०४ अश्व-मेधः

अथेदानीमश्वमेधाख्यमहायागस्य स्वरूपं निरूपयामः । यो नामैकच्छत्राधिपतिः सार्वभौमः, अर्थात्-समग्रस्य भूमण्डलस्य शासिता, यस्य वशेऽन्ये सामन्ता राजानो वर्तन्ते तेनैवायमनुष्ठेयो यज्ञः। न साधारणक्षत्रियस्य ब्राह्मणवैश्ययोर्वा तत्र अधिकारः । अयं मुख्यः कल्पः । असार्वभौमस्याप्यत्राऽधिकारं गौणतया मन्यन्ते सूत्रकाराः आपस्तम्बप्रभृतयः । कात्यायनस्तु राजसामान्याधिकारिकं राजसूयवदिमं यज्ञं कथयति । अतः ‘राजयज्ञः’ इत्यप्यस्य व्यपदेशं पश्यामो ग्रन्थेषु । श्रौतकर्ममध्ये यागोऽयं प्रधानतममलभत स्थानम् । यद्यप्ययं सोमयागः तथापि अत्र सवनीयपशुरश्वः, स च महोपकारकेषु परिगणित इति कृत्वा तस्यैव नाम्ना यागोऽयं ‘अश्वमेधः’ इति व्यवहारं भजते । सर्व -

[[११६]] फलप्रदोऽयं क्रतुः । ब्रह्महत्यादिमहापातकनाशकः । नैतादृशं कर्मान्तरमस्ति श्रेष्ठतमं श्रुतिस्मृतिपुराणादिषु इत्युक्तं सर्वत्र । ब्रह्महत्यादीनि महापातकानि कृत्वा यस्तदपनोदकं श्रुतिस्मृत्यादिविहितं न शक्नोति प्रायश्चित्तमनुष्ठातुं सोऽवभृथ आश्वमेधिके स्नात्वा तस्मान्महापापाद्विमुक्तो भवेत् । राज्ञस्तु सर्वलाभप्रदः, सर्वराजजयचिह्नभूतोऽयमिति “सर्वस्याप्त्यै, सर्वस्य जित्यै, सर्वमेव तेनाप्नोति, सर्वं जयति" इति श्रुतेरुद्धोषः ॥

यागस्यास्याङ्गभूता बहवो ग्राम्या आरण्याश्च पशवः । तेष्वश्व एव प्रथमः प्रधानभूतश्च । सोऽपि न साधारणः । किन्तु-यश्शरीरे पूर्वभागे कृष्णवर्णः, पश्चार्धे श्वेतः, ललाटे शकटाकारपुण्ड्रयुतः गभीराकृतिश्च भवितुमर्हति । किं च 1पूर्वमसकृत् पायितसोमरसाभ्यां मातापितृभ्यामश्वाभ्यां जातः जातमात्र एव जलान्तरपानात् पूर्वं पायितसोमरसो योऽश्वः तं यथावत् वर्धयित्वा रक्षेत् । सति समये तेनैव यागं कुर्यात् । तत्र कस्यांचिददुष्टायां चैत्र्यां पौर्णमास्यां सांग्रहणीं नामेष्टिं कृत्वा, तदनन्तरवैशाख्यां प्रजापतिदेवताकं पशुयागमनुष्ठाय, अनन्तरामावास्यायाम् ऋत्विज आहूय, अमावास्येष्टिमनुष्ठाय यत्राश्वमेधयागः कर्तव्यतया निर्धारितः स्थानं तद्गत्वा, वपनं कारयित्वा, अहतं नूत्नं वासः परिधाय तत् दिनं समग्रं मौनव्रतं धारयन्नासीत । मध्ये प्राप्तं सायंप्रातःकालिकमग्निहोत्रं तु मन्त्रेण कुर्वीत । ततो द्वितीयेऽहनि प्रातरुदयं यन्तमादित्यं मन्त्रैरुपस्थाय, प्राग्वंशाख्यं यज्ञमण्डपं प्रविश्य, एकादश पूर्णाहुतीः अन्याश्च काश्चनाहुतीः यजमानो जुहुयात् । ततः चतसृभ्यो दिग्भ्य आहृतासु अप्सु ब्रह्मौदनं पक्त्वा तत् महर्त्विग्भ्यः अध्वर्युब्रह्महोत्रुद्गातृभ्यो दत्त्वा तेन तानाशयित्वा समुचिते काले यागार्थं सङ्कल्प्य, तं यज्ञियाश्वमानीय, तेन सह चतुरक्षं श्वानं च आनीय तडागहृदादिमहाजले तावुभौ प्रवेश्य नीत्वा, यत्र शुनः पादा भूमिं न स्पृशन्ति तत्र सैध्रकेण ? 2मुसलेन तं श्वानं हत्वा तमश्वस्य पादानामधस्तात् प्रास्येत् । तत्रैव स्थितमश्वं चतसृषु दिक्षु अश्वस्य परितोऽवस्थिता महर्त्विजो राजपुरुषान्विताः प्रोक्षेयुः । प्रोक्षणप्रकारश्चेत्थम् -अश्वस्य

