तृतीयोपसद्दिने दीक्षातश्चतुर्थदिने प्रातरेव द्वयाभ्यां प्रवर्ग्योपसद्भयां प्रचर्य प्रवर्ग्यमुद्वास्य, उत्तरवेद्या प्रवर्ग्यपात्राणि प्रक्षिप्य, अग्नीषोमीयस्य पशोस्तन्त्रमारभेत । यदि दुर्ब्राह्मणो यदि वा त्रिपुरुषविच्छिन्नसोमपानः स्यात् तदा ऐन्द्राग्नाश्चिनपशुभ्यां सह तन्त्रेण अग्नीषोमीयं पशुयागमनुतिष्ठेत् । अन्यथा एकमेव तम् । अतस्तदर्थमाहवनीये इध्मकाष्ठान्याधाय ज्वलन्ति तान्यादाय, आसन्दीस्थं सोममपि सहैवादाय, निरूढपशुयागवत् महावेद्यन्तर्गतायां निहितसम्भारायाम् उत्तरवेद्यां तमग्निं प्रणयेत् । तन्मध्ये स्थापयेत् । ततः प्रभृति यज्ञसमाप्तिं यावत् स एव आहवनीयः । यतः स प्रणीतः स गार्हपत्य इतः परं भवेत् । यो गार्हपत्यः स इतः परं प्राजहितसंज्ञकः । आनीतं सोमं दक्षिणहविर्धानमण्डपस्थहविर्धानशकटे स्थापयेत् । एवमग्निं प्रणीय चात्वालस्थान् पांसूनादाय तैर्धिष्ण्यानुपवपेत् । ततः अग्नीषोमीयपशोस्तन्त्रानुष्ठानपक्षे त्रयाणां वपायागपर्यन्तमनुष्ठाय, सुब्रह्मण्येन सुब्रह्मण्याह्वाने कृते, सोमाभिषवाय, अभिषुतरसवर्धनाय च तडागादितो वसतीवरीसंज्ञकं जलं घटे गृहीत्वा तं जलपूर्णं घटम् अध्वर्युः शालामुखीयमपरेण स्थापयेत् । ततो मध्यन्दिने पशुपुरोडाशयागं, सायाह्ने हृदयादिपश्वङ्गयागं चानुष्ठाय पत्नीसंयाजान्तान्यङ्गानि कृत्वा पशुयागं समापयेत् । ततो रात्रावध्वर्युः घटं वसतीवरीपूर्णं स्कन्धेन आदाय वेदेः परितो यथाविधि हरन् पुनस्तत्रैव निक्षिपेत् । तदा प्रतिप्रस्थाता श्वोऽपेक्षितामिक्षार्थं वत्सापाकरणादि दर्शवत् कृत्वा दध्यातञ्च्यात् ।
[[६७]]
दधिग्रहाद्यर्थमपि दधि सम्पादनीयम् । ततस्सवनीयहविरर्थं बर्हिराहरणादि कृत्वा विरमणम् । रात्रौ यजमानस्य जागरणं पत्न्याश्च । एतावत् चतुर्थदिनकृत्यम् ॥