०३ राजसूयः

अतः परं 1राजसूयाख्यं क्रतुं निरूपयामः । क्रतुरयं राज्येऽभिषिक्तेन राज्यधुरं वहता क्षत्रियेणाऽनुष्ठेयः । अयं च प्राचीनसमये तादृशैरेव राजभिः विशेषतः सूर्यवंशीयैः सोमवंशीयैश्चाऽनुष्ठित इति ज्ञायते । महाभारते च युधिष्ठिरेणानुष्ठितो राजसूययागस्साधु वर्णितोऽस्ति । तदनन्तरकालिकाश्च राजानो तं बहवोऽन्वतिष्ठन्निति पुराणेभ्यः शिलालेखादिभ्यश्च प्रमाणेभ्योऽवगच्छामो वयम् । अयं च बह्वीनामिष्टीनां द्वयोः पशुयागयोः सप्तानां दर्विहोमानां षण्णां च सोमयागानां समुदायरूपः ।

[[१०९]]

अतोऽत्र इष्टिपशुसोमयागानां समप्राधान्यमेव; नेतरेतराङ्गभावः । पशुयागाङ्गभूता इष्टयः, सोमयागाङ्गभूता इष्टयः, पशुयागाश्च प्रकृतितोऽतिदेशप्राप्ता यथावदनुष्ठेया एव । तेषां परं तत्तदङ्गत्वमप्रतिहतं वर्तत एव ॥ किञ्चिदधिकैकवत्सरसाध्योऽयं क्रतुः । अत्र षट् सोमयागाः, द्वौ पशुयागौ । एकोनत्रिंशदुत्तरशतमिष्टयः (१२९) सप्त दर्वीहोमाश्चानुष्ठेयाः । यज्ञस्याऽस्य फाल्गुनशुक्लप्रतिपदि आरम्भः कर्तव्यः । ततो वर्षमेकं चातुर्मास्यानुष्ठानम् । तानि चातुर्मास्यनिरूपणप्रकरणोक्तरीत्याऽनुष्ठेयानि । ततः पवित्रादीनां षण्णां सोमयागानां क्रमेणानुष्ठानम् । अत्र यागशिष्टस्य सोमस्य भक्षणे विकल्पः । अवश्यं स भक्षयितव्य एवेति यो नियमो ब्राह्मणस्य सोऽस्य नास्ति । यदि तु सोमभक्षणेच्छा, तदा पूर्वं यागार्थं सोमक्रयणकाल एव 2न्यग्रोधवृक्षस्यावरोधान् तदङ्कुराणि वा सोमवदेव क्रीत्वा सर्वांश्च सौमिकव्यापारान् तत्राऽनुष्ठाय, ततस्तानि पिष्ट्वा दध्ना सम्मेल्य, तेन यजमानचमसमापूर्य होमकाले इतरैः सोमचमसैः सह हुत्वा होमावशिष्टं तमेव 3न्यग्रोधावरोधरसं राजानं यजमानं पाययेत् । अध्वर्य्वादयस्तु ऋत्विजः स्वस्वग्रहचमसस्थं सोमरसमेव भक्षयेयुः । यजमानस्य तु राज्ञो ग्रहेषु भक्षणं नास्ति । एवं सर्वेष्वपि सोमयज्ञेषु राज्ञो भक्षणं फलचमसस्यैव, न सोमस्य । राजन्यकर्तृकेऽपि यागेऽस्मिन् ब्राह्मणा एवर्त्विजः । तेषां तु सोमभक्षणं भवत्येव । इति सामान्यविषयाः । विशेषास्तु – चैत्र्याः पौर्णमास्याः पूर्वस्मिन् दिवसे पवित्राख्य सोमयागार्थं दीक्षां कुर्वीत । दिनत्रये दीक्षाः । दिनत्रये चोपसदः । सप्तमदिने सुत्या । अग्निष्टोमसंस्थाकोऽयं क्रतुः । सहस्रमत्र गावो दक्षिणाः सप्तसु दिवसेषु क्रतुमिमं परिसमाप्य, अष्टमदिनप्रभृति अनुमत्यादीनष्टौ यागान् एकैकस्मिन् दिने एकैकरूपेण अनुतिष्ठेत् ॥

