०६ निरूढपशुबन्धः

अथ निरूढपशुबन्धः । अयं पशुयागः आहिताग्निना प्रतिसंवत्सरं कार्यः । तत्र सकृत् द्विर्वा, षड्वारं वा यदि सकृत् वर्षार्तौ; यदि द्विः, उत्तरायणदक्षिणायनयोरारम्भे; यदि षट्कृत्वः ऋतावृतौ । तत्राप्यमावास्यायां पूर्णिमायां वा अनुष्ठानम् । पशुयागस्यास्य निरूढपशुबन्ध इति संज्ञा याज्ञिकानाम् । आहिताग्निस्सन् संवत्सरे सकृदवश्यमिमं यागमनुतिष्ठेत् । अन्यथा प्रत्यवायी स्यात् । यावज्जीवं चैवमनुष्ठानम् । अस्य ब्राह्मणग्रन्थेषु कुत्रापि स्वातन्त्र्येण प्रयोगविधानं न दृश्यते ॥

सर्वेषां पशुयागानां प्रकृतिभूतोऽग्नीषोमीयः पशुयागः । स सोमयागाङ्गभूतस्तदङ्गमध्ये पठितः । तत्रैव च सर्वेषां पश्वङ्गानाम् आम्नानमस्ति । तत एव च धर्मा (अङ्गानि ) निरूढपशुबन्धेऽस्मिन्नतिदेष्टव्याः । शास्त्रकाराणामाशयोऽप्येवमेव । परं सर्वेऽपि श्रौत ( : अविशेषेणेममेव पशुयागं साङ्गं निरूपयन्ति । एतस्मादेव

[[३९]] चाग्नीषोमीये धर्मानतिदिशन्ति । तत्र च कारणम् हविर्यज्ञत्वेनास्य सोमाङ्गभूताग्नीषोमीयपशोः पूर्वमनुष्ठेयतया पूर्वानुष्ठेय एव सर्वाङ्गसाहित्येन निरूपणीय इति । तदनुसारेणैवास्माभिरपि साङ्गोपाङ्गोऽयमेव निरूप्यते ॥

अत्र पशुः छागः । सोऽपि न साक्षात् । किं तु वपाहृदयाद्यङ्गद्वारैव । देवता इन्द्राग्नी, सूर्यः, प्रजापतिर्वा । षट् ऋत्विजः - अध्वर्युः, प्रतिप्रस्थाता, होता, मैत्रावरुणः, (प्रशास्ता) ब्रह्मा, अग्नीच्च । तत्र प्रतिप्रस्थाता अध्वर्योरनन्तरस्तत्सहायभृतः । मैत्रावरुणो होतुः ! इष्टिषु होमकाले पठनीयाः पुरोनुवाक्या याज्याश्च होत्रा एकेनैव पठ्येरन् । पशुयागे तु पुरोनुवाक्या मैत्रावरुणेन वक्तव्याः । तदर्थमेव तत्र तस्य वरणम् । याज्यास्तु होत्रा । त्रैषा अपि मैत्रावरुणेनैव । अग्रे सोमयागादौ अस्मिन्नेव कार्ये नियुज्यते सः ॥ तत्र पशुयागमारभमाणा आदावाग्नावैष्णवेष्टिमिष्टितन्त्रेणानुष्ठाय तत आहवनीये 1यूपाहुतिसंज्ञकामेकामाहुतिं हुत्वा यत्र यूपार्हो वृक्षोऽस्ति तत्र अध्वर्यु ब्रह्मयजमानाः तक्षा च गच्छेयुः । गत्वा च साक्षादेव भूसम्बद्धं बहुपर्णं सुषिरादिदोषरहितं 2पलाशखदिरबिल्वरोहितकानामन्यतमं वृक्षं तक्ष्णा छेदयित्वा स्वयं वा छित्त्वा छेदनस्थाने भूमिष्ठवृक्षखण्डे स्थाण्वाहुतिं हुत्वा यावत्परिमाण ऊर्ध्वबाहुर्यजमानो भवति तावत्परिमाणमवशेष्य, अवशिष्टमुपरिभागं छित्त्वा प्रास्येत् । स वृक्षखण्डो यूपशब्दाभिधेयो भवति । तं यज्ञभूमिदेशमानीय ३]मूलतोऽरत्निमात्रमुत्सृज्य तदुपर्यग्रपर्यन्तं तक्षकिद्वारा तष्ट्वा अष्टकोणयुतं तं कुर्यात् । तक्षणे प्रथमपातिनं शकलं स्वर्वर्थं४]गृह्णीयात् । छेदनकाले प्रथमपाती शकल एव स्वर्वर्थ इति कात्यायनः । यूपस्य अग्रभागे चषालं परिधापयेत् । तत्र यूपाग्रं तक्षणेन तनूकृत्योपरि व्यङ्गुलं यथा अवलोक्यते तथा परिशिष्य चपालः परिधापनीयः । ततो वैदिनिर्माणं कुर्यात् । तस्याः स्वरूपमन्ते प्रदर्शितम् ॥

