०२

अथ द्वितीयोऽध्यायः॥

H

ote

दीक्षणीयेष्टिरुकाये प्रायणीयाथ कथ्यते– ॥ स्वर्ग वा एतेन लोकमुपप्रयन्ति यत् प्रायणीयस्तत्

प्रायणीयस्य प्रायणीयत्वम् ॥ यत् यः ।

प्रादिणः करणेऽनीयर पुंस्त्वं यागमपेक्ष्य च । प्रयोक्रपेक्षं बहुत्वम् ।

‘प्रायणीयेति शब्दोऽयमिष्टावेवं प्रवर्तते ।

अनयेष्टया वर्गलोकं गन्तुं प्रारभते यतः ॥

१ ‘षड्गुरुशिष्येण विरचितायां ब्राह्मणव्याख्यायां प्रथमोऽध्यायः’ घ. ह. पाठः,

  • अत्र भहभास्करः – ‘सत्यस्य चक्षुषो वाचकस्य विचक्षणशब्दस्य मन्तस्थानीयस्य प्रयोगेण परस्य सत्यस्य वस्तुनः स्मरणातू सत्योत्तरैव वागनेनोदिता भवति । सत्यप्यसत्यवदने तेन दोषेण न लिप्यते । यद्वा परवस्तुस्मरणमहिन्ना क्वचिदप्यसत्यवाङ् नोत्पद्यते । इति । + ‘प्रतिपद्यन्तेऽनया यज्ञं दीक्षिता इति प्रायणीया’ इति भरुद्रदत्तः,

खण्ड:

द्वितीयोऽयाथः ।

होता भरि

..

T

TTER

ते

अथास्यास्तुल्यकर्तृत्वं ब्रवीत्युदयनीयया— ॥ प्राणो वै प्रायणीय उदान उदयनीयः समानो

होता भवति ॥ उदिणः करणेऽनीयर् पुंस्त्वं यागमपेक्ष्य तु। प्रशब्दोच्छब्दवत्त्वेन प्राणोदानववर्णनम् ॥ प्रदर्शनं च होतेति सर्वविक्तुल्यतोच्यते । ‘ते चैव कुयुर्ये प्रायणीयामिति हि मूत्र्यते ॥

॥ समानौ हि प्राणोदानौ ॥ एकशरीरवर्तित्वात् ।। तश्च तुल्यत्वं,

॥ प्राणानां कुप्त्यै प्राणानां प्रतिप्रज्ञात्यै ॥ च स्यात् । क्लृप्तिः संश्लेषः । प्रतिप्रज्ञातिरसंकीर्णता ।।

विधातुं देवता इष्टेरितिहासं ब्रवीत्यथ

॥ यज्ञो वै देवेभ्य उदक्रामत् ॥ यज्ञ उत्तान्ते,

॥ ते देवा न किञ्चनाशक्नुवन् कर्तुम् ॥ " शकष–’ इति तुमुन् । किश्चन किश्चित् ॥

१. ‘च’ध.

पाठ

  • ‘प्राणन्ति जीवितुमारभन्तेऽनेनेति प्राणः । प्रयन्ति स्वर्ग गन्तुं प्रारभन्तेऽनेनेति प्रायणीयः । एवं व्युत्पत्त्यादिसाम्यात् प्राणस्थानीयः प्रायणीयः । तथा उदनन्ति ऊर्च जीवन्सनेनेत्युदानः । उद्यन्ति ऊध्र्व स्वर्ग यन्ति प्राप्नुवन्यनेनेत्युदयनीयः । एवं व्युत्प त्यादिसाम्याद् उदानस्थानीय उदयनीयः। यस्मादेवं तस्मात् प्रायणीयोदयनीययोः समान एक एव होता भवति’ इति भहभास्करः + आ०ी • सू० ६-१४-५ । पा.सू. ३-४-६५.

सवृत्तिके ऐतरेयब्राह्मणे

प्रथमः

प्रथमः

किञ्च

॥ न प्राजानन् ।

दिश इति शेषः

F

॥ तेऽब्रुवन्नदितिम् ॥

ते देवाः

किं.

॥ त्वयेमं यज्ञं प्रजानामेति ॥ करवाम च । दिश इति शेषः ।

करवाम त्वया यज्ञं प्रजानाम च वै दिशः । जानाम ! लोट् आद् ॥

॥ सा तथेत्यब्रवीत् ॥ देवान् प्रति ॥

॥ सा वै वो वरं वृणा इति ॥ अब्रवीदित्येव । वः युष्मान् । सृङा कर्मण्यच् । वरणीयम् । वृणै। इद । *“एत ऐ’ ॥

॥ वृणीष्वेति ॥ ते चोचुरिति शेषः ॥

॥ सैतमेव वरमवृणीत ॥ एतं वक्ष्यमाणम् । सा अदितिः ॥

पा. सू० ३-४-९३.

खण्ड

द्वितीयोऽध्यायः

॥ मत्प्रायणा यज्ञाः सन्तु मदुदयना इति ॥ उदिण् समाप्तावादौ प्रेण करणे ल्युड्वयं कृतम् । * प्रत्ययोत्तरपदेति मपर्यन्तस्य मोऽस्मदः । आरम्भसाधनमहं येषां मत्प्रायणास्तु ते ॥ यज्ञाः सन्तु तद्वदेवं समाप्यन्तां मयैव ते । मदेवत्ये इह स्यातां यज्ञस्यायन्तकर्मणी ॥

॥ तथेति ॥

देवा ऊचुः॥ ॥ तस्मादादित्यश्वरुः प्रायणीयो भवत्यादित्य उदयनीयः ॥ * अदितेयः॥

॥ वरवृतो ह्यस्याः ॥ स चरुर्वररूपेण देव्यादित्या वृतो यतः । अस्याः अनया ॥

॥ अथो एतं वरमवृणीत ।। चेति शेषः । एतं च वरं वक्ष्यमाणं साहणीत ।।

  • पा. सू. ७-१-९८ ‘देवा , देवयजनमध्यवसान दिशो न प्राजानस्तेऽन्योन्यमुपाधावस्खया प्रजानाम त्वयेति । तेऽदियाँ समध्रियन्त खया प्रजानामेति । साब्रवीद् वरं वृणै मत्प्रायणा एव वो यज्ञा मदुदयना असन्निति । तस्मादादिलः प्रायणीयो यज्ञानामादित्य उदयनीयः’ ६-१-५ इति तैत्तिरीयधुतिः, . * पा० सू० ४-१-८५.

प्रथमः

सवृत्तिके ऐतरेयब्राह्मणे

॥ मयैव प्राची दिशं प्रजानाथ ॥ दिशं प्राची प्रजानीथ’ मया मत्स्वस्तिपथ्यया । छन्दस्त्वाद् *ई हल्यघो’ने तादेशो न च थस्य ॥

॥ अग्निना दक्षिणाम् ॥ दिशं प्रजानाथेत्येव ।।

॥ सोमेन प्रतीचीम् ॥

PATTI

पूर्ववत् ॥

॥ सविनोदीचीमिति ॥ पूर्ववत् ।।

अथ विधत्ते

॥ पथ्यां यजति ॥ पथ्येति वेकदेशेन पथ्यास्वस्तिहि कथ्यते । भीमसेनो यथा भीमः सत्यभामा च भामिनी ॥ भामेति चोच्यते देवी त्रैलोक्ये गुरुवल्लभा ।

पुरस्तात्तु यजेदत्र पथ्यास्वस्तिं हि देवताम् ॥ ॥ यत् पथ्या यजति तस्मादसौ पुर उदेति पश्चास्तमेति ॥

तस्मात् तथाहि । असौ आदित्यः । '

१ ‘प्राची तु जानीथ ‘ब. पाठ:.

