०७ चातुर्मास्यानि

अथ चातुर्मास्यानि निरूप्यन्ते । तानि द्विविधानि-स्वतन्त्राणि राजसूयान्तर्गतानि च । राजसूयमनुतिष्ठता क्षत्रियेणैव राज्ञा राजसूयप्रयोगमध्य एवानुष्ठेयानि राजसूयान्तर्गतानि । न ब्राह्मणवैश्ययोस्तत्राधिकारः । स्वतन्त्रेषु तेषु त्रैवर्णिकानामधिकारः । तानि चाग्निहोत्रदर्शपूर्णमासवन्नित्यानि प्रतिसंवत्सरमनुष्ठेयानि ॥ तत्र चत्वारि पर्वाणि-वैश्वदेवः, वरुणप्रघासाः, साकमेधाः, शुनशीरीयश्चेति । अत्र पर्वसु पौर्णमासीष्वनुष्ठेयत्वात् पर्वशब्देन ते यागा उच्यन्ते । इष्टिरूपेष्वत्र चत्वार एव ऋत्विजः । वरुणप्रघासेषु परं प्रति प्रस्थाता एकोऽधिकः ॥

वैश्वदेवपर्व

तत्र फाल्गुन्यां चैत्र्यां वा पूर्णिमायां वैश्वदेवपर्वणोऽनुष्ठानम् । फाल्गुन्यामेवेति कात्यायनः । तदनुष्ठास्यन् ततः पूर्वस्यां चतुर्दश्यामन्वारम्भणीयेष्टिं तत्स्थानापन्नां वैश्वानरपार्जन्येष्टिं वा अनुतिष्ठेत् ॥ इष्टिरियं कर्तुः कर्मारम्भयोग्यतासंपादिका । द्वादशकपालः पुरोडाशः चरुश्च द्रव्यम् । वैश्वानरः पर्जन्यश्च देवते । तामिष्टिकल्पेन अनुष्ठाय श्वोभूते वैश्वदेवपर्वानुष्ठानम् । तत्राष्टौ यागाः-आग्नेयः, सौम्यः, सावित्रः, सारस्वतः, पौष्णः, मारुतः, वैश्वदेवः, द्यावापृथिव्य इति ।

[[४६]]

