ततो द्वितीयस्मिन् दिने आवश्यकं कर्म कृत्वा प्रातरेव प्रायणीयेष्टिं कुर्यात् । तत्र पञ्च देवताः । पथ्या स्वस्तिः प्रथमा । अग्निर्द्वितीयः । सोमस्तृतीयः । सविता चतुर्थः । अदितिः पञ्चमी । तत्र पथ्यादीनां चतुर्णामाज्यं द्रव्यम् । अदितेरोदनः । आहवनीयेऽग्नौ तमोदनं पक्त्वा आहवनीय एव पूर्वादिषु चतसृष्वपि दिक्षु पथ्यादिभ्यः क्रमेण आज्यं हुत्वा मध्ये अदित्या ओदनं जुहुयात् । यस्मिन्नोदनः पक्कः तत् पात्रमप्रक्षाल्यैव क्वचित् स्थापयेत् । तथैवोदयनीयेष्टिहविःपाकार्थं तदुपयुञ्जीत ॥
सोमक्रयः
1ततस्सोमक्रयः । तदर्थं यया गवा सोमं क्रेतुमिच्छति यजमानः तां सोमशकटसमीपं नीत्वा अवस्थाप्य, कुत्सितेन ब्राह्मणेन शूद्रेण वा शकटेऽवधाय आनीतं सोमं 2विचित्य अङ्गुलीभिर्यावदपेक्षं सोमं विमाय तं क्षौमवस्त्रे निक्षिप्य सोमविक्रयिणो हस्ते दत्त्वा तम् “सोमविक्रयिन् कय्यस्ते सोमः ?” इति पृष्ट्वा तेन ‘क्रय्यः’ इत्युक्ते क्रमेण तं दशभिर्द्रव्यैः क्रीणाति । तानि च
- १. गौरेकहायनी
- २. हिरण्यम्
- ३. अजा
- ४-५. धेनुस्सवत्सा
- ६. ऋषभः
- ७. अनड्वान् शकटवाही
- ८. वत्सतरः 3
- ९. वत्सतरी
- १०. वासः इति दश।
[[६२]]
तत्र प्रथमक्रमे “गवा ते क्रीणानि” इत्यध्वर्युणोक्ते सोमविक्रयी “भूयो वा अतस्सोमो राजा अर्हति” इति प्रतिब्रूयात् । ततोऽध्वर्युः “हिरण्येन क्रीणानि” इत्यादि । एवं दशमद्रव्यपर्यन्तं प्रश्नप्रतिवचने भवतः। दशमद्रव्येण क्रये कृते न ततो भूयस आशंसनम् । विक्रीतं सोममध्वर्युहस्ते दत्वा क्रयद्रव्याण्यादाय सोमविक्रयी गच्छेत् । गच्छन्तं तं न विलोकयेत् । अत्र क्रयार्थं दत्तस्य हिरण्यस्य पुनर्ग्रहणम् , अन्यया गवा एकहायन्या निष्क्रयणं च सूत्रकारा आमनन्ति । ततः क्रीतं सोमं यजमानः स्वस्य दक्षिणस्मिन्नूगवासाद्य हस्ताभ्यां निगृह्य आसीत । ततस्तमादायोत्थाय हविर्धानशकटसमीपमानीय, तत्र तं निक्षिप्य, शकटेऽनड्वाहौ नियुज्य, तांभ्यां शकटं वाहयित्वा प्राग्वंशस्य अग्रतः यज्ञवाटमानाय्य सोमहविर्धानशकटस्य दक्षिणं बलीवर्दं मोचयित्वा, सव्यमविमोच्यैव, आतिथ्येष्टिं कुर्यात् । तत्र विष्णुर्देवता । नवकपालः पुरोडाशो द्रव्यम् । इष्टिरियं सोमस्य राज्ञ आतिथ्यस्थानीया । हविष्कृदाह्वानकाल एव द्वितीयस्य अनडुहो विमोचनं शकटात् । तदैव च सोमं राजानं शकटादवरोप्य, पूर्वसज्जितायाम् , आहवनीयसमीपेऽवस्था पितायां राजासन्द्यां 4 तमवस्थापयेत् । ततः इष्टिं तां परिसमाप्य परस्परमवैराय ऋत्विजो यजमानश्च पात्रस्थापितमाज्यं स्पृष्ट्वा प्रतिज्ञां कुर्युः । तत् तानूनप्त्रनित्युच्यते । ततः प्रवर्ग्यानुष्ठानम् ॥