[[४०]]

अग्निप्रणयनम्

वेद्याः पूर्वस्यां दिशि उत्तरवेदिं विमाय तन्मध्ये नाभिं करोति । तत्रैवाग्निः स्थाप्यते । ततस्सम्भारान् तन्मध्ये न्युप्य वेदिम् उत्तरवेदिं च प्रोक्ष्य आहवनीयादुत्तरवेद्यर्थमग्निं प्रणयेत् । तदित्थम् आहवनीये भूयिष्ठं काष्ठं निक्षिप्य प्रज्वलय्य ज्वलन्तमग्निं वालुकापूर्णे कस्मिंश्चित्पात्रे गृहीत्वा अध्वर्युरुत्तरवेदिदेशं गत्वा (अध्वर्युप्रेषितेन होत्रा प्रणयनार्थास्वृक्षु पथ्यमानासु) तत्रोत्तरवेदिमध्यगताया नाभेरुपरि सम्भाराणामुपरि अग्निं निक्षिप्य पात्रगतसिकता अपि अग्नेरुत्तरभागे न्युप्य द्वादशगृहीतेन आज्येन जुह्वा पूर्णाहुतिं जुहुयात् । अतः परमुत्तरवेदिगतोऽग्निरेव आहवनीयपदवाच्यो भवति । अत आहवनीये कर्तव्यानि कर्माण्यस्मिन्नेवाग्नौ क्रियेरन् । यतोऽस्य प्रणयनं कृतं स गार्हपत्यो भवति । अर्थात्पूर्वाहवनीयो गार्हपत्यशब्दवाच्य इतः परं भवति । अतो गार्हपत्ये विहितानि कर्माण्यत्रैव कर्तव्यानि ॥

पात्रासादनादि

ततः कुशसमिदाद्याहरणमरण्यादेः । इध्मकाष्ठानि त्रयोविंशति सङ्ख्याकानि । काशाः प्रस्तरार्थाः । विधुर्त्यर्थे द्वे इक्षुशलाके । तत अग्न्योरुत्तरतः पाशुकपात्राणि अधोबिलानि प्रयोक्तव्यानि । तानि च

  • १. स्फ्यः
  • २. अग्निहोत्रहवणी
  • ३. वसाहोमहवनी
  • ४. जुहूद्वयम्
  • ५. उपभृद्वयम्
  • ६. पृषदाज्यधानी
  • ७. आज्यस्थालीद्वयम्
  • ८. हृदयशूलाख्यं कण्टकम्
  • ९. छुरिका
  • १०. कुम्भी
  • ११. प्लक्षशाखा
  • १२. वपाश्रपणीद्वयम्
  • १३. औदुम्बरो दण्डः
  • १४. रशनाद्वयम्
  • १५. स्रुवश्च ।

पात्राणाममीषां दर्शपूर्णमासवत्प्रोक्षणादिकं कृत्वा प्रयाजानूयाजाद्यर्थं जुह्वादिषु पात्रेषु आज्यं [^१_pg४१]पृषदाज्यं च गृहीत्वा आज्यपूर्णानि पात्राणि वेद्यामासाद्य यूपनिखननार्थमवटं कुर्यात् ।

[^१_pg४१] दध्ना संमिश्रितमाज्यं पृषदाज्यम् ।

[[४१]]

