अतिरात्रसंस्थाके क्रतौ सोमक्रयकाले बहुलं सोमं क्रीत्वा मित्वा च स्थापयेत् । पूर्वोक्तैः (षोडशिन्युक्तैः) पशुभिस्त्रिभिस्सह मेषी चतुर्थी सरस्वतीदेवताका । तृतीयसवनीयाभिषवकाल एव तत्पर्याप्तमृजीषमभिषुत्य
१. See. तै. सं. ६. ६. ११.६
२. तै. सं. ६. ६. ११. १.
"
[[८४] पूतभृति रसमापूर्य स्थापयेत् । षोडशिग्रहप्रचारानन्तरं होतृचमसमुख्यान् दशापि चमसान् उन्नीय प्रथमे रात्रिस्तोत्रपर्याये प्रथमं स्तोत्रं स्तावयेत् । समाप्ते तस्मिन् होता प्रथमपर्याये प्रथमं शस्त्रं पठेत् । तत्समाप्तावध्वर्युः होतृचमसं चमसाध्वर्यवश्च अन्यांश्चमसानादाय आहवनीये हुत्वा भक्षक्रमेण भक्षयेयुः । अत्र वषट्कर्ता होता ॥ ततो मैत्रावरुणचमसं प्रथमं कृत्वा चमसानुनाय्य द्वितीये स्तोत्रे स्तुते, मैत्रावरुणेन शस्त्रे शस्तेऽध्वर्य्वादयः पूर्ववद्धुत्वा भक्षयेयुः । तदिदं गणद्वयमध्वर्युः कुर्यात् । अनन्तरं गणद्वयं प्रतिप्रस्थातृकर्तृकम् । अध्वर्युणा यत्कर्तव्यं तत्प्रतिप्रस्थाता कुर्यात् । अत्र ब्राह्मणाच्छंसिचमसं मुख्यं कृत्वा प्रचारः । यस्य चमसो मुख्यो भवति स एव तत्र वषट्कर्ता। अयं प्रथमः पर्यायः । एवमेव पर्यायद्वयं पुनरावर्तयेयुः । एवमेकस्मिन् पर्याये चत्वारि स्तोत्राणि तावन्ति शस्त्राणि चेति त्रिष्वपि पर्यायेषु मिलित्वा द्वादश स्तोत्राणि शस्त्राणि च भवन्ति । इम एव त्रयो रात्रिपर्याया इत्युच्यन्ते । रात्रावेव स्तूयमानत्वादेषां रात्रिस्तोत्राणीति संज्ञा । तेषां पर्यायो रात्रिपर्याय इति । षोडशिग्रहानन्तरं ग्रहो नास्ति, किं तु चमसा एव । अत्र सर्वेषां चमसगणानामिन्द्र एव देवता ॥ एवं पर्यायेषु समाप्तेषु प्रतिप्रस्थाता अश्विदेवताकं द्विकपालं पुरोडाशं व्रीह्यानयनप्रोक्षणावहननपेषणादिपूर्वकं श्रपयित्वा वेद्यामासादयेत् । ततोऽध्वर्युर्होतृचमसमुख्यांश्चमसानुन्नीय सन्धिस्तोत्रमारम्भयेत् । समाप्ते तस्मिन् होता आश्विनशस्त्रं प्रारभेत । तत्सूर्योदयानन्तरमेव समापयीत । ततः पूर्वं शस्त्रसमाप्तौ याः काश्चिदृचः शंसन्नेव सूर्योदयं प्रतीक्षेत । उदित एव सूर्ये शस्त्रस्यान्तिमामृचं पठेत् । उदयानन्तरं समाप्ते शस्त्रे, अध्वर्युर्होतृचमसं चमसाध्वर्यवश्चान्यांश्चमसान् गृहीत्वा आश्रावणाद्यनन्तरं जुहुयुः । अस्मिन्नेव समये प्रतिप्रस्थाता पूर्वसंपादितमाश्विनपुरोडाशं जुहुयात् । अत्र सर्वेषां चमसानां पुरोडाशस्य च अश्विनौ देवता । समग्रस्यैव पुरोडाशस्य होमो न अवदानादि कृत्वेति विशेषः । ततश्चमसभक्षणम् । अत्र होता वषट्कर्ता । अवशिष्टं प्रकृतिवत्समाप्य अवभृथं कुर्यात् । सर्वत्र अवभृथानन्तरम् उदयनीयेष्टिः, अनूभ?न्ध्यास्थाने मैत्रावरुण्यामिक्षा, उदवसानीया च प्रकृतिवदेवेति ॥
[[८५]] एवं चतसृणां सोमसंस्थानां स्वरूपम् । तच्च संक्षेपेण निरूपितम् । एताभ्य एव चतसृभ्यस्सोमसंस्थाभ्यो ग्रहचमसस्तोत्राणामावापोद्वापादिना अन्यास्तिस्त्रस्संस्थाः प्रसूताः । ताश्च अत्यग्निष्टोम-वाजपेय- अप्तोर्यामनाम्ना व्यवहारं भजन्ते ॥