॥ श्री। । ॐ। ऐतरेयब्राह्मणं श्रीषड्गुरुशिष्यविरचितसुखप्रदाख्यवृत्तिसहितम् श्रीगणपतये नमः
सुखप्रदा विनायकः शूलपाणिर्मुकुन्दः सूर्यो व्यासः शिवयोगीति ये षट् । तेभ्यो नमः सप्तविद्यामृतस्य प्रदातृभ्यः वाश्रितवत्सलेभ्यः ॥
आद्या सर्वानुक्रमणी द्वितीया महावत चोपनिषद्वयं च । *माहाव्रतं सूत्रमासां तृतीया चात्वारिंशं ब्राह्मणं वै चतुर्थी । सूत्रं पश्चन्यत्र षष्ठी तु गृह्म शाकल्यस्य संहिता सामीति । इत्येतदै सप्तविद्यामृताख्यं दत्तं वयं गुरुभिः षड्भिरेतैः ।।
- पञ्चममिदमारण्यकमैतरेयारण्यकस्य माहात्रतं सूत्रमिति । तथाच सायणाचार्यः “मनु प्रथमारण्यकेऽपि “अथ महाव्रतम् इन्द्रो वै वृत्रं हत्वा’ इत्यादिना महाव्रतप्रयोगो ऽभिहितः । पञ्चमेऽपि तस्यैवाभिधाने गुनरुक्तिः स्यात् । नायं दोषः । सूत्रब्राह्मणरूपेण तयोविभेदात् । पञ्चमारण्यकमृषिप्रोक्तं सूत्रम् । प्रथमारण्यकं त्वपौरुषेयं ब्राह्मणम् । अत एव तत्रार्थवादप्रपञ्चेन सहिता विधयः श्रयन्ते । पश्चमे तु न कोऽप्यर्थवादोऽस्ति । शाखान्तरगताश्च मन्ता बहव उपलभ्यन्ते । तस्माद् अर्थतस्य समानायस्य’ इत्यादि द्वादशाभ्यायवत् ’ महाव्रतस्य पञ्चविंशतिम्’ इत्यादि पञ्चमारण्यकं सूत्रमेव " इति ।
सवृत्तिके ऐतरेयत्राह्मणे
प्रथमः
वेदानङ्गोपाङ्गपूर्णांस्तु वन्दे यजुस्सामाथर्वबाजूच्यरूपान् । तेषां प्रवक्तृनपि शौनकादीन् ब्रह्मादिका देवता ब्राह्मणांश्च ॥ छन्दश्शास्त्रं व्याकरणं निरुक्तं शीक्षा ज्योतिश्शासनं कल्पसूत्रम् । अङ्गानि षड् न्यायविद्या पुराणं मीमांसनं स्मृतयश्चेत्युपाङ्गम् ।।
विनायको गुहरियो गिरीन्द्रजेशनन्दनः । सुरेन्द्रवृन्दवन्दितस्त्रिशूलपाणिरिन्दुभृत् ।। श्रुतीस्तु गा ररक्ष यः स देवकीसुतः प्रभुः । समस्तलोकलोचनं च सूर्य इष्टदृष्टिदः ॥ प्रणीतभारतामृतः पराशरात्मजो मुनिः। वरप्रदः स्मिताननः शिवादियोगिनामकः ।। इमे हि षट् प्रपान्तु मां सदा नमामि तानहम् । इमे हि मामयूयुजन् यथाश्रुतं वदेदिति ॥ तदैतरेयकं महत् प्रवर्त्यते यथामति । यथाश्रुतं यथास्मृतं महात्मनां प्रसादतः ॥
पापसंदृष्टं ब्राह्मणं तु यत् । । ‘अग्निर्वा’ इतिहारभ्य ‘स्तृणुतेस्तृणुते ‘ऽन्तकम् ।। चात्वारिंशाख्यषध्यायाश्चत्वारिंशदिहेति डण् ।* प्रतायते तस्य वृचिर्नान्ना चैत्रा सुखपदा ।। गोविन्दवामिकृष्णादिभाष्यदृष्टार्थभाषिणी। नास्या वृत्तेरर्थवत्त्वमनुक्तार्थोषपर्णनात् ।।
पाठः. २. ‘वदेरिति । क. पाठ:
- त्रिशचत्वारिशतोब्रामणे संज्ञायाँ हण’ पासू० ५-१-६२.
खण्डः ]
प्रथमोऽध्यायः
अनुक्तानामभावेन कित्येकत्रोपदर्शनात् । नद्यां काशाः कण्टका वृद्धगुल्फे पत्राचं राम्भमारामदेशे । तटाकादौ पुष्पजातं विचित्रं तैः शेखरः कुशलझेच साध्यः ॥
भाष्यकारैर्ब्राह्मणार्थे व्याख्यातेऽन्यो वदेत् कथम् । समुद्धृते महापातर्मुखबातः करोति किम् ॥ उक्तज्ञानेऽप्यशकानामनुक्तोक्तौ तु का कथा । न हलब्धानुगमनः क्रोडारोहाय रोदिति ।। उक्तोक्तिश्च गुणायैव सतां दोषाय चासताम् । प्रकल्पते भावभेदाद् भावा मिना भवन्ति हि ॥ जातो गोविन्द इत्यर्थः सदसद्भावितो यथा । मोक्षाय नरकायापि भावभेदात् प्रकल्पते ।। किञ्चिदुत्त्यभिसन्तुष्टा दोषान्धा गुणचक्षुषः । क्लेशज्ञाः पण्डिताः सन्ति वक्तुरत्र परायणम् ।। - अतः खल्वेषु सत्येव वृत्तिरेषा प्रवर्तते ।। *नहि भिक्षुकसत्त्वेन स्थालीनामनधिश्रयः ।। न चामयभयाल्लोके त्यज्यते भोजनं जनैः । सत्स्वेव मृगसंघेषु प्रोप्यन्ते कर्षकैर्यवाः ।। न तरङ्गानपोश्चैव स्नायते सागरे जनैः । न चाङ्गुलीनां पश्चानां साम्पमापाद्यते जनैः ।। वात्स्यायनीये सत्येव मोक्षधर्मः प्रवर्तते । येषामेषासम्मता स्यात् तेषां नैषा प्रदर्श्यते ॥
।
-
- नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । न च सृगाः सन्तीति यवा नोप्यन्ते’ इति न्यायप्रातिपदिकादिति सूने महाभाष्यम् ।
सवृत्तिके ऐतरेयब्राह्मणे
[प्रथमः
Py
न्यवृतं किं सगालानाममतो दक्षिणानिला (१) । किं वा कामक्रोधलोमाः शास्त्राणां प्रतिषेधताम् ।। किं वा पिपासतापर्थे स्वादुतामेति सागरः । सुदुष्करतमं चेदं ब्राह्मणार्थोपवर्णनम् ॥ मातुरङ्के निषण्णेन यथा बालेन चन्द्रमाः ।
आहूयमानो नाभ्येति तद्वद् वेदार्थ ईप्सितः ॥ तथापि गुरुषट्कोक्तेरेषा वृत्तिः प्रवर्तते । ब्राह्मणारण्यकद्रष्ट्रे मातृशोकौघहारिणे ॥
महिदासैतरेयाय नमो भूयो नमो नमः ॥ अत्रैतरेयर्षिमहेतिहासं पुराणवेदोदितमाहुरायोः । *आसीद् विप्रो यज्ञवल्को द्विभार्यस्तस्य द्वितीयामितरेति चाहुः ॥ स ज्येष्ठयाकृष्टचित्तः प्रियां तामुक्ता द्वितीयामितरेति होचे। तस्यां जातोऽथ शिशुः संरुदन् स मोक्तो मात्रा दुष्ट तूष्णीं भवेति ॥
अनेकजन्मस्मृतियोगमाजा मूकायितं तेन महात्मनापि । यद् वासुदेवेति महत्तु नाम विष्णोः प्रवक्ष्यामि तदेव मौनी ॥ अन्यैः प्रलापैः किमिहेति मत्वा जजाप जप्यं परमं मुमुक्षुः । ज्येष्ठासुता वाग्मिनो दर्पयुक्ताश्चेरुः सपुत्रामितरां प्रहस्य ।। आहूतास्ते याजनायान्यदेशे यियाणा केचिद् ब्राह्मणेन । प्रयोगेषु कुशला दर्पयुक्ताः समं पित्राथाजयस्तं समेत्य ॥
१. ‘द्वितीया महिषीतरेति’ ग. पाठः,
- यज्ञवल्कश्वायं पुराणादावन्वेष्टव्यः । सायणाचार्यस्तु ’ कस्यचित् खलु महर्बह्वयः पन्यो विद्यन्ते स्म । तासां मध्ये कस्याश्चिदितति नामधेयम्’ इत्याह ।
खण्ड:
प्रथमोऽध्यायः ।
तस्माद् देशादागताः केचिदत्र गृहे यज्ञं तं प्रवृत्तं शशंसुः । खपुत्रपूजाश्रवणेन हृष्टां ज्येष्ठां सपत्नीमितरा निरीक्ष्य ॥ स्वमूकपुत्रस्य समीपमेत्य स्वजन्म पुत्रं च विगर्हयन्ती । उवाच शोकानिविदीप्तदेहा’ स्वभायैः स्वावमानं विचिन्त्य ॥ किं जीविते मे मरणं वरेण्यमकालतो दुर्मर खल्वहो धिक् । वन्ध्या कृतार्थो खलु नैव यस्यास्त्वं मूकरूपो भवसीह पुत्रः ।। भर्ना सपत्न्या तनयैश्च तस्यास्त्वां सूत्वाहं बाधिता मुश्च वाचम् । यमोऽपि मां जीवयन् पापकारी नैवविधं नरके दुःखमाहुः ॥ इति श्रुत्वा वचनं सोऽपि तस्या उवाच तां हर्षयन् शोकतप्ताम् । आत्मारामो नैव मूकोऽहमम्ब जपं तु मोक्षाय करोमि मौनी ॥ रुदंस्तूष्णीं भव दुष्टेति चोक्तस्तथाभवं नैव मूकोऽहमम्ब । सम्प्रत्युक्तो मुश्च वाचं सुतेति वक्ष्यामि वाचं तव हर्षवृद्धयै ॥ यत्रासते भ्रातरो मे पिता च गत्वा वदिष्यामि तु तत्र वाचम् । इत्युक्त्वागान्मूकरूपो महात्मा भक्तिं वहन् पुण्डरीकायताक्षे ।। मेघौघसंछन्नदिवाकराभो भस्मप्रतिच्छन्नहुताशनाभः । यज्ञे स्थिता भ्रातरो दर्पयुक्ता आयान्तमालक्ष्य च मूकमेनम् ॥ मूकस्य यज्ञे किमिहेति दन्तान् प्रकाश्य ते चक्रुरथाट्टहासम् । स चापि तं यज्ञमनुप्रविश्य त्वारोहुमकं पितरं प्रपेदे ।।
१. ‘तेजा’ ख. पाठः. १. ‘स्वमान्यैः । क, ख. पाठ:. ३, भिवतीह’ घ. पाठः. ४. ‘आयान्तमालोक्य’ क. पाठ..