तत्र अष्टाकपालः पुरोडाशः, चरुः, द्वादशकपालः पुरोडाशः, चरुः, पिष्टकचरुः , सप्तकपालः पुरोडाशः, आमिक्षा, एककपालः पुरोडाश इति क्रमेण द्रव्याणि । अग्निः, सोमः, सविता, सरस्वती, पूषा, मरुतः, विश्वे देवाः, द्यावापृथिव्यौ इति च क्रमेण देवताः ॥ तत्र आमिक्षोत्पादनार्थं पर्वणः पूर्वस्मिन् दिनेऽन्वारम्भेष्ट्यनन्तरं सान्नाय्यवत् प्रातर्वत्सापाकरणादिकं सायंदोहनादिकमनुष्ठाय लौकिकेन दध्ना तत्पय आतञ्च्य निदध्यात् । चतुर्दश्यामेव, कुशसमिदाहरणादिकं कुर्यात् । ततः पूर्णिमायां प्रातरग्निहोत्रं हुत्वा दार्शिकेन प्रातर्दोहधर्मेण गा दुध्वा, दुग्धं पय आहवनीये श्रपयित्वा अतितप्यमाने पयसि तस्मिन् पूर्वदिनसम्भृतं प्रभूतं दध्यासिञ्चेत् । तद्विधा संवर्तते-घनीभूतं द्रवीभूतं च । तत्र यद्धनीभूतं कठिनद्रव्यं सा आमिक्षा । यत् द्रवीभूतं तत् वाजिनम् । ततः पुरोडाशार्थं चर्वर्थं च व्रीहीन् तत्तद्देवतायै निरुप्य सहैव अवहत्य पुरोडाशीयांश्चर्वार्थांश्च तण्डुलान् पृथक्कृत्य पुरोडाशीयान् पिष्ट्वा पिष्टैः दर्शपूर्णमासवत् पुरोडाशान्निष्पादयेत् । भिन्नभिन्नपात्रेषु चरूंश्च श्रपयेत् । ततः प्रयाजार्थं जुह्वादिषु पात्रेष्वाज्यं गृहीत्वा अनूयाजार्थं पात्रान्तरे आज्यं दधि च सहैव गृह्णीयात् । तत्पृषदाज्यमित्युच्यते । अत्र नव प्रयाजाः। नव अनूयाजाः । एवम् , एककपाल पुरोडाशमपि तदर्थं सम्भृते आशयस्थाल्याख्ये पात्रे निक्षिप्य तत्पात्रं घृतेनापूरयेत् । यथा पुरोडाशस्य मस्तकः परं दृश्येत अन्योंऽशो घृतमग्नो भवेत्तथा पूरणीयम् । ततः प्रयाजाघाराज्यभागाद्यनन्तरम् आश्रावणादिषु कृतेषु आग्नेयादियागान् कुर्यात् । अत्र यागेभ्यः पूर्वं तदर्थं पक्केषु वेद्यामासादितेषु पशुयाग इव अग्निं मथित्वा आहवनीये निक्षिपेत् । अनन्तरं प्रयाजाः । ततः प्रधानयागा इति बोध्यम् । प्रधानेषु देवताः पूर्वमुक्ताः । तत्र आग्नेयादीनां हविषामवदान क्रमेण होमः । एककपालस्य पुरोडाशस्य तु न अवदानादिकम् । किं तु यथा पात्रे स्थितस्तथैवापर्यावर्तयन् तदर्थनिर्मितशिक्येन सहैव तं गृहीत्वाग्नौ प्रक्षिपेत् । पात्रस्थमाज्यं च अवश्च्योतयेत् । ततः चतुर्भिः मधुः, माधवः, शुकः, शुचिः इत्येवंरूपैः मासनामभिः एककपालपुरोडाशमभित आज्येन जुहुयात् । ततः स्विष्टकृदिडाभक्षणानूयाजादिषु परिधिप्रहरणान्तेषु प्रकृतिवदनुष्ठितेषु कर्मसु वाजिनपात्रं गृहीत्वा ततो वाजिनमुपरितः जुहां तथा स्रावयेत् यथा वाजिनं जुहूतो बहिर्बर्हिष उपरि

[[४७]] विष्यन्देत् । ततस्तत् वाजिसंज्ञिकाभ्यो देवताभ्यो हुत्वा शेषभक्षणं ऋत्विजः सोमवत् उपाह्वानादिकं कृत्वा कुर्युः । अन्ये चेष्टिधर्मा यथावदत्र अनुष्ठेयाः । इष्ट्यन्ते वपनं यजमानस्य ॥ ॥ इति वैश्वदेवपर्वसमाप्तिः ॥

वरुणप्रघासपर्व

अथ द्वितीयं वरुणप्रघासपर्व । वैश्वदेवानुष्ठानानन्तरं मासचतुष्टयमतिवाद्य, आषाढ्यां श्रावण्यां वा पूर्णिमायां वरुणप्रघासानुष्ठानं कुर्यात् । आषाढ्यामेवेति कात्यायनः । तत्र-

  • १. आग्नेयः
  • २. सौम्यः
  • ३. सावित्रः
  • ४. सारस्वतः
  • ५. पौष्णः
  • ६. ऐन्द्राग्नः
  • ७. मारुतः
  • ८. वारुणः
  • ९. कायः

