Impersonal origin? Special divine origin?
Historical context:
- “Buddhists and Jains in their arguments highlight the man-made nature of the Vedas (Pali: isayo mantānaṃ kattāro = Skt. ṛṣayaḥ mantrāṇām kartāraḥ), and that these Ṛṣis were ignorant and should not be followed as spiritual guides (cf. Tevijja Sutta, Tripiṭaka). Simultaneously, the Buddhists attacked the notion of Īśvara.”
- वेदानाम् अपौरुषेयत्व आग्रहो नावश्यकः। गतास् ते बौद्धा जैनाश्च ये ऽभवन् जेतव्या अस्माभिः। न तेभ्यः पूर्वम् अपौरुषेयवादस्यावश्यकता ऽऽसीत् काचित्, न चाद्यास्ति प्रायेण। “वेदोऽखिलो धर्ममूलम्” इति ब्रूमहे (मोक्षमूलानि भवितुमर्हन्त्य् अनुभवादीनि - तद्विषयान्तरम्)। तत्र नास्तिका वेदनिन्दकाः प्रामाण्यं कारणं वा पृच्छन्ति चेत् “तस्यार्षत्वात्, अस्मदाप्तैः पूज्यैः पूर्वजैर् अङ्गीकृतत्वाद्” इति सिद्धेनोत्तरेणालम्। आमनोः कालाद् यो धर्मो ऽस्मान् समवर्धयत्, स वेदमूल एव। किं पुनरपौरुषेयत्वादिभिः दुःसाध्यैर् भ्रामणेन? सरले मार्गे सिद्धे सति क्लिष्टो मार्गः कुतो ग्राह्य इत्येव भाति।
- पुराभवन् अस्मद्विरोधिनो निरीश्वरा बौद्धजैनादयः। अद्य त्व् एकराक्षसोन्मादोन्मत्ताः सेश्वराः। तदनुगुणम् अस्मच्छस्त्राण्य् अपौरुषेयत्व+ईश्वरकर्तृत्वादीनि परिवर्तनीयानि। प्रेताराधकग्रन्थे श्रूयते - “In the beginning the Word already existed. The Word was with God, and the Word was God."। तेषां दृष्ट्या स्वमतमप्य् अनया दृष्ट्या ऽपौरुषेयम्! केवलमत्र+आर्षत्वञ्चाप्तत्वञ्चार्यत्वञ्च वेवेक्ति वैदिकमतम्।
apauruSheyatva
- न्यायवैशेषिकयोर्मतेन वेदाः पौरुषेयाः नित्याश्च सन्ति ।
Meanings of apauruSheya-tva:
- As just indubitable Apta-vAkya
- “तच्च द्वविधं पौरुषेयमपौरुषेयं चेति । तत्र पौरुषेयमाप्तवाक्यम् । अपौरुषेयं च वेदवाक्यम् ।” (मैथिलः पार्थसारथिमिश्रः - शास्त्रदीपिका)
- आप्तोपदेशः शब्दः। (न्याय सूत्र १/१/७) = Śabda (word, Veda) is teaching of enlightened persons.
- As Ishvarajanitatva
- Sánkhya-tattwakaumudí: श्रुतिवाक्यजनितं वाक्यार्थज्ञानम्। तच्च स्वतः प्रमाणमपौरुषेयवेदजनितत्वेन सकलदोषशङ्काविनिमुक्तेर्युक्तम्।
- As atIndriyatA, motivated by brahman in RShi-s -
- Śankhya Sútras: न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्यातीन्द्रियत्वात्।
- पौरुषेयप्रयत्नादिकमन्तरा ब्रह्मप्रेरणया निःसृता वाक् अपौरुषेयवाच्या..
- See the bullet point on “the role of the sages” below.