सवृत्तिके ऐतरेय ब्रामणे
[प्रथमः
.
ANKARMA
.
मा’ मा स्पृक्षो मूक दुष्टेति चोक्ता क्रुद्धः पिता न्यरुधत्वैतरेयम् । ब्रह्मादिभूतानि तृणावराणि न सेहिरे तस्य तदावमानम् ॥ *विष्णुप्रियद्वादशवर्णमन्त्रजपप्रसंक्षाळितदुःखराशेः । ब्रह्मर्षिमुख्यस्य समस्तरेदवेदाङ्गनिष्णातविशुद्धबुद्धः ॥
क्षमागुणाधारभूतापि देवी वसुन्धरा नाशकत् तद्धि सोडुम् । सदोहविर्धालतलं विदार्य सहस्रबर्योद्गमतुल्यरूपा ॥ ऊर्ध्वं जगामात्मविभूषणैश्च महाझुतैः शोभितसर्वदेहा ।
सुवर्णमुक्तामणिरत्नचित्रं सिंहासनं सर्वतोभद्रमाशु ॥ स्वयं कराभ्यां कमलोपमाभ्यां तस्मै ददौ सासनं दिव्यरूपा । पित्रा सपनीतनयः सदस्यैदृष्टा सुरषिप्रमुखैश्च भूतैः॥ उवाच चैनं स्मितशोभिवक्त्रा विष्णोः प्रिया सा धरणीधरस्य । कुमार किं ते पितुरकेन सुतैः सपत्न्याः परिमर्दितेन ॥ ब्रह्मादिपित्रा खलु विष्णुना त्वं सलालितो मां धरणीति विद्धि भयोपनीतं त्वधिरोह पुत्र सिंहासनं सर्वतोभद्रमाशु ॥
A
I
top
RAND
३. ‘विभूषणैस्तु’
१. ‘मां’ क. पाठः. २. ‘भूता तु’ घ. पाठः. पाठः ४. ‘महात्मभिः’, ५. ‘सुलालितो’ घ. पाठः,
___ * *ओ नमो भगवते वासुदेवाय ’ इति विष्णुद्वादशाक्षरी. + ‘कस्यांचिद् यज्ञसभायां महिदासमवज्ञायान्यान् पुत्रान् स्वोत्सने स्थापयामास । तदानी खिन्नवदनं महिदासमवंगत्सेतराख्या तन्माता स्वकीयकुलदेवता भूमिमनुसस्मार । सा च भूमिर्देवता दिव्यमूर्तिधरा सती यज्ञसभायां समागत्य महिदासाय दिव्यं सिंहासनं दत्त्वा तत्रैनमुपवेश्य सर्वेष्वपि कुमारेषु पाण्डित्याधिक्यमवगमध्यैतद्ब्राह्मणप्रतिभासनरूप वरं ददौ’ इत्येवं
भूमिमितरायाः कुलदेवतामाइ सायणः ।
प्रथमाध्यायः
ala
अत्राधिरूढस्य तव प्रसाद करिष्यति ब्रह्मगोऽजनाभः । श्रुत्वा धरिच्या वचनं स चापि सर्वैष्टिस्त्वारुरोहासनं तत् ।। अथाधिरूढस्य तदाविरासीदग्न्यादिकं विस्तृणुतेन्तकं च । चात्वारिंशं ब्राह्मणं प्रायणीयायहां चतुर्विंशतिकेन युक्तम् ।। एषामङ्गीक्षणीयादिभिश्च प्रासनिकै राजधर्मादिभिश्च । समाप्य स ब्राह्मणं सर्वमन्ते कुत्वोंकारं विरतो ब्रह्मनिष्ठः ॥ ब्रह्मादिभिश्वोदितो मा विरंसी ब्रह्मनसि त्वैतरेयो महात्मा ।
आरण्यक त्रिविधं वै ददर्श महाव्रतं चोपनिषद्वयं च ।। ततः सर्वेऽपूजयस्तं समेताः पित्रादयः सह देवर्षिसंधैः ।
आरण्यकान्ते प्रणवं स कृत्वा ह्यबारोहदासनाद् भूमिदत्तात् ॥ ततो देवी धरणी सा तिरोभूत् तच्चासनं ते च सुरर्षिसंघाः । सदोहविर्धानतलं विदीर्ण सुश्लिष्टमासीद् वट्टतेऽथ यज्ञः॥ अथेतरा सर्वलोकप्रसिद्धं तद् ब्राह्मणारण्यकदर्शनं वै । श्रुत्वा जहांथ पिता समेत्य सहैव पुत्रैरितरां सपुत्राम् ।। अपूजयत् सा सपनी तथैनामसान्त्वयत् सत्लुतं चैतरेयम् । स चापि मातुः प्रियन्महर्षिः पित्रादिभिः समनुज्ञात एव । वनं प्राप्य तत्र तप्त्वा तपश्च प्राप ब्रह्म दुर्वचं सूरिदृश्यम् ।
अप
ह
१. ‘तत्राधिरूढस्य ‘घ. पाठः, २. ‘सर्वमाशु’ ग. पाठ:. ३. ब्रह्मन्निति’ क. पाठ: ४. ‘विदीप्तं’ ध. इ. पाठः,
सवृत्तिके ऐतरेयब्राह्मणे
[प्रथमः
स चैतरेयस्त्वितरासुतत्वात स्त्रीभ्यो ढका महिदासस्तथैष ।। महीप्रणीतासन आसनाच स्वाम्बासपनीमदनाशनाच्च । महादानादू वेदरूपाच नाम त्रिधा निरुक्तं तु पृषोदरादि ॥
• भट्टभास्करस्त्वैतरेयपदमेवं निते–‘इतरस्य ऋषेरपत्यमैतरेयः । शुभ्रादिभ्यश्च (४-१-१२३) इति ढक्’ इति ।
ऐतरेयारण्यकव्याख्याने खकृते मोक्षप्रदाख्ये ‘एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः’ इत्यस्य व्याख्यानावसरे षद्गुरुशिष्य एवमाह
‘ऋषिर्दष्टा स्वमात्मानं पारोक्ष्येणाह चान्यवत् ।
एतनानाम्यहं नान्यदित्यात्मानं विभावयन् ॥ इतराख्यास्य माताभूत स्त्रीभ्यो ढक्यैतरेयगीः । महिदासो महीदत्तमहासनसमासनात् ।
अबोचाम ब्राह्मणादौ माहिदाखेतिहासकम् ॥ इति । +. पा० सू० ४-१-१२०. * ऐतरेयोपनिषन्माध्वभाष्ये —- ‘प्रादुर्बभूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनानः ।
तस्मिन् गतेऽश्वरमभूत सुरविप्रसंघो निश्चेतनखदतु पद्मभवोऽमुमस्तोत् ॥ तेन स्तुतः स भगवान् गिरिशेन्द्रमुख्यान् सर्वानबोधयदजेन सहैव तेऽथ । दासत्वमापुरत एव महत्सुराणां दासत्वतः स महिदास इति प्रसिद्धः ॥ शृण्वत्स तेषु भगवानवदद् रमायै दिव्यां श्रुति स परमोऽतिमुदैतरेयीम् ।
सा बचैः अपठिता चतुराननास्याद् यस्यां रहस्यमुदितं परमं हि विष्णोः ॥’ इति, माध्वब्रह्मसूत्रभाष्ये प्रथमाध्यायप्रथमपादान्त्यसूत्रसाध्ये–
‘महिदासाभिधो जज्ञे इतरायास्तपोबलात् ।
साक्षात् स भगवान् विष्णुर्थस्तन्त्रं वैष्णवं व्यधात् ॥ इति ब्रह्माण्डे’ इति च दृश्यते।
१. महि+दा+आसू=महिदासः । ‘मह पूजायां’ चुरादिरदन्तः । तस्माद् ‘अच इ:’ महिः भूमिः ‘दाश् दाने ‘. ‘आस उपवेशने ‘.
२. मद+अस्. मध्ये हिरागमा-महिदासः. असु क्षेपणे’ । यदूवा महिला+मद+अस्. लाकारमकारयोर्लोपः,
३. महि+दार=महिदासः. ‘मह पूजायाम् ’ इति पूज्यत्वाद् महिर्वेदः, ‘दास दाने’.
खण्ड:
प्रथमोऽध्यायः ।
कथा चैषा माहिदासैतरेयी श्रुता प्रोक्ता संस्मृता पूजिता च । श्रद्धान्वितै रास्तिकैः सर्वसिद्ध्यै प्रकल्पेतेत्येवमाहुमहान्तः ।। प्रथमं तावद् दीक्षणीयां ज्योतिष्टोमाङ्गभूतामिष्टिं विधातुं तहेवते अनाविष्णू स्तौति–
॥ ॐ अग्नि देवानामवमो विष्णुः परमः॥ __ अवमः प्रथमः मुखमित्यर्थः । ‘यदिन्द्रानी अवमस्या पृथिव्याम् । इति यथा । वक्ष्यति च–‘अग्नि देवानां मुखं मुहृदयतमः इति । मन्त्रश्च भवति—‘अग्निर्मुखं प्रथमो देवतानाम् ’ इति ।
निखण्टौ पार्थिवे काण्डे पठ्यते चाग्निरादितः ।। वैशब्दः प्रसिद्धयर्थः । देवानामिन्द्रादीनां मध्ये । विष्णुः परमः । वै देवानामित्येव । परमः उत्तमः । ‘देवतानां सङ्गतानामुत्तमो विष्णुरासीद्’ इति हि मन्त्रः ।
विष्णुश्च देवताकाण्डे द्युस्थाने तूत्तमः स्थितः । ॐ किञ्च,
ज्योतिष्टोमान्त्यसंस्थायामप्लोमे महाक्रतो । त्रयस्त्रिंशच्छत्रयुते विष्णुः शस्त्रेऽन्तिमे स्थितः । ज्योतिष्टोमादियज्ञेषु सर्वत्रैवाग्निरादितः ।
आद्यन्तशस्त्रस्थितयोस्तयोरुत्तममुख्यता ।।
१. ‘श्रुतान्वितैः’ क. पाठः, २, ‘उत्तमे ‘घपाठ:. ३ ‘आज्यशस्ने स्थित इति तयो’ क. पाठः,
MO
R
E
.
.
.
..
