०२ उक्थ्य-संस्था द्वितीया

उक्थ्यसंस्थाको यदि स्यात् क्रतुः, तत्र प्रातस्सवनमाध्यन्दिनसवनयोर्न विशेषोऽस्ति कश्चन । आदौ सङ्कल्पे सवनीयपशौ परं कियांश्चन विशेषः । ‘उक्थ्येन यक्ष्ये’ इति सङ्कल्पः । सवनीयपशुर्द्वितीयः ऐन्द्राग्न आग्नेयेन सह । सोमक्रयणकालेऽधिकस्सोम उन्मातव्यः । विशेषेणानेन सह प्रकृतिवन्माध्यन्दिनसवनान्तं यावदनुष्ठाय तृतीयसवनारम्भे चमसगणत्रयपर्याप्तम् ऋजीषमभिषुत्य सोमरसं सम्पादयेत् । तत्र प्रकृतिवद्धारां स्रावयित्वा तृतीयसवनीयाग्रयणहोमोत्तरकालं धाराया एव त्रीनुक्थ्यग्रहान्

[[८३]]

गृहीत्वा आयतने सादयेत् । ततोऽग्निष्टोमसंस्थावदेव क्रमेण कर्माण्यनुतिष्ठन् , अग्निष्टोमस्तोत्रसम्बन्धिचमसगणप्रचारानन्तरम् उक्थ्यग्रहप्रचारं कुर्यात् ॥ तत्रादौ चमसोन्नयनार्थं चमसाध्वर्यून् प्रेष्य, तेषु चमसानापूर्यागतेषु, अध्वर्युः उक्थ्यस्तोत्रार्थम् उद्गातृन् प्रेष्य तैर्यथावत्स्तुत्वा स्तोत्रे परिसमापिते मैत्रावरुणं शस्त्रशंसनार्थमभ्यर्थ्य, स्वयं च प्रतिगीर्य, तेन शस्त्रे समापिते चमसहस्तैश्चमसाध्वर्युभिस्सह प्रथममुक्थ्यग्रहमादाय आहवनीयं गत्वा आश्रावणादिपूर्वकं हुत्वा भक्षयेत् । ततो द्वितीयतृतीयावपि उक्थ्यग्रहावेवमेव चमसैस्सह प्रचरेत् । तत्र त्रिष्वपि पर्यायेषु स्तोतार उद्गातारस्त एव । शस्त्रेषु परं प्रथमे पर्याये मैत्रावरुणः, द्वितीये ब्राह्मणाच्छंसी, तृतीयेऽच्छावाकश्च शंसितारो भवेयुः। प्रथमे उक्थ्यग्रहे इन्द्रावरुणौ, द्वितीये इन्द्राबृहस्पती, तृतीये इन्द्राविष्णू च देवताः । एवं चोक्थ्यक्रतोः त्रीण्युक्थ्यस्तोत्राणि त्रीणि च शस्त्राण्यधिकानि । तानि चान्ते योजनीयानीत्येतावान् विशेषः । अन्यत्सर्वं प्रकृतिवत् ॥