प्रवर्ग्यः
प्रवर्ग्य इति कर्मणो नामधेयम् । स च सोमयागाङ्गभूत एव । परं तैत्तिरीयसंहितायां ब्राह्मणे वा नास्य मन्त्रा ब्राह्मणानि वा आम्नायन्ते । तैत्तिरीयारण्यके परं चतुर्थपञ्चमयोः प्रश्नयोः क्रमेण मन्त्रा विधयश्चाम्नाताः। काण्वमाध्यन्दिनयोः संहितयोः षट्त्रिंशादिषु त्रिष्वध्यायेषु मन्त्राः तच्छतपथयोः षोडशे त्रयोदशे च काण्डे विधयश्च यथाक्रममाम्नाताः । एवं मैत्रायण्यादिष्वपि शाखासु स्वतन्त्रतयैव प्रवर्ग्यविधिमन्त्राः पठिताः । सूत्रकारा अपि प्रवर्ग्यविधिं सौमिकप्रयोगेऽनन्तर्भाव्यैव 5स्वतन्त्रतस्तं पठन्ति, तथापि सर्वे तस्य सोमयागाङ्गत्वमभिप्रयन्ति क्वचित् प्रयोग-
[[६३]]
विशेषे विकल्पयन्तः । अनुष्ठातारः परं नियमेन सोमयागमध्य एव अनुतिष्ठन्ति । अतोऽत्रैव तत्स्वरूपमपि निरूप्यते । तदपेक्षितानि पात्राणि साधनानि च पूर्वमेव सम्पादनीयानि ॥
प्रवर्ग्यसम्भाराः
तत्र प्रथमतो महावीराख्यपात्रनिर्माणं कर्तव्यम् तत्प्रकारश्चेत्थम्- कस्यांचिदमावास्यायां पूर्णिमायां वा अभ्रिम् , अश्वं, कृष्णाजिनं, सवत्सामजां च गृहीत्वा यत्र महावीराद्युपयुक्ता मृदस्ति प्राच्यां दिशि तत्र गत्वा मृदं खात्वा, कृष्णाजिने न्युप्य, अश्वेन अवघ्राप्य, मृद उपरि आजं पयो दुग्ध्वा, तां मृदं बहुभिराहार्य विहारस्योत्तरतोऽवस्थाप्य, तस्यां वराहोत्खातां मृदं, वल्मीकमृदं, पूतीकान् , अजलोमानि, कृष्णाजिनलोमानि, अन्यानि च दृढीकरणार्थानि वस्तूनि संयोज्य पिष्ट्वा, उष्णजलेन संमिश्र्य, संयुत्य, तया मृदा त्रीन् महावीरान् कुर्यात् । ते च प्रादेशमात्रोर्ध्वाः मध्ये स्थलत्रयसंगृहीताः, स्थलत्रयोन्नताः उपरिबिलाः स्युः । एवं तयैव मृदा अवशिष्टया हस्योष्ठाकारे द्वे दोहनपात्रे, आज्यस्थालीम् , अश्वौ द्वौ, रोहिणपुरोडाशार्थं द्वे कपाले च निर्माय, तानि च सूक्ष्मवस्त्रादिभिः श्लक्ष्णीकृत्य, गार्हपत्यस्य, पुरस्तादवटं खात्वा, तानि तत्रेष्टकावत् पचेत् । पाकार्थं अग्निं कुशैः मुञ्जतृणैश्च आदीपयेत् । पक्केषु तेषु शफाभ्यां महावीरानुद्वास्य, भूयसा अजापयसा तान् प्रोक्षेत् । येनोज्ज्वला भवेयुर्महावीराः । इम एव प्रवर्ग्यसंभाराः मार्त्तिकाः। वानस्पत्यास्तु उदुम्बरकाष्ठैः कारयितव्याः। ते च-सम्राडासन्दी मौञ्जीभिस्स्यूता रज्जुभिः । द्वे स्रुचौ गर्तवत्यौ । द्वे चागर्ते । द्वौ शफौ महावीरग्रहणार्थौ । धृष्टी अङ्गारनिरूहणार्थे द्वे काष्ठे । मेथी गोबन्धनार्था । त्रयश्शङ्कवो वत्सबन्धनार्थाः । व्यजनानि त्रीणि कृष्णाजिननिर्मितानि । द्वौ रुक्मौ वर्तुलाकारौ । एको राजतः, एकस्सौवर्णः । अभिधानी गोबन्धनार्था (रज्जुः) निदाने गोः पादबन्धनार्थे (रज्जू)। विशाखदामानि वत्सबन्धनार्थानि (रज्जव एव) । प्रभूतानि मुञ्जतृणानि च ॥