अवटखातस्तथा भवेत् यथा यूपस्याधोभागोऽरत्निपरिमाण आच्छाद्येत । तस्मिन्नवटे यूपं पूर्वनिर्मितं निखाय आज्येनाङ्क्त्वा चषालमप्याज्याक्तमेव परिधाप्य कुशनिर्मितया त्रिसरया रज्ज्वा आवेष्टय यागीयं काणत्वादिदोषरहितम् उत्पन्नदन्तं पुमांसं पशुं (अजं) स्नापयित्वा तं यूपसमीपमानीय यागीयदेवताया उद्दिष्टाय उपाकुर्यात् । उपाकरणं नाम देवतामुद्दिश्य पशोरुपस्पर्शनपूर्वकं निर्देशः ‘अग्नये त्वा (इन्द्राग्निभ्यां त्वा) जुष्टमुपाकरोमि’ इत्यादिः । तच्च हस्ते कुशद्वयं प्लक्षशाखां च निक्षिप्य कर्तव्यम् । अत्र यूपाञ्जनोच्छ्रयणपरिव्याणेषु क्रियमाणेषु पूर्वं होत्रे प्रैषं दत्त्वा तेन तत्तत्संबन्धिनीष्वृक्षु अनूच्यमानास्वेव अध्वर्युस्तानि तानि कर्माणि कुर्यात् । कर्मस्वेषु क्रियमाणेषु यजमानो यूपं स्पृशन्नेव तत्समीपे तिष्ठेत् । ततोऽध्वर्योः प्रैषं श्रुत्वा होतरि अग्निमन्थनीया ऋचोऽनुब्रुवति सति अध्वर्युररणीतः अग्निं मथित्वा तमग्निमाहवनीये प्रक्षिप्य रशनया पशुं यूपे बध्नीयात् । अत्र अग्निमन्थनं मथितस्याग्नेराहवनीये प्रक्षेपश्च केवलादृष्टार्थः । होमाद्यर्थाग्नेः पूर्वमेव सत्त्वात् प्रयोजनान्तरादर्शनाच्च । ततस्तं पशुमद्भिः प्रोक्षणीभिः प्रोक्ष्य आज्यलिप्तेन स्रुवेण समज्य तत्रैव पशौ बद्धे तिष्ठति प्रयाजान् यजेत् । इष्टिषु प्रयाजानूयाजानां पुरोऽनुवाक्याः प्रैषा वा न सन्ति । केवलं याज्या एव । ताश्च होत्रैव पठनीयाः । पशुषु तु प्रैषास्सन्ति । ते सर्वाश्च ?पुरोऽनुवाक्या मैवावरुणाख्येनतिजा? पठनीयाः । स तिष्ठन् औदुम्बरं दण्डं ललाटसम्मितं यजमानदत्तं धारयन्नेव प्रैषादीन् पठेत् । पशुयागे चैकादश प्रयाजाः। तत्रास्मिन् समये दश प्रयाजाः, वपोद्धरणानन्तरमेकश्च प्रयाजा अनुष्ठेयाः । तेषु देवताः (१) समिधः (७) दैव्यौ होतारौ (२) तनूनपात् नराशंसो वा . (८) तिस्रो देव्यः (३) इडः (९) त्वष्टा (४) बर्हिः (१०) वनस्पतिः (५) द्वारो देव्यः (११) स्वाहाकृत्यश्च क्रमेण ।द्रव्यमाज्यम् ॥ (६) दैव्यौ उषासानक्ता

[[४२]]

