अथेदानीम् अग्निचयनं निरूप्यते । पशुयागेषु सोमयागेषु योत्तरवेदिरुक्ता तत्रैव आहवनीयं निधाय सर्वे होमाः कर्तव्या इत्ययमेकः पक्षः । तस्या एवोपरि स्थण्डिलविशेषं कञ्चन निर्माय तदुपर्याहवनीयमवस्थाप्य तत्र होमा इत्यपरः पक्षः । तत्र तादृशस्थण्डिलनिर्माणप्रकारः ‘चयनम्’ इति, निर्मितं, स्थण्डिलम् , ‘चितिः’ इति च व्यवह्रियते वैदिकसम्प्रदाये । सा चितिर्द्विविधा-क्षुद्रचितिः, महाग्निचितिश्चेति । शर्कराख्यैः क्षुद्रपाषाणैः शतोपशतसङ्ख्याकैः निर्मीयमाणा अल्पाकारा क्षुद्रचितिः । बृहतीभिस्सहस्रसङ्ख्याकाभिरिष्टकाभिः 1षड्विधाभिरखण्डिताभिस्तत्तदाकारतया निर्मीयमाणः स्थण्डिलविशेषो महाग्निचितिः । तत्र क्षुद्रचितयः षट् । तासां विधयो मन्त्राश्च तैत्तिरीयारण्यके तैत्तिरीयब्राह्मणान्तर्गते काठमां?ख्ये भाग एव च दृश्यन्ते । 2नान्यत्र । तासां विनियोगं प्रायेण निरूढपशुयागादौ एव याज्ञिकाः कुर्वन्ति ।
[[९८]]
ताश्च एकदिनसाध्या एव । तत्साधनभूतानां क्षुद्रापाषाणानामल्पत्वेन तैर्भूमेरुपरि स्थण्डिलनिर्माणस्य अशक्यतया उत्तरवेदिमध्येऽवटं कृत्वा तत्रैव तानुपधाय तदुपर्येव आहवनीयमुपधाय यजेत । महाग्निचितयस्तु भूमेरुपर्येव क्रियन्ते । ताश्चैकादशविधास्तैत्तिरीय उक्ताः । तासामेव च प्रमाणविवर्धनेनैकोत्तरशतविधत्वं वाजसनेयिशाखायामुक्तम्, आपस्तम्बदिभिर्निरूपितं च । परं तासु सर्वासु श्येनचितिरेव सुपर्णचित्यपरनामधेया प्राथम्यं प्राधान्यं च आवहति । अतः सैव याज्ञिकैर्यथायथमनुष्ठीयते सति सामग्रीसमधाने । अन्यास्तु नाममात्रावशिष्टाः । यथावदवगमोऽपि न तासां सुलभः । तैत्तिरीये शाखान्तरेषु च श्येनचितिमधिकृत्यैव प्रवृत्ता मन्त्रा ब्राह्मणानि च । सा श्येनचितिराकाशे पक्षौ प्रसार्य डयमानपक्ष्याकृतिश्चीयते । तत्र पञ्च प्रस्ताराः । एकैकस्मिन् प्रस्तारे शतद्वयमिष्टकानाम् । पञ्चसु प्रस्तारेषु मिलित्वा सहस्रमिष्टका भवन्ति । स्वरूपमस्या अन्ते पृथक् चित्ररूपेण प्रदर्शितम् । अत्र सर्वेष्वपि प्रस्तारेषु नैकरूप्येणेष्टकानामुपधानम्। किं तु प्रथमतृतीयपञ्चमेष्वेकरूपतया द्वितीयचतुर्थयोरेकरूपतया । तथा सत्येव प्रस्ताराणां परस्परं संलग्नता स्यात् । इयमाहवनीयनिधानार्था चितिः । एवमेव गार्हपत्यार्थमपि चितिः सम्पादनीया । सापि प्रथमानुष्ठाने पञ्चप्रस्तारैव । परमिष्टकानामेकरूपतैव तत्र । दीर्घचतुरश्राकारा च सा, न पक्षिरूपा । एवं पञ्चभिः प्रस्तारैर्निर्मिता चितिर्जानुदघ्नप्रमाणा स्यात् । त्रिंशदङ्गुलं जानुदघ्नप्रमाणमिति सूत्रकाराः । तस्य पञ्चमोंऽशः इष्टकानामुत्सेधः । एवं च षडङ्गुलोन्नता एका इष्टका भवति । तिर्यक्प्रमाणानि इष्टकाचित्र एव तत्तदिष्टकास्वरूपनिकटे उल्लिखितानि । एवं सामान्यतः चयनसम्बन्धिनो विषयाः कथिताः । तदनुष्ठानप्रकारः सङ्क्षेपतोऽथ निरूप्यते ॥
उखा-सम्भरणम्
यस्मिन् वसन्ते ऽ ग्निं चेष्यमाणो भवति ततो वत्सरात् पूर्वम् अमावास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुत्वा चयनार्थं सङ्कल्पं कुर्यात् - साग्निचित्येन ज्योतिष्टोमेन सर्वपृष्ठ- सर्वस्तोम अप्तोर्यामादिना वा यक्ष्य इति । ततः प्रकृत्यग्निष्टोमादिवत् सोमप्रवाकवरण- मधुपर्कदानादिदेवयजनयाचनान्तं कृत्वा, गार्हपत्यादग्निं गृहीत्वा आहवनीयाद्यायतने निक्षिप्य प्रज्वलय्य देवेभ्यः अग्नये सवित्रे च कांश्चन होमान् हुत्वा
