०३ षोडशिसंस्था तृतीया

यदि स्यात् षोडशिसंस्थाकः क्रतुः तदा प्रातस्सवने सर्वधाराग्रहाणामन्ते चतुरश्रे ऊर्ध्वपात्रे षोडश्याख्यं ग्रहं गृहीत्वा खरे आसादयेत् । पशुग्त्र मेषस्तृतीय एैन्द्रः पूर्वाभ्यामाग्नेयैन्द्राग्नाभ्यां सह । तृतीयसवने उक्थ्यग्रहचमसप्रचारानन्तरं षोडश्यर्थांश्चमसानुन्नीय १]सूर्यस्यार्धास्तसमये षोडशिस्तोत्रमारम्भयेदध्वर्युः । स्तोत्रे समाप्ते शस्त्रम् । ततस्तद्ग्रहचमसप्रचारः । अवशिष्टानि कार्याणि प्रकृतिवत् । उक्थ्यपर्यन्तं पञ्चदश स्तोत्राणि शस्त्राणि चेत्युक्तम् । अत्राधिकमेकं शस्त्रं स्तोत्रं च वर्धते । तच्च षोडशम् । १]तत्सम्बन्धाद्ग्रह षोडशी । तत्सम्बन्धाच्च क्रतुरपि षोडशीति व्यवह्रियते । श्रुतावेवमेव निर्वचनमुक्तम् ॥