[[११७]] पूर्वदेशे राजपुत्रशतेन परिवृतोऽध्वर्युः प्रोक्षेत् । राजपुत्राः ये अभिषिक्तक्षत्रियाणां पुत्राः स्वयमनभिषिक्ता राज्यार्हाश्च तेषां शतेन सह प्रोक्षणं विहितम् । क्षत्रियाः सन्तोऽपि ये राज्यानर्हाः शूराश्च तैः सहितो ब्रह्मा अश्वस्य दक्षिणभागे उत्तराभिमुखस्तिष्ठन् अश्वं प्रोक्षेत्। सारथीनां ग्रामनेतृणां मिलितानां शतेन ब्रह्मा अश्वस्य पश्चिमभागे प्राङ्मुखस्तिष्ठन् प्रोक्षेदश्वम् । क्षत्तॄणां काशाभिकारिणां च मिलितानां शतेन सहोद्गाता उत्तरस्यां दिशि दक्षिणाभिमुखस्तिष्ठन् प्रोक्षेत् । प्रोक्षणकाले भूमौ पतितान् जलबिन्दूनभिमन्त्रयेत् ॥ ततोऽध्वर्युरेक एव सर्वदेवतासम्बन्धितया तमश्वं चतुर्षु दिग्विभागेषु उपरिष्टाच्च प्रोक्ष्य, अश्वमुत्सृजेत् भूपरिभ्रमणार्थम् । तेन अश्वेन सह तद्रक्षणार्थं चतुश्शता इषुधन्विनो वीरपुरुषा गच्छेयुः । स यावद्भूमिं यथेष्टं परिभ्रम्य एकस्मिन् वर्षे आगच्छेत् तावत् ते तं रक्षेयुः । यदि कश्चिद्राज्ञः शत्रुरश्वं स्पर्धया मध्येपथं गृह्णीयात् तदा रक्षिणस्तेन सह युध्वा अश्वं परावर्त्यानयेयुः । यदि न शक्यते, पुनः पूर्ववत् तादृशमेव अश्वमेकमानीय पुनः प्रोक्ष्य रक्षिभिः सह विसृजेत् । यावदश्वः पुनः स्वस्थानं न परावर्तते तावद्यागो नानुष्ठातुं शक्यते । अतोऽयमश्वमेधो महाधनिनाऽपि सता नानतिबलेन अनुष्ठातुं शक्यते । किन्तु यस्सर्वान् स्वबलेनाऽभिभवितुं शक्नोति तेनैवायमनुष्ठेयः । श्रिया, यशसा, जयेन च य आत्मनः श्रैष्ठ्यं प्रेप्सति, स एवात्र अधिकारीति श्रुतयः स्मृतयश्च । एवं शतमश्वमेधान् यो राजा यथावदनुतिष्ठति स देवानां राजा ‘इन्द्रः’ भवतीति पुराणान्युद्घोषयन्ति ।