ते च यथा - १. अनुमत्यै पुरोडाशोऽष्टाकपालः २. आदित्यश्चरुः ३. आग्नावैष्णव एकादशकपालः ४. अग्नीषोमीय एकादशकपालः ५. ऐन्द्र एकादशकपालः ६. आग्नेयोऽष्टाकपालः ऐन्द्रं दधि

[[११०]] ७. ऐन्द्राग्नो द्वादशकपालः, वैश्वदेवश्चरुः, सौम्यः श्यामाकश्चरुः ८. सरस्वत्यै सरस्वते च चरुः । इत्यष्टौ यागाः । ततस्तदनन्तरदिनप्रभृति संवत्सरपर्यन्तं चातुर्मास्यपशुभिर्यजेत ॥ ततः - १. आग्नेयोऽष्टाकपालः २. रौद्रो गावीधुकश्चरुः ३. ऐन्द्रं दधि ४. यवमयो वारुणश्चरुः इति हविश्चतुष्टयविशिष्टेन इन्द्रतुरीयाख्येन यागेनेष्ट्वा, तस्यामेव निशायां पञ्चेध्मसंज्ञकं कर्म कुर्यात् । ततः सूर्योदयात् पूर्वम् अपामार्गहोमान् कुर्यात् । अपां समीपादपामार्गाख्यानि तृणविशेषबीजान्यानीय, तानि चूर्णयित्वा, दक्षिणाग्नेरेकमुल्मुकं गृहीत्वा स्वतस्सिद्धं मरुस्थलं गत्वा, तत्र तमग्निं प्रतिष्ठाप्य प्रज्वाल्य्य, पर्णमयेन स्रुवेण अपामार्गचूर्णानि तस्मिन्नग्नौ जुहुयात् । ततस्तमग्निमुपस्थाय, प्रत्यावृत्य पुनस्तं देशमनवेक्षमाणो यज्ञस्थलमागत्य अग्निहोत्रं हुत्वा पञ्च देविकाहवींषि निरुप्य तैर्यजेत ॥

तानि च - १. धात्रे पुरोडाशो द्वादशकपालः २. अनुमत्यै चरुः ३. राकायै चरुः ४. सिनीवाल्यै चरुः ५. कुह्वै चरुः इत्येवंरूपाणि । कर्मपञ्चकमपीदम् एकस्मिन्नेव दिने एकप्रयोगेण समानतन्त्रेणाऽनुष्ठेयम् । तस्य च एका गौरेको वृषभश्च दक्षिणा । ततो हविस्त्रय विशिष्टानि त्रीणि कर्माणि । अर्थात् हविस्त्रयविशिष्ट एकस्समुदायः । स एकं कर्मेत्युच्यते । एवं समुदायत्रयं त्रीणि कर्माणि । तत्र आग्नावैष्णव एकादशकपालपुरोडाशद्रव्यकः ऐन्द्रावैष्णवः तादृशः, वैष्णवस्त्रिकपालः इत्येकः समुदायः । एकमिदं कर्म । अग्नीषोमीय एकादशकपालपुरोडाशद्रव्यकः, इन्द्रासोमीयः सः, सौम्यश्चरुः इत्ययमेकः समुदायः । एकमिदं कर्म । सोमापौष्णश्वरुः, ऐन्द्रापौष्णश्चरुः, पौष्णश्चरुः त्रितयमेकं कर्म । एतदनन्तरम् एकहविष्का एका इष्टिः । सा च वैश्वानरद्वादशकपालरूपा । ततो वारुणो यवमयश्चरुः । इति मिलित्वा षट् कर्माणि एकदिनकर्तव्यानि । ततो द्वादशेष्टयः; एकैकस्मिन् दिने एकैकेति द्वादशसु दिवसेषु द्वादशेष्टयो विहिताः ॥