  • पा० सू ० ६-४-११३० । ‘अदितेरेव खल्ववस्थान्तरम् उषोलक्षणं पथ्या स्वस्तिरुच्यते । पथि साधी पथ्या शोभनविभूतिहेतुः प्रजानां स्वस्तिः । यत्र चोषा उदेति सा प्राची भवति’ इति भइभास्करः,

खण्ड:

द्वितीयोऽध्यायः

४९

पश्चादर्थे ’ पश्च पश्वा च छन्दसि ’ निपातितौ ॥ ततः किं,

॥ पथ्यां ह्येषोऽनुसञ्चरति ॥ प्रायणीयोदयनीययोः पथ्यामाधन्तवर्तिनीम् ।

अनुकुर्वन् याति सूर्यः स्यां पथ्यावदहं त्विति ।। पथ्यावस्तेरादित्वमन्तत्वं चाज्यहविरपेक्षम् । सून्यते हि- पथ्या खस्तिरमिः सोमः सवितादितिः’ इति । “ पथ्यास्वस्तिरिहोत्तमाज्य. हविषाम् ’ इति च ॥

प्रायणीयोदयनीयेष्टयो,

॥ अग्निं यजति ॥ दक्षिणस्यां दिशि ॥

॥ यदग्निं यजति तस्माद् दक्षिणतोऽन ओषधयः

पच्यमाना आयन्ति ॥

नमति स्यग्रतः पकं सस्य दक्षिणतः सदा। विन्ध्याद्रेर्दक्षिणा यद्वा सस्य शीघ्रं हि पच्यते ॥

॥ आग्नेय्यो ह्योषधयः॥ अग्नेरुत्पन्नेन जलेन सम्पाद्यत्वात् ॥

देव

  • पा सू० ५-३-३३. + आ० श्रौ० सू ० ४-३-२. * आ० श्री. सू । ६-१४-३.सवृत्तिके ऐतरेयब्राह्मणे

प्रिथमः

प्रथमः

॥ सोमं यजति प्रतीच्यां दिशि ॥

॥ यत् सोमं यजति तस्मात् प्रतीच्योऽप्यापो बयः

स्यन्दन्ते ॥ प्रतीच्या प्रत्यङ्मुख्यः । सह्यपर्वताद् धावन्ति ।

॥ सौम्या ह्यापः ॥ * सोमसम्बन्धिन्यः । इदमर्थे । सोमायण’ । टाप् । अमृतात्म कत्वात् सोमस्य ॥

सवितारं यजति ॥ उदीच्यां दिशि ॥

॥ यत् सवितारं यजति तस्मादुत्तरतःपश्चादयं

भूयिष्ठं पवमानः पवते ।। उत्तरतापश्चात् प्रतीच्युदीच्यन्तराळे । पवमानः वायुः । भूयिष्ठं बहुतमम् । पवते आगच्छति ।

सावित्रयागे तु कृते पवमानस्य किं ह्यभूत् ।।

E

20

१. ‘अमृताख्यजलात्मत्वात् ’ क. पाठः,

  • ‘अपां सौम्यस्त्वं सोमस्य वृष्टिहेतुतया। वृष्टिहेतुत्वं च सूर्यरश्मित्वात् सोमस्य । तथाहि श्रुति:–’ सुषुम्नः सूर्यरश्मिः’ इति मोविन्दस्वामीः ‘सोममण्डलप्रभवत्वात् सर्वासामपाम् ’ इति भभास्करः + पा० सू० ४-२-३०,

खण्ड:

द्वितीयोऽध्यायः

अत आह

॥ सवितृप्रसूतो ह्येष एतत् पवते ॥ एतत् एतर्हि प्रत्यगुदगन्तराळे ! सवित्प्रसूतः सवित्रानुज्ञातः ।।

॥ उत्तमामदितिं यजति ॥ क मध्ये । मध्येऽदिति हविषा’ इति ह्यापस्तम्बः ।

पथ्याग्निसोमसवितृनाज्येनैन्द्रयादिषु क्रमात् । इष्टवादिति क्षीरभृतंचरुणा मध्यतो यजेत् ॥ ॥ यदुत्तमामदिति यजति तस्मादसाविमा वृष्टयाभ्युनत्ति ॥

असौ द्यौः। इमां पृथ्वीम् । उनत्ति क्लेदयति । अदितिरिति पृथिवीनामत्वाद् दिवश्वोत्तमोललोकत्वात् । उनत्ति । उन्देर्लन् ।

नामलोपः। किञ्च,

॥ अभिजिघ्रति ॥ असाविमामित्येव । अभिप्राणमुपभोगः । भूगतं हविधीरुप.

१. क्षीरघृत’ ध. पाठः. २. ‘उन्देर्लेट ’ क, पाठः, ३. ‘योगः’ घ, पाठः. ४. ‘युक्ते ’ ख घ पाठः

  • ‘उत्तमां मूर्धावस्थिताम्’ इति सायण:. तैत्तिरीयश्रुतिरपि– पथ्यां स्वस्तिमयजन् प्राचीमेव तया दिशं प्राजाननग्निना दक्षिणां सोमेन प्रतीची सवित्रो दीचीमदियोर्धाम् ’ ६-१-५ इति. - श्री. सू. १०-२१-११. पा. सू. ६-४-२३. ‘अभिघ्राणं भौमरसादानम् ’ इति भभास्करादयः.

सवृत्तिके ऐतरेयप्राह्मणे

॥ पश्च देवता यजति ॥ पिाच्या पथ्यां दक्षिणानिं प्रतीच्यां सोममेव च ॥ उदीच्यां सवितारं चेत्याज्येनेष्वाथ मध्यतः । अदितिं चरुणेत्येव पञ्चकृत्वो यजत्ययम् ॥

॥ पातो यज्ञः॥ उक्तार्थम् ॥ ॥ सर्वा दिशः कल्पन्ते कल्पते यज्ञोऽपि तस्यै जनतायें कल्पते

यत्रैवं विद्वान होता भवति ॥ क्लूप्ति कार्यक्षमत्वं स्याजनात् सामूहिकस्तु तन् । ङयर्थे जेद्वयम् । यत्र होतेवं विद्वान् भवति तस्यां जनतायां दिशः कल्पन्ते । यज्ञश्च कल्पते । अपि कल्पते । सर्वो भोग इति शेषः । सर्वोऽपि भोगः कल्पते ।।

HTTER

प्रथमः खण्डः

  • ‘पञ्च देवता यजति पञ्च दिशो दिशा प्रज्ञायै ६-१-५ इति तैत्तिरीयश्रुतिः + ‘चतुर आज्यभागान् प्रतिदिशं यजति पथ्या स्वस्ति पुरस्तादमि दक्षिणतः सोमं पश्चात् सवितारमुत्तरतो मध्येऽदितिं हविषा’ आप. श्री. सू. १०-२१-११. * ‘प्रामजनबन्धुभ्यस्तल’ पा. सू. ४-२४-३.