स यावत् परिभ्रम्य पुनः स्वस्थानमागच्छति तावत् यजमानः प्रतिदिनं विष्णुक्रमणसंज्ञकान् कांश्चन होमान् कुर्वन् सायं प्रातश्च वीणागाथिनौ ब्राह्मणराजन्यावाहूय ताभ्यां स्वापदानं गापयेत् । तत्र प्रातः (दिवा) ब्राह्मणः राज्ञा कृतं दानयज्ञादिपुण्यकर्म वीणायां गायेत् । रात्रौ राजन्यस्तदीयशौर्यवीर्यबलपराक्रमादिकं गायेत् वीणायामेव । तदुभयं शृण्वन्नासीत राजा। ततो हिरण्मय आसन आसीनो होत्रा शस्यमानं पारिप्लवं शृणुयात् ॥ एवं प्रतिदिनं यावद्वत्सरं कुर्वन् यज्ञियाश्वस्य प्रत्यागमनं प्रतीक्षमाण आसीत । तत्र अश्वभ्रमणकाले विविधा विचित्रतमाश्च होमा आहवनीयाद्यग्निषु मध्येपथम् अश्वपदनिक्षेपस्थलादौ च कर्तव्यतया विहिताः । एवमश्वाङ्गानि

[[११८]]

मुखदन्तहनूरुपादादीनि गमन-धावन-क्रन्दन-ह्रेषण-शयना-वध्रा?ण-प्रभृतीन्यश्वचरितानि च देवतीकृत्य तेभ्यो होमाः कर्तव्याः ॥

अत्र सुत्यात्रयमित्युक्तम् । तत्र प्रथमदिनकर्तव्यायां सुत्यायां न कोऽपि विशेषोऽनुष्ठाने । द्वितीयदिने प्रातस्सवने बहिष्पवमानस्तोत्रार्थं गत्वा तत्रोद्गातारम् उद्गीथाख्यद्वितीयभक्तिगातारं निवार्य तस्य स्थाने अश्वमेव प्रकृतमुद्गीथाय वृणुयात् । तस्य समीपे बडवाः स्त्रीरूपा अश्वाः स्थापयेत् ।ता दृष्ट्वा स यज्ञियोऽश्वः यं शब्दं कुर्यात् स एव उद्गीथः । ततस्तस्मिन्नेव दिने प्रातस्सावनिकग्रहग्रहणाद्यनन्तरमश्वप्रभृतीनां पशूनां यागोऽनुष्ठेयः ॥ तत्र यूपा एकविंशतिसंख्याका भवेयुः । ते वेदेरुत्तरकोणादारभ्य दक्षिणकोणपर्यन्तं निखातव्याः । तत्र आहवनीयाग्नेः साक्षात् पूर्वभागे यो निखातव्यः स मध्यमः । स च राज्जुदालवृक्षनिर्मित 3एकविंशत्यरत्निपरिमाणो भवेत् । स एवाग्निष्ठशब्देनोच्यते । तत्रैवाश्वो नियोक्तव्यः । तस्य यूपस्य दक्षिणोत्तरयोः द्वयोः पार्श्वयोः पौतुद्रव (देवदारु) वृक्षनिर्मितौ द्वौ यूपौ भवतः । तदनन्तराः उत्तरभागे त्रयः दक्षिणभागे च त्रयः इत्याहत्य षट् बिल्ववृक्षनिर्मिता यूपा भवन्ति । तदनन्तराः एकस्मिन् भागे त्रयः इति कृत्वा द्वयोः पार्श्वयोः षट् खादिरा भवन्ति । तेषामप्यनन्तरं एकैकस्य भागस्य त्रयः इति षट् पलाशवृक्षनिर्मिता भवन्ति । एवमाहत्य एकविंशतिर्यूपा निखातव्याः । ततोऽश्वशरीरं समन्ततो रशनया आवेष्ट्य, तस्यां तत्स्थानस्थितायां रज्ज्वां बन्धनीयाः तूपरादयः पशवस्त्रयोदश । तेऽश्वाङ्गे बध्यमानत्वात् पर्यङ्ग्या इत्युच्यन्ते । तद्बन्धनप्रकारश्चेत्थम्-१. अश्वस्य ललाटे आग्नेयम् । २. तस्य पश्चाद्भागे पौष्णम् । ३. अश्वस्योपरिभागे ऐन्द्रापौष्णम् । ४. बाह्वोः दक्षिणोत्तरयोः आग्नेयौ कृष्णग्रीवौ । ५. त्वाष्ट्रौ सक्थ्योः (ऊर्वोः) । ६. बार्हस्पत्यौ श्वेतपृष्ठौ पार्श्वे । ७. श्वेतवर्णोदरयुक्तं धातृदेवताकमश्वस्य अधोभागे । ८. श्वेतमजं पुच्छे । ९. सूर्यदेवताकं कृष्णवर्णमजं दक्षिणपार्श्वे १०. यमदेवताकं कृष्णवर्णं वामपार्श्वे । विचित्रोऽयं प्रकारो नान्येषु यागेषु दृश्यते । अश्वमेधे सुपर्णचितिं निर्माय तदुपर्यग्निं प्रतिष्ठा-

