०८ ग्रहाग्रता

सत्रेषु काचिद् ग्रहाग्रता विहिता । तस्याः स्वरूपं विव्रियते किञ्चिदिव । सुत्यादिवसेषु प्रातस्सवनादिषु त्रिष्वपि सवनेषु ग्रहाः गृह्यन्ते हूयन्ते च । तत्र प्रातस्सवने बहुषु ग्रहेषु धारातो गृह्यमाणेषु यस्य ग्रहस्य प्रथमं ग्रहणं-यां देवतामुद्दिश्य पात्रे सोमरसः प्रथमं गृह्यते तन्निष्ठा अग्रता (प्राथम्यम् ) । यथा-इन्द्रवायू उद्दिश्य प्रथमं पात्रे सोमरसग्रहणे स ऐन्द्रवायवो ग्रहः प्रथमं गृहीत इति ग्रहाणामैन्द्रवायव-

[[१२८]]

ग्रहाग्रत्वम् । एवं शुकाग्रता आग्रयणाग्रता इत्यादि बोध्यम् । तत्र व्यूढद्वादशाहे अहस्सु अग्रताः पट्टिकायां प्रदर्शिताः । समूढाख्यः कश्चित् द्वादशाहोऽस्ति । तत्र प्रथमदशमद्वादशेष्वहस्सु ग्रहाणामैन्द्रवायवाग्रता । द्वितीयादिष्वहस्सु पूर्वोक्ताहर्वर्जितेषु क्रमेण ग्रहाणामैन्द्रवायवाग्रता, शुक्राग्रता, आग्रयणाग्रता, एतासामेव च पुनर्वारद्वयमावृत्तिः । अर्थात् द्वादशाहद्वितीयदिने प्रातस्सवने ग्रहग्रहणकाले आदावैन्द्रवायवग्रहं गृहीत्वा ततोऽन्ये ग्रहा ग्रहीतव्याः । तृतीयदिने शुक्रग्रहं प्रथमं गृहीत्वा ततोऽन्ये ग्रहा इत्यादि । इयमेव ‘त्र्यनीका’ इति याज्ञिकैर्व्यवह्रियते । सेयं त्र्यनीका द्वादशाहादिषूपरितनेष्वेव क्रतुषु प्रवर्तते । अग्रता तु ज्योतिष्टोमेऽपि काम्यतया (तत्तत्फलोद्देशेन अनुष्ठेयतया) विधीयते ॥