०७ सव-निरूपणम्

एतदतिरिक्ताः सवा नाम केचन एकाहविशेषाः सोमयागाः तैत्तिरीयब्राह्मणे विहिताः । एकदिनसाध्यास्त इति कृत्वा ते एकाहपद-

[[१२३]] व्यपदेशभाजो भवन्ति । ते च १. बृहस्पतिसवः २. वैश्यसवः ३. ब्राह्मणसवः ४. सोमसवः ५. पृथिसवः ६. गोसवः ७. ओदनसवः ८. मरुत्स्तोमः (पञ्चशारदीयः) ९. अग्निष्टुत् १०. इन्द्रस्तुत् ११. अप्तोर्यामः १२. विघन इति द्वादश । सूयते ईश्वरत्वेन (यजमानः) अभिषिच्यत एष्विति सवाः इति आचार्यसायणः । तेषामनुष्ठाने विशेषाः परमत्र लिख्यन्ते ॥

तेषु प्रथमो बृहस्पतिसवः-तत्र सर्वे स्तोमाः त्रिष्वपि सवनेषु त्रिवृतः (नवसङ्ख्याकाः) । अग्निष्टोमसंस्थाकत्वं पृष्ठस्तोत्रे रथन्तरसामैव च तत्र नियमेन भवति । न ज्योतिष्टोमवत् बृहद्रथन्तरयोर्विकल्पः । तत्र परिस्रजी होता भवति । यस्य शिरसि स्रगाकारेण परित एव केशास्सन्ति, न तु मध्ये, स परिस्रजी(खलतिः) इति सायणः । स च होता सन्ध्याकालवर्णसदृश रक्तवर्णः पुनः पुनरतिवेगेन चक्षुरुन्मीलननिमीलनयुक्तः वेदत्रये सम्यग्ज्ञानवांश्च भवेत् । अस्मिन् यागे त्रयस्त्रिंशत्(३३)गावः दक्षिणात्वेन ऋत्विग्भ्यो देयाः । ताः समशो विभज्य एकैकस्मिन् सवने एकादश (११) इति कृत्वा त्रिष्वपि सवनेषु दद्यात् । यागसमाप्त्यनन्तरं यजमानं कृष्णाजिने उपवेश्य, तमृत्विजो जलेन प्रथमं तत आज्येन चाभिषिञ्चेयुः । सर्वमन्यत् प्रकृतिसोमयागवत् ॥

द्वितीयो वैश्यसवः–तत्र १. आग्नेयोऽष्टाकपालः पुरोडाशः २. पौष्णश्चरुः ३ सावित्रोऽष्टाकपालः पुरोडाशः ४. त्वष्टृदेवताकोऽष्टाकपालः पुरोडाशः ५. वारुणोऽष्टाकपालः पुरोडाशः ६. द्वादशकपालो वैश्वदेवः सः ७. एकादशकपालो मारुतः स इति सप्त हवींषि । ततः श्वेतवर्णः चतुर्वर्षः स्त्रीपशुरेक इति अष्टौ यागीयद्रव्याणि । अन्तिमस्य पशुयागस्य प्रधानहोमानन्तरं स्विष्टकृद्यागात् पूर्वं तत्र वृषभचर्म आस्तीर्य, तत्र यजमानमुपवेश्य, दध्ना तमभिषिञ्चेत् इति विशेषः । सर्वमन्यत् प्रकृतिवत् ॥

तृतीयो ब्राह्मणसवः-तत्र १. आग्नेयोऽष्टाकपालः पुरोडाशः २. सौम्य एकादशकपालः पुरोडाशः ३. सावित्रोऽष्टाकपालः पुरोडाशः ४. बार्हस्पत्योऽष्टाकपालः पुरोडाशः ५. अग्नीषोमीय एकादशकपालः पुरोडाशः ६, सारस्वतोऽष्टाकपालः पुरोडाशः ७. वारुणोऽष्टाकपालः

[[१२४]] पुरोडाशः ८. द्यावापृथिव्य एककपालः पुरोडाशः इत्यष्टौ पुरोडाशद्रव्यका यागाः । इष्टयादिसमाप्त्यनन्तरं कृष्णाजिनमास्तीर्य तस्मिन् यजमानमुपवेश्य घृतेन अभिषिञ्चेत् । अत्रैतावन्तो विशेषाः । सर्वमन्यत् यथा प्रकृति ॥

