०६ वाजपेयसंस्था षष्ठी

वाजपेयसंस्थायां प्रातर्माध्यन्दिनसवने अग्निष्टोमवदेव । तृतीयसवनेऽपि षोडशिग्रहस्तोत्रान्तं षोडशिवदेव । तदनन्तरं वाजपेयसंज्ञकमेकं स्तोत्रम् । एकश्चमसगणो होतृचमसमुख्यः । स्तोत्रं च सप्तदशस्तोमकम् । शस्त्रं होतुरेव । अयं संस्थान्तर्गतः संस्थास्वेव गण्यते । अतस्संस्थावाजपेय इत्यपि व्यवहारोऽस्य । नायमापस्तम्बबोधायनादिभिर्विहितः न वा याजुषीषु शाखासु विधानमस्य दृश्यते । ताण्ड्यब्राह्मणे छन्दोगसूत्रे च अयमेव विहित इति कृत्वा केचिद्याज्ञिका अनुतिष्ठन्ति । तैत्तिरीयाद्यक्तो वाजपेय इतो भिन्नः । तत्र सप्तदश दीक्षाः, तिस्र उपसदः एका सुत्या । सप्तदश प्राजापत्याः सवनीयपशवः । सप्तदशारत्नि यूपः । तं सप्तदशभिर्वासोभिर्वेष्टयेत् । सप्तदश सोमग्रहाः प्रजापतिदेवताकाः । तथा सुराग्रहा अपि सप्तदश । इदानीं याज्ञिकाः सुराग्रहस्थाने पयोग्रहाननुतिष्ठन्ति । सुत्यादिने सर्व ऋत्विजो हिरण्यमाला धारयेयुः । ऋत्विग्भ्यः सप्तदश सप्तदश रथाश्वगजशकटदासीदासनिष्कगोऽजाविदुन्दुभीनां दक्षिणात्वेन दद्युः । सवनीयपशुकाले प्राजापत्यैस्सह क्रतुपशूनपि पञ्चोपाकृत्य पर्यग्निकरणान्तं कृत्वा प्रथमतश्चतुरः क्रतुपशूनुपाकृत्य वपान्तं कृत्वा विरम्य ब्रह्मसामकालेऽवशिष्टैः पशुभिः प्रचरेत् । ततः सप्तदशशरावपरिमित

[[८६]] नैवारचरुं निरूप्य तेन प्रचरेत् । सर्वमन्यत्प्रकृतिवत् । एष आप्तो वाजपेयः । इतोऽप्यन्यः कुरुवाजपेयः कश्चिदस्ति । तस्याङ्गेषु बह्वस्ति वैलक्षण्यम् । तत्सूत्रादितोऽवगन्तव्यम् ॥ ॥ इति वाजपेयः ॥