युपसत्सु । त्रिषन्धिीषुः ॥ कथम् ,
॥ अनीकं शल्यस्तेजनम् ॥ नात्र पर्णानि ।।
- पा० सु. ५-४-१३२. + ‘स्तनशब्देनात्र व्रतहो गोः स्तनसम्बन्धीनि पर्यास्यभिप्रेतानि ’ इति गोविन्दस्वामी व्रतशब्देनात्र पयःपानमुच्यते । गोश्चतुषु स्तनेषु
यावत् पयस्तावत्’ इति सायणः.
१५८
सवृत्ति के ऐतरेयब्रामणे
अहमः
॥ द्वौं स्तनौ व्रतमुपैत्युपसत्सु द्विषन्धिीषुः
शल्यश्च ह्येव तेजनं च ॥ नावानीकपणे ॥ ॥ एकं स्तनं व्रतमुपैत्युपसत्सु । एका ह्येवेषुरित्याख्यायते ॥
किच,
॥ एकया वीर्य क्रियते ॥ “कुर्यादुपसदां कालं चतुर्धार क्रमेण च ।। चतुस्लिव्धकस्तनजक्षीरेण व्रतमाचरेत् ॥ सूयते हि-व्यतिनीय कालमुपसदां चतुर्थमेकस्या दुग्धेन तावदेव त्रिभिः स्तनस्तावदेव द्वाभ्यामेकेन तावदेव ’ इति ॥
अथैतत् स्तौति
॥ परोवरीयांसो वा इमे लोका अर्वागहीयांसः ॥ परसिति परपर्यायः । अहित्यल्पपर्यायः ।
खर्गादून खं ततोऽपि न्यून भूमण्डलं विति । लोकाः परस्ताद् बहुला अधोष वाल्परूपकोः ।।
उरोरंहोरीयसुनि घरुरोध टिलोपवत् ॥
१ ‘तु’, २.
अधोगा’ क. पाठः
- ‘चतुरः सायं दुाखीन् प्रातद्वौं सायमेकमुत्तमे इति आप० श्री० सू० ११.४.१०, आ. श्री. सू० १२-८-३०, ३१. * पा० सू० ६-४-१५५.
है
खण्ड:]
खण्ड:
चतुर्थोऽध्यायः ।
१५९
॥ परस्तादर्वाचीरुपसद उपैति ॥ चतुनिबेकस्तनवादल्पताभूत् परात्परम् ॥ एतच,
॥ *एषामेव लोकानामभिजित्यै ॥ अभिजितिः प्राप्तिः ॥ अत्र च, ॥ उपसचाय मीळुष इमां मे अमे समिधमिमामुपसदं
वनेरिति तिस्त्रस्तिस्रः सामिधेन्यो रूपसमृद्धाः ॥ उपेतितिस्रः पूर्वाह्न इमांतिम्रोऽपराझिके’ ॥ ॥ एतद्वै यज्ञस्य समृद्धं यद् रूपसमृद्ध यत् कर्म
क्रियमाणमृगभिवदति ॥ उपसघायोपसदमित्युक्तेरभिरूपता ॥ प्रधानानामाह–
॥ जभिवतीर्याज्यानुवाक्याः कुर्यात् ॥
१. ‘अपराहतः’ क. पाठः, २. ‘इत्युक्ता भि’ घ. पाठः,
- परोवरीयसीमवान्तरदीक्षामुपेयाद् यः कामयेतामुग्मिन् लोकेऽधुकं स्यादिति चतुरोऽमेऽथ त्रीनथ द्वावथैकमेषा वै परोवरीयस्यवान्तरदीक्षामुष्मिन्नेवास्मै लोकेऽधुकं भवति ’ इति तै० सं० ६-२-३. + ऋक्सं० ५-२-१८-१. + ऋक्सं० २.५-२७-१. ६ उपसवाय मीड्डुष इति तित्र एकैकां त्रिरनवानन्ताः सामिधेन्यः । एषैवापराहे इमां में अमे समिधमिमामिति तु सामिधेन्यः’ इति आ० श्री. सू. ४-८-५, १०, ११.अष्टमः
१६० सवृत्तिके ऐतरेयब्राह्मणे
जानिशब्दो वेदविद्भिर्हिसावाची प्रवर्णितः’ । हिंसावाचिपदयुक्ताः ॥
॥ अग्निवत्राणि जवनद् य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहे दं विष्णुर्विचक्रमे त्रीणि पदा विचकम इत्येताः ॥
अग्नेढे द्वे च सोमस्य द्वे विष्णोरित्यूचस्तु षट् । पूर्वाह्न एताः॥
॥ विपर्यस्ताभिरपराह्ने यजति ॥ य उग्रो अग्निबाणीत्यग्नेः । गयस्फानस्त्वं सोमासीति सोमस्य । त्रीणि पदेदं विष्णुरिति विष्णोः । इत्यपराह्न इत्यर्थः ।। स्तौति ॥ मन्तो वा एताभिर्देवाः पुरो भिन्दन्त आयन् यदुपसदः॥ यद् याः। एताभिरुपसद्भिः । नन्तो हिंसन्तः ।। किश्च ता,
॥ सच्छन्दसः कर्तव्याः॥
१.