चतुर्थः सोमसवः-अत्र सोमयागानुष्ठानं नास्ति । किन्तु राजसूये ये सप्त सोमयागाः पवित्रादयोऽनुष्ठेयतयोक्ताः, तान् सर्वान् सोमयागान् वर्जयित्वा अन्ये अनुमत्यादिसौत्रामणीयागान्ताः सर्वेऽपि यागा इष्टिपशुयागात्मका अनुष्ठेयाः ॥

पञ्चमः पृथिसवः-अत्र राजसूयोक्तानि-सोमयागाः, पशुबन्धः, चातुर्मास्यानि इत्येतानि वर्जयित्वा अन्यत्सर्वमनुमत्यादिकं सौत्रामण्यन्तकर्मजातमनुष्ठेयम् ॥ षष्ठो गोसवः-अत्र सवनत्रयगतेषु सर्वेष्वपि स्तोत्रेषु षट्त्रिंशस्तोमाः । उक्थ्यसंस्था । पृष्ठस्तोत्रे बृहत्साम । पवमानस्तोत्रेषु (बहिष्पवमानमाध्यन्दिनपवमानार्भवपवमानाख्येषु)त्रिष्वपि कण्वरथन्तराख्यं साम गातव्यम् । अयुतसङ्ख्याका गाः अत्र दक्षिणाः । यज्ञान्ते अचिरदुग्धेन क्षीरेण अत्र यजमानस्य अभिषेकः कार्यः ॥

सप्तम ओदनसवः-सुत्यादिने सूर्योदयात्पूर्वमोदनं पक्त्वा, उदित आदित्ये तेनौदनेन आहवनीयाग्नौ आहुतिचतुष्टयं हुत्वा ततः आज्ये, पयसि, दधनि, जले च पृथक् पृथक् पात्रावस्थापिते सक्तून् प्रक्षिप्य, आलोड्य, तत्तन्मन्थान् कृत्वा, तान् यजमानाय भक्षार्थं प्रयच्छेदध्वर्युः । ततो यजमानहस्ते हिरण्यं बद्ध्वा तैरेव भक्षणावशिष्टर्मन्थैः परस्परं संसृष्टः यजमानमभिषिञ्चेत् । आज्यादीनि द्रव्याणि सक्तुभिः संमिश्रितानि मन्था इत्युच्यन्ते । अत्र साक्षादवभृथो नास्ति । किन्तु तत्स्थाने दर्भपुञ्जीलोद्धृतेन जलेन यजमानस्य प्रोक्षणमेव । ततोऽग्रेऽवस्थापितं यजमानो रथमारोहेत् । अत्रापि सर्वमन्यत् यथाप्रकृति ॥

अष्टमो मरुत्स्तोमः पञ्चशारदीयः-पशुयागसंवलितोऽयं सोमयागः । अयं पञ्चभिर्वत्सरैरनुष्ठेयः । अत एवास्य पञ्चशारदीय इति व्यवहारः । परं न सर्वाण्यपि दिनान्यभिव्याप्य अस्यानुष्ठानम् । किन्तु चातुर्मास्यवत् तत्तत्पर्वादिकालेष्वेव । अयं चात्रानुष्ठानप्रकारः-प्रथमवत्सरे सङ्कल्पं कृत्वा

[[१२५]] सप्तदशसंख्याकान् पञ्चवर्षीयानल्पकायान् पुंस्पशून् तावत्संख्याकान् अस्पृष्टगर्भान् वर्षत्रयवयस्कान् स्त्रीपशूंश्च आनीय सहैवोभयानपि उपाकृत्य, प्रोक्ष्य, पुंपशूनुत्सृज्य, स्त्रीपशूनालभेरन् । एवं द्वितीयवर्षेऽपि पूर्वोत्सृष्टान् पुंपशून् , अन्यांश्च स्त्रीपशूनानीय पूर्ववत् पुंपशून् पर्यग्निकरणान्ते उत्सृज्य स्त्रीपशूनालभेरन् । एवं तृतीयचतुर्थवर्षयोरपि पुंपशवः पुराणाः नूत्नाश्च स्त्रीपशव आनेयाः । पूर्ववदेव च तेषामनुष्ठानप्रकारः । एवं पञ्चसु वर्षेषु पशुयागानेव अनुष्ठाय षष्ठे वर्षे शरदृतौ कार्तिकमासे पञ्चसु दिवसेषु पञ्च सोमयागा अनुष्ठेयाः । तत्र ये पशवः पूर्वेषु वर्षेषु परित्यक्ताः तानानीय, प्रथमे दिने त्रयः, द्वितीये दिने त्रयः, एवं तृतीयचतुर्थयोरपि त्रयस्त्रयः, पञ्चमे पञ्च इति सप्तदशानामपि पशूनां सवनीयपशुत्वेन अनुष्ठानं कर्तव्यम् । तत्र पुंपशूपनाम् इन्द्रो मरुतश्च देवताः; स्त्रीपशूनां केवलमरुतः। पञ्चमे वर्षे पञ्चरात्राय सोमयागाय दीक्षयित्वा पञ्च संस्थाः क्रमशः एकैकस्मिन् दिनेऽनुष्ठेयाः । तत्र प्रथमदिने त्रिवृत्स्तोमः सर्वेष्वपि स्तोत्रेषु । ततो द्वितीयादिषु दिवसेषु पञ्चदशः, सप्तदशः, पञ्चदशः, सप्तदश इति स्तोमाः । अग्निष्टोमः, उक्थ्यः, उक्थ्यः, उक्थ्यः, अतिरात्रः इति क्रमेण संस्था भवन्ति । अत्र पशुयागानामङ्गत्वं सोमयागानां च प्राधान्यं भवति । अतः सोमयागा एवैते ॥