ताश्च - १. बार्हस्पत्यश्चरुः २. ऐन्द्र एकादशकपालः पुरोडाशः ३. आदित्यश्चरुः ४. नैर्ऋतश्चरुः ५. आग्नेयोऽष्टाकपालः पुरोडाशः ६. वारुणो दशकपालः पुरोडाशः ७. मारुतः सप्तकपालः पुरोडाशः

[[१११]] ८. सावित्रो द्वादशकपालः पुरोडाशः ९. आश्विनो द्विकपालः पुरोडाशः १०. पौष्णश्चरुः ११. रौद्रोऽरण्यगोधूमसम्पाद्यश्चरुः इत्येवंरूपाः । एतदतिरिक्तश्चरुरेकश्चतुर्थतया तैत्तिरीयब्राह्मणे विहितः-भगाय चरुरिति । द्वादशापीमानि “रत्निनां हवींषि" इत्युच्यन्ते । यागा इमे न स्वगृहेऽनुष्ठेयाः । किन्तु ब्रह्मादीनां द्वादशानां गृहं गत्वा तत्रैवाऽनुष्ठेयाः । तत्र प्रातः स्वगृहेऽग्निमरण्यादिषु समारोप्य तत्तद्गृहं गत्वा तत्र मथित्वाऽरणी, अग्निमुत्पाद्य, आहवनीयादिषु कुण्डेषु तं प्रतिष्ठाप्य यजेत । एवं प्रतिदिनम् एकैकेष्टिरिति द्वादशसु दिवसेषु द्वादशेष्टयः कर्तव्याः । ततः परं स्वगृह एव इन्द्राय सुत्राम्णे पुरोडाशः, इन्द्रायाँ होमुच एकादशकपाल इतीष्टिद्वयमनुष्ठाय, तदनन्तरस्मिन् दिवसे अभिषेचनीयाख्याय सोमयागाय यजमानो दीक्षेत । तत्र दीक्षणीयेष्टिर्मैत्राबार्हस्पत्या भवति । तत्र विशेषः-

श्वेतां श्वेतवत्सां गाम् आम्रफलरसलेपितायां दृतौ दुह्यात् । तत्रैवाऽऽतञ्चनमन्तरेण तत् पयो यदा दधि सम्पद्यते तत् स्वयं मूर्तमित्युच्यते । तदा तत्र बदरफलादिकं प्रक्षिपेत् । तदा स्वयमेव तत् पात्रात् बहिः प्रवहेत् । तत् स्वयंमथितमित्युच्यते । तत्र खण्डितैस्तण्डुलैश्चरुं पक्त्वा तेन बृहस्पतये यागं कुर्यात् । अखण्डितैस्तु तैः आज्ये चरुं सम्पाद्य तेन मित्रं यजेत । नात्र चरुं मृद्भाण्डे पचेत् । किन्तु वाय्वभिघातादिना स्वयमेव भग्नपतितेन अश्वत्थवृक्षीयेण काष्ठेन निर्मिते चतुष्कोणयुते पात्रे चरुः पक्तव्यः । इध्मकाष्ठान्यपि न वृक्षाच्छेतव्यानि । किन्तु स्वयमेव पतितानि यानि स्युः तानि ग्रहीतव्यानि । एवं कुशा अपि स्वयं पतिता एव ग्राह्याः । वेदिरपि स्वयं निष्पन्नैव भवेत् । एवं पृथक् पृथक् हविषी सम्पाद्य, यागकाले प्रथमं बार्हस्पत्यहविषेष्ट्वा अनन्तरं मैत्रेण यजेत । स्विष्टकृद्यागस्तूभयोरेक एव । शतपथब्राह्मणे तु यथोक्तेन प्रकारेण हविस्सम्पादनं पृथक् कृत्वा अनन्तरं ते द्वे अपि हविषी एकीकृत्य मित्रबृहस्पती उद्दिश्य एकीकृतेन हविषा तेन 4होम उक्तः । एवं दीक्षणीयेष्टिं परिसमाप्य अभिषेचनीयाख्यसोमयागाय दीक्षयित्वा यावदग्नीषोमीयपशुयागमनुतिष्ठेत् प्रकृतिवत् । अत्राऽभिषेचनीयस्य दीक्षादिनानि तथा अभिवर्धयेत् यथा तस्य संवत्सरस्य दशसु रात्रिषु