प्रवर्तितः ’ क पाठः, २, ‘विष्णुवाति’ घ. ड. पाठ:.
__ * ऋक्सं० ४-५-२७ ४. असं ० ४.५-२८-४. * ऋक्सं० १-६-१९-५, ६ ऋक्सं. १-६-२१-२. ऋक्सं० १-२-७ २.५ ऋक्सं० १-२-७-३. * ‘विपर्यासो याज्यानुवाक्यानाम्’ इति आ० श्री. सू. ४-४-११. ‘याः प्रातर्याज्या: स्युस्ताः सायं पुरोनुवाक्याः कुर्यादयातयामत्वाय ’ इति तै० सं० ६-२-३.
खण्ड:
चतुर्थोऽध्यायः ।
१६१
तु
हाच्या
___एता हि तुल्यच्छन्दस्काः षड् गायत्र्य इमाः खलु ॥
स्पष्टयति
विर्नाना। नानाच्छन्दस्त्वं’ निन्दति– ॥ यद् विच्छन्दसः कुर्याद् ग्रीवासु तद् गण्डं दध्यात् ॥ यद् यदि । चुबुकादधो गण्डः” स्यात् ।।
ततश्च,
॥ ईश्वरो ग्लायो जनितोः॥ . ग्लिौस्तोदः । शस् । तोदान् जनयितुं समर्थः स्यात् ।
सिरानिष्कर्षजस्तोदो विच्छन्दस्त्वे भवेदिह ॥ निगमयनि
।। तस्मात् सच्छन्दस एव कर्तव्या न विच्छन्दसः ॥
उक्तमर्थ पूर्वशिष्टशाक्येन द्रढयत्यथ ॥ तदु ह स्माहोपाविर्जनश्रुतेय उपसदां किल वै तद् ब्राह्मणे ॥
१ ‘नानाच्छन्दस्तु’ क. पाठः,
- ‘निबद्धः श्वयथुर्यस्य मुष्कवाल्लम्बते गळे । महान् वा यदि वा हस्वस्त गण्ड इति निर्दिशेत् ॥’ इति सुश्रुते निदा० अ० १२. + ग्लाबो जनितुमीश्वरो भवति । ग्लायो हर्षक्षयः शोक इत्यनर्थान्तरम् । द्वितीयावहुवचनान्तं वैतद् ग्लाव इति । तदा जनयितुमिति योज्यम् ’ इति गोविन्दस्वामी. ग्लानिविशेषान्’ इति सायणः. * शतपथब्राह्मणे मैत्रायणीसंहितायां च कश्चिदौपाविर्जानश्रुतेयः पश्यते.
21
११२
सवृत्तिके ऐतरेयब्राह्मणे
(अष्टमः
ढक् । उपाविर्नामाचार्यः । तत् तत्र । तद् उक्तमर्थरूपम् । उ पुनः । ह खलु आह स्म उक्तवान् ॥
कयमुक्तवान्,
॥ यस्मादप्यश्लीलस्य श्रोत्रियस्य मुखं व्येव ज्ञायते तृप्तमिव रेभतीवेत्याज्यहविषो ह्युपसदो ग्रीवासु मुखमध्या
‘ग्रीवा उपसद’ इत्युक्तम् । आज्यहविष उपसदो ग्रीवासु स्थिताः । ग्रीवात्वेन स्थिताः । तासु च मुखं चुबुकोपरिगतगण्डमेवा ध्याहितम् ।
‘आशंसायां भूतवञ्च’ । उपरि निधातव्यम् । यस्मादेवं तस्मादेव लोकेऽपि अश्लीलस्य निाश्रीकस्य ! कपिलकादित्वाल्लत्वम् । मत्वर्थे लच् । श्रोत्रियस्य छन्दोध्ययनसम्पन्नस्य अपिच मुखं तृप्तमिव हर्षयुक्तं रेभति । रेभिः शब्दार्थः । शब्दायते । विज्ञायते उपलभ्यते ।
एतद्धि तुल्यच्छन्दस्त्वं मुखरोगनिवृत्तये ।
लोकस्य स्यादित्युपाविराचार्यों युक्तवान् पुरा ॥ निगमयति
॥ तस्माद्ध मतदाह ।।
१. कश्चिदुपसदां ब्राह्मणेहुः पाठः, २. ‘पुनः आह स्म उक्तवान् यस्माद् ध, इ. पाठ’, ३. गण्डकमेवा’ क. पाठः.
