पिण्डपितृयज्ञः1 इदानीं निरूप्यते - स च आहिताग्निना अमावास्यायामपराङ्खात् परं सायङ्कालेऽनुष्ठेयः । स दर्शाङ्गमिति कात्यायनः । न दर्शाङ्गं स्वतन्त्रमिदममावास्याकालेऽनुष्ठेयं कर्मेति जैमिनिः ( पू. मी. ४. ४. ८.) । अनङ्गत्वमेव तु युक्तम् । अन्यथा दर्शविकृतिष्वतिदेशेन प्राप्तिः केन वार्येत ॥ तदनुष्ठानप्रकार इत्थम् - अमावास्यायां सायङ्काले सङ्कल्पः । ततस्समूलं बर्हिराहृत्य परिस्तरणार्थान् कुशान् सकृच्छत्वा दक्षिणाग्निं परिस्तीर्य तद्दक्षिणतो दर्भानास्तीर्य तदुपरि पिण्डपितृयज्ञोपयुक्तानि पात्राणि सादयित्वा प्रोक्ष्य दक्षिणतो व्रीहिमच्छकटमवस्थाप्य ततो
[[३७]]
व्रीहीन् पितृभ्यो निरूप्य दक्षिणाग्नेः पश्चिमतः कृष्णाजिनमास्तीर्य तदुपर्युलूखलं प्रतिष्ठाप्य निरुप्तान् व्रीहीन् तत्र आवपेत् । ततो यजमानपत्नी तानवहृत्य सकृत्फलीकृत्य सकृत्प्रक्षाल्य दक्षिणाग्नौ पचेत् । भक्तेषु यथा तण्डुलांशः किञ्चिदिवावशिष्टो भवेत् तथा पाकः कार्यः । ततो दक्षिणाग्नेराग्नेयकोणे स्फयेन रेखामाग्नेयाभिमुखीं कृत्वा तां सकृदाच्छिन्नैस्तृणैरास्तीर्य पक्कमन्नमभिधार्य तस्यां वेद्यामासाद्य ततो मेक्षणेन जुहुस्थानीयेन हविरवदाय सशेषं दक्षिणाग्नौ जुहुयात् । तत्र सोमः पितृपीतो देवता । तं शेषं पात्रान्तरे स्थापयित्वा पूर्ववत्पुनर्मेक्षणेन अवदाय दक्षिणानाग्नावेव सशेषं जुहुयात् । अत्र यमोऽङ्गिरस्वान् पितृमान् देवता । ततश्शेषद्वयमेकीकृत्य मेक्षणेऽवधाय जुहुयात् । तस्विष्टकृत्स्थानीयं भवति । तत्र अग्निः कव्यवाहनो देवता । एतदन्तमाध्वर्यवम् ॥ इतः परं याजमानं कर्म । अथ यजमानः प्राचीनावीती दक्षिणाग्नेरेकमुल्मुकं धूमविशिष्टं सव्यहस्ते गृहीत्वा आग्नेयकोणे सकृदुल्लिख्य अवोक्ष्य उल्लिखितान्तस्थले तमुल्मुकं निक्षिप्य उल्लेखस्थाने त्रीनुदकाञ्जलीन् पितृपितामहप्रपितामहेभ्यो दत्त्वा तदुपरि त्रीन् पिण्डान् तेभ्य एव दत्त्वा मन्त्रेण पित्रादीन् त्रीनुपस्थाय स्थालीस्थं शेषमवघ्नाय पुनः पूर्ववन्मार्जयित्वा, अञ्जनाभ्यञ्जनवासांसि पित्रादीनां कृते पिण्डस्योपरि दत्त्वा ?पितृनुपस्थाय? स्वस्थानं गमयित्वा मध्यमं पिण्डं स्वपत्न्यै प्रजाकामायै भक्षणाय दत्त्वा स्वयमप्येकं पिण्डं भक्षयित्वा अवशिष्टान् पात्रे निक्षिप्य कुशानग्नौ प्रक्षिप्य उल्मुकमपि दक्षिणाग्नावेव पुनः प्रत्यस्य पात्राणि प्रोक्ष्य गृह्णीयात् ॥ ॥ इति पिण्डपितृयज्ञः ॥
द्रव्याणि पात्राणि च
पिण्डपितृयज्ञोपयिकानि द्रव्याणि पात्राणि च
- १. व्रीहयश्चर्वर्थाः ।
- २. उदकं श्रपणाद्यर्थम् ।
- ३. आज्यं होमाद्यर्थम् ।
- ४. तिस्रः समिधः ।
- ५. सकृदाच्छिन्नाः कुशाः ।
,
[[३८]]
- ६. शय्या (कशिपु ) ।
- ७. उपवर्हणम् ।
- ८. अञ्जनम् (अक्ष्णोः) ।
- ९. अभ्यञ्जनार्थं तैलम् ।
- १०. उदकुम्भः ।
- ११. परिहितवारासो दशा, अजलोम वा । ( शय्यादीनि षट् पिण्डोपरि पितृभ्यो देयानि ।)
- १२. स्फयः रेखाकरणाद्यर्थम् ।
- १३. स्थाली हविःपाकार्था ।
- १४. मेक्षणं होमाद्यर्थं दर्वीस्थानीयम् ।
- १५. कृष्णाजिनं भूमावास्तरणार्थम् ।
- १६. उलूखलम् अवहननार्थम् ।
- १७. मुसलम् ।
- १८. आज्यस्थाली आज्यग्रहणार्था
- १९. मृन्मयं पात्रं हविर्निर्वापार्थम् ।
- २०. शूर्पं परापवनार्थम् ।
- २१. शकटः हविराहरणार्थः ।
-
पिण्डयुक्तः पितृयज्ञ इति विग्रहः । अत्र होमानन्तरं ?पितृनुद्दिश्य? पिण्डदानविधानात् तत्त्वम् । ↩︎