- ‘अवमा अन्तिमः, परमः प्रथमः’ इति गोविन्दस्वामिभाध्यम् • ऋकसं० १-७-२७-१.. ऐ० ब्रा० ३३-४. ६ आ. श्री० ४-३-३. " अथातोऽनुक मिष्यामोऽमिः पृथिवीस्थानस्तं प्रथमं व्याख्यास्यामः’ यास्कनिरुतम् ४-१४. १ आ.
धौ. ४-२-३.सवृत्तिके ऐतरेयब्राह्मणे
प्रिथमः
॥ तदन्तरेण सर्वा अन्या देवताः ।। तत् औटो लुक् । तावन्तरेण तयोर्मध्ये सौमिक्योऽन्याः सर्वा देवताः।
तमादायन्तयोगेन सर्वा’ इष्टा भवन्ति हि । इति भावः॥ ॥आमावैष्णवं पुरोळाशं निर्वपन्तिा दीक्षणीयमेकादशकपालम्॥
लिङर्थे लेट् । निर्वपेयुः।
अण् सास्य देवताद्वन्द्वादान वृद्धिः पदद्वये । इवृद्धौ विष्णौ निषेध इत्यानडिह वार्तिकात् । दीक्षतेः संकल्पनार्थात् करणेऽनीयरा पदम् । ॥ छो वा भावे ल्युटोऽनुप्रवचनादेः प्रयोजनें । एकादशकपालेषु पुरोळाशस्तु संस्कृतः । *द्विगो गनपत्येऽणः संस्कृतंभक्षसूत्रतः । अश्मध्यडढयोः स्थाने मलौ प्राहुस्तु’ बचाः। ईळेमुळपुरोळाशहळासाहला निदर्शनम् ॥
१. ‘सर्व’ घ, ङ, पाठ..
लट’, ३ ‘प्राहुश्च’ क. पाठः
__ * पुरस्तात् पूर्वस्यां दिशि आहवनीये दीयते हूयते इति पुरोडाशः पिष्टमयो हविर्विशेषः । + शकटावस्थापितव्रीहिसंघाभिस्कृष्य मुष्टिचतुष्टयपरिमितानां ब्रीहीणां शूर्पे प्रक्षेपो निर्वापः। * पा. सू. ३-४-७. 8 ‘सास्य देवता’ पा. सू० ४-१-२४. 2 ‘देवताद्वन्द्वे च’ पासू० ६-३-२६. ‘देवताद्वन्द्वे च’ पा० सू० ७-३-२१. ॥ पा. सू० ६-३-२८. ॥ ’ अनुप्रवचनादिभ्यश्छः’. पा. सू. ५-१-१११, * पासू०४-१-८८ * पा० सू• ४-२-१६.
खण्डः
___प्रथमोऽध्यायः
ततश्व,
॥ सर्वाभ्य एवैनं तदेवताभ्योऽनन्तरायं निर्वपन्ति ॥ एनं पुरोडाशम् । अनन्तरायं निर्विशेषम्’ । तत् टालुक् । तेन ॥
कथम्,
॥ अग्निवै सर्वा देवताः ॥ सर्वदेवतानां मुखत्वात् ।।
॥विष्णुः सर्वा देवताः ॥ वै हत्येव । परमत्वात् ।। पुनः स्तौति
॥ एते वै यज्ञस्यान्त्ये तन्वौ यदग्निश्च विष्णुश्च ॥ चशब्दाभ्यामन्ययोगो विष्णोरग्नेश्च मूच्यते । * अहं च त्वं च वृत्रहन्’ धर्मे चार्थे च वै यथा ॥ . अन्ते भवा अन्त्या। दिगादित्वायत्त । अन्त्या चान्त्या चान्ये । एकोऽन्त्याशब्द’ आद्यार्थे, आद्यान्त्ये तन्वौ द्वे शरीरे । यत् यौ ॥
ततः किं,
॥ तद्यदानावैष्णवं पुरोळाशं निर्वपन्त्यन्तत एवं
तदेवानृभुवन्ति ॥ तदिति वाक्योपन्यासे । यद्यस्माद् अन्तत आद्यन्तयोः वत् तस्मात् । ऋधिः स्वादिः परिचरणार्थः । परिचरन्ति !!
१. ‘निरवशेष’ क. पाठः, २. ‘अन्त्यशब्द’ घ. कु. पाठ:.
• ऋक्सं० । ६-४-२३.५. ‘दिगादिभ्यो यत्’ पा. सू. ४-३-५४. * ‘यदानावैष्णवमेकादशकपालं निर्वपति देवता एवोमयतः परिगृह्य यजमानोऽवरुधे । इति तैत्तिरीयश्रुतिः।
सवृत्तिके ऐतरेयब्राम में
प्रथमः
॥ तदाहुः॥ तत् तत्राहुबोधमिति सर्वत्रास्यार्थ इष्यताम् ।। चोधखरूपमाह
॥ यदेकादशकपालः पुरोळाशो द्वावनाविष्णू
कैनयोस्तत्र कृप्तिः का विभक्तिरिति ॥ यद् यदि एनयोर्देवतयोः । तत्र पुरोळाशे । क्लृप्तिः सङ्गमः संश्लेषः । विभक्तिर्विभागः पृथक्कारः ।
कपालानामयुक्त्वेन समसंख्या न युज्यते’ । इति भावः ॥
इतिश्चोयसमाप्त्यर्थः ।।
__ परिहारं ब्रवीत्यथ
॥ अष्टाकपाल आग्नेयः ॥ कपालाष्टकसम्बद्धो भागः स्यादग्निदेवतः ॥ कुत एतत्,
॥ अष्टाक्षरा वै गायत्री ॥ वक्ष्यति हि’–‘ततो वा अष्टाक्षरा गायच्यभवद्” इति ।
गायच्या ये त्रयः पादास्ते ह्यष्टाक्षरसंयुताः ।। ततः कि
॥ गायत्रमग्नेश्छन्दः ।। गायव्येव गायत्रम् । स्वार्थिकोऽ। ‘स गायत्रीमेवाग्नये वसुभ्या’ इति वक्ष्यति ।
१. विद्यते ’ ग. पाठः २. ‘समाप्त्यर्थः । परिहरति भष्टा । घ. पाट:. ३. ‘च’घ, ह. पाठः.
।
ऐ० प्रा० १३-४. + ऐ० प्रा० १२-२.
.
खण्ड:
प्रथमोऽध्यायः ।
ATO
CRPFORMA
कपात
८९९
स्वच्छन्दोक्षरगाष्टत्वं स्वकपालेऽपि’ गृह्यताम् । इति भावः ॥
अथावशिष्ट,
॥ त्रिकपालो वैष्णवः॥ कपालत्रयसम्बद्धो भागः स्याद् विष्णुदेवतः ॥ एतदपि कुतः,
॥विहींदं विष्णुर्यक्रमत ॥ ‘के पादविहरणे"" इति तङ् ।
त्रिभिः पदैर्जगदिदं पुरा विष्णुर्विचक्रमे ॥ कथं विष्णोविक्रमणं बभूव समस्तलोकैकधुरन्धरस्य । अत्रेतिहासं कथयन्ति वृद्धाः शक्रे जिते बलिना त्यतराज्ये ।। अदित्यभिप्रार्थनया तु तस्यां जातो हरिमिनो लोकभूत्यै । रूपेण तेनैव च शोभमानो यस्याङ्गुल्यः षोडशासन प्रमाणम् ॥ दत्तैर्वसिष्ठादिमहर्षिभिस्तु युक्तोऽजिनायैः प्रथमाश्रमाः । उच्चैर्वदन्ऋग्यजुषं ससाम सन्नादयन् ब्रह्मघोषेण लोकान् ।। गत्वा बलेयज्ञवादं प्रविश्य स्तुत्वा यज्ञमृत्विजोऽनीन् सदस्यान् । पदत्रयं सोऽथ बलिं ययाचे वहेरेकं समिदर्थं तथैकम् ।। ममाप्येकमिति स स्माह किं ते त्रिपद्यान्यद् वियतां गोधनादि । तदर्थभ्यो दीयतामित्यनेन प्रोक्तः सोऽस्मै त्रिपदीमेव चादात् ।। पाणौ तोये पतिते वामनोऽथ भूत्वा महान् व्यक्रमताखिलं सः। सपानाला पदमाचं धरित्री द्वितीयं वै खं तृतीयं स्वरादि ॥ १. ‘कपालेधु’ घ. हु पाठ:. २. विप्राः ’ क. घ. पाठः. ३. प्रार्थनयाशु’ क. पाठ. ४. ‘त्रिपदान्यद ’ ख, पाठः, ५ ‘ध्रियतां ’ . पाठ:.
- इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ’ १-२-५-२, त्रीणि पदा विचक्रमे गोपा अदाभ्यः १-२-७-३. इति च ऋक्सहिता. + पा० सू. १-३-४१.
(प्रथमः
सवृत्तिके ऐतरेयनामणे चतुर्दशैवं भुवनानि जित्वा दत्त्वेन्द्राय सुतले त बलिं च । वसेत्युक्त्वा देववेदद्विजांश्च यज्ञान्वितान् कृतवान् वै पुरेति ॥ अथापरे वर्णयन्तीतिहास मुभा जिग्येत्यादिके वक्ष्यमाणम् । इन्द्राविष्णू युधि जित्वा तु दैत्यानवोचतामाचरामात्र क्लप्तिम् ॥ युद्धेनालमिति स स्मेन्द्र आह यावद् विष्णुर्विक्रमते त्रिरेषः । तावन्नोऽस्तु युष्मदीयं नतोऽन्यदिति प्रोक्तं तैस्तथेत्येव दैत्यैः । ततो विष्णुव्यंक्रमत त्रिरेव लोकान् वेदान् वाङ्मयं च त्रिपद्या । सर्वे लोकाः पदमाद्यं द्वितीयं सर्वे वेदा वाङ्मयं वै तृतीयम् ।। एवं विष्णोविक्रमाद् दैत्यसंघे पराजिते त्यक्तवाग्लोकवेदे । ततो देवा वाङ्मयलोकवेदान् लब्ध्वा हृष्टाः सुखमापुः पुरेति । इत्थं विष्णोर्विक्रमणं बभूव समस्तलोकैकधुरंधरस्य ।
॥ सैनयोस्तत्र कृप्तिः सा विभक्तिः ॥ उक्तार्थम् ।। अथात्रैव पुरोगाशस्थाने चरुमाह
॥‘घृते चरुं निर्वपेत योऽप्रतिष्ठितो मन्येत ॥ दीक्षणीयमानावैष्णवमित्येव । स प्रतिष्ठावान् स्यादिति शेषः । वपिः स्वरितेत् ।
यो मन्येताप्रतिष्ठोऽहं स्यां प्रतिष्ठान्वितस्त्विति । सोऽमाविष्णू यजेताज्ये पक्केन चरुणा द्रुतम् ॥
१. ‘जित्वाशु’ क. पाठ:. २ ‘चरामानु’, ३. स स्माह इन्द्रो यावत् ’ घ. उ. पाठः.