[[९९]] खनित्रम् , अश्वरशनां, गर्दभरशनां च गृहीत्वा ताभ्यामश्वं गर्दभं च बद्ध्वा, कृष्णाजिनं पुष्करपर्णं मुञ्जतृणनिर्मितां रज्जुं, कमण्डुलुं स्रुवं जुहूं हिरण्यं च गृहीत्वा, अश्वं पुरतो गमयन्तः अध्वर्युब्रह्मयजमानाः तत्पश्चात् गर्दभसहिता उखानिर्माणयोग्या यत्र मृदस्ति तत्र गत्वा तत्र वल्मीकमुद्धत्य तमुपस्थाय मृत्खननस्थानमश्वेन आक्रमय्य, अश्वपादनिक्षेपस्थले हिरण्यं निधाय हुत्वा मृत्खनमभ्र्या त्रिः परिलिख्य तं देशं खात्वा, तत उद्गतां मृदं पुष्करपर्णे विवेष्ट्य, मृत्खनस्योत्तरभागे कृष्णाजिनमास्तीर्य तत्र पद्मपत्रमुत्तानं वितत्य तत्र मृदं सम्भृत्य मृदमभिमृश्य मृत्खनेऽप आनीय, तन्मृदन्तरेण अभिपूर्य समृदं कृष्णाजिनमादाय मौञ्ज्या रज्ज्वोपनह्य, हृत्वा गर्दभस्य पृष्ठ आधाय, अश्वरशनां गर्दभरशनां च गृहीत्वा पूर्ववत् अग्रेऽश्वं गमयन्तः त्वरमाणाः प्रत्यागत्य विहारस्योत्तरभागे परिश्रिते स्थाने बद्धामेव मृदं पुष्पफलवतीष्वोषधीषु निक्षिप्य, बन्धनं विस्रस्य, तत्र मृदि उखादृढीकरणार्थानि स्फुटितघटादिशकलानि, वेण्वङ्गारान् , व्रीहितुषान् , पलाशकषायं, शर्कराः, पिष्टाः, कृष्णाजिनाजलोमानि, अन्यानि च तादृशानि वस्तूनि सम्मेल्य, स्थापयेयुः । ततो यजमानस्तां मृदम् अध्वर्यवे दद्यात् । ततोऽध्वर्युः स्वयमेवोखां निर्मायात् । सा च चतुरश्रा परिमण्डला वा प्रादेशमात्रोर्ध्वप्रमाणा, अरत्निमात्रतिर्यक्प्रमाणा बिलस्य अधस्तात् द्वयङ्गुलपरिमिते दशे रास्नावती द्विचतुष्षट्स्तनान्विता च कार्या। ततस्तामुत्तरतः सिकतासु प्रतिष्ठाप्य, मित्राय विनिवेद्य, तस्या एव मृदः अषाढाख्यामेकां चतुरश्रां रेखात्रययुतामिष्टकां निर्माय, गार्हपत्यादग्निं गृहीत्वा तमश्वशकृता प्रदीप्य तेनोखां धूपयित्वा तमग्निं विसृज्य, अग्रेण गार्हपत्यमवटं खात्वा, तत्रोखापाकार्हाणि वस्तूनि प्रक्षिप्य, तदुपर्युखामवधाय, तया सहाषाढाख्यामपीष्टकां निक्षिप्य, पाकसाधनैर्वस्तुभिः प्रच्छाद्य, गार्हपत्यादग्निमाहृत्य, तदुपर्यभ्याधाय, ते तथा पक्त्वा यथा लोहिते भवतः, उद्वास्य, अजापयसोखां सिक्त्वा श्लक्ष्णीकृत्य, उखामषाढेष्टकां च सुरक्षितं निक्षिपेत् ॥
वायव्य-पशुयागः
तदनन्तरं वायुदेवताकं पशुयागमनन्तरपूर्णिमायाम् अनन्तरामावास्यायां वा निरूढपशुबन्धयागवत् चयनाङ्गतया अनुतिष्ठेत् । अत्र
[[१००]] वायुर्नियुत्वान् देवता ।3पशुपुरोडाशे तु प्रजापतिर्देवतेति विशेषः । पशोः शिरश्छित्त्वा मृदा प्रलिप्य सुरक्षितं निदध्यात् । अस्येष्टकोपधाने उपयोगो भविष्यति । ततोऽग्निष्टोमवत् प्रवर्ग्यसम्भरणं कुर्यात् । तच्च पर्वण्येव भवति । तदानीमेव चयनौपयिका इष्टका निर्माय अग्निं मथित्वा तेन ताः पचेत् । यथा ताः कृष्णा वक्रा अतिपक्वा अपक्वा वा न भवेयुः, यथा च लोहितवर्णा एव स्युः तथा पक्तव्याः । ततो दीक्षारम्भः । तत्र दीक्षाविषये दिनत्रयप्रभृति संवत्सरपर्यन्ता बहवः पक्षाः श्रुताः । दिनत्रयदीक्षापक्षे वासन्त्यां शुक्लषष्ठ्यां दीक्षारम्भः कर्तव्यः । पक्षान्तरेषु यथा वासन्त्यां पूर्णिमायां सुत्या स्यात् तथा आरम्भः कार्यो दीक्षायाः ॥