[[११२]] अवशिष्टासु दशपेयस्य प्रधानहविरनुष्ठानं भवेत् । तत्र सोमक्रयकाले अभिषेचनीयाय दशपेयाय चाऽग्रेऽनुष्ठास्यमानाय सहैव सोमक्रयं कुर्यात् । तत्राऽर्धं, दशपेयायाऽवशेष्य, यजमानपुरोहितस्य गृहेऽवस्थाप्य अर्धेन यागं कुर्यात् । अभिषेचनीयगताग्नीषोमीयपशुपुरोडाशयागसमाप्त्यनन्तरम् अष्टौ देवसुवां हवींषि निर्वपेत् ॥ तानि च-१. अग्नये गृहपतये पुरोडाशोऽष्टाकपालः २. सोमाय वनस्पतये श्यामाकश्चरुः ३. सवित्रे सत्यप्रसवाय पुरोडाशो द्वादशकपालः ४. रुद्राय पशुपतये गावीधुकः (अरण्यगोधूमकृतः) चरुः ५. बृहस्पतये वाचस्पतये नैवारश्चरुः ६. इन्द्राय ज्येष्ठाय पुरोडाश एकादशकपालः ७. मित्राय सत्याय चरुः ८. वरुणाय धर्मपतये यवमयश्चरुः इति । एतेऽष्टौ यागा अनुष्ठेया इति यावत् ॥ तत्र प्रधानयागानुष्ठानानन्तरं स्विष्टकृद्यागात्पूर्वं ब्रह्मा यजमानस्य राज्ञो हस्तं गृहीत्वा तद्राज्यस्थाभ्यः प्रजाभ्यो राजन्यवैश्यादिभ्यो राजानं निवेदयेत्-एष वो भरता राजा इति । तस्य पित्रादि नामान्यपि कथयेत्-अमुष्य पुत्रः इत्यादि । ततो यजमानो राजा विष्णुक्रमादीन् इष्टाविव क्रामेत् । ततो माहेन्द्रस्तोत्रात्पूर्वतनानि कर्माणि यथावदनुष्ठाय माध्यन्दिनसवनीयानां हविषां मारुतस्यैकविंशतिकपालपुरोडाशस्य च निर्वापं कृत्वा तानि यथावदनुतिष्ठेत् ॥ ततो राज्ञस्तस्याभिषेकार्थं तत्तत्स्थानेभ्यो जलमाहरेदध्वर्युः । तद्यथा-समुद्रात् , पुंनदात् , वहन्तीभ्योऽद्भ्यः स्थावराभ्य इत्यादि । तच्च षोडशभ्यः स्थानेभ्यः तावत्प्रकारमानयेत् । तत्र दध्नः, पयसः, घृतस्य, मधुनश्च गृह्णीयात् । आनीय वैतसे चतुष्कोणे बृहति पात्रे निनीय, मैत्रावरुणधिष्ण्यस्य अग्रे स्थापयेत् । ततस्ता अपः पालाशे औदुम्बरे आश्वत्थे नैयग्रोधे च पात्रे व्यानयेत् । ततो राजानं तार्प्यं, पाण्डरं वासः, उष्णीषं च परिधापयेत् । धृताक्तः कम्बलः तार्प्य॑म् इत्युच्यते । ततः तं दर्भपुञ्जीलैः पवयित्वा, दधि, उदुम्बरफलानि, बालतृणानि च आशयित्वा, तं जनेभ्यो निवेद्य-‘अयं वो भरता राजा’ इति, धनुस्तस्मै प्रदाय, बाणांस्त्रीन् दत्त्वा आहवनीयस्य अग्रभागे शार्दूलचर्म आस्तीर्य तस्मिन् शतसुवर्णपरिमितं हिरण्यं निधाय, तस्मिन्