- ऐ० प्रा० २८-७. ‘आमावैष्णव कादशकपालं निर्वपत्यामावैष्णवं वा धृते चरं पुरोडाशो ब्रह्मवर्चसकामस्य घृते चरुः प्रजाकामस्य पशुकामस्य वा’ इत्याप स्तम्बश्रौतसूत्रम् १०-४-२.३.
खण्ड:
प्रथमोऽध्यायः
"
एनां धृतचविष्टिं स्तौति —
॥ अस्यां वाव स न प्रतितिष्ठति यो न प्रतितिष्ठति ॥ अकृतायामिति शेषः । वावेति प्रसिद्धयों निपातः । अस्यां तु कृतायां प्रतिष्ठितः स्यादेवेति भावः ॥
विविच्य स्तौति—
॥ तद् यद् घृतं तत् स्त्रियै पयः॥ तत् तत्र । स्त्रियै । उसो २ । स्त्रियाः। पयः शोणितम् । प्रजनार्थाद् वयते: करणेऽसुन् । वकारस्य पकारः ।।
॥ ये तण्डुलास्ते पुंसः ॥ . पय इत्येव । रेतः।
घृततण्डुलयोस्तुल्ये वर्णतो रक्तरेतसी ।।
॥ तन्मिथुनम् ॥ तद् घृततण्डुलरूपं वस्तु स्त्रीपुंसयुगळम् ।। ततः किम् ,
॥ मिथुनेनैवैनं तत् प्रजया पशुभिः प्रजनयति ॥ एनं यष्टारं तद् घृततण्डुलरूपं कर्मकर्तृ प्रजया पुत्रादिकया पशुभिर्गवादिभिः प्रजनयति । जनियर्थः । प्रवर्द्धयति ।।
अथ विदुषः फलमाह –
॥ प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ॥ प्रजात्यै समृद्धयै प्रजायते सम्पद्यते ॥ __ अत्र द्वौ कल्पौ । आधानानन्तरं सोम इत्येकः, दर्शपूर्णमासा वेवेत्यपरः । तत्र द्वितीयं कल्पमाश्रित्याह
. पाठ..
२.
मिथुनेनैव वैनं ‘घ. पाठः.
१. ‘भावः । तद् यत् । घ ३ ‘रूपं कर्तृ प. ङ, पाठा,
सवृत्तिके ऐतरेयब्राह्मणे
प्रथमः
॥ आरब्धयज्ञो वा एष आरब्धदेवतो यो
दर्शपूर्णमासाभ्यां यजते ॥ सर्वेष्टिप्रकृतित्वाद् दर्शपूर्णमासयोः॥
ततश्च ॥आमावास्येन वा हविषेष्ट्वा पौर्णमासेन वा तस्मिन्नेव
हविषि तस्मिन् बर्हिषि दीक्षेत ॥ वाशब्दो समुच्चयार्थे । सूज्यते हि-*अर्ध्वं दर्शपूर्णमासाभ्यां यथोपपत्त्येके मागपि सोमेनके ’ इति । अमावास्यायां भवमामावास्यम् । तथा पौर्णमास्यां भवं पौर्णमासम् । हविषि इष्टे सति बर्हिषि स्तीर्णे प्रहृते सत्येव अनन्तरं दीक्षेत दीक्षणीयेष्टिं कुर्यात् ।।
॥ एषो एका दीक्षा ॥ एषा उ अपि एका काचित् ।। अथ सर्वत्राह
॥ सप्तदश सामिधेनीरनुब्रूयात् ॥ * समिधामाधाने घेण्यण’ । डीम् ।
प्रवो वाजे ति सूक्तोक्ता ऋचः पञ्चदशात्र तु । समिध्यमानवत्याच समिद्धायाश्च मध्यतः । ‘पृथुपाजाः तं सबाध’ इति द्वे आवपेचौ ॥
॥
- आ. श्री. ४-१-२, ‘अथ दर्शपूर्णमासावारभते ताभ्यां संवत्सरमिष्टा सोमेन पशुना वा यजते’ इति चापस्तम्बत्रौतसूत्रम् ५.२३-२. पा. सू. वा. ४-३-१२०. * ऋक्सं०३-१.२८-१,
खण्ड:
प्रथमोऽध्यायः ।
।
सप्तदशसंख्यां स्तौति -
॥ *सप्तदशो वै प्रजापतिः॥ प्रजापतिरिति संवत्सर उच्यते । सप्त च दश चेति द्वन्द्वान्मत्वर्थे इट् टिलोपश्च ।। कथम्,
॥ द्वादश मासाः ॥ चैत्रायाः॥
॥ पश्चर्तवः ॥ ननु षट् ते वसन्तायाः पञ्चता कथमुच्यते–
॥ हेमन्तशिशिरयोः समासेन ॥ पञ्चेत्येव । समसनं समासः, मेळनम् । एतच्च हिमशीत
गुणयोगकृतम् । तयोर्भेदेन संख्यान ऋतूनां षट्वमिष्यते ।।
॥ तावान् संवत्सरः॥ तावान् तत्परिमाणः ।।
॥ संवत्सरः प्रजापतिः॥ प्रजाः पाति रक्षति । पातेडतिः ।।
SAPP
A
PPRAPH
.
१.
पतिः । अत्र प्रजा’ प. अ. पाठः, २, “समानेन इति मुद्रितपाठः
- ‘सप्तदशावयवाः परिमाणमस्येति छान्दसो ४ः, यता, सप्तदशानां पूरणाः सप्तदशाः अवयवाः अस्य सन्तीति अर्शादिलक्षणो मत्वर्थीयोऽप्रत्ययः’ इति भाभास्कर:. उणादिसू. ४.५८.
.- ऐतरेयब्राह्मणे
‘तायः
तायः
॥ प्रजापत्यायतनाभिरेवाभी रानोति ॥ आभिः सामिधेनीभिः सप्तदशसंख्यावत्त्वेन प्रजापतिस्थानभूताभिः यजमानो रानोति श्रियं प्रामोति ॥
॥ य एवं वेद ॥ सोऽपि रानोति ॥
प्रथमः खण्डः
अथ दीक्षणीयेष्टिप्रसङ्गादिष्टिशब्दं निराह
॥ यज्ञो वै देवेभ्य उदकामत् ॥ वै पुरा । देवेभ्यः अनुष्ठाभ्यो यज्ञ उत्क्रान्तवान् । अथ ते देवाः,
- ॥तमिष्टिभिः प्रैषमैच्छन् । तमुत्क्रान्तं यज्ञम् । प्रैषम् । इपेस्तुमर्थे णमुल् । अन्वर्थे प्रशब्दः । अन्वेष्टुमैच्छन् ।
-
प्रैषमैच्छंस्तदिष्टीनामिष्टित्वम् ॥ * टेशब्दो न तु यजेरित्यर्थः ॥ अन्विष्य च,
॥ तमन्वविन्दन ॥ तं यज्ञम् । विदि भे। लब्धवन्त इत्यर्थः
- इच्छन्ति यज्ञमाभिरितीष्टिशब्दव्युत्पत्तिः, यजतिधातोरिटिशब्दः प्रसिद्धः सर्वत्र, अन विच्छतिधातोरिति विशेष: ’ इति सायणः.
खण्ड:
प्रथमोऽध्यायः ।
॥
अथ विदुषः फलमाह
॥ अनुवित्तयज्ञो रानोति य एवं वेद ।। अनुवित्तो लब्धो यहो यस्य स एवंभूतः सन् राधोति ।।
निराह ॥ ‘आहूतयो वै नामैता यदाहुतयः ॥ यद् याः आहूतया, ता एता आहुतयः । परोक्षत्वाय दीर्घस्य इस्खा ॥
कुत एतत् ,
॥ एताभिर्वै देवान् यजमानो हृयति ॥ वै यस्मात् ॥
॥ तदाहुतीनामाहूतित्वम् ॥ तत् तस्मात् ॥
अथाहूतिशब्द ऊतिशब्द एवार्थवान् । आहित्ययं’ शब्दस्तूप जन इत्याह—
॥ ऊतयः खलु वै ता नाम ।। ता आहुतयः ऊतयः खलु ॥
+And
१. ‘आहु इत्यय’ घ. पाठः,
- ‘हृयतेः करणे क्तिन् ’ इति भभास्करः. ‘यस्याभिरिति तव्युत्पत्तिः । जुहोतिधातोरुत्पन्नः शब्दः पूर्व प्रसिद्धः । अयं तु यतिधातोरुत्पन्न इति विशेषः’ इति सायणः. + ‘परोक्षप्रियवाद् देवानाम् । कथं पुनरासामाहुतित्वमिलाह-एताभिरिति । परोक्षवाय हस्वत्वं कृत्वा आहुतय इति भावः’ इति भहमारकरः, - ‘अवतेगेतिकर्मण आधुपसृष्टार्थवत्तेः करणे तिनि ज्वरत्वरादिना ऊठि रूपम्’ इति भभास्करः । अवन्ति रक्षन्तीत्यवतेर्धातोरूतिशब्दः प्रसिद्धः । आयत्यागच्छन्ति, याभिरित्यापूर्वकस्यायति धातोर्वा वर्णविकारणोतिशब्दः’ इति सायणः.सवृत्तिके ऐतरेयब्राह्मणे
-RA
एता ऊतय इत्याह ~~
॥ याभिर्देवा यजमानस्य हवमायन्ति ये वै पन्थानो
वा ऊतयः॥
*हवं यज्ञमायन्ति आगच्छन्ति । ऊतय इत्यस्य विवरणं श्रुतय इति । अस्य च पन्थान इति । याभिर्देवा यजमानस्य हवमा यन्ति यज्ञमागच्छन्ति । ता ऊतयः । ताः श्रुतयस्ते पन्थान इत्यर्थः ।।
किञ्च,
॥ त उ एवैतत् स्वर्गयाणा यजमानस्य भवन्ति ।। ते पन्थानः । उ अपि । एतत् एते । स्वर्गयाणाः यातेः करणे ल्युट् । स्वर्गप्राप्तिहेतवो भवन्ति सम्पद्यन्ते ॥
अथ होतृशब्दं सचोद्यपरिहारं निर्वस्तुमाह
॥ तदाहुः॥ चोद्यस्वरूपमाह
॥ यदन्यो जुहोत्यथ योऽनु चाह यजति च कस्मात्
तं होतेत्याचक्षत इति ॥ यत् यदि । अथेत्यसङ्गत्यर्थः । अन्वाह च अनुवाक्यां ब्रवीति । यजति च याज्यां ब्रवीति । होमस्य कर्ता हि होता, नत्वनुवक्ता यष्टा चेति भावः ॥
- हूयन्ते देवा अस्मिन्निति हवो यज्ञः, - ‘ये केचित् पन्थान इष्टिरूपाः स्वर्गस्य प्रौढमार्गाः सन्ति, याश्च स्रुतयस्तन्मार्गावयवरूपा आहुतयः सन्ति, ता द्विविधा जतय इत्युच्यन्ते’ इति व सायणः.
