एवं पुरुषमेधोऽपि वेदेषु विहितो दृश्यते । पुरुषमेधोऽपि अश्वमेधवत् सोमयाग एव । स पञ्चसुत्यात्मकः पञ्चाहः अहीनः क्रतुः । अत्र श्रवणमात्रेणैवं प्रतीयते-यथा अश्वमेधे अश्वस्य संज्ञपनविशसनादिकं कृत्वा यागः क्रियते तदीयाङ्गैः, एवमत्रापीति । कथयन्त्यपि लिखन्त्यपि च केचनैवं तत्र । परं वस्तुगत्यां नैव तथा । पुरुषाणां चोदितानां तत्तद्देवतायै । यथाविधि उपाकृत्य तत उत्सर्ग एव; न विशसनादिकम् , वपादीनामुद्धरणम् , अग्नौ प्रक्षेपणात्मको होमो वा । तैत्तिरीयवाजसनेयब्राह्मणयोरेषां विधिकदम्बकं दृश्यते । तत्र पुरुषपशवः द्व्यूनं द्विशतं (१९८) विहिताः तत्तद्देवतोद्देशेन । अजा अपि तैस्सह विधानमुपगताः । अजानामेव यूपेषु बन्धनसंज्ञपनविशसनवपोद्धरणादयो व्यापारा अनुष्ठेयतयोक्ताः । पुरुषपशूनां तत्तदेवताभ्य उपाकरणानन्तरं तान् नारायणात्मना ध्यात्वा तथैवोत्सृजेत् (जीवतामेव परित्यागः कार्यः) । तेषां परमपुरुषात्मना ध्यानसमय एव पुरुषसूक्तमन्त्राः पठनीयाः । तदर्थमेव प्राधान्येन सूक्तमिदं प्रवृत्तम् । अतश्च हिंसायाः पुरुषमेधे अवसर एव नास्ति । सत्यामेवं वस्तुस्थितौ यत् कैश्चिदेवमुच्यते-वैदिकसभ्यतायां पूर्वकाले पुरुषमेधोऽपि प्रथित आसीदिति, तत् पुरुषमेधशब्दश्रवणमात्रेण सञ्जातभ्रमाणां पुरुषाणां तेषां स्वमनीषाविलासमात्रम् ; न तु तात्त्विकी स्थितिरिति विचारयामः ।
[[१२२]]
कुतः? कस्यामपि शाखायां क्वचिदपि वा श्रौतसूत्रे पुरुषमेधे पुरुषस्य हिंसाया अश्रवणात् । किन्तु सर्वेषु वेदेषु श्रौतसूत्रेषु च तान् पुरुषपशूनेकत्र सङ्घीकृत्य, उपाकृत्य, भगवन्नारायणरूपेण ध्यात्वा तथैव तानुत्सृज्य, त्यक्तरागद्वेषः स्वीयं सर्वमपि स्वं तस्मिन् यज्ञे दक्षिणात्वेन ऋत्विग्भ्यो ब्राह्मणेभ्यश्च दत्त्वा अरण्यमुपेयात् इत्येव विधिर्दृश्यते । अतः पुरुषाणामनित्येषु पदार्थेषु वैराग्योत्पादनायैव अयमेतावान् परिकर इत्येव प्रतीयते ॥ यत्तु ऐतरेयब्राह्मणगतं शुनश्शेपोपाख्यानं पुरुषमेधे प्रमाणतया प्रदर्शयन्ति, न तदपि युक्तम् । तत्र हिंसाया अविधानात् । जीवत एव शुनश्शेपस्य परित्यागोक्तेः । तत्र कारणकथने या कापि भङ्गी समाश्रिता भवतु, फलतो जीवत उत्सर्गस्यैव विधानम् । अतः पुरुषमेधे पुरुषाणां पर्यग्निकरणानन्तरमुत्सर्ग एव शास्त्रसम्मत इति फलति । एवं पुरुषानुत्सृज्य, अजैर्यथावत् पाशुकं कर्माऽनुष्ठाय तत्संवलितान् सौमिकानपि व्यापारान् तदुक्तसंस्थानुसारेण यथाविध्यनुष्ठाय उदवसानीयया समापयेत् ॥