०१ सोम-लता

सोमलताया महिमा तदुत्पत्तिस्थानानि च

सुश्रुतसंहितायां वैद्यग्रन्थे चिकित्साप्रकरणे

हिमवत्यर्बुदे सह्ये महेन्द्रे मलये तथा ।
श्री पर्वते देवगिरौ गिरौ देवसहे तथा ॥ १ ॥
पारियात्रे च विन्ध्ये च देवसुन्दे ह्रदे तथा ।
उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः ॥ २ ॥
पञ्च तेषामधो मध्ये सिन्धुनामा महानदः ।
हयवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः ॥ ३॥
तस्योद्देशेषु चाप्यस्ति मुञ्जवानंशुमानपि ।
काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ॥ ४ ॥
गायत्रस्त्रैष्टुभः पाङ्क्तो जागतः शाक्वरस्तथा ।
अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः ॥ ५॥ (सुश्रुतसंहिता, चिकित्साप्रकरणम् , अ. २९)

स्वरूपं वृद्धिर् ह्रासश्च

श्यामलाम्ला च निष्पन्ना क्षीरिणी त्वचि मांसला ।
श्लेष्मला वमनी वल्ली सोमाख्या छागभोजनम् ॥ १२॥
सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता ॥
(भावप्रकाशे)

सोमार्हा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ।
सोमवल्ली कटु शीता मधुरा पित्तदाहकृत् ॥ १३ ॥

कृष्णा विशोषशमनी पावनी यज्ञसाधनी ।
सर्वेषामेव सोमानां पत्राणि दश पञ्च च ॥ १४ ॥

तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च ।
एकैकं जायते पत्रं सोमस्याहरहस्तदा ॥ १५ ॥ शुक्लस्य पञ्चदश्यां तु भवेत् पञ्चदशच्छदः ।
शीर्यते पत्रमेकैकं दिवसे दिवसे पुनः ॥ १६ ॥ कृष्णपक्षक्षये चापि लता भवति केवला ।

(सुश्रुतसंहिता, चिकित्सा० अ. २९)