[[११९]] प्यापि यागोऽनुष्ठातुं शक्यते । एकविंशतिसंख्याकेषु यूपेषु नियोज्यमानानां पशूनाम् आहत्य संख्या नवत्युत्तरं शतत्रयम् (३९०)। एते ग्राम्याः पशव उच्यन्ते ग्रामेष्वेव वसन्तीति । तत्तद्यूपान्तरालेषु धारयितव्याः आरण्याः पशवः । अरण्यमात्रवासिनस्त आरण्या उच्यन्ते । संख्येयं पशूनां तैत्तिरीयशाखानुसारेण । माध्यन्दिनशाखानुसारेण तु एकोनपञ्चाशदुत्तरशतत्रयं (३४९) ग्राम्याः पशवः । षष्ट्युत्तरं शतत्रयं (३६०) आरण्याः पशवः । अत्र ग्राम्याः पशवः तत्तद्गुणाकृतिविशिष्टा अजा एवोपदिष्टा बहुलतया । जात्यन्तरस्यापि क्वचिदत्यल्पशो विधानमस्ति । ते यूपेष्वेव बन्धनीयाः । आरण्येषु पशुषु सिंहगजव्याघ्रश्वापदादयः, नैके च पक्षिविशेषाः, मीनमण्डूकसरीसृपादयश्च संगृहीताः । ते च तैस्तैः शाकुनिकैर्मृगयुभिश्च जालवागुरादिभिर्ग्राहयित्वा यूपान्तरालेष्ववस्थाप्याः । सर्वेषु पशुषु तिष्ठत्सु प्रत्येकं तेषामुपाकरणपर्यग्निकरणे कृत्वा, आरण्यान् ततोऽपसार्य अरण्यं नीत्वा सिंहव्याघ्रादीन् तत्रोत्सृजेदुपायेन । ग्राम्याणां पशूनां तु संज्ञपनादि सर्वं पाशुकं कर्मानुष्ठाय तदनन्तरमेव तद्दिनीयसौमिकव्यापारानुष्ठानं कर्तव्यम् ॥ तत्र, अश्वसंज्ञपनार्थं घृताक्तं कम्बलं भूमौ प्रथममास्तीर्य, तदुपरि चर्ममयमाच्छादनपटमास्तीर्य तदुपरि सुवर्णफलकमास्तीर्य तदुपर्यश्वं प्राक्शिरसम् उदीच्यपादं शाययित्वा संज्ञपयेत् । संज्ञपनं प्राणैर्वियोजनम् । ततः राज्ञः पत्न्य़ः महिषी, वावाता, परिवृक्ती इति तिस्रोऽपि अश्वं परियन्ति । ततो महिषी मृतस्याश्वस्य पार्श्वे शयाना तं गर्हेत् ग्राम्यैर्वचनैः । अनन्तरं तस्य विशसनं कृत्वा चन्द्राख्यं मेद उद्धरेत् , यतोऽश्वस्य वपा न विद्यते । ततः तूपरगोमृगयोर्वपे उद्धृत्य तत् त्रयमपि श्रपयित्वा प्रजापतये आश्रावणप्रत्याश्रावणे कृत्वा तद्धविस्त्रयमपि युगपत् प्रजापतये जुहुयात् । ततोऽश्वलोहितं स्विष्टकृदर्थं क्वचित् पात्रे निक्षिप्य, प्रजापतिदेवताकान् षड्ढोमान् हुत्वा, यजमानं व्याघ्रचर्मणि सिंहचर्मणि वा उपवेश्य ऋषभस्य चर्मणि यजमानस्योपरि धार्यमाणे सति यजमानशिरसि सुवर्णं शतकृष्णलमितं निक्षिप्य यजमानमभिषिञ्चेत् । ततो यजमानो मुखं विमृज्य, अध्वर्युणा प्राजापत्यासु षट्सु आहुतिषु क्रियमाणासु विष्णुक्रमान् का?मेत् । ततो वैतसे कटे अश्वं निपात्य प्राक्शिरसं तदङ्गान्यवद्येत् । एवमश्वस्य पुरोभागे पश्चिमशिरसं तूपरं पश्चाद्भागे