इति नव यागाः ।

उत्तरतो दक्षिणतश्चेति वेदिद्वयम् । गार्हपत्यो दक्षिणाग्निश्चैक एव । आहवनीयौ परं द्वौ तत्तद्वेद्यग्रभागयोः । दक्षिणस्यां वेदौ सप्तमो यागः प्रति प्रस्थात्र अनुष्ठीयते । अन्ये सर्वे यागा उत्तरस्यां वेद्यामध्वर्युणा कर्तव्याः । अङ्गानि तूभयत्र अनुष्ठातव्यानि प्रयाजादीनि । उत्तरस्यां समन्त्रकाणि, दक्षिणस्याममन्त्रकाणीति विशेषः । अतोऽत्र वरुणप्रघासेषु दक्षिणविहारार्थं प्रतिप्रस्थाता एकोऽधिक ऋत्विक् । तदर्थं पात्राण्यपि जुह्वदीनि पृथक् निर्मातव्यानि । तानि सुवर्णनिर्मितानि शमीकाष्ठनिर्मितानि वा भवेयुः । आमिक्षार्थं वैश्वदेवपर्ववत् पूर्वस्मिन् दिन एव सायंदोहधर्मानुष्ठानपूर्वकं दध्न आतञ्चनं कर्तव्यम् । यदि सद्यस्काला वरुणप्रघासा भवेयुः तदा पूर्णिमायाः प्रातरेव सर्वोऽपि व्यापारो भवेत् । लौकिकेन दध्ना आमिक्षोत्पादनम् । तत्र वेदिनिर्माणकाले दक्षिणत उत्तरतश्चेति गार्हपत्यस्याग्रे वेदिद्वयं निर्मायोत्तरस्यां वेद्याम् अन्तरे वोत्तरवेदिं तन्मध्ये नाभिं च निर्माय गार्हपत्यादग्निं प्रणीयोभयत्र वेद्योरग्निद्वयं निदध्यात् । तत्रोत्तरत्राध्वर्युः दक्षिणतः प्रतिप्रस्थाता च सर्वं कुर्याताम् । ततश्चरुपुरोडाशार्थं व्रीहीन् निरुप्य अवघातादिकं कृत्वा चर्वर्थान् पुरोडाशार्थांश्च तान् पृथक्कृत्य पेषणश्रपणादिकं यथावदध्वर्युः कुर्यात् ॥

[[४८]]