खण्ड:

द्वितीयोऽध्यायः

अथाष्टौ प्रयाजेषु गुणतः फलमाह ह ॥ यस्तेजो ब्रह्मवर्चसमिच्छेत् प्रयाजाहुतिभिः प्राङ् स

इयात् ॥ प्राङ् मागित्यर्थः । क्रियाविशेषणत्वात् । इयात् कारयेत् । प्रयाजान् प्रागपवर्गान् ॥

॥ तेजो वै ब्रह्मवर्चसं प्राची दिक् ॥ . तेजोवृत्तवेददायी सूर्यो यस्माद्देत्यतः॥ ॥ तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान् प्राति ॥

सा॥

॥ योऽन्नाद्यमिच्छेत् प्रयाजाहुतिभिर्दक्षिणा स इयात् ॥ *‘दक्षिणादाच्’ । समिधादिस्वाहाकृत्यन्तान् दक्षिणापवर्गान् कारयेत् ॥

॥ अन्नादो वा एषोऽन्नपतिर्यदग्निः॥ यत् यः । उक्तं हि प्राक्– दक्षिणतोऽन ओषधयः पच्यमाना आयन्त्यानेय्यो ह्योषधयः’ इति ।

॥ अन्नादोऽन्नपतिर्भवत्यश्नुते प्रजयान्नाचं य एवं

विद्वान् दक्षिणैति ॥ एति कारयति ॥

पा. सू. ५-३-३६. + ऐ० ब्रा० २-१.

संवृत्तिके एतस्यब्राह्मणे

[द्वितीयः

॥ यः पशूनिच्छेत् प्रयाजाहुतिभिः प्रत्यङ् स

इयात् ॥ पूर्ववत् ।।

॥ पशवो वा एते यदापः ॥

यत् याः।

यत्र देशे जलं पूर्ण वर्धन्ते पशवोत्र हि । * अदि वृणमध्न्ये विश्वदानी पिब शुद्धमुदकं’ ‘सुप्रपाणं भवत्व ध्न्याभ्यः’ इति दर्शनात् ।।

॥ पशुमान् भवति य एवं विद्वान् प्रत्यङ्डेति ॥

॥ यः सोमपीथमिच्छेत् प्रयाजाहुतिभिरुदङ्, स

इयात् ॥ पिवतेः क्यान पीथस्तु पानं वंशगतं सदा। य इच्छति हि सोमस्य तानुदक् संप्रवर्तयेत् ।।

कुतः,

॥ उत्तरा ह वै सोमो राजा॥

*उत्तरादाच ।

ऋक्सं० २-३-२१-५. । ऋक्सं० ४-४-२८-३. * पा. सू. ५-३-३८.

खण्डः ]

द्वितीयोऽध्यायः

उदीच्या हि दिशः सोमो राजा देवैः प्रकल्पितः । किञ्च भारतवर्षस्य स्थिता सोमलतोत्तरा’ ।।

“सोमस्येव मौजवतस्य भक्ष’ इत्यध्यगीष्महि ॥ ॥ प्र सोमपीथमाप्नोति य एवं विद्वानुदङेति ॥ प्रामोति सोमपानं स य उदक् तान् प्रवर्तयेत् । अथ प्रारदक्षिणाप्रत्यगुदङ्मध्येष्विति क्रमात् ॥ स्युः मयाजा इमं पक्षं दर्शयन् कथयत्ययम्

॥ स्वग्यैवो; दिक् ॥ प्रागादिपूर्विकोछ दिक् स्वर्गसम्प्राप्तिकारणम् ॥

॥ सर्वासु दिक्षु रानोति ॥ प्राच्याघुवंदिगन्तं तु प्रयाजान् पञ्च कारयेत् । सर्वामृद्धिमयामोतीत्ययं पक्षो हि वै शुभः ।।

  • तथाच सुश्रुते चिकित्सितस्थाने २९-तमाध्याये ‘हिमवत्यर्बुदे सह्ये महेन्द्रमलये तथा । श्रीपर्वते देवगिरौ गिरौ देवसहे तथा ॥

पारियाने च विन्ध्ये च देवसुन्दे हृदे तथा । उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः॥ पञ्च तेषामधो मध्ये सिन्धुनामा महानदः । हठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः॥ तस्योद्देशेषु चाप्यस्ति मुजवानंशुमानपि । काश्मीरेषु सरो दिव्यं नाना क्षुद्रकमानसम् ॥ गायत्र्यस्त्रैष्टुभ: पाको जागतः शाङ्करस्तथा । अत्र सन्यथरे वापि सोमाः सोमसमप्रभाः ॥

न तान् पश्यन्नधर्मियाः कृतघ्नाश्चापि मानवाः । भेषजहोषिणश्चापि ब्राह्मणद्वेषिणस्तथा ॥ इत्यादिना सोमलतायाः स्थानविशेषलक्षणादीनि स्फुट प्रतिपादितानि.

  • ऋकूसं. ७-८-३-१. ‘पञ्च प्रयाजान् प्राचो यजति प्रतिदिशं वा समिधः पुरस्तात् तनूनपातं दक्षिणतः इडां पश्चाद् बर्हिरुत्तरतः स्वाहाकारं मध्ये ’ इत्यापस्तम्बः,

सवृत्तिके ऐतरेयब्राह्मणे [द्वितीयः

॥ सम्यञ्चो वा इमे लोकाः॥ स्युरिति शेषः।

  • सम्यश्वस्तु समीचीना अन्योन्यस्योपकारिणः ।

भवत्येवं कुर्वतो हि लोका भूखखराख्यकाः ॥ व्याच

॥ सम्यञ्चोऽस्मा इमे लोकाः श्रियै ॥ अस्मै अस्यार्थाय । श्रियै समृद्ध्यर्थम् ॥

॥ दीवति य एवं वेद ॥ दीद्यति दीप्यते वेदिता।

दीदीतिधातुर्दीप्यर्थो लटस्तिपि शपीह यम् ॥ पुनः पथ्यादीन् स्तौति

॥ पथ्यां यजति ॥ पध्यावस्तिर्देवतात्र पथ्येत्युक्तैकदेशतः ॥ ॥ यत् पथ्यां यजति वाचमेव तद् यज्ञमुखे सम्भरति ॥ यज्ञादौ वाचमादत्त इत्यर्थः ॥

॥‘प्राणापानावनीषोमौ ॥ नस्तो बहिर्गतो वायुः प्राणापानौ विशन् पुनः । बागोऽमेरथ सोमस्य स्यात् प्राणापानवृद्धये ॥

A

7

  • ‘सम्यञ्चः परस्परोपकारिणः । धौवटयोपकरोति। यागादिनेयम्’ इति गोविन्दस्वामी. ‘सम्यश्चः स्वोचितभोगप्रदा’ इति सायणः । ‘मुखनासिकाभ्यो बहिः सबर - च्छासरूपो वायुः प्राणः । स योष्ण्यं शरीरे जनयति । ततोऽः प्राणरूपलम् । प्रतिनिवृत्य मुखनासिकाभ्यामन्तः संघरन् वायुरपानः । स च शरीरे शैवं जनयति इति निश्वासस्य सोमरूपत्वम् ’ इति सायणः.