प्रवर्ग्यानुष्ठानम्
एवं सम्भारान् संभृत्य स्वकाले प्रवर्ग्यमारभमाणोऽध्वर्युः ब्रह्मणा अनुज्ञातः रौहिणपुरोडाशनिष्पादनाय आग्नध्रिमाज्ञाप्य वेदेर्दक्षिणतो दक्षिण-
[[६४]] द्वारसमीपे गवादिबन्धनार्थं चतुरश्शङ्कून् निहन्यात् । ततो वालुकाभिः गार्हपत्यस्योत्तरतः स्थण्डिलमेकं कल्पयित्वा गार्हपत्ये मुञ्जप्रलवानादीप्य ततो जातं दीप्तमग्निं स्थण्डिलोपरि निक्षिप्य तस्मिन्नग्नौ महावीरं स्थापयित्वा तमाज्येन अभिपूर्य सौवर्णेन रुक्मेण तन्मुखं पिधाय, तमग्निं कृष्णाजिनव्यजनेन वीजयित्वा, समिद्धेऽग्नौ महावीरमाज्येन पूरयित्वा, पुनः रुक्मेण तेन मुखं पिधाय पूर्ववत् व्यजनेन वीजयित्वा (वीजयितारः अध्वर्युः, प्रतिप्रस्थाता, आग्नीध्रश्च) प्रज्वलितेऽग्नौ रुक्ममपादाय, अँनि परीत्य व्यजनानि प्रतिप्रस्थातृद्वारा 6 सम्राडासन्द्यामासाद्य महावीरमवेक्षमाणा आसीरन् । ततोऽध्वर्युः पूर्वनिखातेषु शङ्कुषु गां, गोवत्सम् , अजां, तद्वत्सं च बद्ध्वा गां दुह्यात् । प्रतिप्रस्थाता च अजाम् । उभावपि दुग्धं पय आग्नीध्रहस्ते दद्याताम् । स च पयसी पृथक् पृथगानीय प्राग्वंशं प्रविशेत् । ततः पूर्वमेव प्रविष्टोऽध्वर्युः गोपयः अजापयश्च गृहीत्वा महावीरे क्रमेण प्रक्षिपेत् । तदानीमुत्थितमूष्माणमनुमन्त्रयेत् । तदिदं तप्ते धृते पयःप्रक्षेपणं प्रवृञ्जनमित्युच्यते । अत एव तत्सम्बन्धात् कर्मणोऽस्य प्रवर्ग्य इति नाम सम्पन्नम् ॥
ततः प्रतिप्रस्थातरि दक्षिणं रौहिणपुरोडाशम् अगर्तायां जुह्वां स्थापितं तयैव आहवनीये जुह्वति, अध्वर्युः आश्रावणप्रत्याश्रावणादि कृत्वा महावीरस्थं पयोमिश्रितं घृतमाहवनीये जुहुयात् । ‘धर्मः’ इत्यपि तस्य संज्ञा । तदीयपयो यस्या दुग्धं सा गौः ‘धर्मधुक्’ इति व्यवह्रियते । धर्मस्य अश्विनौ, इन्द्रश्च देवते । अवशिष्टेन स्विष्टकृतं हुत्वा, ततः उन्नीकृतेन दध्ना आहवनीयस्योपरि अध्वर्युणाध्रियमाणस्य महावीरस्य पूरणे प्रतिप्रस्थात्रा कृते तदपि किञ्चिदिव हुत्वा, शेषमन्तर्वेदि निधाय, पूर्वस्मिन् खरे महावीरं प्रतिष्ठाप्य, अत्र प्रतिप्रस्थात्रा उत्तरस्य रौहिणपुरोडाशस्य होमे कृते अध्वर्युः षट् शकलहोमान् कृत्वा अग्निहोत्रं हुत्वा, होतृबह्वाग्नीध्रयजमानैस्सह शेषभक्षणं कुर्यात् । ततो महावीरादीनां प्रवर्ग्यसंभाराणां सम्राडासन्द्यां स्थापनम् । अयं प्रातः प्रवर्ग्यः । एवमेव सायं प्रवर्ग्यः । छिन्नस्य यज्ञशिरसः सन्धानार्थं प्रवर्ग्यानुष्ठानमिति श्रौती (वैदिकी) कथा । 7सा चेत्थम्-पूर्वं कदाचिद्देवा
