१० महा-व्रत-निरूपणम्

इतः परं महाव्रताख्याहर्निरूपणं क्रियते । इदमुपान्त्यदिनेऽनुष्ठेयमित्युक्तम् । अस्यापि संवत्सरसत्रे विषुवदहर्वत् मुख्यत्वमस्ति । अत एव तद्वदत्रापि बहवो विशेषा विहिताः । इदं च पञ्चविंशस्तोमकम् । अनेकविशेषयुक्तत्वादेवास्य महाव्रतत्वम् । स्तोत्रकाले उद्गाता औदुम्बरीमासन्दीमारुह्योपविश्य तत्र गायेत् । सा च आसन्दी प्रादेशमात्रोन्नता भवेत् । होता डोलामारुह्य तत्रोपविश्य शस्त्रं शंसेन्निष्केवल्याख्यम् । तदा अध्वर्युः फलक उपविश्यौदुम्बरे प्रतिगरं कुर्यात् । मैत्रावरुणादयो बृसीविशेषानधितिष्ठेयुः । कश्चिद्ब्राह्मणः सत्रिणः स्तुवीत । कश्चित् च शूद्रस्तान् निन्देत् । एवं वेद्याः सर्वेष्वपि कोणेषु दुन्दुभीन् वादयेयुः । आग्नीध्रमण्टपस्य पश्चिमभागेऽवटं कृत्वा चर्मणा तमाच्छादयेत् । सोऽयं भूमिदुन्दुभिरित्युच्यते । तं वादयेयुः । प्रेक्षकाः सर्वेऽपि संस्कृतामसंस्कृतां च वाचं वदेयुः । राजपुरुषा रथारूढा धनुर्धरा देवयजनं परितो

[[१३२]]

गच्छेयुः । मार्जालीयसमीपेऽष्टौ दासकुमार्य उदकुम्भान् गृहीत्वा परिनृत्येयुः । एवं यजमानपत्न्यो वीणाविशेषैरुद्गातुरुपगानं कुर्युः । ततः तन्त्रीशतयुक्तां महावीणां वादयेयुः शङ्खांश्च । तत्र मुखवीणाः काण्डवीणाश्च वाद्येरन् । एते अन्ये च केचन विशेषा महाव्रते सन्ति । अन्यदितराहर्वत् ॥ इदमेव संवत्सरसत्रमितरेषामित उत्तरेषां सत्राणां प्रकृतिभूतम् । विशेषाः परं ये केचित् तत्र तत्र विहितास्ते च श्रौतसूत्रादितो विशेषजिज्ञासुभिरवगन्तव्याः ॥

इति महामहोपाध्याय-शास्त्ररत्नाकर-पण्डितसार्वभौम-श्रीचिन्नस्वामिशास्त्रिविरचिते यज्ञतत्त्वप्रकाशे अग्निचयनादिनिरूपणाख्यः तृतीयो भागः

एवं अग्न्याधेयमारभ्य गवामयनाख्यसंवत्सरसत्रान्ता याज्ञिकी प्रक्रिया आपस्तम्बश्रौतसूत्रं तैत्तिरीयसंहितां च प्राधान्येनावलम्ब्य निरूपिता । परमियं पदार्थज्ञानायैवोपयुज्येत । अनुष्ठातृभिस्तु श्रौतसूत्रग्रन्थाः पद्धतयश्च अनुष्ठानार्थमाश्रयणीयाः ॥

ऋषीषुलोकवसुधा (१३५७) मिते वङ्गीयवत्सरे ।
सप्ताधिकद्विसाहस्रे (२००७) वैक्रमे विकृताह्वये ॥
वर्षे कार्तिकराकायां प्रगे भार्गववासरे ।
नगर्यां कलिकातायां ग्रन्थोऽयं पूर्णतामगात् ॥
रघुनाथान्नपूर्णाभ्यां जातेन विदुषां कुले ।
श्रीवेङ्कटोपपदकसुब्रह्मण्याग्रजन्मना ।
श्रौतसूत्रब्राह्मणादिग्रन्थानालोड्य सर्वशः ।
कृतोऽयं ग्रन्थसन्दर्भो भवतात् सुधियां मुदे ॥
यस्याः प्रसादवशतः कृतिरेषा व्यरच्यत ।
तस्या एनां जगन्मातुः पदद्वन्द्वेऽर्पयाम्यहम् ॥

इति वेदवेदाङ्गपारदृश्ववैदिकसार्वभौमवाधूलवंशाम्बुधिसद्रत्न-श्रीरघुनाथसूरितनुजन्मना श्रीमदन्नपूर्णागर्भसम्भूतेन, महामहोपाध्याय-शास्त्ररत्नाकर-पण्डितसार्वभौम-वेदविशारदादिविविधोपाधिविभूषितेन
श्रीचिन्नस्वामिशास्त्र्यपरनाम्ना वेङ्कटसुब्रह्मण्येन
विरचितो यज्ञतत्त्वप्रकाशः
समाप्तः ॥