[[१२०]] प्राक्शिरसं गोमृगं च शाययित्वा तत्तदङ्गानामवदानं कुर्यात् । अश्वस्य दक्षिणतः प्लक्षशाखा वितत्य तत्रेतरान् पशून् शाययित्वा हृदयाद्यङ्गाना मुद्धरणं कृत्वा वेद्यामासाद्य, अश्वतूपरगोमृगाणां निरवशेषं होमं कृत्वा यत्र ते शायितास्तमपि कटमग्नौ प्रक्षिपेत् । तत आहवनीये आज्येन शरीरहोमान् हुत्वा, अश्वस्य लोहितेन स्विष्टकृतं हुत्वा, गोमृगस्य कण्ठेन अश्वशफेन अयस्मयेन कमण्डलुना च क्रमश आहुतित्रयं हुत्वा ततो यथाप्रकृति पत्नीसंयाजान्तमनुष्ठाय तदहर्विरमयेत् ॥ तदनन्तरदिवसे सर्वस्तोममतिरात्रसंस्थाकं सोमयागमनुनिष्ठेत् । इदं तृतीयं सुत्यादिनम् । तस्मिन् दिने सौमिकान् व्यापारान् यथाप्रकृत्यनुष्ठाय सवनीयपशूपाकरणकाले एकादश पशून् प्राजापत्यान् वैश्वदेवान् वा पशुयागान् अन्ते प्राजापत्यमेकं पशुयागं च कृत्वा ततो यथाप्रकृति कर्तव्यानि सर्वाणि कर्माण्यनुष्ठाय, अवभृथेष्ट्यनुष्ठानपूर्वकमवभृथस्नानं विधाय, अत्रिगोत्रोद्भवं, क्लेशरहितमस्तकं, सर्वदा स्वेदनशीलं, श्वेतकुष्ठं पिङ्गलवर्णाक्षियुतं कंचन पुरुषमानीय तस्य शिरसि होमविशेषत्रयमनुष्ठाय तस्मै शतं सुवर्णानि अनोयुक्तानि दत्त्वा ग्रामं गच्छेत् । ग्रामीणा अपि पुरुषाः सहैव गच्छेयुः । ततस्त्रैधातवीयेष्टिमुदवसानीयास्थाने कृत्वा तदनन्तरम् ऋतुपशुभिः संवत्सरं यावद्यजेत । तत्तदृतावनुष्ठेयतया ये विहिताः पशवस्ते ऋतुपशव उच्यन्ते । समाप्तोऽश्वमेधः ॥

