नित्यत्वापौरुषेयत्वे

प्रयोजनम्

प्राचीना एवम् प्रतिपादयितुम् ऐच्छन् - अपौरुषेयत्वान् नित्यत्वम् (तद्विपरीतं वा)।

विस्तारः (द्रष्टुं नोद्यम्)

यथाह कैयटः “कर्तुः अस्मरणात् तेषामित्यर्थः”
“न हि छन्दांसि क्रियन्ते , नित्यानि छन्दांसि ।” इति भाष्यस्य व्याख्याने।

पुनः, बौद्धादिभिस् स्पर्धमाना एवम् -

अपौरुषेयत्वात् पुरुषकृतदोषाभावः। ततो वेदानां स्वतः प्रामाण्यम्

ब्रह्मसूत्रेषु

अत एव च नित्यत्वम् ( ब्र सू 1-3-29)

शाङ्करभाष्यम् –

स्वतन्त्रस्य कर्तुः अस्मरणादिभिः स्थिते वेदस्य नित्यत्वे,
देवादि-व्यक्ति-प्रभवाभ्युपगमेन तस्य विरोधम् आशङ्क्य,
अतः प्रभवात् इति परिहृत्य
इदानीं तदेव वेदनित्यत्वं द्रढयति -
अत एव च नित्यत्वम् इति ।

अत एव नियताकृतेर् देवादेर् जगतो वेद-शब्द-प्रभवत्वात्
वेद-शब्द-नित्यत्वम् अपि प्रत्येतव्यम् ।

तथा च मन्त्रवर्णः –

यज्ञेन वाचः पदवीयम् आयन्
तामन्वविन्दन् ऋषिषु प्रविष्टाम् ( ऋग्वेदः 10-71-3) इति
स्थिताम् एव वाचम् अनुविन्नां दर्शयति।

वेदव्यासश्चैवं स्मरति –

युगान्तेऽन्तर्हितान् वेदान्
सेतिहासान् महर्षयः ।
लेभिरे तपसा पूर्वम्
अनुज्ञाताः स्वयंभुवा ॥ इति – (महाभारतम् - शान्ति 210-19)

वैय्याकरणाः

ननु चोक्तम् - “न हि छन्दांसि क्रियन्ते, नित्यानि छन्दांसि” +इति ।

यद्यपि +अर्थो नित्यः, या त्वसौ वर्णानुपूर्वी सा अनित्या । +++(5)+++
तद्-भेदाच् चैतद् भवति - काठकम् कालापकम् मौदकम् पैप्पलादकम् इति ।

महा-प्रलयादिषु वर्णानुपूर्वी-विनाशे
पुनर् उत्पद्य ऋषयः संस्कारातिशयात् वेदार्थं स्मृत्वा
शब्दरचनां विदधतीत्यर्थः ।+++(5)+++

इति कैयटः।

नागेशः –

काठकेत्यादि ।
अर्थैक्येऽपि आनुपूर्वी-भेदाद् एव काठक-कालापकादि-व्यवहार इति भावः।

वेदान्त-देशिकः

vedAnta-deshika’s mImAMsA pAduka indicates that nityatva he understood very literally - the exact same letters are repeated in the exact same order every kalpa (पूर्वयैवाऽऽनुपूर्व्या)

कल्पेकल्पे दयालुः स्थिरचरकृद् अधिष्ठाय रूपं कठाद्यं
शाखा-भेदान् विचित्रान् समतनुत ततोऽध्यापयामास चर्षीन् ।

वेदाद् द्वेधा ऽप्रधृष्यात् भवति विमृशतां वेद-नित्यत्व-सिद्धिर्
मन्वादीनां च वाक्यैर् अवितथ-वचसां बाध-दोषातिवृत्तैः । …
प्रादुर्भावादि-मात्रं प्रजनयति विभुस् सोऽपि पारम्य-रम्यः ॥ १६३ ॥

कल्पादाव् एवम् ईशः कथयति निगमान् पूर्वयैवाऽऽनुपूर्व्या
तद्वन् मन्वन्तरादिष्व् अपि शिथिल-समाधान-मात्रं क्रमैः स्यात् ।

However, shAkhA division can be anitya:

वेदानां यच् च शाखा-विभजनम् उदितं द्वापरान्ते चतुर्णां
नानित्यत्वं ततः स्यात् समुदित-पृथग्-आम्नान-मात्र-प्रवृत्तेः ।
कृत्स्नाम्नान-क्षमाणाम् उपचिततपसां गोचरः कृत्स्नम् आदौ,
पश्चात् तु ज्ञान-शक्त्योर् अपचय-नियमाद् व्यास-कॢप्तिस् समीची ॥ १६२ ॥

पूर्व-मीमांसकाः

यः कल्पः स कल्पपूर्वः / न कदापि अनीदृशं जगत्

इत्य् अमन्यन्त केचिन् मीमांसकाः।

मीमांसासूत्रेषु (कोरड-सुब्रह्मण्यानुवादः)

1-1-7-27 – वेदांश् चैके सन्निकर्षं पुरुषाख्याः (पूर्वपक्षः)

Some scholars argued that Vedas are written as there are names such as कठ , कलाप etc

28 – अनित्यदर्शनाच् च (पूर्वपक्षः)

In Veda, there is proof to show that it is non-eternal - there are names of some people like - बबर , son of प्रावाहणि , खुसुरविन्द son of उद्दालक , who are mortal.

29 उक्तं तु शब्दपूर्वत्वम् (सिद्धान्तसूत्रम्)

It is already stated that वेद has got अध्ययन-पूर्वकत्वम् । There has been uninterrupted chain of गुरुशिष्यपरम्परा - nobody who has independently recited Veda.

30 आख्या प्रवचनात्

काठक , कालापक etc संज्ञs due to specialization .

चित्र-प्रस्तुतयः - महेश्वरभट्टो ऽत्र

विश्वास-टिप्पनी (द्रष्टुं नोद्यम्)

किञ्चिद् वाक्यार्थप्रस्तुतिर् दृष्टा। यद्यपि sheldon pollock दुराशयस्य प्रत्याख्यानावसरे सा कृता, तत्र प्रस्तोता स्पष्टम् आदौ प्रतिजानाति (वचनान्तरैः) - “अस्माकम् एव मनसि वेदापौरुषेयत्वतत्त्वं हृदि समारूढं यथा स्यात् तथा यत्नः करणीयः”। एवम् उक्त्वा प्राचीनवादान् प्रस्तौति - किञ्च हन्त - अखिलं शून्यं व्यर्थम्।

कुतः? तत्र मूले वेदाध्यापनपरम्पराया अदिर् एव नासीद् इति वादो वर्तते। न केनापि बुद्धिमता ऽऽफ़्रिकाखण्डाद् वानरेभ्यस् ततः पूर्वं च कृमिभ्यो ऽस्मद्-उत्पत्तेः प्रमाणानि विजानता तद् अङ्गीकर्तुं शक्यम्। तादृशस्याक्षेपस्य निराकरणं न साधयित्वा न हि शक्यं वेदाध्ययनपरम्परानादित्वम् प्रतिष्ठापयितुम्।+++(5)+++

उपेक्ष्येमं सरलं विचारं प्रवर्तमानैस् तैः किं नाम साधितम्? १५०० वर्षेभ्यः पूर्वम् मीमांसका मूर्खा नासन्न् इत्येतावद् एव। नवीनविपक्षप्रत्याख्यानस्य गन्धो ऽपि न वर्तते। नव्यानाम् प्रत्याख्याने ऽतिप्राचीनवादोपपादनं हास्यास्पदम् एव याति। तत्र सभासदस् तावत् सभ्यता-तत्पर-प्राया न किञ्चित् प्रतिकूलम् अवदन् (योगिप्रत्यक्षप्रश्नान् अन्तरा)।

मीमांसाकोविदैर् विचारणीयम् - अपौरुषेयप्रतिष्ठायां श्रमो व्ययनीयो वा? अथवा वेदप्रामाण्यसाधनाय तन्त्रान्तरम् आश्रित्य - “पौरुषेयस्यापि वेदस्य प्रामाण्यं वर्ततेतमाम् - जयिष्णुभिर् महामतिभिर् अस्मत्पूर्वजैर् आप्तैः परिगृहीतत्वात्। " इति किञ्चित् प्रतिपादनीयं वा?

यथा कथञ्चित् तादृशेषु सन्दर्भेषूपस्थितैः साधुवादम् अन्तरा प्रस्तुतेर् नैयून्यान्य् अवश्यं सूचनीयानि - विना येन साफल्यभ्रमगर्त एव शास्त्रचिन्तका न हृष्टास् तिष्ठेयुः।