एवं सर्वमेधाख्यः क्रतुरपि सोमयागविशेष एव । तत्र दश सुत्याः , द्वादश दीक्षाः, द्वादश उपसदः । एवं चतुस्त्रिंशद्दिनसाध्योऽयं क्रतुः । इष्टकाभिस्सम्पादितायाश्चितेरुपरि आहवनीयाग्निस्थापनं कृत्वा तत्रैव यागः कर्तव्यः । सुत्यासु पञ्चमी सुत्या आश्वमेधिकमध्यमसुत्यावदनुष्ठेया । षष्ठी सुत्या पौरुषमेधिकमध्यमसुत्यावत् । षष्ठ्यां सुत्यायां पुरुषान् पर्यग्निकरणान्ते सर्वानुत्सृज्य अजादिभिः पशुभिः यागा अनुष्ठेयाः । सप्तम्यां सुत्यायां परिशुद्धानि आर्यभोजनयोग्यानि सर्वाणि व्रीह्यादीन्यन्नान्यानीय, यथावत् पक्त्वा आहवनीये जुहुयात् । ओषधीः वृक्षांश्च आनीय, अल्पशोऽल्पशस्तान् खण्डयित्वा आहवनीये जुहुयादिति विशेषः । अत्राऽपि कर्मणि मनुष्याणां संज्ञपनादिकं किमपि न विहितम् । किं तु उपाकरणान्त उत्सर्ग एव । अतः पुरुषमेधसर्वमेधयोः मनुष्यस्य मारणविशसनादिकमस्तीति कथनं सर्वथा भ्रममूलकमेव ॥