- As spontaneous impersonal origin (least role for RShi-s)
- “ideas of impersonal origin of the Vedas are sporadically found in early Vedic texts (cf. Puruṣasūkta: tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire / chandāṃsi jajñire tasmād yajus tasmād ajāyata), the particular view of the Vedas as Apauruṣeya is one of the alternative views that develops in Mīmāṃsā” [BVP]
Ishvara as the ultimate author
- “एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्ऋग्वेदोयजुर्वेदः सामवेदोऽथर्व्वाङ्गिरस इतिहासः पुराणम्” (शुक्लयजुर्वेदीयमाध्यन्दिनीयशतपथब्राह्मणस्य बृहदारण्यकश्रुतौ २.४.१०)
- “the Īśvarakartṛkatva is defended by traditions like Nyāya.” [BVP]
- न्यायवैशेषिकयोर्मतेन वेदाः पौरुषेयाः नित्याश्च सन्ति ।
- Sankara bhagavatpAda about the third sUtra, SAstrayonitvAt
- “महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे ।” [BVP]
- In Madhva’s विष्णुतत्त्वविनिर्णय, it is said: अपौरुषेयवाक्याङ्गीकारे न किञ्चित्कल्प्यम् । अपौरुषेयत्वं च स्वत एव सिद्धम् । वेदकर्तुरप्रसिद्धेः । अप्रसिद्धौ च कर्तुस्तत्कल्पने कल्पनागौरवम् । अकल्पने चाकर्तृकत्वं सिद्धमेव ।
- “The Apauruṣeyatva view of the Mīmāṃsā removes the authorship from the Ṛṣis, but does not defend the Īśvarakartṛkatva of the Vedas. On the other hand, traditions like Nyāya offered a reasoned defense of Īśvara (cf. Udayana’s Nyāyakusumāñjali) and argued for Īśvarakartṛkatva of the Vedas.” [BVP]
The role of the sages
- Some hold that the sages merely ‘saw’ the mantras. (eg. mImAmsaka-s)
- On the other hand, some say or imply that they created them.
- नमो ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रविद्भ्यो मन्त्रपतिभ्यो । मा मामृषयो मन्त्रकृतो मन्त्रविदः प्राहु (दु) र्दैवी वाचमुद्यासम् ॥ (वरदापूर्वतापिनी उपनिषद्, तैत्तिरीय आरण्यक, ४/१/१, मैत्रायणी संहिता ४/९/२)
- यामृषयो मन्त्रकृतो मनीषिण अन्वैच्छन् देवास्तपसा श्रमेण । तां दैवी वाचं हविषा यजामहे सा नो दधातु सुकृतस्य लोके ॥ (तैत्तिरीय ब्राह्मण २/८/८/१४)”
- “This is not only found in the post Vedic works like Kālidāsa’s Raghuvaṃśa (cf. apy agraṇīr mantrakṛtām ṛṣīṇām kuśāgrabuddhe kuśalī gurus te), but one sees this view in the earliest portions of the Ṛgveda. The Ṛṣis are referred to as Kāru “maker, creator”, and the process of creating a mantra described using the verb kṛ - (saktum iva titaunā punanto yatra dhīrā manasā vācam akrata I atrā sakhāyaḥ sakhyāni jānate bhadraiṣām lakṣmīr nihitādhi vāci II (RV 10.71.2)). " [BVP]
- What does “creating” or “seeing” mean?
- ““ऋषिर्मन्त्रद्रष्टा ॥ गत्यर्थत्वात् ऋषेर्ज्ञानार्थत्वात् मन्त्रं दृष्टवन्तः ऋषयः ॥’ ( श्वेतवनवासिरचितवृत्तौ उणादिसूत्रं ४॥१२९ द्रष्टव्यम् )
- एवञ्च निरुक्तेऽपि ‘तद्यदेनांस्तपस्यमानां ब्राह्मस्वयम्भ्वभ्यानर्षत् त ऋषयोऽभवंस्तदृषीणामृषित्वमिति विज्ञायते ऋषिदर्शनात् ॥ मन्त्रान् ददर्श इत्यौपमन्यवः ॥’”
- अजान् ह वै पृश्नीन् तपस्यमानान् ब्रह्म स्वयम्भू अभ्यानर्षत् । तदृषयोऽभवन् । त एवं ब्रह्म यज्ञमपश्यन् । (तैत्तिरीय आरण्यक, २/९/१) = Sages named Ajapŗśni were doing tapa (severe austerity) to get Vedas. Self born Brahmā became inclined towards them (to give vedas).
- ‘यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्’ ( क० १॥२॥२३ )
- ‘यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्’ (ऋ. सं. १० । ७ । ३) इति स्थितामेव वाचमनुविन्नां दर्शयति ।