०९ गवाम्-अयनम्

अथ गवामयनाख्यं संवत्सरसत्रं निरूप्यते । क्रतुरयम् एकोत्तरषष्ट्यधिकशतत्रयदिनसाध्यः (३६१) । स त्रिधा विभक्तः-पूर्वपक्षः विषुवान् उत्तरपक्ष इति । तत्र अशीत्यधिकशतदिनसाध्यं (१८०) पूर्वं पक्षः । अर्थात् तावत्सङ्ख्याकाः सुत्याः । तदनन्तरमेकमहः यस्य विषुवानिति संज्ञा । ततोऽशीत्युत्तरशतदिन(१८०)साध्यम् उत्तरं पक्षः (तावत्सङ्ख्याकाः) । समुदितस्यास्य गवामयनमिति संज्ञा । अर्थवादे क्रतुरयं गोभिरनुष्ठित इति प्रशंसार्थमुक्तत्वात् गवामयनमिति नामास्य सम्पन्नम् ॥ तत्रैवमहः क्लृप्तिः दिनसङ्ख्या
प्रथमदिनं प्रायणीयसंज्ञकमतिरात्रसंस्थाकम् १
द्वितीयदिनं चतुर्विंशस्तोमकमुक्थ्यसंस्थाकम् १
ततोऽभिप्लवाख्यषडहस्य चतुर्वारमावृत्तिः ६×४=२४
ततः पृष्ठ्यषडहः सकृत् ६ अयं एको मासः प्रथममासः ३०
एवमेव चत्वारोऽभिप्लवाः षडहाः ४×६=२४
एकः पृष्ठ्यषडहः ६ द्वितीयो मासः ३०
एवं तृतीयो मासः 30
,, चतुर्थो मासः 30
,, पञ्चमो मासः 30
त्रयोऽभिप्लवाः षडहाः ३×६= १८

[[१२९]]

एकः पृष्ठ्यषडहः ६
ततोऽभिजित्संज्ञकम् एकमहः १
स्वरसामसंज्ञकानि त्रीण्यहानि ३
सर्वं मिलित्वा १८०
ततो विषुवाख्यं मध्यममेकमहः १
(अस्य चेतरापेक्षया सर्वोत्तमत्वमुक्तं श्रुतौ)

तत उत्तरं पक्षः-पूर्वपक्षस्युक्ताह्नां वैपरीत्येनानुष्ठानम् । तच्च यथा-

प्रथमतः त्रयः स्वरसामानः ३
ततो विश्वजित्संज्ञकमेकमहः १
एकः पृष्ठयः षडहः ६
त्रयोऽभिप्लवाः षडहाः ६×३= १८
महाव्रताख्यमेकमहः (उपान्त्यदिनेऽनुष्ठेयम् ) १
अतिरात्रसंस्थाकमेकमहः (अन्त्यदिनेऽनुष्ठेयम्)१ एवं सप्तमो मासः ३०
अष्टमे मासि एकः पृष्ठ्यः षडहः । चत्वारोऽभिप्लवाः (मिलित्वा) ३०
एवमेव नवमो मासः ३०
,, दशमो मासः ३०
,, एकादशो मासः ३०
द्वादशे मासि-त्रयोऽभिप्लवाः षडहाः १८
गोष्टोमः आयुष्टोमश्च २
द्वादशाहस्य दशाहानि १०
सर्वं मिलित्वा १८०
एवमेकषष्ट्यधिकशतत्रयदिनसाध्यं गवामयनाख्यं संवत्सरसत्रम् । तदन्तर्गतौ षडहौ द्विप्रकारौ । तथा हि वेदे सोमयागसमूहविशेषाः षडहास्त्रिविधा निरूपिताः- #षडहस्वरूपनिरूपणम् १. पृष्ठ्यः षडहः, २. अभिप्लवः षडहः, ३. अभ्यासङ्ग्यः षडह इति । 17