खण्ड:

द्वितीयोऽध्यायः

भ्याम औ । प्राणापानाभ्याम् ।।

*प्रसवाय सविता ॥ इज्यते सविता सम्यग् भोजनादिसमृद्धये ।।

॥ प्रतिष्ठित्या अदितिः ॥ इज्यते हि प्रतिष्ठार्थ चरुणादितिरुत्तमा । पुनरपि स्तौति

॥ पथ्यामेव यजति ॥ पथ्यां खस्तिम् ॥

॥ यत् पथ्यामेव यजति वाचैव तद् यज्ञं पन्थामपि

नयति ॥

पन्थाम् । नशब्दलोपः । पन्थानम् । तत् तेन पथ्यायागेन । नयति प्रापयति यज्ञम् ॥

चक्षुषी एवाग्नीषोमौ ॥

१.

प्रसिद्धये ग, घ. पाठ:,

  • ‘प्रसवाय यज्ञकर्मणि प्रेरणाय’ इति सायणगोविन्दस्वामिनौ. ‘अभ्यनुज्ञानाय’ इति भभास्करः, - ‘पथ्यामेवेत्यादि ।’ शैलीयं ब्राह्मणस्य यत्रोकेऽर्थे हेत्वन्तरं वक्तुमिच्छति तत्रैवकारं प्रयुक्त’ इति भट्टभास्करः, * ‘पथ्यास्वस्ति यजति । प्राचीमेव तया दिशं प्रजानाति । पथ्यास्वस्तिमिष्ट्वामीषोमौ यजति । चक्षुषी वा एते यज्ञस्य यदग्नीषोमौ ताभ्यामेवानुपश्यति । अग्नीषोमाविष्ट्वा सवितारं यजति । सवितृप्रसूत एवानुपश्यति । सवितारमिष्ट्वादिति यजति । इयं वा अदितिरस्यामेव प्रतिष्ठायानुपश्यति’ इति तै० सं० ६.१.५. अमीषोमयोस्तेजस्वित्वाद् दिग्विशेषज्ञानहेतुत्वाच्चक्षुरिन्द्रियरूपत्वम् ’ इति सायण,

सवृत्तिके ऐतरेयब्राह्मणे द्वितीयः भ्याम और शी । चक्षुषोरर्थाय । इज्येते अग्नीषोमौ । द्वित्वयोगात् ।।

॥ प्रसवाय सविता ॥ प्रसवोऽत्र वशीकारस्तदर्थ सवितेच्यते ॥

॥ प्रतिष्ठित्या अदितिः ॥ स्था तिन् ‘यतिस्यती’तीत्व स्थादिभ्योऽङि विधीयते ॥

॥ चक्षुषा वै देवा यज्ञं प्राजानन् ॥ प्रज्ञातवन्तः ।।

॥ चक्षुषा वा एतत् प्रज्ञायते यदप्रज्ञेयम् ॥ अप्रज्ञेयं प्रयत्नादृते ज्ञातुमशक्यम् । शक्यार्थे ’ अचो यत् । ॥ तस्मादपि मुग्धश्चरित्वा यदैवानुष्ठया चक्षुषा प्रजाना

त्यथ प्रजानाति ॥ तस्मात् तथाहि । अपि खलु । अथ तदा। अनुष्ठया अनु ष्ठानेन । भावे स्थः किः॥

॥ यद् वै तद् देवा यज्ञं प्राजानन्नस्यां वाव तत्

प्राजानन् ।

यत् यदा । तत् तदा । अस्यां पृथिव्याम् । प्राजानन् प्रज्ञातवन्तः ॥

__ * पा० सू. ७-४-४०, । पा० सू ० ३.१.९७. * ‘अनुल्या प्रयनेन’ इति गोविन्दस्वामी, केनापि प्रयत्नविशेषेण पर्वतारोहणादिना’ इति सायणः.

खण्डः ]

द्वितीयोऽध्यायः

५९

॥ अस्यां समभरन् । लङ् भूवादे भरणे भृत्रो वा श्लुः शपो न तु । हो वा हग्रहो त्वं निरुक्तमभरंविधा ।। ॥ अस्यै वै यज्ञस्तायतेऽस्यै क्रियतेऽस्यै सम्भ्रियते ॥ ड्यर्थे उत्रयम् । तायते विस्तीर्यते । । तनोतेयेकि ’ इत्यात्वम् क्रियते अनुष्ठीयते । सम्ध्रियते संगृह्यते ।।

कथम् ,

॥ इयं ह्यदितिः॥ अदितिरिति भूनामसु पाठात् ॥

॥ तदुत्तमामदितिं यजति ॥ तत् तदर्थम् ॥

॥ यदुत्तमामदिति यजति यज्ञस्य प्रज्ञात्यै स्वर्गस्य

लोकस्यानुख्यात्यै ॥ तत् स्यात् । प्रज्ञातिरवगतिः । अनुख्यातिः सम्यगुपलम्भः ।।

द्वितीयः खण्डः।

‘, २. ‘हृग्रहोर्भश्च’ घ. पाठः.

  • पा. सू. वा. ८-१-३२. + पा० सू. ६-४-४४. ‘अनुख्या तिथानुष्ठानसौकर्यम् ’ इति गोविन्दस्वामी.’ अनु क्रमेण स्वर्गस्य लोकस्य ख्यात्यै प्रकाशनाय’

इति भभास्करप्रवृत्तिके ऐतरेयबामणे

तृतीयः

पथ्यावस्तेस्तु युगळं विधित्सुः प्रब्रवीत्यथ—-

॥ देवविशः कल्पयितव्या इत्याहुः ॥ विशः सेनाः कल्पनं च सम्यगेव प्रपूजनम् ।। किमर्थ,

॥ ताः कल्पमाना अनु मनुष्यविशः कल्पन्त इति ॥ कल्पमानाः अनुभूतपूजाः, अनु लक्षीकृत्य ’ अनुलक्षणे’ ‘कर्म प्रवचनीययुक्ते द्वितीया’ । कल्पन्ते सम्यग् भवेयुः ॥ .