उख्याग्नि-निष्पादन-धारणादि
यस्मिन् दिने दीक्षारम्भं चिकीर्षति तस्मिन् दिने प्रातरग्निहोत्रं कृत्वा, नान्दीश्राद्धं यागादीनां द्रव्यविभागनिर्देशं च कृत्वा गृह एव दीक्षणीयेष्टिं कुर्यात् । सा च त्रिहविष्का-अग्नये वैश्वानराय द्वादशकपालः पुरोडाशः, अग्नाविष्णुभ्यामेकादशकपालः पुरोडाशः, अदित्यै चरुश्चेति । पत्नीसंयाजान्तां तामनुष्ठाय, ततः सोमयागवत् प्राग्वंशनिर्माणादिकं मुष्टिकरणावधिकं क्रियाकलापमनुष्ठाय, मुञ्जतृणैः शणतृणैर्वोखामापूर्य, तामाहवनीयस्योपर्यधिश्रित्य परितोऽङ्गारैः प्रदीपयेत् । उखामध्ये सुखदाह्यानि च वस्तून्याज्येन अक्त्वा प्रक्षिपेत् । यथा तप्ताया उखाया अन्तःस्थानि वस्तूनि स्वयं दह्येरन् तथा तां तापयेत् । अन्तःस्थेषु तृणेष्वतितप्तेषु तत्र अग्निरुत्पद्यते । स उख्योऽग्निरित्युच्यते । उख्ये जाते आहवनीयमग्निमुपशमय्य, उख्येऽग्नौ वैकङ्कतीं शमीमयीं च समिधावाधाय, ज्वलन्तं तमग्निमुपस्थाय, पुनरौदुम्बराश्वत्थादिभिः काष्ठैरग्निमादीप्य मुञ्जतृणनिर्मिते हस्तषट्कपरिमितदैर्ध्ययुते शिक्ये साग्निम् उखामवधाय , सुवर्णनिर्मितं हस्ततलपरिमितमेकविंशतिनिर्बाधयुतं वर्तुलाकारं रुक्मं यजमानस्य कण्ठेऽध्वर्युरवमुञ्चेत् । ततो यजमानः शिक्यपाशमपि कण्ठेऽवमुच्य, तदुपरि कृष्णाजिनं स्कन्धयोर्निधाय, उख्यमादायोत्थाय, उख्यं नाभेरुपरि धारयमाणः चतुरो विष्णुक्रमान् प्राचः क्रामेत् । प्राङ्मुखः सन् चत्वारि पदान्यग्रतो गच्छेत् । तदेव विष्णुक्रमणमित्युच्यते ।
[[१०१]] ततः प्रदक्षिणं पर्यावृत्य रुक्मं कृष्णाजिनं चोन्मुच्य निधाय शिक्यपाशमुन्मुच्य, पूर्वसज्जितायामौदुम्बर्यामासन्द्यां प्रादेशमात्रपादायां मौञ्जवितानायां मृदा लिप्तायामुख्यं सादयित्वोपस्थाय, पुनः काष्ठैरुपसमिन्धीत । ततो मुष्टीकरणादिसौमिकपदार्थान् सनीहारप्रेषणान्तान् कृत्वा जाग्रत् तां रात्रिमतिवाहयेत् । श्वोभूते प्रातरुत्थाय सोमपरिवेषणान्ते कर्मणि कृते यजमान उख्यमग्निमुपतिष्ठेत । ततो मध्यन्दिने मध्यरात्रे च व्रतग्रहणादिकं प्रकृतिवदेव । एवं यावद्दीक्षं पूर्वेद्युर्विष्णुक्रमणम्, उत्तरेद्युरग्न्युपस्थानं च पर्यायेण कुर्वन्नासीत । यदहर्दीक्षासमाप्तिः तदहर्विष्णुक्रमणमुख्योपस्थानं चेत्युभयं कृत्वा उख्यमुद्यम्य शकटेऽवस्थाप्य, 4: गार्हपत्यदक्षिणाग्नी अपि साक्षादेव शकटेऽवस्थाप्य स्वयमपि सपत्नीकः शकटमारुह्य देवयजनस्थानं प्रति प्रयायात् । प्राप्य देवयजनं गार्हपत्यं दक्षिणाग्निं च स्वस्वायतने निधाय, गार्हपत्यस्य पुरत उख्यं निधाय, तत्रौदुम्बरीं समिधमादधाति ॥
गार्हपत्य-चिति-मानादि
