सोमयागे प्रथमदिनकृत्यम्॥
सोमयागमिममनुष्ठास्यन् सपत्नीको यजमानो वासन्त्याः पूर्णिमायाः पूर्वस्याम् अष्टभ्यां (दीक्षाचतुष्टयपक्षे) नवम्याम् (दीक्षात्रयपक्षे) एकादश्यां (एकदीक्षापक्षे) वा सोमयागसङ्कल्पं करिष्यमाणः ततः पूर्वं पर्याप्ते समये सोमप्रवाकं 1 वृत्वा तं तत्तद्दृत्विग्भ्यः प्रेषयेत् । स तानवाप्य 2यज्ञेश्वरशर्मणः सोमो भविष्यति, तत्रभवता आर्त्विजं कर्तव्यम्’, ‘होत्रं कर्तव्यम्’ इत्यादि कथयेत् । स च ऋत्विक् तत्र आर्त्विज्यं चिकीर्षन् आधानादिषु पूर्वानुष्ठितेषु कर्मसु “अस्य के ऋत्विजः? के वायाजकाः? कच्चित्कल्याण्यो दक्षिणाः ?” इति पृच्छेत् । समुचितमुत्तरं तस्मादवाप्य, स्वीकृत्य आर्त्विज्यकरणं यजमानगृहमागेतषु तेषु तान् यजमानो मधुपर्कदानेन यथावदर्चयित्वा ये यत्र कुशलाः तस्मिन् तस्मिन् कर्मणि तान् वृणुयात् । ‘अध्वर्युं त्वां वृणे’, ‘होतारं त्वां वृणे’ इत्यादिः वरणप्रकारः । मधुपर्ककाले वस्त्रालङ्काराभरणादिभिः ते समर्चनीयाः । ते च चत्वारो गणाः । एकैकस्मिन् गणे चत्वारः, इत्याहत्य ते षोडश भवन्ति ॥
[[५९]]
यथा
१.अध्वर्युगणः २. ब्रह्मगणः ३. होतृगणः ४. उद्गातृगणः
२ प्रतिप्रस्थाता। २ ब्राह्मणाच्छंसी। २ मैत्रावरुणः। २ प्रस्तोता ।
३ नेष्टा । ३ आग्नीध्रः। ३ अच्छावाकः। ३ प्रतिहर्ता ।
४ उन्नेता। ४ पोता। ४ ग्रावस्तुत् । ४ सुब्रह्मण्यः ।
3एतदतिरिक्तं सदस्यनामकमृत्विजं सप्तदशं कथयन्ति केचन सूत्रकाराः । एवमृत्विजो वृत्त्वा कर्मणो निर्विघ्नपरिसमाप्तये देवता उपस्थाय, गार्हपत्याग्निमरण्योः समारोप्य, तमग्निं शमयित्वा अरणी यज्ञसामग्रीश्च गृहीत्वा, गृहात् सोमयागार्थं पूर्वनिर्णीतं स्थानं सपत्नीको गत्वा, तत्र अरणी मथित्वा, पूर्वनिर्मिते गार्हपत्यायतने मथनोत्पन्नमग्निं प्रतिष्ठापयेत् । ततोऽध्वर्युराहवनीयं प्रणीय, तत्र संभारयजुस्संज्ञकान् (एक) चतुर्विंशतिसङ्ख्याकान् होमान् हुत्वा, तमग्निं विसृज्य, पुनर्गार्हपत्यात् प्रणीय, सप्तहोतृसंज्ञकं होमं कृत्वा, तमप्युत्सृज्य, पुनः तत एवाहवनीयदक्षिणाग्नी विहृत्य तत्र दीक्षणीयेष्टिं कुर्यात् । तत्र एकादशकपालः पुरोडाशो द्रव्यम् । अग्नाविष्णू देवता । पुरोडाशस्तु व्रीहिपिष्टैरेव निष्पाद्यः । तां परिसमाप्य तत्र 4प्राचीनवंशसंज्ञिकां 5विमितसंज्ञिकां वा शालां निर्माय तस्योत्तरभागे बहिरावृतदेशे यजमानो वपनं कारयित्वा स्थावरास्वप्सु तीर्थे स्नात्वा अध्वर्युणा दत्ते दुकूले वस्त्र परिदध्यात् । एवं यजमानपत्न्या अपि केशवर्ज वपननखनिकृन्तनस्नानवस्त्रपरिधानानि भवन्ति । अत्र पत्न्या वपने [^३_pg६०]विकल्पं केचिदिच्छन्ति । नखनिकृन्तनादिकं तु भवत्येव । ततो जायापती प्राग्वंशमण्डप एव स्वाभिरुचितं ?शास्त्रानिषिद्धं? वस्त्वन्नादिकं भुञ्जीयाताम् । तत उभावपि स्वाङ्गानि नवनीतेन अनुलिम्पतः । अञ्जाते च स्वे अञ्जनेनाक्षिणी । ततोऽध्वर्युः दीक्षाहुतीः षट् हुत्वा