तस्मिन्नेव समये प्रतिप्रस्थाता करम्भपात्रार्थं यवान् निरुप्य अतप्तानेव तानवहत्य पिष्ट्वा पिष्टानि पत्नीहस्ते दद्यात् । सा तानि जलेन संयुत्य गृहकर्मोपयुक्तपात्रसदृशानि अल्पकायानि पात्राणि कुर्यात् । तानि च सङ्ख्यया यजमानगृहगतजनसङ्ख्याया एकाधिकानि भवेयुः । तेषु च शमीपत्रमिश्राणि खर्जूरफलानि निक्षिप्य शूर्पे तानि स्थापयेत् । तदानीमेव तैरेव पिष्टैः मेषमध्वर्युः, मेषी प्रतिप्रस्थाता च कुर्याताम् । मेषौ स्थाल्यां पचेयुः । ततः पूर्वोत्पादितायाम् उत्तरामिक्षायां मेषं दक्षिणामिक्षायां मेषीं चावधाय शमीपत्रकरीराणि प्रास्य तौ वेद्योर्निक्षिपेत् ॥ तत उभावपि अध्वर्युप्रतिप्रस्थातारौ पृथक् पृथगग्निं मथित्वा आहवनीययोः प्रक्षिपतः । ततोऽध्वयुः यजमानपत्नीं पृच्छति-पत्नि! कति ते जाराः’ इति । यदि जाराः स्युः तदा सा तान्नाम्ना निर्दिशेत् । यदि निर्दिशेत् तदा सा व्यभिचारदोषान्मुक्ता भवेत् । यदि सतो न निर्दिशेत् तदा आत्मबन्धुभिः पतिपुत्रादिभिर्वियुक्ता भवेत् । ततः शूर्पं? करम्भपात्रपूर्णमादय? यजमानः पत्नी च दक्षिणविहारगतस्याग्नेः पूर्वदेशं गत्वा पश्चिमाभिमुखौ तिष्ठन्तौ शूर्पं शिरसि निधाय तथैव जुहुतः शूर्पेण जुहूस्थानीयेन । ततः शूपमन्यत्र त्यजेताम् । ततोऽध्वर्युराग्नेयादीनैन्द्राग्नपर्यन्तान् यागानवदानप्रेषणाश्रावणाद्यनुष्ठानपूर्वकं यथावदनुष्ठाय विरमेत् । ततः प्रतिप्रस्थाता मेषीसहितामिक्षायागम् अवदानाद्यनुष्ठाय दक्षिणेऽग्नौ कुर्यात् । अथैवमेवाध्वर्युरुत्तरस्मिन्नग्नौ मेषयुतामिक्षयागं कुर्यात् । ततोऽन्तिमं कदेवताकं यागमेककपालधर्मेणानुतिष्ठेत् । तत्र-अग्निः, सोमः, सविता, सरस्वती, पूषा, इन्द्राग्नी, मरुतः, वरुणः, क इति क्रमेण देवताः। ततः कायपुरोडाशमभितो मासनामभिश्चतुर्भिः नभः नभस्यः, इषः, ऊर्ज इत्येवं रूपैः हुत्वा स्विष्टकृदिडाभक्षणानूयाजादिकं यथावदनुष्ठाय वाजिनेज्यामपि विधाय, अन्तेऽवभृथेष्टिं क्वचिज्जले कृत्वा तत्रैवावभृथस्नानं कुर्यात् । अत्रावभृथस्य सङ्कुचितं रूपम्, विस्तृतं सोमयाग एवेति तत्रैव स विशेषतो निरूप्यते । ततोऽवभृथादेत्य यजमानः प्रकृतीष्टिं कृत्वा वैश्वदेववत् वपनं कारयेत् । नियमांश्च धारयेत् ॥ ॥ 1इति वरुणप्रघासाः॥

[[४९]]

साकमेधपर्व

अथ तृतीयं साकमेधपर्व । दिनद्वयानुष्ठेयमिदम् । चत्वारि कर्माण्यत्र-अनीकवत्यादय इष्टयः, महाहवींषि, पितृयज्ञः, त्र्यम्बकहवींषीति । तत्र कार्तिक्यां मार्गशीर्ष्यां वा चतुर्दश्यां शुक्लायां प्रातरग्निहोत्रं हुत्वा सङ्कल्प्य तदैव अनीकवतीष्टिः । अष्टाकपालः पुरोडाशो द्रव्यम् । अग्निरनीकवान् देवता । तत्र सूर्योदयात् पूर्वं कर्मारभ्य सूर्योदयकाल एव यथा हविर्निर्वापस्सम्भवेत् तथानुष्ठेयम् । ततो मध्यन्दिने सान्तपनीष्टिः । तत्र चरुद्रव्यम् । मरुतस्सान्तपना देवताः। तस्मिन्नेव दिने सायं गृहमेधीयेष्टिः । तत्र दुग्धपक्वश्चरुद्रव्यम् । स यजमानस्य यावत्यो गावः सन्ति सर्वास्ता दुग्ध्वा सर्वस्मिंस्तस्मिन् पयसि पक्वो गृहजनपर्याप्तौदनरूपो भवेत् । मरुतो गृहमेधिनो देवताः । न अत्र आधारप्रयाजानूयाजसामिधेनीप्रभृतीनामङ्गानामनुष्ठानम् । केवलमाज्यभागौ हविस्संपादननान्तरीयकाण्यवघातादीनि कर्माणि स्विष्टकृद्यागं चानुतिष्ठेत् । हुतावशिष्टमोदनं यजमानस्य गृहिणः सर्वे समेत्य भक्षयेयुः । भोजनमिदं चतुर्दश्यां रात्रौ भवति । ततो द्वितीयदिन उषसः प्रादुर्भावसमये उत्थाय स्नात्वा यजमानगृहस्थमृषभं तन्नाम सङ्कीर्त्य आह्वयेयेत् । तच्छ्रुत्वा तस्मिन् प्रतिशब्दायमाने सति पौर्णदर्वाख्यं होममग्निहोत्रहोमात्पूर्वमनुष्ठाय क्रीडिनेष्टिं कुर्यात् । सा द्वितीयदिनसूर्योदयकालेऽनुष्ठेया । तत्र सप्तकपालः पुरोडाशो द्रव्यम् । मरुतः क्रीडिनो देवताः । मरुतः स्वतवत्यो वा । अन्यत्सर्वं यथावत् ॥