ततो 5 गार्हपत्यस्थण्डिलचयनार्थं हस्तचतुष्टयपरिमितां भूमिं प्रोक्षणोद्धननादिभिः संस्कृत्य तं देशमेकविंशत्या शर्कराभिः (क्षुद्रपाषाणैः ) परिश्रित्य परिश्रितदेशे प्रागायता एकविंशतिमिष्टकाः प्रथमप्रस्तारे उपदध्यात् । द्वितीयप्रस्तारे तद्व्यत्यासेन तावतीरेवेष्टका उदगायता उपदध्यात् । प्रथमप्रस्तारे प्रागायतास्तिस्रो रीतयः । एकैकस्यां रीतौ सप्तेष्टकाः । द्वितीयप्रस्तारे उदगायता इष्टकाः सप्त रीतयः । एकैकस्यां रीतौ तिस्र इष्टकाः । एवं प्रथमतृतीयपञ्चमेषु प्रस्तारेषु प्रागायता इष्टकाः, द्वितीयचतुर्थयोः प्रस्तारयोरुदगायताश्चेष्टका उपदध्यात् । एकैकस्मिन् प्रस्तारे एकविंशतिरिष्टका इत्याहत्य पञ्चस्वपि प्रस्तारेषु पञ्चोत्तरं शतमिष्टका भवन्ति गार्हपत्यचितौ । इष्टकाश्च दैर्घ्ये द्वात्रिंशाङ्गुलमिताः विस्तारे पादोनचतुर्दशाङ्गुलमिताश्च भवन्ति । ( ३२ x १३ ३/४) । एतासामुपधानरीतिस्तु प्रतिकृतौ द्रष्टव्या । तत्रैकैकं प्रस्तारमुपधाय चात्वालदेशादार्द्रां
[[१०२]] मृदं सिकतां वा आहृत्य उपहितस्य प्रस्तारस्योपरि निवपेदालिम्पेद्वा सन्धीनामदर्शनाय । एवं सर्वप्रस्तारेषु पांसुनिवापः कार्यः । सेयं गार्हपत्यचितिः ॥
गार्हपत्य-चितेर् उपरि उख्याग्नि-स्थापनम्
एवं गार्हपत्यचितिमुपधाय, तदुपरि उखागतमग्निं सर्वमपि सन्निनपति वर्धयति च तं काष्ठशकलैः । ततस्तं मन्त्रैरुपस्थाय, रिक्तामुखां दधिमधुसिकतादिभिरापूर्य, तां शिक्यादपाकृत्य, शिक्यं, रुक्मसूत्रं, आसन्दीं, तुषपक्वाः कृष्णास्तिस्र इष्टकाश्चादाय, नैर्ऋत्यां दिशि गत्वा, क्वचिदूषरप्रदेशे शिक्यं निधाय, शिक्यपाशस्योपरि ताः कृष्णास्तिस्र इष्टका दक्षिणापवर्गा निधाय, शिक्यजालेन ताः प्रच्छाद्य, तासां दक्षिणतो रुक्मसूत्रमासन्दीं च निधाय, ते अभिमन्त्र्योपस्थाय, पुनस्तत् सर्वमप्रतीक्ष्यैव देवयजनमागत्य शुद्ध्यर्थं मार्जनं कृत्वा गार्हपत्यमुपतिष्ठेरन्नध्वर्युब्रह्मयजमानाः । अनन्तरं प्रकृतिवत् प्रायणीयेष्टिं कृत्वा, सौमिकीं महावेदिं विमाय, सोमं क्रीत्वा आतिथ्येष्टिं कृत्वा, उत्तरवेदेरुपरि इष्टकोपधानार्थं वेणुदण्डेन मानं कुर्यात् । प्रसारितपक्षद्वयपक्षिसदृशः स्थण्डिलस्याकार इत्युक्तम् । स्थण्डिले च आत्मा, दक्षिणः पक्षः, उत्तरः पक्षः, पुच्छं, शिर इति पञ्च भागाः । तत्र आत्मा मध्यस्थानम् । दक्षिणोत्तरभागयोः पक्षद्वयम् । पुरतश्शिरः पश्चात् पुच्छमिति भागसन्निवेशः । तत्र आत्मा चतसृष्वपि दिक्षु पुरुषैकप्रमाणः (१२० अङ्गुलमितः ) । पक्षौ च दक्षिणोत्तरतः प्रत्येकं किञ्चिदधिकपुरुषद्वयप्रमाणकः (२४७ १/२ अं) । पुच्छं च सान्तरालं सपादपुरुषप्रमाणम् (१५० अं ) । शिरः सग्रीवं पुरुषैकप्रमाणम् । एवंरीत्या दक्षिणोत्तरतः पञ्चदशाङ्गुलाधिकपुरुषपञ्चकप्रमाणा (६१५ अं) पूर्वपश्चिमतः सपादपुरुषत्रयप्रमाणा (३९० अं ) उत्सेधतस्त्रिंशदङ्गुला च आहवनीयचितिरिति सिध्यति । इदं च सार्धसप्तविधमित्युच्यते । एवं गार्हपत्यचितिः षण्णवत्यङ्गुलायामविस्तारा जानुदघ्नोत्सेधा भवति । प्रमाणमिदं गार्हपत्याहवनीयचित्योर्यजमानस्य प्रथमचयन एव भवति । द्वितीयावृत्तौ गार्हपत्यचितेर्ह्रासः, आहवनीयचितेर्वृद्धिश्च भवतः । तौ यथा - द्वितीयचयने गार्हपत्यचितेः त्रयः प्रस्ताराः, त्रिषष्टि (६३)रिष्टका एव च भवेयुः । तृतीयचयने एक एव प्रस्तारो भवेदिष्टकाश्चैकविंशतिः । आहवनीयचितेस्तु - द्वितीयचयने द्विषहस्रमिष्टका दश प्रस्ताराः
[[१०३]] नाभिमितोत्सेधश्च भवेयुः । तृतीयचयने त्रिषहस्रमिष्टकाः पञ्चदश प्रस्ताराः, आस्यदघ्नोत्सेधश्चेति विशेषः । नैकविधं चयनमतोऽधिकं कुर्यात् । विधान्तराणि त्वनुष्ठातुं शक्यन्ते । न तासां स्वरूपाण्यत्र विवृतानि ॥