ततश्चास्य यजमानस्य,

॥ सर्वा विशः कल्पन्ते ॥ विशः पुत्रायाः ॥

१. ‘प्रवचनीयलक्षणे’ क. पाठः

  • ‘अदितिमिष्ट्वा भारतीमचमन्वाह मरुतो वै देवानां विशो देवविशं खलु वै कल्पमानं मनुष्यविशमनुकल्पते यन्मारुतीसचमन्वाह विशां क्लप्त्यै’ तै० सं० ६-१-५. ‘अदितिमिट्वा मारुतीमृचमनूच्याज्येन चरुमभिपूर्यता देवता यजति ’ आप श्रौ० सू०१.. २१-१२. ‘देवानां विशः प्रजाः परिकरभूता मरुदादयो देवा विशः’ इति भटमास्करः । ‘विश इत्ययं शब्द: प्रजामात्रवाची वैश्यजातिविशेषवाची वा । सन्ति हि देवेष्वपि जातिविशेषाः । अग्निवृहस्पतिश्च देवेषु ब्राह्मणौ । ‘अग्ने महाँ असि ब्राह्मण भारत’। ‘ब्रह्म वै देवानां बृहस्पतिः’ इति श्रुतेः । क्षत्रियादिजातयस्तु सृष्टिप्रकरणे वाज सनेथिभिः स्पष्टमेवान्नाता:-तच्छ्योरूपमत्यमजत क्षत्रं यान्येतानि देवताक्षनाणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः’ इति । स विश्वमस्जत यान्येतानि देवजातानि गणश आल्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुतः’ इति । ‘तमथ शौद्रं वर्णमसुजत पूषणम् ’ इति। एवमादित्यो वै दैवं क्षत्रमित्यादिकमुदाहार्यम् । एवं सति देवेषु विशो वैश्यजातिरूपाः प्रजा मरुदादयो याः सन्ति ता अस्मिन् यागे कल्पयितन्याः सम्पादयितयाः । इति सायण:. * ‘कल्पयितव्याः अङ्गीकर्तव्याः’ इति गोविन्दस्वामी, कल्पयितव्याः संपायाः सन्निधापयितव्याः’ इति भट्टभास्करः पा० सू. १-४-८४. 1 पा० सू. २-३-८

खण्ड:

द्वितीयोऽध्यायः ।

॥ कल्पते यज्ञोऽपि तस्यै जनताय कल्पते यत्रैवं विद्वान्

होता भवति ॥ उक्तार्थम् ॥

॥ * ‘स्वस्ति नः पथ्यासु धन्वस्वि’त्यन्वाह ।। अनुवाक्यां ब्रूयात् पध्यायाः स्वस्तेः ॥

॥ वस्त्यप्सु जने स्वर्वति स्वस्ति नः पुत्रकृथेषु

योनिषु वस्ति राये मरुतो दधातनेति ॥ मरुच्छब्दप्रदर्शनार्थः पाठः । साहितः कम्प ऐकश्रुले नास्ति । अर्थस्तु-हे मरुतः नः अस्मभ्यं पिथ्यासु गृहेषु स्वस्ति अविनाशं दधातन धत्त प्रयच्छत । राये धनाय । धन्वसु मरुषु निर्जलदेशेषु । अप्सु जलेषु । विजने युद्धे । स्वर्वति । स्वरिति सर्वस्य नाम । अश्वादि सर्वोपकरणवति । पुत्रकृथेषु योनिषु । कुमोऽधिकरणे क्थन् । पुत्रोत्पत्यर्थेष्विति ॥

॥ मरुतो वै देवानां विशः ॥

सेना: विशः॥

॥ त एवैतद्यज्ञमुखेऽचीकृपत् ॥

१. ‘सुवरिति ’ क. पाठ:.

२. ‘सर्वनाम’ घ, पाठः,

८-२-५-५. ‘पथ्यासु मार्गेषु’ इति सायणगोविन्दस्वामिनी. * वृजने वर्जिते जनशून्ये खर्वति स्वर्गयुक्त मार्गे’ इति सायणः ‘जनवर्जिते देशे स्वर्गसाधनभूतेष्वपि यागेषु इति गोविन्दरवामी.

सवृत्तिके ऐतरेयब्राह्मणे

तृतीयः

एतद् वदन देवसेना यज्ञादौ पूजयत्ययम् । अचीक्लुपत् । णौ चङ्युपधाया इस्खः’ । ‘उरत् ॥ अत्र,

॥ सर्वैश्छन्दोभिर्यजेदित्याहुः । ब्रह्मवादिनः ॥ .

कुतः,

॥ सर्वैर्वै छन्दोभिरिष्ट्वा देवाः स्वर्ग लोकमजयन् ॥ स्वर्ग पुरा सुराः सर्वे छन्दोयागेन’ चाप्नुवन् । ततश्च, ॥ तथैवैतद् यजमानः सर्वैश्छन्दोभिरिष्ट्वा स्वर्ग लोकं जयति ॥

एतद् एतर्हि । अस्मिन्नपि काले ॥ कथं, ॥ स्वस्ति नः पथ्यासु धन्वसु, स्वस्तिरिद्धि प्रपथे श्रेष्ठेति

पथ्यायाः स्वस्तेस्त्रिष्टुभौ ॥ आद्यानुवाक्याथो याज्येत्येवं सर्वत्र गृह्यताम् । एकादशाक्षरत्वं तु पादानां व्यूहनादिह ।।

१. ‘योगेन’ घ, पाठ:.

पा. सू. ७-४-६६. *

०८-२-५-५.

  • पा. सू. ७-४-१. ऋक्सं. ८-३-५-६.

.

खण्ड:

द्वितीयोऽध्यायः

॥ *अग्ने नय सुपथा राये अस्मान् आदेवानामपि’ पन्थामगन्मे’ समेस्त्रिष्टुभौ । त्वं सोम प्रचिकितो मनीषा’ या ते धामानि दिवि या पृथिव्यामिति सोमस्य त्रिष्टुभौ । “आ विश्वदेवं सत्पति’ य इमा विश्वा जातानीति सवितु गायच्यौ । “सुत्रामाणं पृथिवीं द्यामनेहसं’ * महीमूषु मातरं सुव्रतानामि त्यदितेर्जगत्यौ ॥

महीमूषु खैलिकीयं सूत्रकारेण पठ्यते ॥ ॥ एतानि वाव सर्वाणि छन्दांसि गायत्रं त्रैष्टुभं जागतम् ॥ गायन्येव गायत्रम् । स्वार्थेऽण् । एवं त्रैष्टुभं जागतं च ॥

ननु त्रीणि खलूक्तानि छन्दांस्यन्यानि सन्ति च । कथं स्यात् त्रिषु सर्वत्वमत उत्तरमुच्यते

॥ अन्वन्यानि ॥ कर्मप्रवचनीयोऽनु हीन इत्येव तेन हि ।

अन्यच्छन्दांसि हीनानि प्रधानं त्रितयं त्विदम् ॥ कथम् :

॥ एतानि हि यज्ञे प्रतमामिव क्रियन्ते ॥

AN

१. ‘आदेवानामनु’, २. ‘स्वार्थिकोऽण् ’ घ. पाठः,

___ * ऋक्सं० २.५-१०-१, + ऋक्सं० ७-५-३०.३. * ऋक्सं० १-६-१९-१. S ऋक्सं० १-६-१९.४. , ऋक्सं० ४-४-२६-२, ६ ऋक्सं० ४.४.२६.४. * ऋक्सं० ८.२-४.५, * आ० श्री० २.१.२,

सवृत्तिके ऐतरेयब्राह्मणे चितुर्थः प्रक्रियन्तेतमाम् । एतत् त्रिक’ यज्ञेषु बहुलं प्रयुज्यते । अन्यत् कचित् किञ्चिदित्यर्थः ॥

