०२ सोममहिमा सोमपानफलं च

ओषधीनां पतिं सोममुपयुज्य विचक्षणः ।
दश वर्षसहस्राणि नवां धारयते तनुम् ॥ ६॥
नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च ।
तस्यालमायुःक्षपणे समर्थाश्च भवन्ति हि ॥ ७ ॥
भद्राणां षष्टिवर्षाणां प्रसूतानामनेकधा ।
कुञ्जराणां सहस्रस्य बलं समधिगच्छति ॥ ८॥
क्षीरोदं शक्रसदनमुत्तरांश्च कुरुनपि ।
यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः ॥ ९॥
साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दति तत्त्वतः ।
चरत्यमोघसंकल्पो देववच्चाखिलं जगत् ॥ १० ॥
कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः ।
प्रह्लाद इति भूतानां मनांसि स महाद्युतिः । ११ (सुश्रुतसंहिता, चिकित्सा० अ, २९)