चयन-स्थल-कर्षणादि
एवमाहवनीयचितियोग्यं स्थलमुत्तरवेद्या उपर्येव विमाय, अध्वर्युब्रह्मयजमानास्तत् स्थानमधिष्ठाय, लाङ्गलमेकं, षड्वा द्वादश वा बलीवर्दांश्च आनाय्य, लाङ्गले बलीवर्दान् षट् द्वादश वा बद्ध्वा तेन लाङ्गलेन तत् स्थलं कृष्ट्वा (अध्वर्युरेव कृषेत्, नान्येन कर्षयेत् ) बलीवर्दानुन्मुच्य, तान् अध्वर्यवे दत्त्वा कृष्टासु सीतापद्धतिषु जलमासिच्य द्वादशसु सीतापथेषु ओषधीर्ग्रामोद्भवा वपेत् । ताश्च - तिलाः, माषाः, व्रीहयः, यवाः, प्रियङ्गवः, अणवः, गोधूमाः । यासां ग्रामीणैः पुरुषैः ग्रामेष्वेवोत्पादनं (कृषीवलैः) क्रियते ताः सप्त ग्राम्या ओषधयः । एवमकृष्टे स्थले पूर्ववदुदकमासिच्य आरण्या ओषधीः सप्त तत्र वपेत् । ताश्च – वेणवः, श्यामाकाः, नीवाराः, अरण्यतिलाः, अरण्यगोधूमाः, मर्कटकाः, अरण्यमुद्गाः (गार्मुताः) इति सप्त । धान्यानामेषां भूमिकर्षणादिकमन्तरा अकृष्टायामेव भूमावुत्पत्तिः । अतो धान्यानीमान्यकृष्टपच्यानीत्युच्यन्ते । अत एव अत्राप्यकृष्ट एव स्थल एतेषां वपनमुक्तम् । कर्षणकालेऽग्निचयनार्थात् क्षेत्रात् चतसृष्वपि दिक्षु ये लोष्टा बहिर्भूतास्तानग्निक्षेत्र एव प्रत्यस्य, धान्यवापनस्थानं हस्तेन अभिमृश्य, तदुपर्युत्तरवेदेरुपवापं कृत्वा तदुपरि सिकताः न्युप्य, चयनीयं तत् स्थानं शर्कराभिः (क्षुद्रपाषाणैः) परिश्रित्य मध्यस्थाः सिकताः समीकुर्यात् । एतावत्पर्यन्तं कृत्वा, अनन्तरं प्रकृताविव पत्नीयजमानयोः व्रतप्रदानं, 6तानूनप्त्राज्यस्पर्शनं, सोमाप्यायनं, द्यावापृथिवीनमस्कारादिकं च यथावत् कृत्वा, प्रवर्ग्योपसदावनुतिष्ठेत् प्रकृतिवदेव । पूर्वं प्रवर्ग्यानुष्ठानं तत उपसदनुष्ठानम् । एतच्च वैपरीत्येनापि कर्तुं शक्यत इति ज्योतिष्टोम एवोक्तम् । उपसदोऽन्ते सुब्रह्मण्याह्वानमपि प्रकृतिवदेव ॥
[[१०४]]
प्रथम-चितेर् उपधानम्
तत उत्तरवेदेरुपरि विभिते स्थले चयनमारभेत । तत्र अध्यर्युश्चयनकर्ता भवेत्, यजमान एव वा स्वहस्तेन चयनं कुर्यादिति पक्षद्वयम् । चयनं चेष्टका यथासौकर्यं खण्डयित्वा चितेर्यथाभिलषितमाकारो न कदापि सम्पादनीयः । षट्प्रकाराभिरिष्टकाभिस्तत्तत्स्थलोपधानयोग्यतया निर्मिताभिरखण्डिताभिः चितेराकारसम्पादनम् । इष्टकानां षट् प्रकाराः पूर्वं निर्दिष्टाः, प्रदर्शयिष्यन्ते च प्रतिकृतिचित्रे । आकाशे पक्षौ प्रसार्य डयमानस्य पक्षिणो यादृशं स्वरूपं तादृशमेव स्वरूपं चयनेन भूमौ निष्पादयेत् । तदपि न पक्ष्यन्तरसदृशम् । किं तु 7श्येनसुपर्णसरूपमेवेत्यादि बोध्यम् ॥
एवं चेष्यन् प्राग्वंशमण्डपस्य अग्रे आनडुहे चर्मणि प्रथमचित्यर्था इष्टकाः स्थापयित्वा, अध्वर्युब्रह्मयजमानाः अश्वमग्रतः कृत्वा, चितिस्थलं गत्वा स्थलमध्ये दर्भस्तम्बं निखाय, तमश्वेन आक्रमय्य, अश्वपादनिक्षेपस्थाने पद्मपत्रमुत्तानमुपधाय, तदुपरि 8रुक्ममुपधाय, तस्मिन् सुवर्णनिर्मितं पुरुषमुपरिमुखं प्राक्शिरसम् उपधाय, तमभिमन्त्र्य, तस्य दक्षिणत आज्यपूर्णां कार्ष्मर्यमयीं जुहूं, तस्य उत्तरतो दधिपूर्णामौदुम्बरीं च तामुपधाय, ते उपस्थाय, इष्टकामेकामविदुषा (मूर्खेण ) ब्राह्मणेन चितिमध्य उपधापयीत । ततस्तेन यजमानाद्गृहीत्वा दत्तं वरमध्वर्युः प्रतिगृह्णीयात् । ततः परं प्रथमदिनानुष्ठितवायव्यपशोः शिरसः, कूर्मस्य जीवतः, उलूखलस्य सर्वौषधिपूर्णस्य, मुसलस्य चोपधानं च कृत्वा ततो यथाक्रममिष्टकोपधानेन प्रथमचितिं सम्पादयेत् । तत्र क्रमादयः सूत्रतोऽवगन्तव्याः । एवं प्रथमचितिं समाप्य, आपराह्निकीभ्यां प्रवर्ग्योपसद्भयां प्रचर्य सुब्रह्मण्याह्वानान्तं कृत्वा विरमेत् । रात्रौ यजमानस्य व्रतग्रहणम् । एवं दीक्षात्रयपक्षे दीक्षातोऽनन्तरस्मिन् (चतुर्थे) दिने चयनमारभ्य, एकैकस्मिन् दिने एकैका चितिरिति आदितश्चतुर्थादिषु नवमान्तेषु षट्सु दिनेषु पञ्च चितय उपधीयन्ते । अत्र चयने षडुपसदः ।
[[१०५]] एकस्या उपसदो दिनद्वयेऽनुष्ठानमावृत्त्या । पञ्चम्या उपसदो दिने मध्याह्ने सावशेषां पञ्चमीं चितिमुपधाय चितेरवरुह्य यजमानाय माध्याह्निकं व्रतं प्रदाय आपराह्निकीभ्यां प्रवर्ग्योपसद्भयां प्रचर्य विरमेत् । रात्रौ यजमानव्रतदानादि यथावत् । अथ श्वोभूते षष्ठ्या उपसदो दिने (आदितो नवमे दिवसे) प्रातः पौर्वाह्निकीभ्यां प्रवर्ग्योपसद्भयां प्रचर्य, अवशिष्टां पञ्चमीं चितिमुपधाय, तदानीमेव आपराह्निकीभ्यां प्रवर्ग्योपसद्भयां प्रचर्य सुब्रह्मण्याह्वानान्तं कृत्वा, चितं स्थण्डिलमभिमृश्य, आज्येन हिरण्यशकलसहस्रेण च तत् प्रतिदिशं प्रोक्षेत् ॥
शतरुद्रीयहोमः
ततः चितेरुत्तरस्य पक्षस्य वायव्यकोणस्थिताया इष्टकाया उपरि अजाक्षीरेण मृगीक्षीरेण वा अर्कपत्रेण अध्वर्युर्जुहुयात् । तस्या इष्टकायाः समीपे लौकिकीभिरिष्टकाभिः पीठं कृत्वा तदुपर्यध्वर्युस्तिष्ठन् शतरुद्रीयं (रुद्राध्यायं) पठन् अविच्छिन्नया धारया 9जुहुयात् । यथा धाराया विच्छेदो न भवति तथा अन्योऽजाक्षीरमर्कपर्णे स्रावयेत् । शतरुद्रीयस्य तृतीयांशपाठं यावत् अर्कपर्णं जानुदघ्ने धारयेत् । उपरितनतृतीयांशं यावत् नाभिदघ्ने, अन्तिमांशं यावदास्यदघ्ने धारयन् जुहुयात् । सर्वत्र रुद्रा एव देवताः । ततस्तमर्कपर्णं यत्र पशवो न सञ्चरेयुस्तस्मिन् देशे निरस्येत् । ततो यजमानश्चतसृष्वपि दिक्षु रुद्रमुपतिष्ठते । अनन्तरमध्वर्युरुदकुम्भमादाय स्थण्डिलं त्रिः परिषिञ्चेत् । ततो दीर्घस्य वंशस्याग्रभागे वेतसशाखाम्, अवकां (शैवालं), मण्डूकं च सहैव बद्ध्वा चितेरुपरि विकर्षेत् । ततः पृष्ठाख्यैः सामभिरध्वर्युः यजमानः प्रस्तोता वा चितिमुपतिष्ठेत । एतदन्तं चयनकर्म ॥
चितेर् उपर्य् अग्नि-स्थापनादि
ततः प्रवर्ग्यमुद्वास्य शालामुखीयेऽग्नौ ( प्रकृताहवनीये) कांश्चन होमान् हुत्वा अध्वर्युः चितिमारुह्य उत्तरवेदिवत् 10व्याघारणादिकं कृत्वा, दध्ना मधुमिश्रितेन, आज्येन वा चितिं प्रोक्ष्य यजमानेन सहावरुह्य,
[[१०६]]