- ‘जनश्रुताया त्रिया अपत्यम्’ इति सायणः + पा. सू० ४.१.१२३. * page 155. पा. सू. ३.३.१३२. ‘लोकेऽपि शोभमानासुप्रीवासु अध्याहितम् आश्रितम् ’ इति सायणः ॥ भा० वा० ८.२-१८. पा. सू. ५.२-९७. $ इसमिति गोविन्दस्वाम्यभिमतः पाठः. तथाच तयाख्या — ‘हप्तमिव दर्पयुक्तमिव, रेभतीव जल्पतीव अतीव वा । एतदुक्तं भवति-यस्मादलीलस्यापि श्रोत्रियस्य मुखं शोभते वेदाभ्यासदात् तस्मादाज्यहविष उपसदः कर्तव्याः आज्यमपि मुखशोभाहेतुर्यस्मात’ शनि
खण्डः ]
चतुर्थोऽध्यायः ।
‘तत् तस्मात् ह खलु आह स्म । का,
महिदासैतरेयः स्यादनिर्दिष्टे तु वक्तरि । इत्युक्तम् । इत्येवं स्थापितं तुल्यच्छन्दस्त्वमुपसत्विह ॥
अष्टमः खण्डः।
।
अब लोपं प्रयाजादेरुपसत्सु ब्रवीति ह ॥ देववर्म वा एतद् यत् प्रयाजाश्चानुयाजाश्च ॥
प्रयाजानूयाजकर्म कवचं देवनिर्मितम् ॥ ततः किम् ,
.. ॥ अप्रयाजमननुयाजं भवति । उपसत्कर्म । सूत्र्यते हि.–‘खिष्टकदादि लुप्यते प्रयाजा आज्यभागी च’ इति ॥
।
।
॥ इण्वै संशित्यै ॥ इसो डे । इष्वाः शरस्य संशित्यै तैपण्याय ।
शाच्छोरन्यतरस्यामिच्छो तनूकरणे क्तिनि । इषोरुपसदां तैक्ष्ण्यमेवं हि स्यादकुण्ठितम् ॥
- ‘तस्मात् कारणाहावरेवमाह स्म’ इति गोविन्दस्वामी. “ तस्मात् कारणात् शोभनप्रीवाहितमुखसाम्यमाज्यहविष्कत्वमित्यभिप्रेत्य स ऋषिस्तद् वाक्यमाह’ इति सायणः. + page 74. ‘यत् प्रयाजानूवाजा इज्यन्ते वर्मैव तद् यज्ञाय क्रियते वर्म यजमानाय भातव्याभिभूसें ’ इति तै० सं० २-६-१. आ० औ० सू० ४-८-८.
पासू. ७-४-४१.
६
सवृत्तिके ऐतरेयबामणे
निबम:
नबमः
वर्मचर्माभिहनने स्याच्छरस्य तु कुण्ठता ॥
तच,
॥ अप्रतिशराय ॥ अप्रतिघाताय । ‘शू हिंसायाम्’ । भावे । ‘ऋदोरम्’ । तादर्थे के। अत्र च,
॥ सकृदतिक्रम्याश्रावयति ॥ सूत्र्यते ह्यापस्तम्बेन — धौवादष्टौ जुह्वां गृह्णाति । चतुरुपभृति । धृतवति शब्दे जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्त उपांशुयाजवत् प्रचरति । अर्धेन जौहवस्यानि यजत्यर्धेन सोमम् । औपभृतं जुह्वामानीय विष्णुमिष्ट्वा प्रत्याक्रम्य ’ इत्यादि ।।
आश्रावणं त्रिः करिष्यन् सकृत् कुर्यादतिक्रमम्’ । इत्यर्थः ॥ एतच्च,
॥ यज्ञस्याभिक्रान्त्यै ॥
ध्याचष्टे
॥ अनपक्रमाय ॥
१. ‘कुर्यादभिक्रमम् ’ घ. पाठा.
- ‘उपसदात्य कर्म प्रयाजानुबाजरहितं कर्तव्यं कवचस्यानुपयुकलात् । परकीय महाराद् रक्षार्थ हि कवचं सम्पाद्यते । नान परप्रहारः सम्भवति । पूर्वोक्ताया इषो. स्तीक्ष्णत्वेन सकृत् प्रयोगादेव भारितेषु शत्रुषु प्रहर्तृणामभावात् । एवं सति यदि कवचं सम्पायते तदानी स्वकीयाया इषोरतीक्ष्णत्वं शङ्कथेत । स्वस्य च शत्रुभिः सम्पादिता प्रतिहिसा शक्यत । तच्चायुक्तं तस्मादि संशिल्लै स्वकीयस्य बाणस्य सम्यक्तीक्ष्णत्वार्थम् अप्रतिशराय स्वेषु शत्रुककप्रतिहिंसायाः शङ्कापरिहारार्थं च प्रयाजानुयाजवर्जनं युसम्’ इति सायणः. + पा. सू. ३-३-५५. श्रौ० सू. ११-३-६, १०, ११, १२..