[[११३] राजानमुपवेश्य पार्थसंज्ञकान् षड्ढोमान् हुत्वा ऊर्ध्वबाहुं तिष्ठन्तं तं सामवेदीयैः ऋत्विग्भिः माहेन्द्रस्तोत्रगानं यदा क्रियते, तदाऽध्वर्युः पालाशेन पात्रेण पूर्वभागे पश्चिमाभिमुखस्तिष्ठन्नभिषिञ्चेत् । औदुम्बरपात्रेण दक्षिणभागे उत्तराभिमुखस्तिष्ठन् ब्रह्मा, पश्चाद्भागे पूर्वाभिमुखस्तिष्ठन् होता, उत्तरभागे दक्षिणाभिमुखस्तिष्ठन्नुद्गाता चाभिषिञ्चेयुः । एवमनभिषिक्तक्षत्रियः, वैश्यः, कश्चित् मित्रभूतश्चाभिषिञ्चेयुः ॥

ततः नववस्त्रपरिधानपूर्वकं षट् पार्थहोमाननुष्ठाय, रथं कञ्चिदानीय तत्र राजानमारोहयेत् । रथस्तु अश्वत्रययुक्तो भवेत् । पार्श्वद्वयवर्तिनौ च सारथी भवेताम् । तस्य समीपे पुरतः सधनू राजन्योऽवस्थितो भवेत् । तस्मै इषून् प्रास्य तं जित्वा धनुः पत्न्यै प्रदाय पादयोः वराहचर्मनिर्मिते उपानहौ धृत्वा रथादवरुह्य सौवर्णान् मणीन् कण्ठे प्रतिमुच्य रथविमोचनीयसंज्ञकान् होमान् हुत्वा आहवनीयस्याग्रभागे चतुरश्रां वेदिं निर्माय, तस्यां खादिरकाष्ठनिर्मितां आसन्दीं प्रतिष्ठाप्य, तस्यां चर्मपटमास्तीर्य, तदुपरि यजमान उपविशेत् । तस्य परितः ऋत्विजः ग्रामीणा वैश्याश्चोपविशेयुः । पुरस्तात् अध्वर्युः, दक्षिणभागे ब्रह्मा, पश्चाद्धोता, उत्तरभाग उद्गाता चोपविशेयुः । उपविष्टान् तान् प्रति राजा ‘हे अध्वर्यो ! त्वं ब्रह्मासि, ब्राह्मणोऽसि, त्वं सवितासि’ इत्येवं ब्रूयात् । स तु ‘हे राजन् ! त्वमेव ब्राह्मणोऽसि, ब्राह्मणधर्मान् परिपालयन् अस्माननुष्ठापयसि’ इत्यादि प्रतिब्रूयात् । एवं क्रमेण चतुर्भिः ऋत्विग्भिः राज्ञि स्तुते सति, ततो ब्रह्मा स्फ्यं यजमानहस्ते दद्यात् । स परम्परया अक्षावापहस्तं यदा गच्छति तदा तेन स कितवः, तत्रोद्धननादिना भूमिं समीकृत्य, तत्र सुवर्णमयान् अक्षान् शताधिकान् प्रास्य, तेभ्यः पञ्च गृहीत्वा, ‘अयं समग्राया भुवो राजाऽभवत्’ इत्यभिप्रायेण तस्मै दद्यात् । ततो राजा मङ्गलशब्दैस्तानाह्वयेत् । ततो हिरण्मये राज्ञा दत्ते आसने उपविशन् होता शुनश्शेपकथां श्रावयेत् । सा च कथा ऐतरेयब्राह्मणे सप्तमपञ्चिकायां तृतीयाध्याये वर्णिता । तथा सह तत्सम्बन्धिनीः ऋचोऽपि परश्शताः ऋक्संहितागताः परस्सहस्रा वा होता शंसेत् । तादृश एवाऽऽसने उपविष्टोऽध्वर्युः तं प्रतिगृणीयात् । राजा च शृण्वन्नासीत । कथान्ते तत्तदासनं तस्मै तस्मै दत्त्वा अभिषेचनीयदीक्षासमये, पत्न्या धृतं रुक्मं चाऽध्वर्यवे प्रदाय, मारुतैककपालेष्टिम् आमिक्षायागं च वैश्वदेवमनुष्ठाय,