वतच,

॥ एतैर्ह वा अस्यच्छन्दोभिर्यजतः सर्वैश्छन्दोभिरिष्टं भवति ॥

अस्य अनेन यजमानेन ॥

॥ य एवं वेद ॥ तेनापि ॥

तृतीयः खण्डः।

पुनः स्तौति

॥ ता वा एताः प्रवत्यो नेतृमत्यः पथिमत्यः स्वस्तिमत्य

___ एतस्य हविषो याज्यानुवाक्याः ॥ एताः स्वस्ति न इत्याचा ऋचः। प्रपथे प्रचिकितः सुप्रणीतिम् प्रच सु चातीति प्रशब्दवत्यः । अग्ने नय अनुनेषीति नेतमत्या । प्रपथे अपि पन्थाम् सुपयेति पथिञ्छब्दवत्यः । स्वस्ति नः पथ्यासु’ धनखित्यादि पश्च स्वस्तिशब्दवत्यः । एतस्य हविषः । आमो कम् ॥

चतुर्णामाज्यहविषां चरोः पञ्चमकस्य च । प्रादियोगो दुर्लभोन लब्धः कर्मसमृद्धये ।।

॥ एताभिर्वा इष्ट्वा देवाः स्वर्ग लोकमजयन् ॥ अनुवाक्या अनूच्य प्राग याज्यादिभिरिष्ठा स्वर्ग लोकमजयन् ।।

१. ‘त्रितयं’, २. ‘तेनापि । ता वाघ. पाठः .३. पथ्यास्वित्यादि’, हविषां तु बरोः पञ्चमस्य च क. पाठः,

४.

खण्ड:

द्वितीयोऽध्यायः

६५

॥ तथैवैतद् यजमान एताभिरिष्ट्वा स्वर्ग लोकं जयति ।। एतद् एतर्हि ॥ अयमपरो लाभ इत्याह

॥ तासु पदमस्ति स्वस्ति राये मरुतो दधातनेति ॥ पदं पादः ॥ ततः कि,

॥ मरुतो ह वै देवविशोऽन्तरिक्षभाजनाः ॥ विशः सेनाः । भाजनं स्थानम् ॥

ततोऽपि किं. ॥ तेभ्यो ह योऽनिवेद्य स्वर्ग लोकमेतीश्वरा हैन नि वा रोहोर्वि

वा मथितोः॥ या यजमानः तेभ्यः मरुद्भधः अनिवेद्य अज्ञापयित्वात्मानं स्वर्गमेति । एनपनिवेद्य गन्तारं निरोद्धं विमयितुं वा मरुतः ईश्वराः समर्थाः स्युः । “ईश्वरे तोसुन्कसुनौ ’ तुमर्थे ।

गतिभङ्गो निरोधः स्यान्मथनं देहताडनम् ॥ एवमनिवेदने दोषे सति,

१, ‘देहबाधनम् ’ घ, पाठः

पा सू० ३.४.१३.

सवृत्तिके ऐतरेयब्राह्मणे

[चतुर्थः

स यदाह स्वस्ति राये मरुतो दधातनेति तं मरुद्भयो

देवविड्भ्यो यजमानं निवेदयति ॥ आहेति यत् तेन वचनेन तं यजमानम् ॥ ततस्तेन,

॥ न ह वा एनं मरुतो देवविशः स्वर्ग लोकं

यन्तं निरुन्धते न विमश्नते ॥ यन्तं गच्छन्तम् । एनं यजमानम् । रुन्यः (झल् ?) *’ नसोरल्लोपः। मथेः नाभ्यस्तयोरातः’ ॥

किञ्च,

॥ स्वस्ति हैनमत्यर्जन्ति स्वर्ग लोकमभि ॥ * अति सुष्टु । अर्जन्ति गमयन्ति । अभि प्रति ॥

॥ य एवं वेद ॥ तमपि ॥ अथ स्विष्टकृतो याज्यानुवाक्ये आह

॥ विराजावेतस्य हविषः स्विष्टकृतः संथाज्ये स्याताम् ॥

संयाज्ये विराजाविति सर्वत्र विष्टकटच उच्यते ॥ के ते विराजौ,

॥ये त्रयस्त्रिंशदक्षरे ॥ ते स्याताम् ॥

A

E

mawabar

  • पा. सू. ६-४-१११, क्षिप्रार्थ, क्षिप्रं प्रापयन्ति’ इति भट्टमास्करः.

पा० सू ० ६-४-११२, * ‘अतिशब्दः

खण्ड:

द्वितीयाऽध्यायः

पुनरपि के ते,

॥ *सेदग्निरमी रत्यस्त्वन्यान्’

वनुष्यतो निपाती’त्येते ॥ ऋचौ । सेदग्निरित्यनूच्य जुपता हविरन्ते सेदग्मिय इति यजेत् ॥ विराजौ स्तौति–

॥ विराड्भ्यां वा इष्ट्वा देवाः स्वर्ग लोकमजयन् ॥

वै पुरा॥

॥ तथैवैतद् यजमानो विराड्भ्यामिष्टा स्वर्ग लोकं जयति ॥

एतद् एतर्हि ॥ विराजावक्षरसंख्यया स्तौति -

॥ ते त्रयस्त्रिंशदक्षरे भवतः ॥

ततः किं,

॥ त्रयस्त्रिंशद् वै देवाः ॥

t

कथम् ।

॥ अष्टौ वसव एकादश रुद्रा द्वादशादित्याः . प्रजापतिश्च वषट्कारश्च ॥

  • ऋक्सं० ५-१-२५-४, । ऋक्सं० ५-१-२५-५.

सवृत्तिके ऐतरेयब्राह्मणे (चतुर्थः *“वषदकार इन्द्र इति प्राहुर्वाजसनेयिनः । विस्वादयश्च कथिता भारतेऽर्जुनजन्मनि ।। धरो ध्रुवश्च’ सोमश्च आपवश्वानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवश्वावतस्थिरे ॥ मृगव्याधश्च शर्वश्च निक्रतिश्च महायशाः । अजैकपादहिर्बुधिः पिनाकी च परन्तप । भवनोऽथेश्वरश्चैव कापाली च विशां पते । स्थाणुर्भगश्च भगवान् रुद्रास्तत्रावतस्थिरे ॥ धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः॥ ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः। इत्येते द्वादशादित्या ज्वलन्तः सूर्यवर्चसः ।।

महिमानं पाण्डवस्य कुर्वन्तस्तस्थुरम्बरे” || इति ।। ततथ विराड्भ्यां यजन् ,

॥ तत् प्रथमे यज्ञमुखे देवता अक्षरभाजः करोति ॥ तत् तत्र। प्रथमे प्रवरे उत्कृष्टे । ‘प्रथमौ प्रवरादिमौ’ इति निखण्टु । अक्षरभाजः । * भजो विः’ । त्रयस्त्रिंशतापि देवता एकैकाक्षरयुक्ताः करोति ॥

१. ‘ध्रुवश्वेत्यादिना । ततश्च विराभ्यां’, २ ‘उत्कृष्टे । अक्षरभाजः घ. पाठ:.

  • ‘वषट्कारो देवताविशेषः’ इति सायणः + आदिपर्व-अध्या० ११४ लो०५५-५८. (Poona edition) वसूनां नामनिर्देशो मुद्रितपुस्तकेषु यद्यपि नोपलक्ष्यते, तथाप्यस्मदधि करणसंगृहीतेषु देवनागरदमिडकेरलीयलिपिप्रन्थेषु दृश्यते. + वैजयन्ती (श्यक्षरकाण्डे अर्थवल्लिङ्गाध्याये श्लो० १७.) पा० सू. ३-२-६२.

