०८ आग्रयणेष्टिः

अथाग्रयणेष्टिरुच्यते-सा च कालद्वये शरद्दृतौ वसन्तर्तौ चानुष्ठेया। तावेव नवान्नोत्पत्तिकालाविति कृत्वा कालद्वयेऽपि नवान्नोत्पत्तावेवेयमनुष्ठेया । अत एव “नवान्नेष्टिः” इत्यस्याः संज्ञा । एवं च शरदि व्रीहिकाले व्रीहिभिर्नवैः वसन्ते यवैर्नवैश्च अनुष्ठेया । नवैः श्यामाकैरपि यष्टव्यत्वेनेयं विहिता । ते च वर्षासूत्पद्यन्ते । अतश्च वर्षासु श्यामाकैर्नवैः शरदि च नवैर्व्रीहिभिः, वसन्ते नवैर्यवैश्च कर्तव्या । व्रीह्याग्रयणश्यामाकाग्रयणयोस्समानतन्त्रेणाप्यनुष्ठानं सूत्रकारैरुक्तम् । तथानुष्ठाने व्रीह्युत्पत्यनन्तरं शरद्येव सा अनुष्ठेयेति बोध्यम् । तत्राप्यमायां पूर्णिमायां वा । पुण्यनक्षत्रादयोऽपि सूत्रान्तरेषूक्ताः । तत्र शरद्यनुष्ठेये व्रीह्याग्रयणे चत्वारि हवींषि-पुरोडाशोऽष्टाकपालः पुराणैर्व्रीहिभिः कृतः, पुरोडाशो द्वादशकपालो नवव्रीहीणाम् , चरुर्नवव्रीहीणामेव, द्यावापृथिव्य एक कपालो नवव्रीहीणामेव । अत्र-अग्नि, इन्द्राग्नी, विश्वे देवाः, द्यावापृथिव्यौ इति क्रमेण देवताः । श्यामाकाग्रयणस्य सहानुष्ठानपक्षे श्यामाकाः नवाः द्रव्यम् । तैश्चरुनिष्पाद्यः । सोमो देवता । पृथगनुष्ठानपक्षे

[[५४]]

वर्षर्तौ केवलेन नवश्यामाकनिष्पादितचरुणा यजेत । सोम एव देवता । एवं वसन्ते यवाग्रयणं कर्तव्यम् । तत्र पुराणानां यवानामुपयोगो नास्ति । ऐन्द्राग्नवैश्वदेवद्यावापृथिवीयरूपाणि त्रीण्येव नवयवनिष्पादितानि हवींषि । इयन्तो विशेषाः । अन्यत्सर्वं प्रकृतिवत् । साक्षात्प्रतिनिधिरूपेण वा आग्रयणं कृत्वैव नवान्नमश्नीयादाहिताग्निः ॥ ॥ इत्याग्रयणेष्टिः ॥

इति महामहोपाध्याय-शास्त्ररत्नाकर-पण्डितसार्वभौम-श्रीचिन्नस्वामिशास्त्रि विरचिते यज्ञतत्त्वप्रकाशे हविर्यज्ञनिरूपणाख्यः प्रथमो भागः ॥

[[५५]]