०७ अप्तोर्यामसंस्था सप्तमी

अतिरात्रसंस्थावत् रात्रिस्तोत्राणि सन्धिस्तोत्रं च यथावदनुष्ठाय तदनन्तरं चत्वारि स्तोत्राणि अधिकतया यत्रानुष्ठीयते सा अप्तोर्यामसंस्था । अप्तोर्यामशब्दव्युत्पत्तिः श्रुतावेवं वर्णिता-पुरा कदाचित् प्रजापतिः पशूनसृजत् । सृष्टास्ते ततोऽपगताः । ताननेन क्रतुना आप्नोत् । यस्मादाप्नोत् तस्मादप्तोर्यामत्वमिति । अप्तोः प्राप्तः यामो यज्ञः अप्तोर्याम इति । एवं च सन्धिस्तोत्रान्तम् एकोनत्रिंशतं स्तोत्राण्यनुष्ठाय तदनन्तरं चत्वारि स्तोत्राणि तदर्थं चत्वारश्चमसगणा अप्यनुष्ठेयाः । तेष्यतिरात्रवदेव प्रथमद्वितीयगणयोरध्वर्युः तृतीयचतुर्थयोः प्रतिप्रस्थाता च कर्तारौ । इयमप्तोर्यामसंस्थेत्युच्यते ॥