महाहवींषि (साकमेधान्तर्गतानि)

ततो महाहवींषि । तत्राष्टौ यागाः । आग्नेयादिपञ्चकं वैश्वदेववत् । तत ऐन्द्राग्नः, ऐन्द्रः, वैश्वकर्मणश्चेति त्रयः । देवता आग्नेयादिषु पञ्चसु वैश्वदेववत् । तत इन्द्राग्नी, इन्द्रः, विश्वकर्मा च । द्रव्याणि स्पष्टानि । अत्रापि वरुणप्रघासवत् वेदिमध्ये प्राग्देशे उत्तरवेदिं कृत्वा गार्हपत्यादग्निं2प्रणीय आहवनीयकरणम् , अग्निं मथित्वा आहवनीये प्रक्षेपश्च भवति । तत आघाराज्यभागप्रयाजानिष्ट्वा, अष्टानां प्रधानानामनुष्ठानं स्विष्टकृदि -

[[५०]] डाभक्षणानूयाजादिकरणं च वैश्वदेववदेव । वैश्वकर्मणस्यैककपालस्यानुष्ठानकाले मार्गशीर्षादिफाल्गुनान्तानि सह’, सहस्यः, तपः, तपस्य इत्येवंरूपाणि मासनामानि तमभिजुहुयात् । एतावता महाहविस्समाप्तिः ॥

महापितृयज्ञः

तदानीमेव महापितृयज्ञ आरब्धव्यः । अयं च पूर्वनिरूपितात् दर्शकालानुष्ठेयपिण्डपितृयज्ञात् भिन्नः । अयं साकमेधपर्वान्तर्गतः । अस्य वेदिरन्यप्रकारैव । साप्युपरिष्टानिकृष्टा । तां निर्माय दक्षिणाग्नेरग्निं गृहीत्वा तं वेदिमध्ये स्थापयित्वा तत्रैव आहवनीयकर्तव्यानि सर्वकर्माणि कुर्यात् पितृयज्ञसंबन्धीनि । पितृयज्ञे च हविस्त्रयम्-षट्कपालः पुरोडाशः, धानाः (भ्रष्टयवाः), मृतवत्साया गोः पयसा मिश्रितानि भर्जितयवचूर्णानि चेति । सोमः पितृमान् , पितरो बर्हिषदः, पितरोऽग्निष्वात्ता इति क्रमेण देवताः। एतेषां हविषां निष्पादनार्थ यवान्निरुप्य, अवहत्य, फलीकृत्य, धानार्थान् मन्थार्थाश्च यवान् पृथग्विभज्य अवशिष्टान् पिष्ट्वा दक्षिणाग्निसमीपे षण्णां कपालानामुपरि पुरोडाशं श्रपयेत् ॥