[[११४] अवशिष्टमाहेन्द्रयागं परिसमाप्य, अवभृथदेशं गत्वा अवभृथेष्टिं विधाय, स्नात्वा, सपरिवारो गृहमागच्छेत् । एतावता अभिषेचनीयस्समाप्तः । ततः श्वोभूते संसृपां हवींषि दशसंख्याकान्यनुतिष्ठेत् ॥

तानि-१. आग्नेयोऽष्टाकपालः पुरोडाशः २. सारस्वतश्चरुः ३. सावित्रो द्वादशकपालः पुरोडाशः ४. पौष्णश्चरुः ५. बार्हस्पत्यश्चरुः ६. ऐन्द्र एकादशकपालः ७. वारुणो दशकपालः ८. सौम्यश्चरुः ९. त्वाष्ट्रोऽष्टाकपालः १०. वैष्णवस्त्रिकपालः पुरोडाश इति दश । अयमत्र क्रमः-दशानां संसृपां हविषां मध्ये सप्त हवींषि प्रतिदिनं क्रमेणैकैकं कृत्वा सप्तमे सप्तम्यामिष्टावतीतायाम् अपराह्ने दशपेयाय सङ्कल्पं कृत्वा सद्य एव द्वादशपुण्डरीकस्रक्प्रतिमोकलक्षणां दीक्षां कुर्यात् । तदानीमेव प्रथमामुपसदं कृत्वा तदन्ते संसृपामष्टमं हविर्निवपेत् । अष्टमे दिने उपसदन्ते संसृपां नवमं हविः निरूप्य, नवमे दिवसे तृतीयोपसदन्ते संसृपां दशमं हविर्निरूप्य, तस्मिन्नेवाऽहनि अग्नीषोमीयपशुप्रचारं कुर्यात् । दशमेऽहनि सोमोऽभिषूयते । अभिषवकाले अभिषेचनीययागसमये एतदर्थं क्रीत्वा स्थापितं सोमस्यार्धमभिषुणुयुः । ततो ग्रहचमसादिपात्रसंसादनकाले प्राकृतेभ्यो दशभ्यश्चमसेभ्योऽधिकान् दश चमसान् सादयेत् । तानितरचमसपूरणकाले पूरयेत् । चमसहोमकाले एकैकं चमसं दश दश ब्राह्मणा इति शतं ब्राह्मणास्तत्राऽवस्थिता भवेयुः । ते च ब्राह्मणाः दशपुरुषं यावदविच्छिन्नसोमपातृकुलोत्पन्ना भवेयुः । चमसान् हुत्वा होमानन्तरं भक्षणार्थम् अध्वर्य्वादिषु सभामण्डपं गच्छत्सु । इमेऽपि शतं ब्राह्मणास्ताननुगच्छन्तस्सदः प्राप्य तेषु स्वं स्वं चमसं भक्षयत्सु इमे स्वस्वचमसस्थं सोमरसं दशसंख्यया पिबेयुः । अत एव च कारणात् अस्य क्रतोर्दशपेय इति संज्ञा सम्पन्ना ॥