पशु-संज्ञपन-वपा-होमादि

ततः पर्यग्नि 3कृत्वा आग्नीध्रः होत्रा ?अध्रिगुप्रैषाख्येषु? मन्त्रेषूच्यमानेषु आहवनीयादुल्मुकमादाय पूर्वं गच्छेत् । तस्य पश्चाच्छमिता पशुं नयेत् । एवमुभयोरपि शामित्रदेशं गतयोः आग्नीध्रस्तत्रोल्मुकं निधाय प्रत्यावर्तेत । शमिता त्वावृते देशे पशुं प्रत्यशिरसमुदीचीनपादं निपात्य 4संज्ञपयेत् । ततस्संज्ञप्तहोमं प्रायश्चित्तहोमांश्च हुत्वा वपाश्रपण्यावदाय, अध्वर्युर्यजमानानुगतः पशुसमीपं गत्वा पश्वङ्गानि जलेन आप्याय्य पशोरुदरं दक्षिणपार्श्वे विशस्य (विदार्य) अन्तरामाशयमाच्छाद्य स्थितां श्वेतरक्तामतिमृदुलां तनीयसीं त्वक्सदृशीं वपामुत्कृत्य तां वपाश्रपण्यामेकस्यां प्रसार्य, अन्यया आच्छाद्य यजमानेन अन्वारब्धोऽध्वर्युराहवनीयसमीपमागत्य प्रतिप्रस्थात्रे वपायुते वपाश्रपण्यौ दद्यात् । ततस्स वपामलोहिनीं सुशृतां श्रपयित्वा वेद्यां पूर्वोपस्थापितप्लक्षशाखाया उपरि तामासाद्य अवशिष्टमेकादशं 5प्रयाजमनुष्ठाय, आज्यभागौ चेष्ट्वा वपामादाय उपस्तृतायां जुह्वामखण्डितां तां निक्षिप्य, अभिधार्य, हिरण्यशकलानि प्रास्य, आश्रावणादिषु कृतेषु वपां समग्रामेवाध्वर्युराहवनीये जुहुयात् । इन्द्राग्नी, सूर्यः, प्रजापपतिर्वा विकल्पेन देवता इत्युक्तम् । ततो वपाश्रपण्योराहवनीये प्रक्षेपः कार्यः । ततस्सर्वेषामृत्विजां पत्नीयजमानयोश्च चात्वाले हस्तप्रक्षालनम् ॥ ततस्तद्देवताकमेवैकं पशुपुरोडाशयागं कुर्यात् । तदनुष्ठानं पौर्णमासीगताग्नीषोमीयपुराडाशवदेव । पुरोडाशसंबन्धिहविर्निर्वापकाल एव पशोहृदयादीन्यङ्गान्युत्कृत्य शामित्रेऽग्नौ पूर्वसज्जिते 6 मुद्भाण्डे पचेत् । पाककाले हविषामसाङ्कर्याय चिह्नं कृत्वैव पाकः कर्तव्यः । तानि चाङ्गानि

[[४३]]

(१) हृदयम् (२) जिह्वा (३) वक्षः (४) यकृत् (कालखण्डाख्यं मृदुतरं मांसम्) (५-६) वृक्यौ (पार्थस्थौ पिण्डौ) (७) सव्यं बाहुमूलम् (८-९) पार्श्वद्वयम् (१०) दक्षिणा श्रोणिः (११) गुदस्य तृतीयोंऽशः ॥ इति । तेषां पाको यदा प्रचलति तदा ऋत्विजः पशुपुरोडाशयागमनुतिष्ठेयुः । तदीयामिडां पुरोडाशरूपां प्रतिप्रस्थातृवर्जं सर्व ऋत्विजो यजमानसहिता भक्षयेयुश्च ॥

हृदयाद्य्-अङ्ग-यागः

तदनन्तरं पाकभाण्डात् पक्कान्यङ्गान्युद्धृत्य स्वधितिना (छुरिकया) च्छित्त्वा, अवदाय, 7जुह्वां निक्षिप्य, आश्रावणादिषु कृतेषु आहवनीये जुहुयात् । अत्र हविषां जुह्वामवदानकाल एव पशुरसे ?यूपाख्ये? 8मेदो निधाय तेन जुहू प्रभृतोः हवि पूर्णयोः मुखमाच्छादयेत् । तदैव प्रतिप्रस्थाता प्रधानयागीययाज्याया अर्धर्चपाठकाले वसाहोमहवन्यां गृहीतां 9वसामाहवनीये जुहुयात् । तदनन्तरमेव हृदयाद्याहुतिरिति बोध्यम् । हृदायादी न्येकादशाङ्गानि जुहूस्थानि सकृदेव होतव्यानि ॥ ततो दर्शवत् नारिष्ठहोमान् हुत्वा पृषदाज्यस्थाल्यां पृषदाज्यं गृहीत्वा वनस्पतये (देवताविशेषाय) हुत्वा स्विष्टकृदर्थं पूर्वमेवोपभृत्यवदाय स्थापितान्यङ्गानि जुह्वां कृत्वा प्रैषाश्रावणाद्यनन्तरं स्विष्टकृतेऽग्नये हुत्वा इडां यथावदवदाय सर्व ऋत्विजस्सयजमाना भक्षयेयुः ॥ .