सर्व-यज्ञ-श्रेष्ठता

अयं चाऽतिबृहन् क्रियासमूहः । अतिकुशलैः कण्ठाग्रविलसत्पद्धतिभिः ऋत्विग्भिरेवाऽनुष्ठापयितुं शक्यते । न सामान्यप्रज्ञैः । यतोऽस्य प्रयोगोऽत्यन्तं जटिलः प्रकृतावपरिचितपदार्थशतसंकुलश्च । किंचास्याऽनुष्ठानमनेकशतवत्सरेभ्यः पूर्वमेव विलुप्तम् । यतस्तादृशा अधिकारिणो बहोः कालात् पूर्वमेव विलोपं गताः । परं वैक्रमीयसंवत्सर त्रयोदशचतुर्दशशतकपर्यन्तं भारतीयै राजभिर्यथाकथंचिदनुष्ठित असीदिति वयमितिहासमुखादवगच्छामः । परमतिप्राचीनात् वैदिककालादारभ्याऽस्मद्देशे प्रसिद्धिं गतोऽयं यागः, आस्माकीनैरेव चेदम्प्रथमतया ज्ञात इति श्रुतिपरामर्शेनावगम्यते । सति चैवं एतद्विषयकं परिज्ञानमस्माकं भारतीयानां पाश्चात्यदेशादधिगतम् । ग्रीक्प्रभृतिषु पाश्चात्यदेशेषु अतिप्राचीनादारभ्य समयात्, प्रथेयम्-अश्वस्य हविष्ट्वसम्पादनेन देवताभ्यो दानमित्यादिका-

[[१२१]] प्रसरं गता आसीत् । अनन्तरं भारतदेशीयैस्सा शिक्षिता तेभ्य एव इति यत् केचन पाश्चात्याः पण्डिताः कथयन्ति तत् सर्वथा वस्तुयाथार्थ्यापलपमात्रम् । यतस्सर्वेयं वैदिकी परिपाटिरास्माकीनैव अस्मदुपज्ञैव च देशान्तरीयाभ्यस्ताभ्योऽतिप्राचीना, अनिर्ज्ञातोत्पत्तिकाला इत्यत्र नास्ति संशयस्य कियानप्यवकाशः। अस्मत्त एव च प्रथममरब्-देशीयैः शिक्षिता, ततो ईजिप्ट्-देशीयैः, ततो रोमकैः, तेभ्यश्चाङ्ग्लैः । एवमास्माकीना सभ्यता देशान्तरं गता । आङ्गलास्सभ्यतामिमां रोम्-देशादेवाशिक्षन्त इति कृत्वा ते तमेव देशमस्याः परमं मूलं मन्वते । तदिदं तेषामुपरिप्लवन मात्रम् । परं तेष्वपि केचित् तत्त्वविमर्शकाः तत्त्वं नापलपितुमीहन्ते । अस्तु, नात्र दूरतरं गन्तुमभिलषामो विस्तराद्भीताः । अतोऽश्वमेधयागः अनादिकालिको वैदिकानां कर्मणां मध्ये प्राधान्यं परमं गतः सार्वभौमकर्तृको महापुण्यप्रद इति सिद्धम् ॥


  1. मातापितृभ्यामपि उत्पत्त्यनन्तरमेव कृतसोमपानाभ्यां भाव्यमिति सूत्रकारः । See. आप. श्रौ. सू. २०-२-११. ↩︎

  2. सैध्रको महासारो वृक्षविशेषः See सायणभाष्य on तै. ब्रा. ३.८.४.१, ↩︎

  3. चतुर्विंशतिरङ्गुलयोऽरत्निः । एवमेकविंशत्यरत्निपरिमितः ५०४ अङ्गुलिपरिमितो भवेदूर्ध्वतायाम् । अन्ये यूपाः पञ्चारत्नयः । ↩︎