कृष्णमृगचर्मनिर्मिते उपानहावुभे अप्युन्मुच्य, अध्वर्युः वैश्वकर्मणसंज्ञकाः षोडश आहुतीर्हुत्वा औदुम्बरीस्तिस्रः समिधो घृताक्ता आहवनीय आधाय पशुबन्धवदग्निं प्रणयति । तच्चैवम् - आहवनीये काष्ठान्याधाय ततो ज्वलन्तमग्निं क्वचित् पात्रे गृहीत्वा सिकताभिरुपयम्य, आग्नीध्रीयं यावद्गत्वा, कञ्चन श्वेतवर्णमश्मानमाग्नीध्रीये निधाय ततः चितेः पुच्छसमीपं गत्वा हस्तस्थितमग्निं प्रतिप्रस्थातृहस्ते दत्त्वा, स्वयमध्वर्युश्चितिमारुह्य 11स्वयमातृण्णाख्याया इष्टकाया उपरि 12पाशुकान् सम्भारान् न्युप्य, तदुपर्यग्निं प्रतिप्रस्थातृहस्तात् गृहीतं प्रतिष्ठापयेत् । अतः परमयमेव चित्योऽग्निराहवनीयो भवति । यतोऽयं प्रणीतः स गार्हपत्यः । पुराणगार्हपत्यः प्राजिहितसंज्ञकः । ततस्तत्रैव अग्नावाहवनीये कांश्चन होमान् पूर्णाहुतिं च हुत्वा, ततो वैश्वानरेष्टिमुपक्रम्य तदनुष्ठानमध्ये तद्धर्मैः साकं सप्तभ्यो मरुद्गणेभ्यो हविर्निर्वापादिकं कृत्वा वैश्वानरयागानन्तरं सप्तानां मरुद्गणानां यागान् कृत्वा तदीयं तन्त्रं परिसमाप्य, ततो वसोर्धारां जुहुयात् ॥
वसोर्-धारा-होमः, यजमानाभिषेकश् च
तदित्थम् - उदुम्बरवृक्षनिर्मितां हस्तचतुष्टयदैर्घ्याम्, अल्पदण्डां पश्चिमभागे गर्तवतीं दीर्घबिलां जुहूं निर्माय, तामधस्तात् आर्द्रया मृदा विलिप्य घृतेन पूरयित्वा तेन तस्मिन्नग्नौ जुहुयात् ; यथा आरम्भप्रभृति समाप्तिपर्यन्तं मध्ये धारा न विच्छिद्येत तथा अन्यः कश्चित् जुह्वां घृतं पूरयंस्तिष्ठेत् । अवसितायां वसोर्धारायां जुह्वां यदाज्यमवशिष्यते तस्मिन्नन्नं पक्त्वा (लौकिकेऽग्नौ पाकः ) तेन अध्वर्युब्रह्मोद्गातृहोतॄन् महर्त्विजो भोजयित्वा भुक्तवद्भ्यस्तेभ्यः चतस्रो धेनूर्वरत्वेन दत्त्वा सप्तभिर्ग्राम्याभिः सप्तभिश्च आरण्याभिः पूर्वोक्ताभिरोषधिभिर्यवागूः पृथक् पक्त्वा ताभिः पृथक् पृथग्घुत्वा हुतशिष्टानां यवागूनामंशं पात्रान्तरे किञ्चित् किञ्चिदिव अवस्राव्य चितेः दक्षिणपक्षसमीपे औदुम्बरीमासन्दीं प्रतिष्ठाप्य, तदुपरि कृष्णाजिनमास्तीर्य, तत्र यजमानमुपवेश्य तं तेन यवागूशेषेण अभिषिञ्चेत् । ततो राष्ट्रभृद्धोमान् अन्यांश्च कांश्चन होमान् हुत्वा सौमिकं कर्म आरभेत ।
[[१०७]] तत उपरवाख्यान् चतुरोऽवटान् दक्षिणहविर्धानमण्डपस्य पश्चिमभागे उपरिभिन्नानन्तःसम्भिन्नान् अग्निष्टोमवदेव खात्वा ततो धिष्ण्यांश्चिनुयात् ॥
धिष्ण्योपधानम्
तत्र आग्नीध्रीये धिष्ण्येऽष्टाविष्टकाः अश्मना पूर्वनिक्षिप्तेन सह नव, द्वादश होत्रीये धिष्ण्ये, एकादश ब्राह्मणाच्छंसीये, षण्मार्जालीये, अन्येषु प्रशास्त्रीयनेष्ट्री याच्छावाकीयपोत्रीयेषु धिष्ण्येषु अष्टावष्टौ चोपदध्यात् । एवं ब्रह्मसदनेऽष्टौ । चात्वालशामित्र - अवभृथस्थानेष्वप्यष्टावष्टावुपधाय सर्वेषां पुरीषेण (मृदा) आच्छादनं कुर्यात् । तत अग्नीषोमीयपशुयागतन्त्रमारभेत ॥
देव-सुवां हवींषि
ततोऽग्नीषोमीयवपायागानन्तरं तदीयपशुपुरोडाशकाले अष्टौ देवसुवां हवींषि निर्वपेत् । तानि च - अग्नये गृहपतये पुरोडाशार्थं कृष्णाः व्रीहयः । सोमाय वनस्पतये चर्वर्थाः श्यामाकाः । सवित्रे सत्यप्रसवाय आशवो व्रीहयः । रुद्राय पशुपतये चर्वर्थाः गवीधुकाः । बृहस्पतये वाचस्पतये चर्वर्था नीवाराः । इन्द्राय ज्येष्ठाय पुरोडाशार्था व्रीहयः । मित्राय सत्याय चर्वर्थाः आम्बा व्रीहयः । वरुणाय धर्मपतये चर्वर्था यवा इति । तानि पशुपुरोडाशेनैव सह अनुष्ठाय वसतीवरीग्रहणादिकं कृत्वा पशुयागं समाप्य, रात्रौ यजमानस्य व्रतदानादिकं कृत्वा विरमेत् ॥
सौमिकव्यापारः