[[६५]]
विष्णुना सह मिलित्वा कुरुक्षेत्रे कञ्चन सत्रविशेषमन्वतिष्ठन् । तज्जनितं यशो विष्णुमेव अवाप, नान्यान् सुरान् । तदसहमाना देवास्तमुपारुन्धत । ततस्सोऽन्यत्र अपक्रामन् तैरनुद्रुतस्स्वशरीरात् धनुरिषु च सृष्ट्वा तेन तान् व्यद्धुमारभत । ततो भीतान् दूरत एव अवस्थितान् देवानवलोक्य विस्मयमानः स स्वचुबुकस्याधोभागे धनुषः कोटिमेकामवष्टभ्य कोट्यन्तरं भूमाववधाय दिशो विलोकयन्नासीत् । तदा इन्द्रेण प्रार्थितास्ततो लब्धवराश्व वम्रयः 8 तद्धनुषो ज्यां भूमिष्ठकोटिगतामच्छिन्दन् । ततो वेगादुत्पतत् धनुषः कोट्यन्तरं भगवतो विष्णोः शिरः कण्ठात् उत्पाव्य, उपर्याकाशे प्रास्यत् । ततोऽपगतशिरा विष्णुः संवृत्तः । विष्णोरेव यज्ञरूपत्वात् यज्ञस्य शिरश्छिन्नमित्यवगतं सर्वैः । ततश्छिन्नशिरसा अशिरस्केण यज्ञेन अनुष्ठितेन किमपि फलमनाप्नुवाना देवाः छिन्नं तच्छिरः प्रतिसन्धातुं प्रार्थयन्त अश्विनौ । तौ वरमवृणीताम्-‘सोमयागेऽद्य यावदभागिनावावां स्वः, यद्यावयोरपि यागेष्वितः परं हविर्भागो दीयेत, तदा आवां शिर एतद्यज्ञस्य प्रतिसन्दधावहै’ इति । ‘तथा’ इत्यभ्युपगतवत्सु देवेषु तौ तच्छिरः प्रतिसमधत्ताम् । तदिदं यज्ञशिरःप्रतिसन्धानरूपमेव प्रवर्ग्यकर्म । महावीरस्तु यज्ञशिरोरूप इति ॥
उपसत्
एवं प्रातःप्रवर्ग्यमनुष्ठाय, ततः प्रातरुपसदनुष्ठेया । सा अपूर्वा काचिदिष्टिः । तत्र अग्निः, सोमः, विष्णुः इति प्रधानदेवताः । सर्वत्र आज्यं द्रव्यम् । प्रायेणोपांशुयाजवत् प्रयोगः । प्रधानाहुत्यनन्तरं प्रथमोपसद्धोमः । एवं प्रातःप्रवर्ग्योपसदावनुष्ठाय, सुब्रह्मण्याह्वानं कृत्वा विरामः । ततोऽपराह्ने (सायंकालीने) आपरानिक्यौ प्रवग्र्योपसदौ, सुब्रह्मण्याह्वानं च । एवं दिनत्रयं (द्वितीयतृतीयचतुर्थदिवसेषु) सायंप्रातरनुष्ठेयम् । तेन अग्निष्टोमे षड्वारं प्रवर्ग्योपसदोरनुष्ठानं 9सिध्यति ॥
-
See, आप. श्रौ.१०.२५. बौधा. श्रौ.६.१५. कात्या. श्रौ. ७.८. ↩︎
-
सोममध्यपतितानि तृणादीन्यपाकृत्य होमस्य संशोधन विचयनम् । ↩︎
-
सद्योऽतिक्रान्तबालभावः ऋषभो वत्सतरः । ….. ↩︎
-
राजा सोमः, तत्स्थापनाय या आसन्दी सा राजासन्दी। ↩︎
-
See. आप, श्रौ. १५. कात्या. श्रौ. २६. बोधा. श्रौ. ९. ↩︎
-
सम्राटशब्देन महावीर उच्यत । तत्स्थापनार्था आसन्दी सम्राडासन्दी.। ↩︎
-
तै. आ. ४. १. ↩︎
-
उपदीकाः श्वेतपिपीलिकाः । ↩︎
-
See. आप. श्रौ. ११. ३. १३-४. ७. बौधा. श्रौ. ६, २१.’ कात्या. श्रौ. ८. २. १४-३६. ↩︎