ततः पृथक्कृतान् यवान् भर्जयित्वा, अर्धं धानार्थम् अवशिष्य अर्धं पिष्ट्वा मन्थं कुर्यात् । मृतवत्साया गोः पयसि यवचूर्णानि प्रक्षिप्य इक्षुकाण्डेन मथित्वा मन्थं सम्पादयेत् । ततो वेद्यां सर्वाणि हवींष्यासाद्य तद्दक्षिणतः3 कशिपूपबर्हणाञ्जनाभ्यञ्जनोदकुम्भान् पिण्डपितृयज्ञवदासाद्य चतुर्थप्रयाजवर्जं चतुरः प्रयाजानिष्ट्वा प्रचीना वीतिनः परिश्रितां वेदिं परिक्रम्य प्रधानहविर्यः सकृत्सकृदवदाय तत्तद्देवतायै आश्रावणादिकमनुष्ठाय हविः त्यजेयुः । अत्र “आ स्वधा” इत्याश्रावणम् । “अस्तु स्वधा" इति प्रत्याश्रावणम् । “सोमं पितृमन्तं यज" इति प्रैषः। “ये यजामहे” इति स्थाने “ये स्वधामहे” इति “वौ३षट्" इति स्थाने " स्व३धा नमः" इति च पठेत् । अत्र द्वे द्वे पुरोऽनुवाक्ये, एकैका च याज्या भवन्ति । अग्निः कव्यवाहनः स्विष्टकृद्देवता । प्रधानयागेऽपि द्रव्याणां सकृत्सकृदेव अवदानम् । शेषभक्षणं केवलमवघ्राणरूपमेव । ततो यजमानः वेदिं त्रिः अप्रदक्षिणं परिषिच्य हविश्शेषेण पिण्डत्रयं कृत्वा, वेद्याः पूर्वपश्चिमदक्षिणकोणेषु पितृपितामहप्रपितामहेभ्यः तान् पिण्डान्

[[५१]]

निधाय, उत्तरस्मिन् वेदिकोणे हस्तलिप्तं निमृज्य, पितॄन्, गार्हपत्यं चोपस्थाय शय्योपबर्हणवस्त्राञ्जनादीनि पूर्वोपकल्पितानि पितृभ्यो यथावत् दत्वा प्राचीनावीतानि विस्रस्य यज्ञोपवीतानि कृत्वा पूर्ववैपरीत्येन वेदिं परिक्रम्य परिश्रयणमपास्य प्रथमवर्जितावनूयाजौ द्वाविष्ट्वा निवीतं कृत्वा सूक्तवाकादि सर्वं समापयेयुः समिष्टयजु पत्नीसंयाजवर्जम् । एतावता पितृयज्ञसमाप्तिः ॥

त्र्यम्बकहवींषि

अथ त्र्यम्बकहवींषि । तत्र यजमानगृहावस्थितस्त्रीपुरुषसङ्ख्यापेक्षया एकाधिकसङ्ख्याकान् एककपालान् पुरोडाशान् तूष्णीमेव श्रपयित्वा तान् मूते कृत्वा दक्षिणाग्नेरेकमङ्गारमादाय मूतगतैः पुरोडाशैः उल्मुकेन (अङ्गारेण) सह ईशानदिशं गत्वा तत्रैकं पुरोडाशं मूषिकोत्खातपांसुषु प्रक्षिप्य ततः चतुष्पथं गत्वा तत्र तमङ्गारं निधाय संवर्ध्य सर्वेभ्यः पुरोडाशेभ्यः सकृत्सकृदवदाय रुद्राय हुत्वा तमग्निं त्रिः परिक्रम्य हुतावशिष्टान् पुरोडाशानूर्ध्वमाकाशे उत्क्षिप्य पततस्तान् गृहीत्वा यजमानहस्ते दत्तांस्तान् पुनर्मूते निक्षिप्य बद्ध्वा शुष्के कस्यचित्वृक्षस्य स्थाणावाबध्नीयात् । क्वचिद्वल्मीकच्छिद्रे वा निधानम् । ततः परितो मूतमवस्राव्य प्रत्यावृत्त्यानवेक्षमाणा गृहमागच्छेयुः । आगत्य च अदितिदेवताकं यागं घृतश्रपितचरुणा कुर्यात् ॥ ॥ समाप्तं साकमेधपर्व ॥