खण्ड:
पचमोऽध्यायः
New
परिहरति
॥ यहाव स तत्र यथाभाजनं देवता अमुमावहामुमावहेत्यावाहयति तदेव होतु)तृत्वम् ॥ सः अनुक्क्ता यष्टा च । तत्र कर्मणि । यथाभाजनं यथास्थानम् । अमुमित्यग्न्यादेरुपलक्षणम् । आवाहयति यत् तदेव होतशब्दस्य प्रवृत्ति निमित्तम् । ‘वास्तुचि पृषोदरादिङ्केतशब्द इति भावः ॥
विदुषः फलमाह–
॥ होता भवति होतेलेनमाचक्षते य एवं वेद ॥ एनं वेदितारमाचक्षते वदन्ति । होतृत्वे योग्यत्वं प्रसिद्धिश्चास्यैवे त्यर्थः ।।
A1
३
द्वितीयः खण्डः।
अथ दीक्षितसंस्कारानाह ॥ पुनर्वा एतमृत्विजो गर्भ कुर्वन्ति यं दीक्षयन्ति ॥ गर्भ कुक्षिस्थम् । लुप्तोपमम् । गर्भमित्र ।। कथम् ,
॥ अहिरभिषिञ्चन्ति ॥ ऋत्विजोऽद्भिः स्नापयन्ति ।।
।
PRPNP
- ’ ण्यन्तस्य वहधातोश्छान्दस्या प्रक्रियया होतृशब्दनिष्पत्ति तु जुहोतिधातोः । तस्माद्धोमकर्तृत्वाभावेऽप्यावाहयितृत्वसभावाद्धोतृत्वमुपपन्नम् ’ इति सायण:. + ‘अयमेव समीचीनो होता, अन्ये तु होतृपाः ’ इति भभास्करः. * ‘अङ्गिरसः सुवर्ग लोकं यन्तोऽप्सु दीक्षातपसी प्रावेशयन् । असु नाति साक्षादेव दीक्षातपसी अवरुन्धे’ इति तैत्तिरीयश्रुतिः ६-१-१.
२
सवृत्तिके ऐतरेयब्राह्मणे
[तृतीयः
ततः किं,
HTTTTEAST
LA
॥ रेतो वा आपः॥ प्रनाड्या रेताकारणत्वादपाम् । स्मर्यते हि—
आदित्याज्जायते दृष्टिष्टेिरनं ततः प्रजाः ।। इति ।। तता किं,
॥सरेतसमैवैनं तत् कृत्वा दीक्षयन्ति तत् तेन स्नापनेन ।
किञ्च
॥ नवनीतेनाभ्यञ्जन्ति ॥ अथ नवनीतस्य गर्भाभिरूप्यमाह
॥ आज्यं वै देवानां सुरभि ॥ सुरभि योग्यं प्रियमित्यर्थः ॥
घृतं मनुष्याणाम् ॥ सुरभीत्येव ॥
॥ आयुतं पितृणाम् ॥ सुरभीत्येव ।।
२
१. मनुष्याणाम् । आयुत पितृणाम् । नवनीत गर्भाणाम् । सर्वत्र सुरभीलेव । सर्पिः ’ घ. ह. पाठ:.
- मनुष्यादिशरीरगतं रेतोमूत्रादिकमपां कार्यम् । तथाच गर्भोपनिषत् ‘अस्मिन् पश्चात्मके शरीरे यत् कठिनं सा पृथिवी यद् द्रवं तदापः’ इति । - मनुस्मृति: ३-७६.
प्रथमोऽध्यायः ।
खण्ड:
२३ ॥ नवनीतं गर्भाणाम् ॥ सुरभीत्येव ।
‘सपिविलीनमाज्यं स्याद् घनीभूतं घृतं विदुः ।
विलीनार्धमायुतं तु नवनीतं यतो घृतम् ॥ इत्याहु:॥
॥ तद्यन्नवनीतेनाभ्यञ्जन्ति खेनैवैनं तद्भागधेयेन
समर्धयन्ति ॥ तत् तत्र । एनं दीक्षितमभ्यञ्जन्तीति यत् । समर्षयन्ति वर्धयन्ति तद्भागधेयेन । ‘नामरूपभागेभ्यः स्वार्थे धेयः’ । भागेन ।
॥ आञ्जन्त्येनम् ॥ एनमाञ्जन्ति । अस्य नेत्रयोरञ्जनं निदध्युः ॥
आञ्जनं स्तौति
॥ तेजो वा एतदक्ष्योर्यदाञ्जनम् ॥ तेज शोभाकरम् । अक्ष्योः अक्ष्णोः । ‘ई च द्विवचने’ ।
॥ सतेजसमेवैनं तत् कृत्वा दीक्षयन्ति ॥ तत् तत्र ॥
॥ एकविंशत्या दर्भपिञ्जुलै कुशपिजैः शोधयेयुरेकविंशतिसंख्यकैः ॥
१. ‘दध्युः क. पाठः. ___ * ‘नवनीतेन हि गी वर्धन्त इत्युत्तरापथनिवासिनां प्रसिद्धम् इति गोविन्दस्वामि भाष्यम्।। ‘भागरूपनामभ्यो धेय’ इति मुद्रितपाठः, पा० सू० वा. ५-४-३६. + आजनप्रकारश्च तैत्तिरीयश्रुतौ - ‘दक्षिणं पूर्वमात सव्यं हि पूर्व मनुष्या आजते’ ६-१-१ इति । ६ पा. सू. ७-१-७७. ‘अथैनमुत्तरेण बहिः प्राग्वंशाद् दर्भपिलैः पश्यति’ आप० श्री. सू. १०-७-५.
सवृत्तिके ऐतरेयब्राह्मणे
तृतीयः
॥ शुद्धमेवैनं तत् पूतं दीक्षयन्ति ॥ तत् तेन कुशपिञ्जशोधनेन । पूतमिति व्याचष्टे शुद्धमिति ॥
॥ दीक्षितविमितं प्रपादयन्ति ॥ *दीक्षितविमितमिति वेदिनाम । प्रवेशयेयुः ।। कस्मादेवं,
॥ योनिर्वा एषा दीक्षितस्य यद्दीक्षितविमितम् ॥ योनिः स्थानम्। _ ‘योनिः स्त्रीणां भगे स्थाने कारणे ताम्रकेऽप्यषण ।। इति हि निखण्टु ॥
ततश्च,
॥ योनिमेवैनं तत् स्वां नपादयन्ति ॥ खामात्मीयाम् ॥
॥ तस्माद् ध्रुवाद्योनेरास्ते च चरति च ॥ न्यर्थे असित्रयम् । तस्मिन् ध्रुवे स्थिरे वेद्याख्ये स्थाने स दीक्षित आसनचरणे कुर्यात् ॥
॥ तस्माद् ध्रुवाचोनेर्गर्भा धीयन्ते च प्र च जायन्ते ॥
तस्मादिति निपातोऽयं तथाहीत्यर्थवाच्यपि । तथाहि गर्भा धीयन्ते योनौ वर्धन्त एव च ॥ धीयन्ते च प्रजायन्ते च ड्यर्थेऽत्र उसिद्वयम् ।।
१. ‘स्थानम् । ततश्च’ घ. अ. पाठः,
___* ‘दीक्षितस्य प्रवेशार्थ विशेषेण निर्मितः प्राचीनवंशो दीक्षितविमितः’ इति सायणः. तत्प्रवेशध-बहिः पथिलाऽन्तः प्रपादयति मनुष्यलोक एवैनं पवयित्वा पूतं देवलोक प्रणयति’ इति तैत्तिरीयश्रुतावानातः. (६-१-२) आ वो देवास ईमह इति पूर्वया द्वारा प्राग्वंशं प्रविश्य ’ इतिच आप० श्री. सू. १०-८-१. वैजयन्ती (पक्षर. काण्डे नानालिङ्गाध्याये श्लो० ६६.)
खण्डः ]
प्रथमोऽध्यायः
॥ तस्माद् दीक्षितं नान्यत्र दीक्षितविमितादादित्यो
ऽभ्युदियाहाभ्यस्तमियाद्वापिवाभ्याश्रावयेयुः ॥ तस्मादिति । किश्चेत्यर्थः । दीक्षितविमितादन्यत्र वेद्या बहिर्वत पानम्’ । अभि प्रति । सूच्यते हि –‘मन चैनान् बहिदि सतोऽभ्याश्रावये पुर्नोदक्यानो एवाभ्युदियानाभ्यस्तमियात्’ इति ।
उदयेऽस्तमये भानोर्न बहिर्वेदि सञ्चरेत् । नास्मिन् बहिर्वेदिगते कुर्युराश्रावणादिकम् ।।
॥ वाससा प्रोणुवन्ति ॥ एनं वस्त्रेण छादयेयुः ।।
॥ उल्नं वा एतद्दीक्षितस्य यद् वासः ॥ उत्वमिति गर्भवेष्टननाम ।।
॥ *उल्बेनैवैनं तत् प्रोणुवन्ति । एव इव । तत् तेन वासमा ॥
॥ कृष्णाजिनमुत्तरं भवति ॥ वासस उपरि ॥
१. ‘वेद्या अन्यत्र वर्तमानम् ’ घड. पाठः, २. ‘बहिर्वोदेषदो मुद्रितपाठः,
- ‘गर्भो वा एष यद् दीक्षितो योनिर्दीक्षितविमितं श्रद् दीक्षितो दीक्षितविमितात् प्रवसेद् यथा योनेगर्भः स्कन्दति ताहगेव तन्न अवस्तव्यमात्मनो गोपीथाय’ ६-२-४ इति तैत्तिरीयश्रुतिः. + आ० श्री. सू. १२-८, आपस्तम्बोऽप्याह - ‘नैनमन्यत्र दीक्षितविमितादमिनिम्रोचेदभ्युदियाद्वा’ १०-१५-५. इति. * गर्भो वा एष यद् दीक्षित उल्लं वासः प्रोणुते तस्माद् गी:प्रावृता जायन्ते’ ६-१-३, इति तैत्तिरीयश्रुति..
सवृत्तिके ऐतरेयश्रामणे
[तृतीयः
(H
EART
PERM
Int
प.
.