[[१३०]] तत्र द्वादशाहान्तर्गतत्वेन पृष्ठ्यः षडहो निरूपितः । तत्र च- रथन्तरादीनां षण्णां साम्नां क्रमेण षट्सु दिनेषु होतृपृष्ठाङ्गतया गानम् । अभिप्लवषडहे तु रथन्तरम् , बृहत् , रथन्तरम् , बृहत् , रथन्तरम् , बृहत् इत्येवंरूपेण गानम् । पृष्ठ्यषडहे त्रिवृत् , पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंश इति क्रमेण स्तोमाः सर्वेषु स्तोत्रेषु । अभिप्लवषडहे एवं स्तोमक्लृप्तिः- प्रथमेऽहनि अग्निष्टोमवत् रथन्तरपृष्ठम् । द्वितीयदिने गोष्टोमे प्रातस्सवने-बहिष्पवमाने पञ्चदशस्तोमः ,, आज्येषु त्रिवृत् माध्यन्दिनसवने-माध्यन्दिनपवमाने सप्तदशः ,, पृष्ठस्तोत्रेषु ,, बृहत् तृतीयसवने- आर्भवपवमाने-एकविंशः ,, अग्निष्टोमस्तोत्रे एकविंशः ,, उक्थ्यस्तोत्रेषु ,, गोष्टोमस्योक्थ्यसंस्थाकत्वादत्रैव समाप्तिः । तृतीयमहरायुष्टोमसंज्ञकम् । तदप्युक्थ्यसंस्थाकम् । तत्र प्रातस्सवने-बहिष्पवमानस्तोत्रे त्रिवृत् स्तोमः ,, आज्यस्तोत्रेषु पञ्चदशः ,, माध्यन्दिनसवने-माध्यन्दिनपवमानस्तोत्रे सप्तदशः ,, पृष्ठस्तोत्रेषु ,, बृहत् तृतीयसवने सर्वेषु एकविंशः स्तोमः । चतुर्थमहः पुनर्गोष्टोमात्मकम् उक्थ्यसंस्थाकम् । पञ्चममहः आयुष्टोमाख्यं रथन्तरपृष्ठकम् उक्थ्यसंस्थाकम् । षष्ठमहः पुनर्ज्योतिष्टोमाख्यं बृहत्पृष्ठम् अग्निष्टोमसंस्थम् । अयमभिप्लवषडहः ॥ इतोऽन्यः अभ्यासङ्ग्यः षडहः । तत्र स्तोमक्लृप्तिरेवम् - प्रथमेऽह्नि-प्रातस्सवने त्रिवृत्स्तोमः अग्निष्टोमसंस्था माध्यन्दिनसवने ,, तृतीयसवने पञ्चदशः

[[१३१]]

द्वितीयेऽह्नि-प्रातस्सवने पञ्चदशः
उक्थ्यसंस्था माध्यन्दिनसवने
तृतीयसवने सप्तदशः तृतीयेऽह्नि-प्रातस्सवने ,, ,,
माध्यन्दिनसवने ,,
तृतीयसवने एकविंशः चतुर्थेऽह्नि-प्रातस्सवने ,, ,,
माध्यन्दिनसवने ,,
तृतीयसवने त्रिणवः पञ्चमेऽह्नि प्रातस्सवने ,,
अतिरात्रसंस्था माध्यन्दिनसवने ,,
तृतीयसवने त्रयस्त्रिंशः षष्ठेऽहनि प्रकृत्यतिरात्रापेक्षया भिन्नातिरात्रसंस्था । अयमभ्यासङ्ग्यः षडहः ।
पूर्वमहर्येन स्तोमेन समापितं तेनैव स्तोमेनाहरन्तरस्योपक्रमोऽभ्यासङ्गः । तद्युक्तोऽभ्यासङ्ग्य इति । एवं त्रिविधा एव षडहाः प्रायेण श्रुतावुदीरिताः ॥