एवं संवत्सरसत्रान्तेषु तेषु तेषु सोमयागेषु सामवेदीयैरुद्गात्रादिभिर्ऋत्विग्भिः क्रियमाणानां स्तोत्राणां सङ्ख्या तदीयस्तोमाश्चोक्ताः । तत्र तत्तद्देवताभ्यस्तेषु तेषु ग्रहचमसादिषु पात्रेषु सोमरसे गृहीते तत्तद्देवता उद्दिश्य गानयुक्तैर्मन्त्रैः सदोनामकमण्डपे औदुम्बर्याख्यस्थूणासमीपे उपविष्टैरुद्गातृप्रस्तोतृप्रतिहर्तृनामकैर्ऋत्विग्भिः क्रियमाणाः स्तुतिविशेषा एव स्तोत्रपदेनोच्यन्ते । स्तोत्रगतावृत्तिविशेष एव स्तोमपदाभिधेयः । तिसृष्वृक्षु एकं साम गीयते । तत् तासु यावत्कृत्व आवर्त्यते तावत्सङ्ख्याकस्स्तोमो भवति । ते च स्तोमाः-त्रिवृत् , पञ्चदशः, सप्तदशः, एकविंशः, त्रिणवः, त्रयस्त्रिंशः , चतुर्विंशः, चतुश्चत्वारिंशः, अष्टाचत्वारिंशः इति नवप्रकाराः । इमे एव प्रकारास्तत्तत्क्रतुषु क्वचिदभ्यस्ताः क्वचिच्चानभ्यस्ताः क्रियन्ते तत्तद्विधिमनसृत्य । त्रिवृत् इति नवसङ्ख्योच्यते । त्रिणव इति सप्तविंशतिः । अन्यत् यथाश्रुतमेव ॥
[[९२]]
इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिर्ऋग्भिस्सम्पादनीया । तद्यथा - माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् । तच्च पञ्चदश स्तोमकम् । सा च सङ्ख्या तिसृणामृचां पर्यायत्रयगानेन सम्पादनीया । तत्र प्रथमे पर्याये - प्रथमामृचं त्रिः, द्वितीयां सकृत् तृतीयां च सकृत् । एवं प्रथमपर्याये पञ्चवारमावृत्तिर्जाता । द्वितीय पर्याये - प्रथमां सकृत्, द्वितीयां त्रिः, तृतीयां सकृच्च गायेत् । एवं द्वितीये पञ्चवारमावृत्तिः । तृतीये पर्याये - प्रथमां सकृत्, द्वितीयां सकृत् तृतीयां त्रिः । एवं पञ्चवारम् । मिलित्वा पञ्चदशसङ्ख्या सम्पन्ना । गानगतप्रकारविशेषो विष्टुतिरित्युच्यते । एकैकस्मिन्नपि स्तोमेऽनेका विष्टुतय इति मिलित्वा अष्टाविंशतिसङ्ख्याका विष्टुतयस्सन्ति । गानकाले च गणनार्थं कुशानिक्षेपः कार्यः । तत्रोद्गाता सदोनामकमण्डपमध्ये नि?खातामौदुम्बरीं वस्त्रसंवेष्टितामपाश्रित्योत्तराभिमुख उपविशेत् । तस्य दक्षिणभागे ( उद्गातुः पूर्वस्यां दिशि ) प्रस्तोता पश्चिमाभिमुख उपविशेत् । वामभागे ( उद्गातुः पश्चिमायां दिशि ) प्रतिहर्ता पूर्वाभिमुख उपविशेत् । एवं तैरुपविष्टैर्गाने क्रियमाणे प्रस्तोता ( उद्गातुरनन्तर ऋत्विक्) साम्नो गानमारभमाणः आरम्भकाले पूर्वोक्ताः कुशा एकैकस्यामावृत्तौ, एकैकशो भूमौ निक्षिपेत् । तीक्ष्णाग्रः प्रादेशमात्रः उदुम्बरवृक्षीयः एकत्र तष्टो लघुकायः काष्ठविशेषोऽत्र कुशाशब्देनोच्यते । ताश्च तासु तासु विष्टुतिषु विभिन्नप्रकारेण निक्षेपणीयाः । ते च प्रकारविशेषा अधस्तन्या पट्टिकया स्पष्टीभविष्यन्ति । तत्र त्रिवृत्स्तोमे न विशेषोऽस्तीति न कुशानिक्षेपः क्रियते ॥
२ पञ्चदशस्तोमस्य तिस्रो विष्टुतयः
तत्र -
प्रथमा विष्टुतिः
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | ─── | ─── ─── ─── |
| द्वितीया ऋक् | || | ||| | || |
| प्रथमा ऋक् | ─── ─── ─── |
─── | ─── |
[[९३]
द्वितीया विष्टुतिः
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | ─── | ─── ─── ─── |
| द्वितीया ऋक् | || | || | ||| |
| प्रथमा ऋक् | ─── ─── ─── |
─── | ─── |
तृतीया विष्टुतिः