Ga
॥ उत्तरं वा उल्बाज्जरायु* ॥ उल्वेन वेष्टितो गर्भस्तज्जरायलभिवेष्टितम् ।। एवञ्च,
॥ जरायुणैवैनं तत् प्रोणुवन्ति ॥ उल्वस्थ जरायुवद् वाससः कृष्णाजिनमिति भावः ।। किञ्च,
॥ मुष्टी कुरुते ।। दीक्षितस्तु सदा कुर्यात् पाणी संचलिताङ्गुली ।। कस्मादेवम् ,
॥ मुष्टी वै कृत्वा गर्भोऽन्तः शेते ॥ अन्तः मातुरुदरे ।। कथमवगम्यते,
॥ मुष्टी कृत्वा कुमारो जायते ॥ मुष्टयोः करणमन्तस्थं जन्मकाले हि दृश्यते ।। ॥ तद् यन्मुष्टी कुरुते यज्ञं चैव तत् सर्वाश्च देवता
मुष्टयोः कुरुते ॥ तदिति वाक्योपन्यास । मुधी कुरुने इति यत् तत् सर्वा देवता यज्ञं च मुष्टयोः संगृह्णाति ।।
- ‘येनावेष्टितो जायते बाभस्तदुल्वं भवति । यत् पुनर्गर्भावरण गर्भाशय एव तिष्ठति तज्जरायुर्भवति’ इति गोविन्दस्वामी ।। तत्प्रकारश्चापस्तम्बसूत्रे ‘अथाङ्गुलीयश्चति । स्वाहा यज्ञ मनस इति । स्वाहा दिव इति द्वे। स्वाहा पृथिव्या इति द्वे । स्वाहोरोरन्तरिक्षादिति द्वे ! स्वाहा यहं वातादारम इति मुष्टी करोति’ १०-११-३-४. इति. * ‘मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्ये ६-१-४, इति तैत्तिरीयश्रुतिः.
खण्ड:
५
२७
॥ तदाहुः ।। तत् तत्र मुष्टीकरणे । आहुः ब्रह्मवादिनी शानमाहुरित्यर्थः ।।
कथं ।
OTHO
॥ न पूर्वदीक्षिणः संसवोऽस्ति परिगृहीतो बा एतस्य यज्ञः परिगृहीता देवता नैतस्थातिरस्त्यपरदीक्षिण एव यथा तथेति ॥
“संसवो नाम दोषोऽस्ति द्वयोर्दै सुन्दसोः सह । सूत्र्यते हि-संसवोऽनन्तहितेषु नवा वा पर्वतेल वाप्येकेऽन्तहिते ध्वपि । तथा सति सन्त्वरा देवताशाहनादू’ इत्यादि । पूर्वदीक्षी पूर्वकारी । अपरदीक्षी पश्चात्कारी । परिगृहीतः परिशृयते । एतस्येति “क्तस्य च वर्तमाने’ इति षष्ठी । एतेन पूर्वदीक्षिणा । आतिः संसवदोषः । तथा तद्वदेव ॥
किश्च क्रत्वन्ते,
SHAH
MS
॥ उन्मुच्य
उन्मुच्य त्यक्ता । अपैति गच्छेन् । अवभृथपभिरैलि ।।
॥ तस्मान्मुक्ता गर्भा जरायोर्जायन्ते ॥ तस्मात् तथाहि ।।
॥ सहैव वाससान्धपैति ।
स
१, २.
अभ्यवैति’ मुद्रितपाठः
__ * द्वयोर्बहूनां वा यजमानानां स्पर्धमानानां सम्भूय सोमाभिषयः संसवः।
आ और सू. ६-६-११, १२, १३. * पार सु. २-३-६७. .
सवृत्तिके ऐतरेयब्राह्म
चतुर्थः
HTTRImag
अवभृथमित्येव ।।
॥ तस्मात् सहबोल्बेन कुमारों जायते ॥ तस्मात् तथाहि ।।
COM
awa
तृतीयः खण्डः
इति दीक्षितसंस्कारा यथावत् प्रतिपादिताः । अवस्थानादिकं संस्थाजपान्तं तन्त्रमैष्टिकम् ।। तत्राज्यभागपर्यन्तं पुरस्तात्तन्त्रमुच्यते । उपरिष्टात्तन्तमपि भवेत् विष्टकृदादिकम् ।। आज्यभागस्विष्टकृतो प्रधानं स्यात्तु मध्यतः ।
तत्राज्यभागयोः सम्यग्विशेष प्रब्रवीत्यथ ॥ ॥ त्वमग्ने सप्रथा असि सोम यास्ते मयो भुव इत्याज्यभागयोः
पुरोनुवाक्ये अनुब्रूयाद् यः पूर्वमनीजानः स्यात् तस्मै । याज्यायाः पुरस्तादनुवक्तव्या पुरोनुवाक्या । ईजानः इष्टवान् । ‘‘लिटः कानच्’ । ततोऽन्यः अनीजानः अकृतसोमयागः । तस्मै । उसो ३ । तस्य ।
आभिरूप्यमाह
१. ‘मध्यम ’ घ. ड, पाठः. २ ‘प्रवीभ्यथ’ क्र. पाठः, इत उत्तरं खण्ड समाप्तिपर्यन्तं . पाठे लुप्तम् ।
ऋक्सं. ४-१-५-४, , ऋक्सं० १-६-२००४. + पा० सू०.३-२-१०६.
खण्ड:
प्रथमोऽध्यायः ।
।
॥ त्वया यज्ञं वितन्वत इति ॥ অন্যদি
॥ यज्ञमेवारमा एतद् वितनोति ॥ एतत् पदम् । अस्मै अस्य । यझं विस्तारयति ।
स्यातां याज्ये जुषाणाये सर्वत्रैवाज्यभागयोः ।
- तयोर्जुषाणेनैवेति युत्तरत्रात्र वक्ष्यते ।। . ॥ अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्रा वयमिति.
यः पूर्वमीजानः स्यात् तस्मै ॥ तस्मै तस्य ईजानस्य कृतसोमयागस्य’ । आज्यभागयोः पुरोनुवाक्ये अनुयादित्येव ॥
अत्र च,
॥ प्रत्नमिति पूर्व कर्माभिवदति ॥ पुराणनाम प्रनेति’ पूर्व कर्म ब्रवीति तत् ॥ उक्तं युगळयं दूषयति
॥ तत् तन्नादृत्यम् ॥ तत् तत्र ईजानानीजानयोः । तत् अनुवाक्यायुगळद्वयं न आहत्य मादरणीयम् ।
२. ‘प्रत्ममिति’,
३. ‘कर्माभिवदति
घ.
१. ‘कृतपूर्वयागस्य’, पाठ,
ऐ० प्रा० ३-६. + ऋक्सं० ६.३ ३८.२. + ऋक्सं० १.६ ११.१.सवृत्तिो ऐतरेयब्राह्मणे
चतुर्थः
एतिस्तुशासुक्यपि तुक् हा आदृत्यनिर्वचः ।। कथं तर्हि ,
॥ अग्नित्राणि जङ्घनत् त्वं सोमासि सत्पतिरिति
वार्चनावेव कुर्यात् ॥ ‘वृत्राणि जङ्घनत् ’ ’ उत वृत्रहा’ इति च वृत्रकर्मकहननयुक्तानुवाक्या वन्तावाज्यभागौ कुर्यादित्यर्थः । वृत्रहनोऽणि पपूर्वहन् -’ इत्यल्लोपः॥
स्तौति
॥ वृत्रं वा एष हन्ति यं यज्ञ उपनमति ॥ वृत्रं पापम् । उपनमः संप्राप्तिः । हन्ति त्यजति ॥
॥ तस्माद् वार्तनावेव कर्तव्यौ ॥ इत्याज्यभागयोरुक्त्वा प्रधानस्य ब्रवीत्यथ ॥ अग्निर्मुखं प्रथमो देवतानामग्निश्च विष्णो तप उत्तम मह इत्यानावैष्णवस्य हविषो याज्यानुवाक्ये भवतः
आग्नावैष्णव्यौ रूपसमृद्धे ॥ एते च सूत्रपठिते ॥ रूपसमृद्धिः श्रद्धेयेत्याह -
॥ एतद्वै यज्ञस्य समृद्धं यद् रूपसमृद्धम् ॥ भावे क्तः । समृद्धिः।
- पा० सू० ३.१-१०९. ऋकसं० ४.५-२७-४. * असं० १.६-१९-५, 8 पा.सू. ६-४-१३५. | ‘वृनमिति मेघनाम अपां वरणात् । यज्ञेन वृष्टिकर्मा जायते इति तदिदं कर्म कृतम्’ इति श्रुतेः । एवं वृत्रहननं यजमानस्य भवति इति वानाज्यभागप्रशंसा ।
अपिया वृत्रं पापम्’ इति गोविन्दस्वामिभाध्यम् । १ आ. श्री. सू० ४-२-३.
खण्ड:] ____ प्रथमोऽध्यायः ३१
एषा समृद्धिर्यज्ञस्य यद् रूपेण समृद्धता ॥ का पुनरियं,
॥ यत् कर्म क्रियमाणमृगभिवदति ॥ एषा समृद्धिर्यज्ञस्य यमुकर्म प्रकाशयेत् ॥ स्तौति
॥ अमिश्च ह वै विष्णुश्च देवानां दीक्षापालौ ॥ व्याचष्टे
॥ तौ दीक्षाया ईशाते ॥ ईश्वरौ भवतः ॥ तद्यदानावैष्णवं हविर्भवति यौ दीक्षाया ईशाते तो प्रीती
दीक्षां प्रयच्छतां यौ दीक्षयितारौ तौ दीक्षयेतामिति ॥ प्रयच्छतां दानं कुरुताम् । दाणो लोटि शपि यच्छादेश’ दीक्षयेतामित्येवमर्थम् ॥
तेच.
