पाठ-विकारः

  • पाठरक्षणार्थं रटन-सौकर्यार्थं बालबोधार्थं वा विकृतिपाठा आश्रियन्ते।
  • घन-जटा-रथादिपाठैः पदभेदादिरक्षणम् भवति।
  • तैत्तिरीयकारण्यके वाक्यस्वरा क्वचित् प्रयुज्यन्ते।
  • तैत्तिरीयश्रुतौ कण्ठस्थीकरणसौकर्याय +अखिलाम् अपि संहितां पञ्चाति-नामसु भागेषु विभजन्ति।
    • एष पाठः प्रकाशितो बहुषु पुस्तकेषु जालक्षेत्रेषु च। एवं हि कण्ठस्थीकृत्य चानुवदन्ति।
    • प्रत्येकस्मिन् संहिताभागे तादृशे नानावाक्यानां मध्ये सन्धिः कृतो दृश्यते। यत्र तु पञ्चातिभेद इष्टः, वाक्यमध्येऽपि संहिताविभागः कृतः! तेन विनियोगदशायाम् अनुचिताः स्वरा आयान्ति बहुत्र। मन्त्रार्थावगमने ऽप्यनेन बाधाः सम्भवन्ति।