शुनासीरीयपर्व

ततः शुनासीरीयं पर्व । साकमेधसमाप्यनन्तरं द्वयोः त्रिषु चतुर्षु वा दिनेषु मासे वाप्यतीते शुनासीरीयानुष्ठानं कर्तव्यम् । चतुर्षु वा मासेष्वतीतेषु फाल्गुन्यामेव कुर्यात् । तत्र आग्नेयादयः पञ्च वैश्वदेववद्यागाः । तत ऐन्द्राग्नः, वैश्वदेवः, शुनासीरीयः, वायव्यः, सौर्यश्चेत्यधिकाः पञ्च । तेषु इन्द्राग्नी, विश्वे देवाः, इन्द्रः शुनासीरः, वायुः, सूर्यश्च देवताः । द्रव्याणि पुरोडाशः, चरु, पयश्च । चर्वाद्यर्थं पूर्ववदेव निर्वापप्रोक्षणा वघातपेषणश्रपणादयः । पयसः कृते वत्सापाकरणदोहनादिकं प्रातः दोहवदेव । नव प्रयाजाः नव चानूयाजाः । अन्यत्सर्वं पर्वान्तरवदेव । परं

[[५२]]

नात्र मासनामभिर्होमः चैत्रान्तर्गतैः । किं तु संसर्पाख्येन अधिकमासनाम्ना एककपालमभिजुहुयात् । इन्द्र एव शुनासीरपदवाच्य इत्यापस्तम्बादयः । कात्यायनस्तु, शुन इन्द्रः, सीरः वायुः, इति व्याख्याय शुनासीरीयं द्विदेवताकमिति कथयति । वरुणप्रघासपर्वण्येव अवभृथः ; न पर्वान्तरेषु । अग्निप्रणयनमुत्तरवेदिश्व मध्यमयोर्वरुणप्रघाससाकमेधयोरेव ; न आद्यन्तयोः केचित् चतुर्ष्वपि पर्वस्वग्निप्रणयनं कुर्वन्ति । अरणिमन्थनम् , मथितस्य च आहवनीये प्रक्षेपः पर्वचतुष्टयेऽप्यस्ति ॥

चातुर्मास्यानुष्ठाने विशेषाः

नित्यानामपि चातुर्मास्यानां पक्षद्वयमस्ति-उत्सर्गपक्षः, अनुत्सर्गपक्षश्चेति । सकृत्कृत्वोपरम् उत्सर्गपक्षः । प्रथमप्रयोगं परिसमाप्य पुनस्तान्यारभ्य पूर्ववदनुष्ठानं पञ्च संवत्सरं यावत् ततोऽप्यधिकं वेति सोऽयमनुत्सर्गपक्षः । सोमेन यक्ष्यमाण उत्सर्गपक्षमेव आश्रयेत् ॥ इमानि चातुर्मास्यानि त्रिप्रकाराणि भवन्ति- ऐष्टिकानि, पाशुकानि, सौमिकानि चेति । इदानीं निरूपितान्यैष्टिकानि । पाशुकानि पशुद्रव्यकाणि । देवतास्तु ता एव । तेषामनुष्ठानं परं पशुयागविधानेन । एवं सौमिकेषु सोमरस एव द्रव्यम् । देवतास्तु ता एव । सोमयागविधिना च दीक्षोपसत्प्रवाद्यानुष्ठानपूर्वकमनुष्ठेयानि ॥ तत्र ऐष्टिकेषु संवत्सरानुष्ठानपक्षेण सह पञ्चाहानुष्ठानपक्ष एक दिनानुष्ठानपक्षश्च बौधायनादिभिरुक्तः। स यथा प्रथमदिने वैश्वदेवपर्व । द्वितीयदिने वरुणप्रघासपर्व । तृतीयचतुर्थदिनयोः द्वयोः साकमेधपर्व । पञ्चमदिने शुनासीरीयमिति । अयं पञ्चाहःपक्षः । चत्वार्यप्येतानि पर्वाण्येकस्मिन्नेव दिने यदा अनुष्ठीयन्ते स एकाहपक्षः । तत्राति तान्येव हवींषि । ता एव च देवताः । परं तु सर्वेषां प्रधानानां पौर्णमासी कालानुष्ठेयत्वात् तत्तदङ्गानां सम्भवतां तन्त्रेण अनुष्ठानम् । असम्भवतां त्वावृत्तिः । अङ्गानां परस्परविरोधे वारुणप्राघासिकान्येव तान्यनुष्ठेयानि ॥ पाशुकचातुर्मास्येषु नैकैकस्य प्रधानहविषः स्थाने एकैकं पशुद्रव्यम् , किं त्वेकैकस्मिन् पर्वण्येकैकः । तत्र वैश्वदेवपर्वणि विश्वदेवदेवताक एकः पशुः । वरुणप्रघासे वरुणदेवताक एकः । साकमेधे महेन्द्रदेवताक एकः पशुः। शुनासीरीये शुनासीरदेवताक एकः । इतराणि हवींषि तेषु तेषु पर्वसु