एवमग्निष्टुदिन्द्रस्तुदप्तोर्यामविघनाख्याश्चत्वार एकाहाः तैत्तिरीय ब्राह्मणाद्युक्ताः । तत्र विघने-त्रिवृत्पञ्चदशयोः स्थाने द्वादशस्स्तोमः सप्तविंशैकविंशयोः स्थाने चतुर्विंशस्स्तोमश्च कर्तव्यौ । अन्यत् सर्वमत्र यथाप्रकृति । अप्तोर्यामस्तोत्रादिगतविशेषस्तु पूर्वमेव अभिहितः संस्थानिरूपणप्रस्तावे । इत्येकाहनिरूपणम् ॥

#द्वादशाहक्रतुः
अथेदानीं द्वादशाहक्रतोः स्वरूपं निरूप्यते । द्वादशाहो द्विविधः - अहीनात्मकः सत्रात्मकश्चेति । अहीनलक्षणस्य सत्रलक्षणस्य च सत्त्वात् । तथा हि-एकादियजमानकता, यजिधातुना विधानम् , दक्षिणाविधिः इत्यादीनि अहीनलक्षणानि । बहुकर्तृकत्वम् , आसते, उपयन्ति, आसीरन् , उपेयुः इत्यासोपायिचोदनाचोदितत्वम् , सत्ररूपेण संस्तवः, उभयतोऽतिरात्रत्वम् इत्यादीनि सत्रलक्षणानि । तदुभयान्यप्यत्र दृश्यन्ते । अतोऽय-

[[१२६]]