[[४४]]

अनूयाजाद्यनुष्ठानम्

ततोऽनूयाजा एकादश अनुष्ठेयाः । तेषाम्-

  • १. देवं बर्हिः
  • २. देव्यो द्वारः
  • ३. देव्यौ उषासानक्ता
  • ४. देव्यौ जोष्ट्र्यौ
  • ५. देव्यौ ऊर्जाहुत्यौ
  • ६. दैव्यौ होतारौ
  • ७. तिस्रो देव्यः
  • ८. देवो नराशंसः
  • ९. देवो वनस्पतिः
  • १०. देवं बर्हिः
  • ११. देवो अग्निः स्विष्टकृत्

इति क्रमेण देवताः । पृषदाज्यं द्रव्यम् । अनूयाजानुष्ठानकाले प्रतिप्रस्थाता गुदकाण्डस्य तृतीयमंशं पूर्वमवशेषितमेकादशधा च्छित्त्वा शामित्रादग्निमादाय उत्तरस्यां वेदिश्रोण्यां स्थापयित्वा तस्मिन्नेकैकं गुदकाण्डखण्डं हस्तेन जुहुयात् । ततो यागार्थं पूर्वविशस्तस्य पशोः पुच्छमसिना च्छित्त्वा आदाय तेन पत्नी संयाजाननुतिष्ठेत् । तत्र प्राकृत्य एव देवताः । ततः प्रकृतितोऽतिदिष्टानामैष्टिकानां यथासम्भवमनुष्ठानमङ्गानाम् । ततो यजमानो यूपमुपस्थाय संस्थाजपं कृत्वा कर्म समापयेत् । पशुयागोऽयं दार्शिकपयोयागविकृतिभूतः । अतो धर्मान् तदीयानेव गृह्णीयात् ॥ ॥ इति पशुयागो निरूढपशुबन्धाख्यः ॥

द्रव्याणि पात्राणि च

पशुयागोपयुक्तानि द्रव्याणि पात्राणि च

  • १. एकादश कपालानि आग्नावैष्णवेष्टयर्थम् ।
  • २. प्रोक्षणार्थाश्च व्रीहयो यवा वा आग्नावैष्णवेष्टयर्थम् ।
  • ३. स्वधितिः (क्षुरः) यूपच्छेदनार्थः ।
  • ४. यूपः पशुबन्धनार्थः ।
  • ५. चषालः यूपाग्रपरिधापनार्थः ।
  • ६. खरुः पश्वञ्जनार्थः।
  • ७. रशनाद्वयं पशुबन्धनार्थं यूपपरिव्याणार्थं च ।
  • ८. ऐष्टिकानि सर्वाणि पात्राणि । तत्र द्वे द्वे जुहूपभृतौ ।
  • ९. कुम्भी पश्वङ्गपचनार्था।

[[४५]]

  • १०. वपाश्रपण्यौ द्वे वपापाकार्थे ।
  • ११. पृषदाज्यधानी अनूयाजार्थपृषदाज्यधारणार्थम् ।
  • १२. वसाहवनी वसाहोमार्थम् ॥
  • १३. हृदयशूलं (कण्टकः) हृदयपाकार्थम् ।
  • १४. सिकताः उपयमनार्थाः ।
  • १५. अरणी अग्निमन्थनार्थे ।
  • १६. प्लक्षशाखा वेदेराच्छादनार्था पशूपकरणार्था च ।
  • १७. मैत्रावरुणदण्डः औदुम्बरः मैत्रावरुणस्य धारणार्थः ।
  • १८. अभ्रिः यूपावटखननार्था ।
  • १९. मन्थिप्रमन्थिरज्जवः अग्निमन्थनार्थाः ।
  • २०. पशुः तत्र तत्र विहितश्छागादिः, आज्यं च यागार्थम् ।

  1. यूपमुद्दिश्य गमिष्यता होतव्येति यूपाहूतिः । ↩︎

  2. वटावान्तरजातीयो वृक्षः । ↩︎

  3. आहवनीयोज्ज्वलन्तमङ्गारमादाय तस्य पशोस्समन्तात् भ्रामणम् । ↩︎

  4. घातमन्तरां प्राणसरोधनादिना प्राणवियोजनं संज्ञपनम् । ↩︎

  5. अयमपि प्रयाज आज्येनेव कार्यः । वपयेति कथनं भ्रममूलकमेव । ↩︎

  6. हृदयं परं शूलप्रोतं कृत्वा साक्षादेवाग्नौ तापयित्वा , पचेत् । इतराणि भाण्डे ।. . ↩︎

  7. तस्मिन्नेव काले स्विष्टकृदर्थमवदायोपभृति निक्षिपेत् । ↩︎

  8. जीर्णपटसदृशं हृदयवेष्टनं मेदः । ↩︎

  9. पाकभाण्डे स्थितस्स्नेहात्मको रसो वसा । ↩︎