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | ─── | ─── ─── ─── |
| द्वितीया ऋक् | || | ||| | || |
| प्रथमा ऋक् | ─── | ─── | ─── ─── ─── |
३ सप्तदशस्तोमस्य सप्त विष्टुतयः
तत्र प्रथमा
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | ─── | ─── ─── ─── |
| द्वितीया ऋक् | || | ||| | ||| |
| प्रथमा ऋक् | ─── ─── ─── |
─── | ─── |
४ एकविंशतिस्तोमस्य चतस्रो विष्टुतयः
तत्र प्रथमा
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | ─── ─── ─── |
─── ─── ─── |
| द्वितीया ऋक् | ||| | ||| | || |
| प्रथमा ऋक् | ─── ─── ─── |
─── | ─── ─── ─── |
[[९४]]
५ त्रिणवस्तोमस्य २७ द्वे विष्टुती
तत्र प्रथमा
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | ─── ─── ─── ─── ─── |
─── ─── ─── |
| द्वितीया ऋक् | ||||| | ||| | || |
| प्रथमा ऋक् | ─── ─── ─── |
─── | ─── ─── ─── ─── ─── |
६ त्रयस्त्रिंशस्तोमस्य पंचविष्टुतयः
तत्र प्रथमा
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | ─── ─── ─── ─── ─── ─── ─── |
─── |
| द्वितीया ऋक् | ||||||| | ||| | ||| |
| प्रथमा ऋक् | ─── ─── ─── |
─── | ─── ─── ─── ─── ─── ─── ─── |
७ चतुर्विंशतिस्तोमस्यैका विष्टुतिः
तत्र प्रथमा
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | || | ─── ─── ─── |
| द्वितीया ऋक् | |||| | ||| | || |
| प्रथमा ऋक् | ─── ─── ─── |
─── | ─── ─── ─── |
[[९५]]
८ चतुश्चत्वारिंशस्तोमस्य तिस्रो विष्टुतयः
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── |
─── ─── ─── |
| द्वितीया ऋक् | ||||||||||| | ||| | || |
| प्रथमा ऋक् | ─── ─── ─── |
─── | ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── |
९ अष्टाचत्वारिंशस्तोमस्य द्वे विष्टुती
| ॐ | प्र. पर्यायः | द्वि. पर्यायः | तृ. पर्यायः |
|---|---|---|---|
| तृतीया ऋक् | ─── | ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── |
─── ─── ───+─── |
| द्वितीया ऋक् | |||||||||||| | ||| | || |
| प्रथमा ऋक् | ─── ─── ─── |
─── | ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── ─── |
[[९६]] एवं पञ्चदशाद्यष्टाचत्वारिंशान्तानां स्तोमानामष्टानामनेकप्रकारासु विष्टुतिषु प्राथमिकी विष्टुतिरेकैका स्वरूपेणोल्लिखिता । इतरासां स्वरूपमस्मत्कृतताण्ड्यमहाब्राह्मणभूमिकातोऽवगन्तव्यम् । ग्रन्थगौरवभयात्तु नोल्लिखितमत्र । अत्र सर्वत्र तत्तत्स्तोत्रारम्भे प्रस्तोता स्वस्य पुरतः उदगग्राः पश्चिमापवर्गाः कुशा निक्षिपेत् गणनार्थम् । तत्र प्रथमे पर्याये प्रथमाया ऋचस्तत्तत्सङ्ख्याकाः कुशाः तिरश्चीना निक्षेपणीयाः । द्वितीयस्या अनूचीनाः । तृतीयस्याः पुनस्तिरश्चीनाः । एवमेव द्वितीयतृतीययोरपि पर्याययोरिति बोध्यम् । अत्र कुशाशब्दः आकारान्तस्त्रीलिङ्गः। अयमेव च स्तोमानां गणनाप्रकारो ज्योतिष्टोमादिषु सहस्रसंवत्सरान्तेषु सर्वेष्वपि सोमयागेष्वित्यवगन्तव्यम् । सङ्ख्याया अविस्मरणाय अयं प्रकार आदृतः ॥
इति महामहोपाध्याय-शास्त्ररत्नाकर-पण्डितसार्वभौम-श्रीचिन्नस्वामिशास्त्रि विरचिते यज्ञतत्वप्रकाशे सोमयागादिनिरूपणाख्यः द्वितीयो भागः॥