मुभयात्मकः । एकाहानामग्निष्टोमो यथा प्रकृतिभूतः एवमहीनानां सत्राणां चायं प्रकृतिभूतः संवत्सरादर्वाक्तनानाम् । तदुपरितनानां तु तेषां गवामयनं प्रकृतिभूतम् ॥ अत्र द्वादशाहे द्वादश दिनानि दीक्षाः । ततो द्वादशसु दिवसेषूपसदामनुष्ठानम् । अन्तिमोपसद्दिने आरम्भतश्चतुर्विंशे दिने उपसदनुष्ठानानन्तरम् अग्नीषोमीयपशुयागानुष्ठानम् । तस्मिन्नेव दिने महारात्रे बुद्ध्वा सोमाभिषवार्थक्रियाकलापानुष्ठानम् , श्वोभूते बहिष्पवमानादिः तृतीयसवनसमाप्त्यन्तो व्यापारः, पुनर्यथावद्रात्रौ अभिषवक्रियानुबद्धकर्मकलाप इत्यादिद्वादशदिनपर्यन्तावर्तनीयक्रियाजातरूपाः द्वादश सुत्याः ॥ एवं षट्त्रिंशद्दिनानुष्ठेयोऽयं द्वादशाहाख्यः क्रतुः । सर्वान्त एवावभृथेष्टिः, नैकैकसुत्यासमाप्तौ । तत्र द्वादशानामप्यह्नां संस्थाविशेषाः विशेषेण विहिताः। ते यथा-प्रथमदिनमतिरात्रसंस्थाकम् । द्वितीयमग्निष्टोमसंस्थाकम् । तत्र बहिष्पवमानाद्येषु द्वादशसु स्तोत्रेषु त्रिवृदेव स्तोमः । तृतीयदिनमुक्थ्यसंस्थाकं पञ्चदशस्तोमकम् । चतुर्थदिनमुक्थ्यसंस्थाकं सप्तदशस्तोमकम् । पञ्चमदिनं षोडशिसंस्थाकमेकविंशस्तोमकम् । षष्ठदिनमुक्थ्यसंस्थाकं त्रिणव(सप्तविंशति)स्तोमकम् । सप्तमदिनमप्युक्थ्यसंस्थाकं त्रयस्त्रिंशस्तोमकम् । अष्टममहरुक्थ्यसंस्थाकं चतुर्विंशस्तोमकम् । नवममहरुक्थ्यसंस्थाकं चतुश्चत्वारिंशस्तोमकम् । दशममहरग्निष्टोमसंस्थाकं चतुर्विंशस्तोमकमितरेषु स्तोत्रेषु, अग्निष्टोमस्तोत्रे परं त्रयस्त्रिंशस्तोमकम् । एकादशदिनमग्निष्टोमसंस्थाकमष्टाचत्वारिंशस्तोमकम् । द्वादशमहरतिरात्रसंस्थाकम् । दशमदिनस्यातिरात्रसंस्थाकत्वं क्वचिच्छ्रुतम् । एवं रथन्तरम् , रथन्तरम् , बृहत् , वैरूपम् , वैराजम्, शाक्वरम् , रैवतम् , रथन्तरम् , बृहत् , रथन्तरम् , बृहत् , रथन्तरमिति क्रमेण होतुः पृष्ठे सामानि । अत्र रथन्तर-बृहत्-वैरूप -वैराज-शाक्वर-रैवताख्यानां षण्णां साम्नां पृष्ठसामानीति व्यवहारः । द्वादशाहेऽस्मिन् द्वितीयादिसप्तमान्तानि दिनानि पृथगेकसङ्घीकृत्य तस्य च सङ्घस्य “षडहः" इति संज्ञा कृता श्रुत्यैव । तत्र षडहे पूर्वोक्तानि सामानि क्रमश एकैकस्मिन् दिने एकैकतया पृष्ठस्तोत्रे (होतुः पृष्ठे) गीयन्ते स्तोत्रसम्पादकतया । अत एवास्य षडहस्य “पृष्ठयः षडहः” इति संज्ञा । अत्र उक्त एव विषयः पट्टिकारूपेण प्रदर्श्यते

[[१२७]]

(व्यूढ) द्वादशाहे संस्थास्तोमपृष्ठसामनिरूपणी पट्टिका -

अहः संस्था स्तोमः अग्रता साम
प्रथममहः अतिरात्रसंस्था त्रिवृदादयः ऐन्द्रवायवाग्रता रथन्तरम्
पृष्ठ्यषडहः
द्वितीयमहः अग्निष्टोमसंस्था त्रिवृत् रथन्तरम्
तृतीयमहः उक्थ्यसंस्था पञ्चदशः शुक्राग्रता बृहत्
चतुर्थमहः उक्थ्यसंस्था सप्तदशः आग्रयणाग्रता वैरूपम्
पञ्चममहः षोडशिसंस्था एकविंशः वैराजम्
षष्ठमहः उक्थ्यसंस्था त्रिणव:(२७) ऐन्द्रवायवाग्रता शाक्वरम्
सप्तममहः त्रयस्त्रिंशः शुक्राग्रता रैवतम्
अष्टममहः चतुर्विंशः रथन्तरम्

| नवममहः | चतुश्चत्वारिंशः | आग्रयणाग्रता | बृहत् | | | | | | | | | दशममहः | अग्निष्टोमः,अतिरात्रः,चतुर्विंशः | ऐन्द्रवायवाग्रता | रथन्तरम् | | | | | | | | उक्थ्यो वा | | | | | | एकादशमहः | अग्निष्टोमसंस्था | अष्टाचत्वारिंशः | | बृहत् | | द्वादशमहः | अतिरात्रसंस्था | त्रिवृदादयः | | रथन्तरम् |

अत्र द्वादशाहे प्रथमस्य अह्नः ‘प्रायणीयम्’ इति चरमस्य ‘उदयनीयम्’ इति च संज्ञा । आरम्भसमाप्तिसम्बद्धे इति तदर्थः । दशममहः ‘अविवाक्यम्’ इत्युच्यते । अनुष्ठानकालेऽत्र सम्भवन्तो दोषा न वक्तव्या इति तदर्थ इति व्याख्यातारः । अतः स्तोत्रानुसारेण शस्त्राणामपि वृद्धिविशेषादयो भवन्ति । एवं पदार्थान्तरेष्वपि सन्त्यनुष्ठाने प्रकृत्यपेक्षया बहूनि वैलक्षण्यानि, न तान्यत्रोल्लिखितानि ग्रन्थगौरवभिया ॥