०३ तृतीय-दिन-कृत्यम्

द्वितीयोपसद्दिने (दीक्षातस्तृतीयदिवसे) प्रातःप्रवर्ग्योपसदावनुष्ठाय, महावेदेर्निर्माणं कर्तव्यम् । सा च प्राचीनवंशमण्डपात् पुरतः

[[६६]]

षट्पदानि परित्यज्य ततो निर्मातव्या । प्राक्पश्चात् द्विसप्ततिपदायामादक्षिणोत्तरतः षष्टिपदविस्तारा च भवति । श्रोणिभागे, अंसभागे च अष्टाचत्वारिंशच्च । विशेषविवरणं त्वेतदन्ते कृतम् । एवं समग्रां वेदिं विमाय प्रातः ततो यजमानस्य व्रतकरणम् (पयःपानम्) सायं सायाह्निकीभ्यां प्रवर्ग्योपसद्भयां प्रचर्य [^क] सुब्रह्मण्यामाहूय व्रतं कृत्वा विरमणम् । एतावत् तृतीयदिनकृत्यम् ॥