खण्ड
चतुर्थोऽध्यायः ।
१६५ खीकारः स्यादभिक्रान्तिः परित्यागस्त्वपक्रमः ॥
अथ सोमाघ्यायनं तु हेतुयुक्तं ब्रवीति ह ॥ तदाहुः करमिव वा एतत् सोमस्य राज्ञोऽन्ते चरन्ति ॥ अन्ते समीपे । क्रूर दुःसहम् ॥ किं तत् ,
॥ यदस्य घृतेनान्ते चरन्ति । कुत एवं
॥धृतेन हि वज्रणेन्द्रो वृत्रमहन् ॥ इन्द्रो हि त्रं हतवान् वज्रर्गतद् धृतस्तुतिः । इति क्रूरत्वमुक्तम् ॥ तच्छान्तिमाह
॥ तद्यदंशुरंशुष्टे देव सोमाप्यायतामिन्द्रायैकधनविद
Line
सखीन् सन्या मेधया स्वस्ति ते देव सोम सुत्सामुदृचमशीयेति
• ‘अभिकान्त्यै अभिक्रमणाय भवति अनभिकान्तश्च नातिदूर गतः। प्रयाजानु याजानामननुष्ठाने सकृदभिक्रमणे चोपसयागः शीघ्रमनुष्ठितो भवतीत्यर्थः’ इति गोविन्दस्वामी. ‘उपसशस्य सर्वत आक्रमणं भवति स्थैर्य भवति । अन्यथा पुनः पुनरुत्तरस्यां दिशि गमने लब्धावसरः सन् यज्ञोऽप्यपकामेत्’ इति सायणा. + ‘धृतं वै देवा वधं कृत्वा सोम मनन् अन्तिकमिव खल्ल वा अस्यैतञ्चरन्ति यत्तानूनप्त्रेण प्रचरन्ति ’ इति तै० सं० ६.२१
सवृत्तिके ऐतरेयब्राह्मणे
- नवमः
।
TituRU
स्यैतेनाप्याययन्ति ॥
तत् तत्र । आप्यायनमुदकसेकः । आप्याययन्ति यत् शमयन्ति तत् ॥ न केवलं शान्तिरेच,
॥ अथो एनं वर्धयन्त्येव ॥ एनं सोमम् ।। अथ निहवमाह
॥ द्यावापृथिव्योर्वा एष गर्भो यत् सोमो राजा ॥
यद् यः॥ ततः किं,
॥ तद् यदेष्टा राय एष्टा वामानि प्रेषे भगाय । ऋत मृतवादिभ्यो नमो दिवे नमः पृथिव्या इति प्रस्तरे निहवते द्यावापृथिवीभ्यामेव तन्नमस्कुर्वन्ति ॥
तत् तत्र ।
निहवः प्रस्तरे पाण्योर्निधानमिति बै विदुः । ‘प्रस्तरे पाणीनि’ त्यादि स्वरूपं हास्य सून्यते ॥
।
१. ‘नमस्कुर्वन्ति । निवः ‘घ. पाठः,
- ‘मदन्तीरुपस्पृश्य तानूनष्त्रिणो वित्रस्य राजानं सहिरण्यैः पाणिभिराप्याययन्ति अंशुरंशस्ते देव सोमाप्यायतामिति’ इति आप० श्री. सू० ११-१-११. + निहवो नमस्कारः, * स्पृष्ट्वोदकं निहवन्ते प्रस्तरे पाणी निघायोत्तानान् दक्षिणान् सध्यानीच एटा राय एटा वामानि श्रेषे भगाय ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति ’ इति आ. श्री. सू. ४-५-४. ‘अथ निनुक्ते दक्षिणे वेद्यन्ते प्रस्तरं निधाय दक्षिणान् पाणीनुत्तानान् कृत्वा सव्यानीव एटा रायः प्रेषे भगायेति’ इति आप० श्री. सू० ११-१-१२.
पञ्चमोऽध्यायः ।
१६७
‘अस्यात्’ । शपो लुङ् न । तत् तेन निवेन ।।
॥ अथो एने वर्धयन्त्येव वर्धयन्त्येव ।। एने द्यावापृथिव्यौ द्वे । द्विरुक्तिरुक्तार्था ।
नवमः खण्डः ।
इति घड्गुरुशिष्यविरचितायां महिदासतरचनाह्मणवृत्ती
सुखप्रदायां धनुर्थोऽध्यायः ॥