[[६०]] यजमानाय कृष्णाजिनद्वयं दद्यात् । स तत् परिगृह्य, आहवनीयसमीपं गत्वा भूमौ तदास्त्तीर्य तदुपरि कटिप्रदेशेन आरुह्य, उपविश्य, मेखलां मुञ्जतृणनिर्मिताम् अध्वर्युदत्तां कठ्यां बद्ध्वा, 6कृष्णमृगस्य शृङ्गं शरीरकण्डूयनार्थम् , उदुम्बरवृक्षीयं स्वसमपरिमाणमूर्ध्वतायां दण्डं च यजमानो गृहीत्वा धारयन्नासीत । यदा स्वाङ्गेषु क्वचित् कण्डूतिर्जायेत तदा कृष्णमृगशृङ्गेणैव कण्डूयेत, न नखेन7। एवं यजमानपत्न्याः शिरसि इषीकानिर्मितं जालं, कट्यां मुन्जनिर्मितं योक्त्रं च बध्नीयात् । ततो यजमानो मुष्टिबन्धनं कुर्यात् । तत्र द्वयोर्हस्तयोः कनिष्ठिकातो यावदङ्गुष्ठम् अङ्गुलीर्मोटयेत् । ततो हस्तद्वयेऽपि कनिष्ठिकानामिके विसृजेत् । विसर्गस्तु व्रतग्रहणानन्तरमग्रे कर्तव्यः । मुष्टिकरणानन्तरम् अध्वर्युर्यजमानं दीक्षितं देवेभ्यो मनुष्येभ्यश्च आवेदयेत् -अदीक्षिष्ट अयं ब्राह्मणाऽमुकशर्मा अमुकस्य पुत्र इत्यादि । अत्र पितृपितामहप्रपितामहानां मातृपितामहीप्रपितामहीनां च नामानि वक्तव्यानि । एवं त्रिरुपांशु त्रिरुच्चैश्चावेदने अध्वर्युणा कृते यजमानो वाङ्नियमनं कृत्वा रात्रौ नक्षत्रोदयपर्यन्तं तथैवासीत । नक्षत्रोदयानन्तरं 8व्रतकरणप्रेषेणैव (व्रतं कृणुत) वाचं विसृजन् अध्वर्युणा पयसि दत्ते तत् पिबेत् । पत्न्यपि चैवं कुर्यात् । एवमेव प्रतिदिनमहनि रात्रौ च पय एव पिबेतां यजमानः पत्नी च । यदि पयो न लभ्यते पयसैव वा प्राणधारणं दुष्करं मन्वाते तदा दधि, उदुम्बरफलानि, धानाः, 9सक्तून् , ओदनमात्रं वा भुञ्जीयाताम् ॥ ततो यज्ञोपयोगिद्रव्यार्जनाय याचकान् प्रेषयेत् । 10याच्ञेयं धनिकस्यापि नित्या । आगतानि द्रव्याणि तत्तन्मन्त्रेण गृह्णीयात् । एतावता प्रथमदिनकृत्यं समाप्यते । यजमानस्तस्यां रात्रौ जागरणं कुर्यात् । व्याकरणसंस्कृतैरेव शब्दैर्व्य॑वहरेत् , न लौकिकीं वाचं वदेत् । असच्छुद्रैर्न सम्भाषेत । नास्य नाम कश्चित् ब्रूयात् । सुत्यादिने
[[६१]]
दक्षिणादानात् पूर्वं न कृष्णविषाणं विसृजेत् । न दन्तान् दर्शयेत् । नोच्चैर्हसेत् । नानृतं वदेत् । न मांसमश्नीयात् । न स्त्रियामुपेयात् । नोपरि खट्टादौ शयीत । न सन्ध्ययोः प्राग्वंशाद्बहिर्गच्छेत् । यावद्दीक्षमग्निहोत्रदर्शपूर्णमासादीनि श्रौतकर्माण्यपि नानुतिष्ठेत् । न अन्यस्मै किञ्चिद्दद्यात् । दीक्षाव्यञ्जकानि कृष्णाजिनादीनि सर्वदा धारयेत् ॥ ॥ एतावत् प्रथमदिनकृत्यम् ॥
-
सोमयागं करिष्यता यजमानेन ऋत्विजां वरणार्थे तत्तत्समीपं यः प्रेष्यते स सोमप्रवाकः । सोमं प्रकर्षेण वक्ति ऋत्विग्भ्य इति । ↩︎
-
See. आप. श्रौ. १०. १, २, ३. ↩︎
-
See. आप. श्रौ. १०, १. १०. ↩︎
-
शालाया उपरि आच्छादनधारणवंशा यस्मात् प्रागग्रा एव, तत इयं संज्ञा। ↩︎
-
See. कात्या श्रौ. ७. १. १४-१८. [^३_pg६०] See. कात्या. श्रौ. ७. २. १९. ↩︎
-
कृष्णवर्णो हरिणः कृष्णमृगः । तस्य शृङ्गं विषाणम् । ↩︎
-
See. आप. श्रौ. १०.८. ११-१६. ↩︎
-
पत्नीयजमानयोः पानार्थे पयःप्रदानमेव व्रतकरणमित्युच्यते । ↩︎
-
See. १०. १६, १७, कण्डिके ; also. तै, आरण्यक, २. ↩︎
-
आप, श्रौ. १०. १८. ४-७. बौधा. श्रौ. ६. ८. का. श्रौ, ५. ५. २, ३. ↩︎