इदमिदानीं सोमयागस्वरूपं निरूपयितुमारभ्यते । सोमयागः चतुष्प्रकारः-एकाहः, अहीनः, साद्यस्कः, सत्रं चेति । एका, तिस्रः, चतस्रः, द्वादश, अपरिमिता वा दीक्षाः सोमयागे भवन्ति । एकस्मिन् दिने कर्तव्यतया विहिता नियमा यथावदनुष्ठिता एका दीक्षा । ततो यावद्वारं दिनान्तरेष्वभ्यस्तास्तावत्सङ्ख्याका दीक्षा भवन्ति । ततो दिनत्रये, षट्सु, द्वादशसु वा दिनेषु उपसदोऽनुष्ठेयाः । तत्र एकाहज्योतिष्टोमादौ तिस्रः, चयने षट् , अहीनादौ द्वादशोपसद इति विवेकः । तत्र दीक्षोपसदामनेकदिनानुष्ठेयत्वेऽपि एकस्मिन्नेव दिने सोमयागानुष्ठानं यत्र स एकाहः । सोमयागस्य द्वित्रादिषु दिनेषु पुनः पुनरावृत्य अनुष्ठानं यत्र सोऽहीनः । तत्र द्विरात्रप्रभृति दशरात्रपर्यन्ता अहीनाः । एकादशद्वादशरात्रावुभावहीन सत्रोभयात्मकौ । द्वादशरात्रस्यैव उभयात्मकतां केचिदभिप्रयन्ति । त्रयोदशरात्रप्रभृतयः सहस्रसंवत्सरपर्यन्ताः सोमयागाः सत्राण्युच्यन्ते । एकस्मिन्नेव दिने सङ्कल्पप्रभृत्यवभृथान्तमनुष्ठानं यस्य स साद्यस्क इत्युच्यते ॥
सत्राण्यपि द्विविधानि-रात्रिसत्राणि अयनसत्राणि चेति । तत्र द्वादशरात्रप्रभृति शतरात्रपर्यन्तानि रात्रिसत्राणि । ततः प्रभृत्ययनसत्राणि इति सामान्यस्वरूपम् । इदानीं सर्वसोमयागप्रकृतिभूतस्य अग्निष्टोमाख्यस्यैकाहस्य सर्वसोमयागेभ्यः पूर्वमनुष्ठेयस्य अनुष्ठानप्रकारः संक्षेपतो निरूप्यते । तस्य आरम्भे पक्षद्वयम् - यस्य अनाहिताग्नेः सोमयागानुष्ठाने तीव्रेच्छोदिता
[[५६]]
स वसन्तर्तौ सोमयागोचितं कालं निर्धार्य ततः पूर्वस्यां सप्तम्यामष्टम्यां दशम्यां वा दीक्षापक्षानुसारेण सङ्कल्प्य अग्न्याधानार्थम् , अग्न्याधान विधिना अग्नीनाधाय समनन्तरमेव सोमयागार्थं सङ्कल्प्य तं यथावदनुतिष्ठेत् इत्येकः पक्षः । न अत्र पक्षे आधानोक्तकालापेक्षा । अथ वा आधानार्थं विहिते काले यथावदग्नीनाधाय, ततोऽग्निहोत्रदर्शपूर्णमासपशुचातुर्मास्यादीन् यागान् यथाकालमनुतिष्ठन्, लब्धायां सामग्रीसम्पत्तौ वसन्तर्तौ सोमयागमनुतिष्ठेत् इत्यपरः पक्षः । द्वावपि सूत्राद्युक्तौ याज्ञिकैरङ्गीकृतौ च । अतो यथेष्टं तौ परिग्राह्यौ । तत्र पक्षद्वयेऽपि सोमयागानुष्ठानेन कोऽपि विशेषः ॥
सोमयागेऽधिकारी
तत्र यो नाम 1कूश्माण्डैः पवित्रेष्ट्यादिमभिः जपैः पुण्यतीर्थस्नानादिभिर्वा पावनैः कर्मभिरात्मानं शोधयति स्म, निर्वैरश्च भवति भूतेषु स एवं सोमयागानुष्ठानेऽधिकारी भवति । तत्रापि यस्य पिता पितामहो वा सोमयागं नान्वतिष्ठताम् , सोऽनर्हस्सोमयागानुष्ठाने त्रिपुरुषसोमपानविच्छेदीति कृत्वा । एवं यस्य पिता पितामहो वा न वेदाध्यायी, न वा हविर्यज्ञान् श्रौतानन्वतिष्ठत् स दुर्ब्राह्मण इति सोऽपि न सोमयागेऽधिकरोति । अतस्तादृशदोषद्वयापनुत्तये एैन्द्राग्नपशुयागम् , आश्विनपशुयागं च अनुष्ठाय ततस्सोमयागमनुतिष्ठेत् । तत्र आत्मना सह त्रिपुरुषसोमपानाभावे ऐन्द्राग्नपशुयागोऽनुष्ठेय इति कात्यायनमतम् । आत्मानं मुक्त्वा पूर्वेषां त्रयाणाम् आनुपूर्व्येण तथात्वे स इत्यापस्तम्बीयाः । एवं वेद्याः वेदस्य च त्रिपुरुषविच्छेद एवं आश्विनः पशुः । तत्रोभयमप्यनुष्ठेयमित्यापस्तम्बीयाः। अन्यतरस्यैव अनुष्ठानमिति कातीयाः ॥