अत्र दक्षिणायामस्ति विशेषः । स चेत्थम् -अध्वर्यवे सुवर्णमयौ दर्पणौ । उद्गात्रे हिरण्मयी माला । वर्तुलं स्वर्णाभरणं होत्रे । प्रस्तोत्रे प्रतिहर्त्रे चाऽश्वः। ब्रह्मणे बालगर्भिण्यो दश गावः। मैत्रावरुणाय वन्ध्या गौः। ब्राह्मणाच्छंसिने बलीवर्दः । नेष्ट्रे पोत्रे च धौतवस्त्रम् । अच्छावाकाय यवपूर्णं स्थूलशकटम् । अग्नीध्रेऽनोवहनसमर्थ ऋषभ इति देयाः । सर्वमन्यत् प्रकृतिवत्। एवं दशपेयाख्यं सोमयागं परिसमाप्य, तदुत्तरभाविन्यां वैशाख्यां पूर्णिमायां केशवपनीयाख्यसोमयागार्थं दीक्षेत । अभिषेचनीयाख्यं सोमयागमनुष्ठाय

[[११५]]

ततः पशुयागद्वयं कुर्यात् । संवत्सरपर्यन्तं केशानां वपनं न कारयितव्यम् । तदेतत् व्रतं भवति । अतस्तद्विसर्जनार्थं कश्चन सोमयागः कार्यः । स एव केशवपनीय इत्युच्यते । सोऽतिरात्रसंस्थाको भवेत् । तत्र स्तोत्रेष्वयं विशेषः-प्रातस्सवने सर्वाण्यपि स्तोत्राणि एकविंशस्तोमकानि । माध्यन्दिने सर्वाणि स्तोत्राणि सप्तदश स्तोमकानि । तृतीयसवने अग्निष्टोमवत् द्वादश स्तोत्राणि । तत उक्थ्यस्तोत्राणि त्रीणि । षोडशिस्तोत्रमेकम् । रात्रिपर्यायाणि स्तोत्राणि द्वादश । सर्वाण्यपि इमानि स्तोत्राणि पञ्चदशस्तोमकानि कार्याणि । अतिरात्रस्तोत्रानन्तरं पूर्वदिवसरात्रिशेषे उत्तरदिवसस्योषःकाले यज्ञसमाप्तिसम्पादकमेकं चरमं स्तोत्रं तृतीयपर्यायस्यान्ते रथन्तरसाम्ना गातव्यम् । तत् सन्धिस्तोत्रमित्युच्यते । तत् त्रिवृत्स्तोमयुक्तं कार्यम् । एवं च अस्मिन् क्रतौ स्तोमानाम् एकविंशादारभ्य त्रिवृत्पर्यन्तमवरोहणक्रमेण निवेशोऽवगन्तव्यः ।

इतः परं व्युष्टिद्विरात्रः, क्षत्रस्य धृतिरिति सोमयागद्वयमवशिष्टम् । तत्र व्युष्टिद्विरात्रे प्रथमदिनमग्निष्टोमसंस्थाकम् । द्वितीयमहरतिरात्रसंस्थाकम् । पूर्णिमायां प्रथममहरनुष्ठेयम् । तदनन्तरकृष्णाष्टम्यां उत्तरमहः । सर्वमन्यत् तत्तत्प्रकृतिवत् । ततः क्षत्रस्य धृतिः । सोऽग्निष्टोमसंस्थाकः । त्रिवृत्पञ्चदशसप्तदशरूपैः त्रिभिरेव च स्तोमैर्युतः । सर्वमत्राऽन्यत् यथाप्रकृति । एतावता समाप्तो राजसूयक्रतुः । राजसूयं परिसमाप्य सौत्रामण्या यजेत । तदनुष्ठानप्रकारः पूर्वमेवोक्तः ॥


  1. आप श्रौ. सू. १८-८-१, कात्या. श्रौ.सू. १५-१-१. राजा सूयते अभिषूयते सोमो यागार्थमत्रेति व्युत्पत्ती राजसूयशब्दस्य । ↩︎

  2. न्यग्रोधस्य वटवृक्षस्य अवरोधाः शाखाभ्योऽवाङ्मुखतया प्ररोहन्तो मूलविशेषाः । ↩︎

  3. See. ऐ. ब्रा. Ch. 13. ↩︎

  4. See. मा. श. ब्रा. ५. २. ६.६-८. ↩︎