खण्ड:

द्वितीयोऽध्यायः

व्याचष्टे -~

॥ अक्षरेणाक्षरेणैव तद् देवतां प्रीणाति ॥ प्रीणाति तर्पयति होता ।

स्पष्टयति

॥ देवपात्रेणैव तद् देवतास्तर्पयति ॥ तत् तेन ऋग्व्येन । देवपात्रेण । पिवतेः करणे ट्रन् । पानहेतुभूतेन ।।

चतुर्थः खण्डः ।

HTML

॥ प्रयाजवदननुयाज कर्तव्यं प्रायणीयमित्याहुः ॥ प्रायणीयाख्यकर्मेदं प्रयाजैः पञ्चभिर्युतम् । त्रिभिस्त्यक्तमनूयाजैः स्यादित्याहुस्तु केचन ॥ प्रयाजान्मतुपो वत्वम् ॥ तेषामननुयाजत्वे हेतुरयमित्याह—

॥ हीनमिव वा एतदीडितमिव यत् प्रायणीयस्यानु

याजा इति ॥

E

१. श्रीणाति । तत् तां प्रागाति’ क पाठ:.

  • देवयोग्यं स्थानं देवपात्रम् । तेनैव देवताः सर्वा अपि तर्पयति योग्यस्थान लाभेनैव तृप्ताः करोति’ इति भट्टभास्करः, ‘देवानां पात्रं फलमेकैकमक्षरं तेनैव पात्रेण ’ इति साथण:- + ‘ब्रह्मवादिनो वदन्ति प्रयाजवदननूयाज प्रायणीयं कार्यमनूयाजवंद. प्रयाजमुदयनीयम्’ इति तै० सं० ६.१-५७०

सवृत्ति के ऐतरेयब्राह्मण

43

यत् ये। * ईडितं विलम्बनम् । भावे क्तः। हीनम् । ओ हा(क) त्यागे। “आशंसायां भूतवच्च’ इति क्तः। इव खलु । आरिप्सितस्य सोमस्य विळम्बनरूपत्वात् प्रायणीयेऽनुयाजा (न) होतव्या इत्यर्थः ॥

एनन्मतं दूषयति

॥तत् तन्नाहत्यम् ॥ उक्तार्थम् ॥

॥ प्रयाजवदेवानुयाजवत् कर्तव्यम् ॥ प्रायणीयमित्येव । एव यतः ॥

॥प्राणा वै प्रयाजाः॥ प्रशब्दवत्त्वसामर्थ्यात् ॥

॥ प्रजानुयाजाः ॥ प्रजाया अनुयाजत्वं पितरमनुजान इति वर्णव्यत्यासेन निर्वचनात् ॥

तत्र,

॥ध्यतु प्रयाजानन्तरियात् प्राणांस्तद् यजमानस्यान्तरियात् ॥

अन्तरयस्त्यागः । यत् यदि । तत् तेन ।। ॥ यदनुयाजानन्तरियात् प्रजां तद् यजमानस्थान्तरियात् ॥

१. ‘यथा’ घ. पाठः,

  • ’ हीनं लुप्तम् इंडितं चलितम् । यदा अनूयाजा अपि क्रियन्ते तदा खल्वनिष्टोमाख्यं प्रधानकर्म विलम्बितानुष्टानमभवत् । हीनमिव भवति । लप्तं प्रधानकर्म यद् गुणकर्मसु विस्तारः क्रियते इत्येव हीनमिव मन्तव्यम् । तथा चलितं न्यूनं प्रधानकर्म यत् तद्धित्वा गुणकर्मसु श्रद्धां कुर्वन्ति इखेव चलितमिव मन्तव्यम्’ इति भट्टभास्करः. + पा. सू. ३-३-१३२. * ‘प्राणस्थानीयाः प्रथाजाः पञ्चत्वान्वयाद्’ इति भभास्करः, $ ‘तत्तथा न कार्यमात्मा वै प्रयाजाः प्रजानूयाजा यत् प्रथाजानन्त रियादात्मानमन्तरियाद् यदनूयाजानन्तरियात् प्रजामन्तरियातू ’ इति तै० सं० ६.१.५.

खण्डः]

द्वितीयोऽध्यायः

यत् यदि । तत् तेन । निगमयति

॥ तस्मात् प्रयाजवदेवानुयाजवत् कर्तव्यम् ॥ एव यथा । प्रयाजवत्त्ववदतुयाजवत्त्वमप्यादरणीयमित्यर्थः ॥ ताविलम्बः कथमित्याह -

॥ पत्नीन संयाजयेत् ॥ पनीसंयाज न कुर्यात् । तेनाविळम्बो भवतीत्यर्थः ।।

PRODAMOMOPARDP–

किन्न

॥ संस्थितयजुर्न जुहुयात् । तावतैव यज्ञोऽसंस्थितः ॥ संस्थितयजुर्नामावणां प्रसिद्धम् । (संस्थितयजुः १)। तावता संस्थितयजुरकरणेन यज्ञः असंस्थितः असमाप्त एव स्यात् ॥

किञ्च,

॥प्रायणीयस्य निष्कासं निदध्यात् तमुदयनीयेनाभि निर्वपेत् ॥

स्थाल्यां लग्नः पुलाको निष्कासः । उदयनीयेन ब्यथं टा उदयनीये कर्मणि । तमभि तस्य निष्कासस्योपरि निर्वपेत् ॥

१ ‘स्यात् प्रायणीयस्य-’ ध पाठ;

  • ‘प्रयाजवदेवानूयाजवत् प्रायणीयं कार्यम् । प्रयाजवदनूयाजवदुदयनीय नात्मान मन्तरेति न प्रजा न यज्ञः पराभवति न यजमान: तै० सं०६-१-५. + पत्नीस्तु न संयाजयेत् ’ आप. श्री. सू. १०-२१-१४. पनीसंयाजमन्त्राश्च— ‘आप्यायस्व समेतु ते सन्ते पयांसि समुयन्तु बाजा इह त्वष्टारमप्रियं तन्नस्तुरीयमध पोषयित्नु देवानां पनीरुशतीरवन्तु न इति द्वे अग्निहोता गृहपतिः स राजा हव्यवाडग्निरजरः पिता न इति पत्नीसंयाजा:’ आ. श्री. सू. १-१०-५. * ‘संस्थितयजुर्न जुहुयादिति । समिष्ट बजुहोमो न कर्तव्य इत्यर्थ.’ इति भभास्करः, ‘यज्ञस्य समिष्टत्वार्थाय यागहोमाः धाताराति: इलाद्याः समिष्टयजूंषि’ इति च भट्टभास्करीयतैत्तिरीयसंहिताव्याख्या ६-१-२. ‘प्रायणीयस्य निष्कास उदयनीयमभिनिर्वपति सैव सा यज्ञस्य सन्ततिः ते मं०६-१.५,

सवृत्तिके ऐतरेयब्राह्मणे

[पञ्चमः

किमर्थ,

॥ यज्ञस्य संतत्यै ॥ व्याचष्टे

॥ यज्ञस्याव्यवच्छेदाय ॥ ॥ अथोखलु यस्यामेव स्थाल्या प्रायणीय निर्वत्

तस्यामुदयनीय निर्वपेत् । तावतैव यज्ञः सन्ततो.