पशुयागद्वयमिदं सोमयागात् पूर्वमेव अनुष्ठाय, तेन च आत्मानं परिशोध्य, ततस्सोमार्थं सङ्कल्पेत इत्येकः पक्षः । अथ वा सोममध्य एव चतुर्थदिनेऽनुष्ठीयमानेन अग्नीषोमीयेण पशुयागेन सह तन्त्रेण अनुष्ठानमित्यपरः । पृथगनुष्ठानपक्षे सोमयागारम्भात् पूर्वतनपर्वण्येव पशुयागानुष्ठानमिति वेदितव्यम् ॥
[[५७]]
नाम्नि प्रवृत्ति-निमित्तम्
अत्र बहूनामिष्टिपशूनां सत्यप्यनुष्टाने तेषामङ्गत्वात् 2सोमद्रव्यकयागस्यैव प्राधान्यात् “सोमयागः" इति व्यवहारः । अग्निष्टोमाख्येन साम्ना समाप्यमानत्वाच्च “अग्निष्टोमः” इति प्रकृतयागो व्यवह्रियते । सोमयागो हि ऋग्यजुस्सामवेदोक्तैः त्रिप्रकारैः अङ्गकलापैः संवलितोऽनुष्ठीयते । तत्र यजुर्वेदेनैव समधिकतमान्यङ्गानि प्रायो यज्ञशरीराभिनिर्वर्तकाणि विधीयन्ते। ऋग्वेदेन विविधयाज्यापुरोनुवाक्याशस्त्रपुरोरुगादीनि । सामवेदेन च गानविशिष्टैर्मन्त्रैः क्रियमाणानि यागसम्बन्धिदेवतास्तोत्राणि । तानि च प्रतिसोमयागं बहून्यनुष्ठयतया विधीयन्ते । अग्निष्टोमाख्ये सर्वयागप्रकृतिभूतेऽस्मिन् सोमयागे द्वादश स्तोत्राणि । तान्युपरिष्टाद्वक्ष्यन्ते । तत्र अग्निष्टोमाख्यमन्तिमं स्तोत्रम् । न ततः परं स्तोत्रमस्ति स्तवनीयमस्मिन् यज्ञे । अतोऽग्निष्टोमाख्येन स्तोत्रेण समाप्यमानत्वादयं क्रतुः “अग्निष्टोमसंस्थाकः" इति “अग्निष्टोमः" इति च व्यवह्रियते । एवमग्रेऽपि सोमयागानां नामानि तत्तत्समाप्तिगतस्तोत्रवशेनैव भवन्ति । यथा उक्थ्यः , अतिरात्र इत्यादीनि । अनुष्ठातृनामभिः, द्रष्ट्रनामभिश्च केचित् क्वचित् व्यवहारं भजन्त उपरितनेषु क्रतुषु । यथा–अङ्गिरसां द्विरात्रम् , जनकसप्तरात्रम् , कुण्डपायिनामयनम् इत्यादि ।
सोऽयं सोमयागो नित्यः प्रतिवसन्तं त्रैवर्णिकेन आहिताग्निना पूर्वोक्ताधिकारिविशेषणयुक्तेन सपत्नीकेन अवश्यानुष्ठेयः । अकरणे प्रत्यवायो भवति । नित्यस्य सतोऽस्य काम्यत्वमपि तत्तत्फलसाधनत्वेन श्रूयते वेदेषु सर्वत्र, श्रौतसूत्रेषु3च । अत्र द्रव्यं काचिल्लता । तां विक्रेतुस्सकाशात् गवादिद्रव्येण मूल्यभूतेन क्रीत्वा अश्मनः उपरि निक्षिप्य अश्मभिरेव कुट्टयित्वा, रसं निष्कास्य तं तत्तद्देवताभ्यो हुत्वा हुतशेषं यजमानसहिता ऋत्विजो भक्षयेयुः । नेयं सर्वत्र सुलभा । क्वचिदेव तु पवित्रतमे पर्वतादौ । हिमवति, महेन्द्रे, सह्यपर्वते, श्रीपर्वते, देवगिरौ, विन्ध्ये, पारियात्रे, सिन्धु-
[[५८]]
नदस्य कूलेषु, वितस्ताया नद्या उत्तरभागे स्थितेषु महापर्वतेषु, अन्येषु चैवं विधेषु पुण्यस्थलेष्वेवास्या उत्पत्तिः श्रूयते ; विशेषतो मूजवदाख्ये गिरौ च । परमिदानीं नेयं भारतदेशे उपलभ्यते सर्वथा । प्रायेण जानन्त्यपि न तस्याः स्वरूपम् । तस्याः स्थाने पूतीकाख्यां काञ्चित् तत्सदृशी (क्रियताचन अंशेन) लतामादाय तयैव सोमयागमनुतिष्ठन्त्यनुष्ठातारः । निरतिशयोऽस्य सोमस्य महिमोपवर्ण्यते वेदेषु, पुराणेषु च । पीतो मनुष्याणामपूर्वमायुर्बलं पुष्टिं मेधां सर्वातिशायिनीमात्मशक्तिं च विवर्धयतीति, नवीनमेव किमपि जन्म समुत्पादयतीति चायुर्वेदादावुघुष्यते । नास्ति देवानामिन्द्रस्य चेतोऽपि प्रियतमं वस्तु त्रिलेक्यामिति श्रौतो वादः । दैवेन अमृतेनापि साकममुमुपमिमते महाभारतादयो ग्रन्थाः । अस्तु । प्रकृतमनुसरामः ॥