॥ त्रिष्टुभौ भवतः ॥ छन्दसः त्रिष्टुप्त्वं च,
॥ सेन्द्रियत्वाय ॥ स्यात् ।
बलं धनं प्रजातिर्वा ज्ञानं वेन्द्रियमुच्यते ॥
चतुर्थः खण्डः ।
व
।
- ‘पाघ्रा -’ इति पा० सू० ७-३-७८. + ‘त्रिष्टुप्छन्दस इन्द्रियसाधनत्वे नेन्द्रियरूपत्वं श्रुत्यन्तरे श्रुतम् इन्द्रियं वै त्रिष्टुप्’ इति सायणः । “त्रिष्टुबिन्द्रिययोः प्रजापतेरसा सृष्टत्वात् सावादिन्द्रियहेतुत्वं निष्टुभः’ इति गोविन्दस्वामी ।
सवृत्तिके ऐतरेयब्राह्मणे
अथ विष्टकृतो याज्यानुवाक्यायुगळे विह । छन्दोविशेषान् फलदान् प्रब्रवीति प्ररोचयन् ।। ॥ गाययौ स्विष्टकृतः संयाज्ये कुर्वीत तेजस्कामो
ब्रह्मवर्चसकामः ॥ तेजो दीप्तिर्वेदत्तसम्पत्तिब्रह्मवर्चसम् । *ब्रह्महस्तिभ्यां वर्चसः समासान्तोऽच कृतस्त्विह ॥ कामस्तु यजमानस्य खत एव सदा भवेत् । अन्तर्णीतण्यर्थकः कुञ् ते होत्रा कारयेदिति । विष्टकयुगळस्याख्या सिंयाज्ये इति सूत्र्यते ।।
संयाज्ये इत्युक्ते सौविष्टकृती प्रतीयात् ’ इति। ते च स हव्यवाळ मर्त्यः’, ‘अग्निहॊता पुरोहित’ इति द्वे ।।
॥ तेजो वै ब्रह्मवर्चसं गायत्री ॥ साध्यसाधनयोरैक्यमिदमायुघृतं यथा ॥
ततश्च,
॥ तेजस्वी ब्रह्मवर्चसी भवति ॥
यजमानः ।।
किच,
॥ य एवं विद्वान् गायध्यौ कुरुते ॥ सोऽपि होता भवेत् तेजोब्रह्मवर्चससंयुतः
१. ‘कारयेदिह’ घ. ड. पाठः.
-
पा. सू. ५-४-७८ । सर्वेभ्यो हविर्यः समवदाय यजतीति संयाज्या। आ. श्री. सू० २.१-२१, 8 ऋक्सं० ३.१.९.२. ऋक्सं० ३-१-९-१.
खण्डः ]
प्रथमाऽध्यायः
एवमुत्तरत्रापि ॥
॥ उष्णिहावायुष्कामः कुर्वीत ॥ स्विष्टकृतः संयाज्ये इत्येव । ते च " अग्ने वाजस्य गोमतः’ इति द्वे ॥
___॥ आयुर्वा उष्णिक् ॥
॥
॥ सर्वमायुरेति ॥ यजमानः । सर्व शताब्दरूपम् ॥
किन्च,
॥ य एवं विद्वानुष्णिहौ कुरुते ॥
॥ अनुष्टुभौ स्वर्गकामः कुर्वीत ॥ ते च ’ त्वममे वसून्’ इति द्वे ॥
अनुष्टुभ्यां कथं स्वर्गप्राप्तिरित्यत उच्यते
॥ द्वयोर्वा अनुष्टुभोश्चतुष्षष्टिरक्षराणि ।। चतुरष्टकत्वादनुष्टुभः ।।
॥ त्रय इम ऊर्ध्वा एकविंशा लोकाः ॥ एकविंशतः स्वार्थे डे पति विंशतेर्डिति’ । ये त्रय एकविंशास्ते भूखखराख्यास्त्रयो लोकाः स्युः । एकविंशस्य प्रतिष्ठात्वश्रुतेर्लोकानां च प्रतिष्ठात्वात् ॥
- उहितद्धन्ति ? उत् नियन्ति) ऊर्चजीविनो भवन्यनया इति व्युत्पत्त्या आयुर्वेद्धिहेतुत्वमुष्णिहः’ इति भट्टभास्करः. । ऋकूसं० १-५-२७-४, * ऋक्सं० १.३.३१.१. 8 ‘द्वात्रिंशदक्षरानुष्टुब्’ २-५-१० इति तैत्तिरीयश्रुतिः. पा. सू. ६-४:१४२. ‘एकविंशतिमनुब्रूयात् प्रतिष्ठाकामस्य’ २-५-१० इति तैत्तिरीयश्रुतिः
[पञ्चमः
पञ्चमः
सवृत्तिके ऐतरेयब्राह्मणे ॥ एकविंशत्यैकविंशत्यैवेमाल्लोकान् रोहति ॥
आरुखाच,
॥ स्वर्ग एवं लोके चतुष्षष्टितमेन प्रतितिष्ठति ॥ हे “विंशत्यादिभ्यस्तमद्-’॥
॥ प्रतितिष्ठति य एवं विद्वाननुष्टुभौ कुरुते ॥
॥ बृहत्यौ श्रीकामो यशस्कामः कुर्वीत ॥ ते च । एना वो अनि नमसा’ इति द्वे ॥
॥ श्रीवै यशश्छन्दसां बृहती ॥ बृहती छन्दः । खर्थे आम् ॥
॥श्रियमेव यश आत्मन् धत्ते ॥ डिलुक् । आत्मनि । धत्ते स्थापयति ॥
॥ य एवं विद्वान् बृहत्यौ कुरुते ॥ सोऽपि होतात्मनि यशः श्रियं च स्थापयेदिह ॥
॥ पङ्खी यज्ञकामा कुर्वीत ॥ तेच अमिं तं मन्ये’ इति द्वे । सदा यज्ञानुष्ठानवान् भूयास मितीच्छन् यज्ञकामः॥
• पा० सू० ५.२-५६. + ऋक्सं० ५-२-२१-१, * ‘बृहत्या बृहत्त्व हेतुत्वेन श्रीयशोहेतुत्वम्’ इति भभास्करः, ‘श्रीर्धनधान्यादिसंपत्तिः । यशः सत्कुल दानादिजन्या कीर्तिः’ इति सायणः, ‘श्रीकामो यशस्काम इति सामान्यविशेषभावेन सामानाधिकरण्यम् । आधिपत्ययुक्तं यशः श्रीः। छन्दसामाधिपलं बृहत्याः श्रूयते ‘तानि निवार्याणि होनान्यमन्यन्त । साब्रवीद् बृहती मामेव भूत्वा मामुपसंश्रयत’ इति गोविन्दस्वामी 8 ऋक्सं. ३-८-२३-१
खण्ड:
प्रथमोऽध्यायः
कथम् ।
॥ *पाको वै यज्ञः॥ पञ्चसंख्यान्वयो ह्यस्ति पतेर्यज्ञस्य चापि यत् । पतिः पश्चपदा पञ्च यज्ञस्यापि हि वै विधाः ॥ * स एष यज्ञः पश्वविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः’ इति श्रुतेः । पञ्चशब्दाद्धि पङ्क्तिनिरुक्ता ३ ॥
॥ उपैनं यज्ञो नमति ॥ $ व्यवहिताश्च’ । उपनमति ।
एकाहाहीनसत्रात्मा यज्ञ संप्राप्नुयादिमम् ।।
॥ य एवं विद्वान् पती कुरुते ॥
॥ त्रिष्टुभौ वीर्यकामः कुर्वीत ॥ द्वे विरूपे ’ इति द्वे ॥
ते च
- ‘पञ्चाक्षरा पतिः । पाइको यज्ञः । यज्ञमेवावरुन्धे’ ६-१-५ इति तैत्तिरीय श्रुतिः ‘धानादिहविष्पञ्चकसम्बन्धित्वात् पातत्वं यज्ञस्य ’ इति भट्टभास्करः, ‘यज्ञस्य पञ्चसंख्यायोगात् पाइकत्वम् । पञ्चसंख्यायोगश्च ‘यो वै यज्ञ- (ऐ. बा. ८-६) इत्यत्र वश्यते’ इति गोविन्दस्वामी. तैत्तिरीयश्रुतिरपि.–. ‘ब्रह्मवादिनो वदन्ति नर्चा न यजुषा पक्तिराप्यतेऽथ किं. यज्ञस्य पातत्वमिति , धाना: करम्भः परिवापः पुरोळाशः पयस्या तेन पतिराप्यते तद् यज्ञस्य पाङ्कत्वम्’ ६-५-११ इति. + ऐ० आ० २-३-३. ६ पञ्च पदानि परिमाणमस्येति पक्तिः । पञ्चनशब्दस्य टिलोपः तिप्रत्ययः कुत्वम् । पा० सू. १४.८२. सं. १-५-१-१.
सवृत्तिके ऐतरेयब्रामणे
॥ ओजो वा इन्द्रियं वीर्य त्रिष्टुप् ॥ बलं धनं प्रजातिर्वा ज्ञानं वेन्द्रियमुच्यते ।
ओजो दीप्तिर्भवेद् वीर्य सामर्थ्य सर्वसाधकम् ॥ … ततश्च,
॥ ओजस्वीन्द्रियवान् वीर्यवान् भवति ॥ किञ्च,
॥ य एवं विद्वास्त्रिष्टुभौ कुरुते ॥ पूर्ववत् ॥
॥ जगत्यौ पशुकामः कुर्वीत ॥ ते च * जनस्य गोपाः’ इति द्वे ॥
॥ जागता वै पशवः ॥ कुतः। जगती हि तानाहरद्’ इति वक्ष्यति ।
पशुभिश्च जगत्पोषः स्पष्टमेवोलभ्यते ।।
ततश्चा
॥ पशुमान् भवति ॥ भून्नि मतुप् ॥ किञ्च,
॥ य एवं विद्वान् जगत्यौ कुरुते ॥
पूर्ववत् ॥
XIHD.
- ‘इन्द्रियं वै त्रिष्टुप् ’ २.५-१० इति तैत्तिरीयश्रुतिः. + शारीरं बलमोजा, प्रजननकारणमिन्द्रियं, बलमा वीर्यम्’ इति भट्टभास्कर:. ‘वीर्यं शरीरबलं, तचौजस इन्द्रियस्य चोपलक्षणम् । ओजो बलहेतुरष्टमो धातुः । इन्द्रियं चक्षुरादिपाटबम्’ इति सायण:. * असं ० ४-१-३-१. ऐ० प्रा० १३-१. भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः’ पा० सू० वा. ५-२-९४.
