सौत्रामणी नाम पशुयागः । स द्विविधः प्रोक्तस्तैत्तिरीये बौधायनापस्तम्बादिभिश्च - चरकसौत्रामणी कौकिलसौत्रामणी चेति । तत्र चरकसौत्रामणी स्वतन्त्रा, चयनाङ्गभूता च । अस्यां त्रयः पशवः - अजो धूम्रवर्णोऽश्विदेवताकः । मेषः सरस्वतीदेवताकः । मेष एव चेन्द्रदेवताकः । निरूढपशुबन्धकल्पेन त्रयाणां सहैव अनुष्ठानम् । अत्र वपायागानन्तरं सुराग्रहग्रहणं यद्यपि ब्राह्मणश्रौतसूत्रादावुक्तं तथापि तस्य कलौ निषिद्धत्वात् तद्विकल्पतया आपस्तम्बादिभिः पयोग्रहाणां विधानात् तैरेव यागोऽनुष्ठीयते । तत्र त्रयो ग्रहाः । पशुयागीया देवता एव अत्रापि देवताः । तैर्हुत्वा पितॄनुपस्थाय पशुपुरोडाशयागमनुतिष्ठेत् । त्रयः पुरोडाशाः । इन्द्रः, सविता, वरुण इति क्रमेण तत्र देवताः । ततोऽङ्गयागाद्यनुष्ठानपूर्वकं सौत्रामणीं समाप्य, वारुणेनैककपालेन अवभृथेष्टिं कृत्वा स्नात्वा अग्नीन् समारोप्य गृहमागच्छेत् । इयं चरकसौत्रामणी । कौकिलसौत्रामण्याम् - ऐन्द्रः, आश्विनः, सारस्वतः, ऐन्द्रः, ऐन्द्रो वायोधसश्चेति पञ्च पशव इतीयान् विशेषः । इति सौत्रामणीस्वरूपम् ॥