ऽव्यवच्छिन्नो भवति ॥ अथोखलु अथवेत्यर्थः। एवेति निष्कासोपरि निर्वापनिवृत्यर्थम् । तावतैव निर्निष्कासप्रायणीयस्थालीयोगेनैव ।।

अथ किश्चिन्मतमुपक्षिपति ॥ अमुष्मिन् वा एतेन लोके रानुवन्ति नास्मिन्नित्याहुर्यत् प्रायणीयमिति निर्वपन्ति प्रायणीयमिति चरन्ति प्रयन्त्ये

वास्माल्लोकाद् यजमाना इति ॥ उदयनीयमिति शेषः । यत् यदि । प्रायणीयमित्युदयनीयं क्रियते । *सा प्रायणीययोक्ता’ इत्यतिदेशात् तबुद्धया क्रियत इत्यर्थः । तदा एतेन उदयनीयेन यजमाना अमुष्मिन् लोके राध्नुयुः नास्मिन् । प्रयन्ति प्रेता भवन्ति । अस्माल्लोकादिति स्फुरणात् । इत्युदयनीयस्य प्रायणीयसादृश्यं निन्द्यमिति केचिदाहुरित्यर्थः ॥

दूषयति

॥ अविद्ययैव तदाहुः॥ . अज्ञानमविद्या ॥

  • ‘तस्यामेव स्थाल्यामनिष्कासितायां श्रपयति ’ आप० श्री. सू. १३-२३-२.. +आ• श्री. सू. ६-१४-२. ‘प्रायणीयावदुदयनीया’ आप० श्री. सू. १३-२३.१.

द्वितीयाध्याय..

अयं विशेषस्तैने ज्ञात इत्याह

॥ व्यतिषजेद् याज्यानुवाक्याः ।। व्यतिषको व्यत्यासः ॥

ज्यानवाक्या

॥ याः प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः कुर्याद् या उदयनीयस्य पुरोनुवाक्यास्ताः प्रायणीयस्य

याज्याः कुर्यात् ॥ व्यक्तम् ।।

॥ तद् व्यतिषजत्युभयोर्लोकयो:च्या उभयोलॊकयोः

प्रतिष्ठित्यै ॥ च स्यादिति शेषः । व्यतिषजति यत् तल्लोकळ्ये समृद्धथै प्रतिष्ठायै च स्यात् ॥ . ततो यजमानः,

॥ उभयोर्लोकयोभोत्युभयोलॊकयोः प्रतितिष्ठति ॥ समृद्धः स्यात् ।।

॥ प्रतितिष्ठति य एवं वेद ॥ सोऽपि ॥

• * ‘विपरीताश्च याज्यानुवाक्या:’ आ० श्री. सू. ६-१४-४. ‘याः प्रायणीयस्य याज्या यत्ता उदयनीयस्य याज्याः कुर्यात् पराडमुं लोकमारोहेत् प्रमायुकः स्थान था: प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य, याज्याः करोयस्मिन्नेव लोके प्रतितिष्ठति’

० सं०६-१-५,

-10

रावृत्ति के ऐतरेयनासो

[पञ्चमः

wami

॥ ३ प्रायणाया भवत्यादित्य उदयनीयो यज्ञस्य धृत्यै यज्ञस्य बर्सनौ यज्ञस्याप्रसंसाय ॥

  • निबन्धः । नदिनेहनम् । प्रासः स्टेसनम् । अदितेर्यः । यज्ञस्याद्यन्तयोरादित्यचरकरणमेवमर्थं भवति ।।

अत्र दृष्टान्तमाह –

॥ तद् यथैवाद इति ह स्माह’ ॥ तद् उक्तमरूपम् । अदो वक्ष्यमाणम् । यथेत्याह स्म उक्तवान् । वक्रनुक्तौ तु सर्वत्र स्वयं महिदासैतरेय एव वक्तेत्याह ॥

किं तदद इत्याह— ॥ तेजन्या उभयतोऽन्तयोरप्रसंसाय बसौं नह्यत्येवमेवैतद् यज्ञ स्योभयतोऽन्तयोरप्रस्नसाय बसौं नह्यति यदादित्यश्वरुः

प्रायणीयो भवत्लादित्य उदयनीयः । *तेजनी यष्टिः। __ आयन्तबन्यो वर्सः स्याद् रज्जुष्टिसमाश्रयः । उभयतः अप्रस्तंसायाशिथिलत्वाय नाति बधाति ॥

NRN

मन

PHPPORT

१. ‘माह उक्तमर्थरूपम् ‘, २. ‘बध्नाति पथ्ययैवेत: ’ घ. पाठः,

    • बर्सेन बन्धनेन रज्ज्यादिना नाः बर्सनाः । यथा वंशादिकं रजवादिनो भयोरन्तयोर्बध्यते एवमेकया देवतया उभयोत्तमोर्यको बन्यते’ इति भभास्कर: ‘बसों बन्धनविशेषः बन्धनविशेषनहनाय’ इति गोविन्दस्वामी. ’ पा० सू० ४.१-८५. * ‘तेजनी नाम रज्जुनिशेषः ’ इति भभास्करादगः,

खण्ड:

द्वितीयोऽध्यायः

॥ पथ्यथैवेतः स्वस्त्या प्रयन्ति पथ्या स्वस्तिमभ्युद्यन्ति ।

प्रयन्ति आरभन्ते । उद्यन्ति समासिं गच्छन्ति : अभि प्रति । प्रायणीयेष्टावादौ पथ्यावस्तिरभिः सोमः सवितादितिरिति । उदयनी येष्टावाज्यहविषामन्ते अभिः सोमः सविता पथ्यास्वस्तिरदितिरिति । * इतः । आमर्थे तसिल् । एषाम् आज्यहविषा

ततच,

॥ स्वस्त्येवेतः प्रयन्ति स्वस्त्युद्यन्ति स्वस्त्युद्यन्ति । $ इतः । जसस्तसिन् । एते । वस्तीत्यविनाशनाम ।

निर्माशमेवारभन्ते समाप्ति यान्ति वै तथा ! द्विरुक्तिरुक्तार्था ॥

पक्षमः खण्डः

इति पड्गुरुशिष्याविरचिनायो महिदासतरेयब्राह्मणतो

सुखप्रदायां द्वितीयोऽध्याय: ॥

  • १. ‘यथा’, २. ‘इति षड्गुरुशिष्येण विरचितायां ब्राह्मगव्याख्यायां द्वितीयोऽध्यायः ‘घ. पाठः,
  • आ० श्रौ० सू० ४-३-२. - ‘पथ्याखस्तिरिहोत्तमाज्यहविषाम् ’ आ० श्री. सू० ६.१४-३. तेष्वेव देशेवग्निमाज्यभागानां प्रथमं यजति पथ्यां स्वस्तिमुत्तमाम् । आप० श्री. सू० १३-२३.४. * ‘इतो लोकाद’ इति भट्टमास्करगोविन्दस्वामिनी, $ ‘इतः अस्मिन् कर्मणि’ इति सायणः,