खण्ड
प्रथमोऽध्यायः
॥ विराजावन्नाद्यकामः कुर्वीत ॥
*आयं भक्ष्यं प्रधानत्वादनस्यात्र पृथग् ग्रहः ते च प्रेद्धो अग्ने’ ’ इमो अग्ने’ इति द्वे ॥
कुतः,
॥ अन्नं वै विराट् ॥
कयं,
॥ तस्माद्यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठं लोके
विराजति तद्विराजो विराट्त्वम् ॥ भवति सम्पद्यते । भूयिष्ठं बहुतमम् । पबहोर्लोपो भू व बहोः’ । ॥ इष्टस्य यिद च’ । विराजति दीप्यते च ।
विराजतीत्यतो हेतोर्विरादशब्दः प्रवर्तते ॥ विराजौ कारयंश्च ,
॥ वि स्वेषु राजति ॥ ** व्यवहिताश्च’ । स्वेषु ज्ञातिषु मध्ये विराजति ।। व्याचष्टे
॥ श्रेष्ठः स्वानां भवति ॥ इष्टनि श्रा प्रशस्यस्य श्रेष्ठः स्खैः स्तूयते सदा
- ‘अन्नादनसामर्थ्यम् अनायम् ’ इति भकभास्कर:. ‘त्रेधा विहितं वा इदमन्नमशनं पानं खाद इति पानखादनिवृत्त्यर्थमन्नायब्रहणम्’ इति गोविन्दस्वामी. ऋक्सं० ५-१-२३-३. + ऋक्सं० ५-१-२६-३. 8 ‘अनं. विराट् । विराजैवारमा अनाथमवरुन्धे २-५-१० इति तैत्तिरीयश्रुतिः. पा० सू० ६-४-१५८. || पा.सू. ६-४-१५९. पा० सू०१४-८२, * पा० सू. ५७३-६॥
सवृत्तिके ऐतरेयब्राह्मणे
किञ्च,
॥ य एवं वेद ॥ सोऽपि खैः स्तुत्यः स्यात् ।।
पञ्चमः खण्डः ।
फलार्थमुक्तं वैराज वक्तुं नित्यतयापिच । नानाच्छन्दोवीर्ययोगात् सम्यक् स्तौति प्ररोचयन् -
॥ अथो पञ्चवीर्य वा एतच्छन्दो यद् विराट् ॥ पश्चानां छन्दसां वीर्य यत्र तत् पञ्चवीर्यकम् ।।
Alie
कथं,
॥ यत् त्रिपदा तेनोष्णिहागायच्यौ । त्रिपात्त्वेन विराडेषा गायत्र्युष्णिक् च गृह्यताम् ।
उष्णिङ्नामोष्णिहेत्येतत् सम्यक् खल्वध्यगीष्महि । * अग्नेर्गायच्यभवत् सयुग्बोष्णिहया सविता’ इति ॥
॥ यदस्या एकादशाक्षराणि पदानि तेन त्रिष्टुप् ॥ अस्या विराजः । पदं पादः । “एकादशाक्षरा त्रिष्टुः’ इति वक्ष्यति ॥
॥ यत् त्रयस्त्रिंशदक्षरा तेनानुष्टुप् ॥ . द्वात्रिंशदक्षरानुष्टुब् विराज्येकोनता ननु ।
ऋक्सं० ८-७-१८.४. + ऐ० प्रा० १३-४.
खण्ड:
प्रथमोऽध्यायः
६
अत आह—-
॥ न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्याम् ॥ वि नाना अन्यत्वं यन्ति भजन्ते ।
जनाधिकेन नैकेन न द्वाभ्यामपि वान्यता। छन्दसा स्यादतो नास्या अनुष्टुप्त्वं विरुध्यते ॥
॥ यद् विराट् तत् पञ्चमम् ॥ स्वयम् ॥ ततश्च उक्तानां पञ्चाना,
॥ सर्वेषां छन्दसां वीर्यमवरुन्धे ॥ रुधेर्लिङो लटस्त श्नसोरल्लोपों झपस्तयोः । अवरोधः प्राप्तिः ॥
॥ सर्वेषां छन्दसां वीर्यमश्नुते ॥ उक्तं फलमनुभवति ॥ किश्च,
॥ सर्वेषां छन्दसां सायुज्यं सरूपता सलोकतामश्नुते ॥
तुल्ययोगः’ सयुक् तुल्यवषयागः सरूपता। . तुल्यस्थानः सलोकः स्याल्लोकोऽस्तिच्छन्दसामपि ॥
१. ‘भोग: ‘क. पाठः.
पा. सू. ६-४.१११. + पा० सू०८-२-४०.सवृत्तिके ऐतरेयब्राह्मणे
ऋषीणामपि यज्ञानां वेदानां च गवामित्र ।
ऋषिच्छन्दोयज्ञलोका ब्रह्मलोकसमीपगाः ॥ किश्व,
॥ अन्नादोऽन्नपतिर्भवति ॥ आमोति चानस्वामित्वमुपभोगेन संयुतम् ॥ न केवलं स्वयमेव,
॥ अश्नुते प्रजयानाधम् ॥ पुत्राधया च प्रजया सहैवानाद्यमश्नुते । का। यजमान: ॥
।
॥ य एवं विद्वान् विराजौ कुरुते ॥ स होतापि ॥
॥ तस्माद् विराजावेव कर्तव्ये ॥ नित्यं विष्टकृतो याज्यानुवाक्ये ॥ . के ते विराजौ,
॥‘प्रेडो अम ‘इमो अम इत्येते ॥
अचौ ।
प्रेहेत्यनूच्य जुषता हविरन्त इमो यजेत् ॥
अथानृतं दीक्षितस्य न स्यादिति निषेधति
कुस० ५-१०२३-३. । ऋक्सं० ५-१०२६-३,
खण्ड
प्रथमोऽध्यायः
।
॥ ऋतं वाव दीक्षा ॥
व्याचष्टे
॥ *सत्यं दीक्षा ॥
ततः किं
॥ तस्माद् दीक्षितेन सत्यमेव वदितव्यम् ॥ दीक्षायाः सत्यरूपस्वात् सत्यमेव सदा वदेत् ।।
॥ अथोखल्याहुः ।। अथोखल्वपिचेत्यर्थ आहुः केचिन्मतान्तरम् ॥ कथं , ॥ कोऽहंति मनुष्यः सर्व सत्यं वदितुं सत्यसंहिता वै
देवा अनृतसंहिता मनुष्या इति ॥ सर्व सत्यं मनुष्येण नैव वक्तुं हि शक्यते । देवा हि सत्यसम्बद्धा नरा अनृतवादिनः ॥ कथं तर्हि दीक्षितेन कर्तव्यमत उच्यते
- ‘मानसमर्थतथात्वम् ऋतम् । वाचिकमर्थतथात्वं सत्यम् । तदुभयहेतुका दीक्षा भवति । तद्धेतुत्वात् ताछब्धम् । तस्माद् दीक्षितेन सत्यमेव वदितव्यम् इति मनः पूर्वरूपं वागुत्तररूपम् इति मनोऽप्यतथ्यं मनुष्याणां किं पुनर्वामिति प्रतिपादनार्थम् ऋतलमन्तरेण वाचः सत्यत्वाभावात् सत्यग्रहणमेवं कृतं न स्वनृतं ज्ञातव्यम् ’ इति भट्टभास्कररा. ‘यथार्थवादित्वम् ऋतम् । यथादृष्टार्थवादित्वं सत्यम् । अनयोदीक्षास्थित्यर्थत्वाद् दीक्षा. सामानाधिकरण्यम् । तत्र यथार्थवादिस्वस्थानुष्ठातुमशक्यत्वाद् यथादृष्टार्थवादित्वमेव विद धाति-तस्माद दीक्षितेनेति’ इति गोविन्दस्वामी,
6
.
सवृत्तिके ऐतरेयब्राह्मण
॥ विचक्षणवती वाचं वदेत् ॥ विचक्षणोक्त्या साहित्यात प्रोक्तं चनसितं त्वपि ।
नानामन्ते तयोरुक्तिर्विषे चनसितं भवेत् ॥ विचक्षणं राजविशोरापस्तम्बो ह्यसूत्रयत् +‘चनसितं विचक्षणमिति नामधेयान्तेषु निदधाति । चनसितेति ब्राह्मणम् । विचक्षणेति राजन्यवैश्यौ ’ इति । तद्यथा
एहि होतश्चनसित शस्त्रं श्रोतुमिहागतौ ।। अस्मत्त्रीत्या महाराजः सार्वभौमो विचक्षणः ॥ कृतवैश्यः सोमकश्च कोटिसारो विचक्षणः ।
द्रुतं प्रतिगृह्णीहि त्वं ब्रह्मश्चनसितेति च ।। विचक्षणशब्दं स्तौति–
॥ चक्षुर्वै विचक्षणम् ॥ चक्षेर्धातोश्चक्षुरुसि ल्युटि चोर्विचक्षणः । इत्येकधात्वन्वयेन चक्षुरुक्तो विचक्षणः ।।
॥वि ह्येनेन पश्यति ॥ इति । विपश्यति एनेन चक्षुषा ।। तस्माद
॥ एतद्ध वै मनुष्येषु सत्यं निहितं यच्चक्षुः ॥
१. ‘कृते वैश्यस्तोमकश्च’, २. ’ द्रुतं गृह्णीहि ’ घ. पाठः,
- ‘विचक्षणेत्यक्षरचतुष्टयात्मको मन्त्रः, तद्युक्तं वाक्यं युनीत ’ इति मायणः, आप. श्री स. १०.१३ ७. ८.
खण्ड:
प्रथमोऽध्यायः ।
कथं, ॥ तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याहाथास्य
श्रद्दधति ॥ तस्मात् तथाहि ।
केषांचित् सनिधौ कश्चित् किश्चिदेत्य प्रभाषते । श्रोतारस्तं वदन्त्येवमद्राक्षीः किमिदं त्विति ॥ सोऽद्राक्षमिति चेद् ब्रूयात् सर्वे श्रद्धां तु कुर्वते ।
अद्राक्षीरिति हि प्राप्तेऽद्राक्पदं छान्दसं मतम् ।। अदर्शमिति । " इरितो वा’ इत्यङ् ॥ किञ्च, ॥ यधु वै स्वयं पश्यति न बहूनां चनान्येषां श्रद्धधाति ॥ लोको वाक्यमिति शेषः । चनेत्यप्यर्थे ।
सर्वो लोकः स्वदृष्टेन विरुद्धं न शृणोति हि ॥
॥ तस्माद् विचक्षणवतीमेव वाचं वदेत् ॥ यथोदाहरामः ॥ एवञ्च,
॥ सत्योत्तरा हैवास्य वागुदिता भवति भवति ॥
- द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति, य एव यादहमदर्शमिति तस्मा एव श्रद्दध्याम तत् सत्येनैवैतत् समर्धयति’ इति श० प्रा० १-३-१-२७ इति वाजसनेयिनः. ‘अनृतं वै वाचा वदंति अनृतं मनसा ध्यायति । चक्षु सत्यम् । अद्रागित्साह । अदमिति । तत् सत्यम्’ इति तै• ब्रा० १-४-४. । पासू. ३.१-५५,
सवृत्तिके ऐतरेयब्राह्मणे
(এখনঃ
अस्य अनेन विचक्षणचनसितवादिना दीक्षितेन वाक् सर्वा उदिता उक्ता । वदिर्यजादिः । भवति सम्पद्यते ।
द्विरुक्तिः सूचयत्यत्र ह्यध्यायस्य समापनम् ॥
षष्ठः खण्डः।
इति षड्गुरुशिष्यविरचितायां महिदासतरेयब्राह्मणवृत्ती
सुखप्रदायां प्रथमोऽध्यायः ॥