[[५३]]

तानि तान्येव । तत्र पशुयागं पर्वणोऽन्ते आदौ वा पृथक् साङ्गमनुष्ठाय ततस्समानतन्त्रेणेष्टीनाम् अनुष्ठानमित्येकः पक्षः । पशुतन्त्रमध्य एवेष्टीनामप्येकतन्त्रेण अनुष्ठानमित्यपरः पक्षः । अस्मिन् पक्षे पश्वङ्गानामेवैकादश प्रयाजादीनामनुष्ठानम् , नैष्टिकाङ्गानां नवप्रयाजादीनाम् ॥ सौमिकचातुर्मास्येषु वैश्वदेवपर्वस्थाने अग्निष्टोमसंस्थाकस्सोमयागः। वरुणप्रघासपर्व दिनद्वयानुष्ठेयम् । तत्र प्रथमदिनेऽग्निष्टोमसंस्थाक उक्थ्यसंस्थाको वा सोमयागः । द्वितीयदिने उक्थ्यसंस्थाकः । साकमेधपर्व दिनत्रयानुष्ठेयम् । तत्र प्रथममहरग्निष्टोमसंस्थाकम् । द्वितीयदिने उक्थ्य संस्थस्सोमयागः । तृतीयदिनेऽतिरात्रसंस्थाकः । शुनासीरीये पर्वणि ज्योतिष्टोम इति विवेकः । सप्तसु दिनेषु सवनीयपशुयागा अप्यङ्गतया अनुष्ठेयाः। तेषु-विश्वे देवाः, वरुणः, मरुतः, अग्नि, इन्द्राग्नी, ऐकादशिनदेवताः, वायुरिति क्रमेण देवताः । एकैकस्य पर्वणस्समाप्ताववभृथेष्टिः पृथक् पृथगिति ॥ ॥ इति चातुर्मास्यानि ॥


  1. दक्षिणभागस्थिताया वेद्या अग्रभागस्थ आहवनीयोऽग्निरत्राभिप्रेतः । ↩︎

  2. आपस्तम्बिना बोधायनीयानामेव च गार्हपत्यात् प्रणयनमत्र विहितम् । अन्यशाखीयानां पशुबन्धवदाहवनीयादेव प्रणयनं विहितम् । एवमेव वरुणप्रघासपर्वण्यपि उत्तरस्यां वेद्यामग्निप्रणयनं बोध्यम् । ↩︎

  3. कशिप्वादयः पिण्डपितृयज्ञे व्याख्याताः See Page २६, under पात्राणि । ↩︎