ततः प्रकृतिवत् महारात्रे प्रबुध्य सौमिकव्यापारमारभेत । तत्र यदा होता प्रातरनुवाकशस्त्रमारभेत ततः पूर्वमेव अध्वर्युः कैश्चिन्मन्त्रैरग्नियोगं कुर्यात् । ततो होता प्रातरनुवाकं यथावत् पठेत् । सौमिकव्यापारांश्च क्रमशः कुर्वन् यत्संस्थाकं क्रतुमनुष्ठातुमिच्छति यजमानः, तदनुसारेण कर्माण्यध्वर्युः कुर्वीत । ततोऽवभृथेष्टिमवभृथस्नानान्ताम्, अनूबन्ध्यास्थानिकीमाहुतिं च कृत्वा पूर्वकृताग्निविमोकं कृत्वा दश आकूतिहोमान् हुत्वा कर्म अवशिष्टं समापयेत् । ततो यजमानोऽग्निमाप्तिसंज्ञकैर्मन्त्रैरुपस्थाय प्राजिहितमग्निमरण्योः समारोप्य, गृहं गत्वोदवसानीयादिकं यथोक्तमनुतिष्ठेत् । आगामिनि पर्वणि सौत्रामण्याख्येन पशुयागेन यजेत । ततोऽपरेद्युर्मैत्रावरुण्या चामिक्षया । एतावता समाप्तमग्नि-चयनम् ।
[[१०८]]
परिसमाप्ते यज्ञे
यजमानो नियमान् इमान् धारयेत् -
संवत्सरं यावत् गुरोर् अपि प्रत्युत्थानं न कर्तव्यम् ।
सत्यां वृष्टौ न धावेत् ।
तृतीय-चयनं कृत्वा न स्त्रियम् उपेयात् इत्येव ।
अन्ये च सोमसुतो नियमा भवन्त्येव ॥
-
षोडशी, अध्या, पाद्या, पक्ष्या, पक्षमध्या, पक्षाग्र्या इति षड्विधा इष्टकाः । गार्हपत्यचितेरिष्टका एतदपेक्षया विभिन्नप्रकारा एव भवेयुः । ↩︎
-
चित्युपयुक्ता मन्त्राः ब्राह्मणानि च प्रायेण आध्यात्मिकभावपूर्णानीत्यस्माभिः सप्रमाणमुपपादितं यज्ञतत्वालोके । क्षुद्रचितिषु तु बाहुल्येन तन्मयतैवोपलभ्यते । संहिताब्राह्मणभागापेक्षया आरण्यकभागोऽध्यात्मविद्योपबृंहित इति स्पष्टमेव । अत एव ब्राह्मणोपनिषदः सर्वा अपि आरण्यकान्तर्गता एवाधीयन्ते । अतश्च ज्ञानकर्मोभयसंवलनात्मिकीनां क्षुद्रचितीनाम् आरण्यकेषु आम्नानं न कदापि दोषाय कल्पते । अतस्तासां प्रामाण्यविषयेऽनुष्ठानविषये वा न कियानपि न्यूनाधिकभावः सांहितिकचयनापेक्षया । ↩︎
-
सर्वत्र पशुयागेषु पश्वङ्गभूता एव देवताः पुरोडाशाङ्गभूताः प्रायेण भवन्ति । अत्र तु न तथा । पशुदेवता वायुः, पुरोडाशदेवता प्रजापतिः । ↩︎
-
अत्रैव अग्नेर्देवयजनं प्रति साक्षादाहरणम् । अन्यत्र तु अरण्यादिसमारोपणेनैव । ↩︎
-
प्रथमतो गार्हपत्यस्य चयनम् । तत आहवनीयस्य । दक्षिणाग्नेः स्थण्डिलं नास्ति । ↩︎
-
वेदिमध्ये पात्रविशेषस्थापितस्य घृतस्य संज्ञा तानूनप्त्रमिति । ऋत्विजां यजमानस्य च यावत्क्रतुसमाप्ति परस्परं स्नेहाय, तत्स्पर्शनं विहितं प्रकृतौ । तदेव अत्राभिसंहितम् । ↩︎
-
कण्ठस्य अधस्तात् पाटलवर्णः उपरिष्टात् श्वेतः पक्षिविशेषः सुपर्णपद वाच्यः । खगोऽयं मत्स्याशी बहुलमनूपदेशेष्वेव वसति । न धन्वसु शुष्केषु वा प्रदेशेषु । गरुडपदाभिधेयोऽयं भगवतो विष्णोर्वाहनमिति मत्वा यत्र कुत्रापि दृष्ट्वैवैनं प्रणमन्ति तद्देशस्था जनाः । तद्दर्शनं च कल्याणकरं मन्वते । श्येनस्तु प्रसिद्ध एव । ↩︎
-
वर्तुलाकारं (सूर्यसदृश ) सुवर्णखण्डं रुक्ममित्युच्यते । ↩︎
-
नात्र होमार्थमग्निस्थापनादिकम् । इष्टकाया उपर्येव धारया क्षीरस्य प्रस्रावणम् । ↩︎
-
व्याघारणं घृतस्य क्षारणम् । ↩︎
-
पुरुषैर्न कृतम्, किं तु स्वयमेव यत्र च्छिद्रमुत्पन्नं सा स्वयमातृण्णा । ↩︎
-
पशुयागेऽग्न्यायतने प्रक्षेप्तव्यतया श्रुताः सम्भाराः पाशुकाः । ↩︎