०५ अत्यग्निष्टोमसंस्था पञ्चमी

तत्र, अग्निष्टोमस्तोत्रानन्तरम् उक्थ्यस्तोत्राणि त्रीण्यकृत्वा षोडशिस्तोत्रशस्त्रादिप्रचारो यत्र क्रियते सा अत्यग्निष्टोमसंस्थेत्युच्यते । एवं च अग्निष्टोम एवं तदुत्तरं षोडशिग्रहचमसस्तोत्रादीनामनुष्ठाने सा अग्निष्टोमसंस्थैव संस्थान्तरं भजत इति फलितम् । अत्यग्निष्टोमसंस्थायामस्यां क्षत्रिय एवाधिकारी न ब्राह्मणवैश्याविति केचित् ब्रुवते । परमाश्वलायनादिभिः त्रैवर्णिककर्तृकसंस्थामध्येऽस्या अपि पाठात् तयोरप्यत्राधिकारं मन्वाना याज्ञिकास्तथैवानुतिष्ठन्ति ।